SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ धर्मचेष्टां कुशीलानां परित्यजति यः पुनः ।।१४।।। प्रवेदयतीति । प्रवेदयति = कथयति आर्यपदं = शुद्धधर्मपदम् ।।१४।। उद्वेगो हसितं शोको रुदितं क्रन्दितं तथा । यस्य नाऽस्ति जुगुप्सा च क्रीडा चाऽपि कदाचन ।।१५।। उद्वेग इति । व्यक्त:२ ।।१५।। इदं शरीरमशुचि शुक्रशोणितसम्भवम् । अशाश्वतं च मत्वा यः शाश्वतार्थं प्रवर्तते ।।१६।। इदमिति । व्यक्तः ।।१६।। स भावभिक्षुर्भेत्तृत्वादागमस्योपयोगतः । भेदनेनोग्रतपसा भेद्यस्याऽशुभकर्मणः ॥१७॥ ___स इति । स भावभिक्षुः भण्यते । उग्रतपसा भेदनेनाऽशुभकर्मणो भेद्यस्याऽऽगमोपयोगतो भेत्तृत्वात् । तदुक्तं- “भेत्तागमोवउत्तो दुविहतवो भेअणं च भेत्तव्वम् । अठ्ठविहं कम्मखुहं तेण निरुत्तं सभिक्खुत्ति"।। (दशवैकालिकनियुक्ति ३४२)।।१७।। १. हस्तादर्श 'यः' नास्ति । २. हस्तादर्श 'व्यक्त' इति पदं नास्ति । हस्तादर्शान्तरे च 'स्पष्टम्' इति पाठः । ३. मुद्रितप्रती 'आशाश्वतं' इत्यशुद्धः पाठः । ४. हस्तादर्श ‘श्लोकद्वयं स्पष्टम् ।।१६।।' इति पाठः । २७/१७ ।।४७४।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy