SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ (४) इयाणिं परलोगसंवेयणी, जहा- 'देवा वि इस्सा-विसाय-मय-कोह-लोहाइएहिं दुक्खेहिं अभिभूया किमंग पुण तिरिय-नारया' एयारिसं कहं कहेमाणो धम्मकही सोआरस्स संवेदमुप्पाए त्ति, एसा परलोअसंवेयणी गता” (दशवैका वृ.वि.अ.३) इति ।।१३।। वैक्रियादयो ज्ञानतपश्चरणसम्पदः । __ शुभाऽशुभोदयध्वंसफलमस्या रसः स्मृतः ।।१४।। वैक्रियेति । वैक्रियादयो गुणा इति गम्यं । तत्र वैक्रियढिक्रियनिर्माणलक्षणा। आदिना जङ्घाचारणादिलब्धिग्रहः । तथा ज्ञानतपश्चरणसम्पदः तत्र ज्ञानसम्पच्चतुर्दशपूर्विण एकस्माद् घटादेः घटादिसहस्रनिर्माणलक्षणा । तपःसम्पच्च “जं अन्नाणी कम्मं खवेइ" (बृ.क.भा.११७०) इत्यादिलक्षणा । चरणसम्पच्च सकलफलसिद्धिरूपा। एते गुणाः सम्पदश्च । शुभोदयस्याऽशुभध्वंसस्य च फलं (=शुभाशुभोदयध्वंसफल) अस्याः = संवेजन्या रसः स्मृतः।।१४। चतुर्भंगी समाश्रित्य प्रेत्येहफलसंश्रयाम् । पापकर्मविपाकं या ब्रूते निर्वेजनी तु सा ।।१५।। चतुर्भङ्गीमिति । या कथा पापकर्मविपाकं प्रेत्येहफलसंश्रयां = इहलोकपरलोकभोगाऽऽश्रितां चतुर्भगीं समाश्रित्य ब्रूते सा तु निर्वेजनी चतुर्भिरेव भङ्गः ।।१६२। । प्रतिपाद्यमानैश्चतुर्विधेति भावः । अत्रायं सम्प्रदायः- "इदाणिं निव्वेदणी-सा चउबिहा पन्नत्ता। १. हस्तादर्श ‘पन्नत्ता' पदं नास्ति । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy