________________
외
역
외 64
प्रसन्नं क्रियते चेतः श्रद्धयोत्पन्नया ततः । मलोज्झितं हि कतकक्षोदेन सलिलं यथा ।।३०।। वीर्योल्लासस्ततश्च' स्यात्ततः स्मृतिरनुत्तरा । ततः समाहितं चेतः स्थैर्यमप्यवलम्बते ।।३१।। अधिकारित्वमित्थं चाऽपुनर्बन्धकतादिना ।
मुक्त्यद्वेषक्रमेण स्यात् परमानन्दकारणम् ।।३२।। जीवातुरित्याद्यारभ्याऽष्टश्लोकी सुगमा ।।३२।।
।। इति मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका ।।१३।।
와
।। अथापुनर्बन्धकद्वात्रिंशिका' ।।१४।। मुक्त्यद्वेषक्रमेणाऽधिकारित्वप्राप्तिर्भवतीति प्रागुक्तं तत्र पूर्वमपुनर्बन्धकमेव धर्माधिकारिणमाह
शुक्लपक्षेन्दुवत्प्रायो वर्धमानगुणः स्मृतः ।
भवाभिनन्दिदोषाणामपुनर्बन्धको व्यये ॥१॥ शुक्लेति । शुक्लपक्षेन्दुवद् = उज्ज्वलपक्षचन्द्रवत् प्रायो = बाहुल्येन वर्धमानाः = १. हस्तादर्श '..सतस्तस्य' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'अथापुनर्बन्धद्वा....' इति पाठः ।
의
||२३२।
१४/१
।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org