________________
हस्तेन चेति । हस्तेन चाऽघ्रिणा' च संयतः, कारणं विना कूर्मवल्लीनत्वेन स्थितेः ।। कारणे च सम्यग्गमनात् । वाचा संयतो = अकुशलवाग्निरोध-कुशलवागुदीरणाभ्यां', विजितेन्द्रियो = निवृत्तविषयप्रसरः ।।११।।
___ अज्ञातोच्छं चरन् शुद्धमलोलोऽरसगृद्धिमान् ।
ऋद्धि-सत्कार-पूजाश्च जीवितं यो न काङ्क्षति ।।१२।। अज्ञातोच्छमिति । शुद्धं = भावपरिशुद्धं, "स्तोकं स्तोकमित्यर्थः । 'अलोलो = नाऽप्राप्तप्रार्थनपरः । अरसगृद्धिमान् = प्राप्तेष्वप्यप्रतिबद्धः । ऋद्धिः 'आमर्पोषध्यादिका, सत्कारो वस्त्रादिना, पूजा प्रसूनादिना, जीवितं = असंयमजीवितम् (यो न काङ्क्षति)।।१२।।
यो न कोपकरं ब्रूयात् कुशीलं न वदेत्परम् ।
प्रत्येकं पुण्यपापज्ञो जात्यादिमदवर्जितः ॥१३॥ य इति । परं = स्वपक्षविनेयव्यतिरिक्तम् । प्रत्येकं =प्रतिस्वं पुण्यपापज्ञो, अन्यसम्बन्धिनोऽन्यत्राऽसङक्रमात । इत्थं च जात्यादिमदैर्वर्जितः ।।१३।। प्रवेदयत्यार्यपदं परं स्थापयति स्थितः ।
||४७३॥ १. हस्तादर्श 'चाद्रिणा' इत्यशुद्धः पाठः । २. हस्तादर्श गामनात्' इत्यशुद्धः पाठः । ३. हस्तादर्श ....दीराणाभ्यां' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'स्तोकमिति पदं सकृदेव दृश्यते इति त्रुटितः पाठः । ५. हस्तादर्श 'आलोल' इत्यशुद्धः पाठः । ६. हस्तादर्श 'आमषेष....' इत्यशुद्धः पाठः ।
२७/१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org