________________
4
4 4
= मुक्त्यद्वेष-रागयोरन्यतरेण अर्जितो = जनितः क्रियारागः = सदनुष्ठानरागः । तेनाऽतिप्रसङ्गः कोऽपि न दृश्यते।
___ अभव्यानामपि स्वर्गप्राप्तिहेतुमुक्त्यद्वेषसत्त्वेऽपि तस्य सदनुष्ठानरागाऽप्रयोजकत्वाद्, बाध्य| फलाऽपेक्षासहकृतस्य 'तस्य मोक्षार्थसदनुष्ठानरागाऽनुबन्धित्वात् ।।२०।।
अपि बाध्या फलाऽपेक्षा सदनुष्ठानरागकृत् ।
सा च प्रज्ञापनाऽधीना मुक्त्यद्वेषमपेक्षते ।।२१।। अपीति । बाध्या = बाधनीयस्वभावा फलापेक्षाऽपि = सौभाग्यादिफलवांछाऽपि (सदनुष्ठानरागकृत-) सदनुष्ठाने रागकृत् = रागकारिणी । सा च = बाध्यफलाऽपेक्षा च प्रज्ञापनाधीना = उपदेशाऽऽयत्ता मुक्त्यद्वेषमपेक्षते कारणत्वेन ।।२१।। यतः
अबाध्या सा हि मोक्षाऽर्थशास्त्रश्रवणघातिनी ।
मुक्त्यद्वेषे तदन्यस्यां बुद्धिर्मागानुसारिणी ।।२२।। अबाध्येति। अबाध्या हि सा फलाऽपेक्षा मोक्षार्थशास्त्रश्रवणघातिनी तत्र विरुद्धत्वबुद्ध्याधानाद् व्यापन्नदर्शनानां च तच्छ्रवणं न स्वारसिकमिति भावः । तत् = तस्मात् मुक्त्यद्वेषे सति अन्यस्यां = बाध्यायां फलापेक्षायां समुचितयोग्यतावशेन मोक्षार्थ- १. मुद्रितप्रतौ 'तस्य मोक्षार्थ' इति पदे न स्तः । परं हस्तादर्श वर्तते । २. हस्तादर्श 'मुपेक्ष्यत' इत्यशुद्धः पाठः। ३. हस्तादर्श '...द्वेष तद' इत्यशुद्धः पाठः ।
4
2
का
॥२२९
१३/२२
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org