________________
मु
5) hes b 5 5 ho to do s
क्त्य
ष
प्रा
न्य
द्वा
त्रिं
शि
का १३/२९
Jain Education International
तस्य गुणाऽद्वेषः क्रियारागप्रयोजको न अभूत् ।
इष्यते च तादृश एवाऽयं तद्धेत्वनुष्ठानोचितत्वेन संसारहासकारणमिति ।।२४।। 'जीवातुः कर्मणां मुक्त्यद्वेषस्तदयमीदृशः । गुणरागस्य बीजत्वमस्यैवाऽव्यवधानतः ।। २५ ।। धारालग्नः शुभो भाव एतस्मादेव जायते । अन्तस्तत्त्वविशुद्ध्या च विनिवृत्ताऽऽग्रहत्वतः । । २६॥ अस्मिन् सत्साधकस्येव नास्ति काचिद् बिभीषिका । `सिद्धेरासन्नभावेन प्रमोदस्यान्तरोदयात् ।।२७।। चरमावर्तिनो जन्तोः सिद्धेरासन्नता ध्रुवम् । भूयांसोऽमी व्यतिक्रान्तास्तेष्वेको बिन्दुरम्बुधौ ॥। २८ ।। मानोरथिकमित्थं च सुखमास्वादयन् भृशम् । पीड्यते क्रियया नैव बाढं तत्राऽनुरज्यते ।। २९ ।।
१. हस्तादर्शे इत आरभ्य, अष्टश्लोकी नास्ति । २. हस्तादर्शे 'सिधरसेन्न...' इत्यशुद्धः पाठः । ३. हस्तादर्शे ‘मानौरथि...' इत्यशुद्धः पाठः । मुद्रितप्रतौ 'मनो.' इत्यशुद्धः पाठः । अन्यत्र हस्तादर्शे शुद्धः पाठः । ४. 'नव' इति मुद्रितप्रतावशुद्धः पाठः । हस्तादर्शान्तरे च 'नेव' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।२३१।।
www.jainelibrary.org