________________
여
न चेति । अद्वेषे विशेषस्तु न च कोऽपि अस्ति, अभावत्वात् इति प्राक् = पूर्वद्वात्रिंशिकायां निदर्शितम् । ईषद्रागाच्चेद्विशेषः ?
तर्हि तत एवाऽद्वेषस्योपक्षयः (=अद्वेषोपक्षयः), विशेषणेनैव कार्यसिद्धौ विशेष्यवैयर्थ्यात् । इत्थं च “मुक्त्यद्वेषेण मनाग मुक्त्यनुरागेण वा तद्धेतुत्वम्” (योगबिन्दुवृत्ति१५९) इति वचनव्याघात इति भावः ।।१८।।
उत्कटानुत्कटत्वाभ्यां प्रतियोगिकृतोऽस्त्वयम् ।
नैवं सत्यामुपेक्षायां द्वेषमात्रवियोगतः ।।१९।। उत्कटेति । अभव्यानां मुक्तौ उत्कटद्वेषाऽभावेऽप्यनुत्कटद्वेषो भविष्यति । अन्येषां तु द्वेषमात्राभावादेवाऽनुष्ठानं तहेतुः स्यादिति पूर्वार्धाऽर्थः ।
. नैवं, उपेक्षायां सत्यां द्वेषमात्रस्य वियोगतः, (=द्वेषमात्रवियोगतः) अन्यथा स्वेष्टसांसारिकसुखविरोधित्वेनोत्कटोऽपि द्वेषस्तेषां मुक्तौ स्यादित्युत्तरार्धाऽर्थः ।।१९।। समाधत्ते
सत्यं बीजं हि तद्धेतोरेतदन्यतराऽर्जितः ।
क्रियारागो न तेनाऽतिप्रसङ्गः कोऽपि दृश्यते ।।२०।। सत्यमिति। (सत्यम्,) तद्धेतोः अनुष्ठानस्य हि बीजं (एतदन्यतरार्जितः=) एतयोः १. हस्ताद” 'तदर्जिन्य' इत्यशुद्धः पाठः । २. हस्तादर्श 'मुक्तिद्वेषो न' इत्यशुद्धः पाठः । व्याख्यानुसारेणाऽस्माभिरपेक्षितः शुद्धः पाठो गृहीतः । ३. हस्तादर्श 'दृश्य' इति त्रुटितः पाठः ।
의
२२८।
१३/२०
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org