SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ hub F5 शास्त्रश्रवणस्वारस्योत्पन्नायां बुद्धिमार्गानुसारिणी मोक्षपथाऽऽभिमुख्यशालिनी भवतीति भवति तेषां तीव्रपापक्षयात् सदनुष्ठानरागः ।।२२।।। तत्तत्फलार्थिनां तत्तत्तपस्तन्त्रे' प्रदर्शितम् । मुग्धमार्गप्रवेशाय दीयतेऽप्यत एव च ।।२३॥ तत्तदिति । तत्तत्फलार्थिनां = सौभाग्यादिफलकाक्षिणां तत्तत्तपो रोहिण्यादितपोरूपं अत एव तन्त्रे प्रदर्शितम् । अत एव च मुग्धानां मार्गप्रवेशाय (=मुग्धमार्गप्रवेशाय) दीयतेऽपि गीतार्थैः । यदाह- "मुद्धाण हियट्ठया सम्मं” (पंचाशक-३/४९) । ___न ह्येवमत्र विषादित्वप्रसङ्गो, न वा तद्धेतुत्वभङ्गः, फलाऽपेक्षाया बाध्यत्वात् । इत्थमेव मार्गाऽनुसरणोपपत्तेः ।।२३।। इत्थं च 'वसुपालस्य भवभ्रान्तौ न "बाधकः । गुणाऽद्वेषो न यत्तस्य क्रियारागप्रयोजकः ।।२४।। ___ इत्थं चेति । इत्थं च = मुक्त्यद्वेषविशेषोक्तौ च 'वसुपालस्य पूर्वभवे साधुदर्शनेऽप्युपेक्षयाऽजा ततद्गुणरागस्य चौरस्य भवभ्रान्तौ = दीर्घसंसारभ्रमणे न बाधकः, यद् = यस्मात् १. हस्तादर्श 'तपस्तत्रे' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'च' नास्ति । ३. मुद्रितप्रतौ 'वस्तुपालस्य' इत्यशुद्धः पाठः । ४. 'बाधकम्' इति मुद्रितप्रतौ । ५. मुद्रितप्रतौ 'वस्तुपाल...' इत्यशुद्धः पाठः। ६. 'ज्ञात' इति मुद्रितप्रतावशुद्धः पाठः । ।।२३०॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy