________________
4
4
।। तु समुचितयोग्यभावस्येति चरमावर्तदेवादिपूजनस्याऽन्यावर्तदेवादिपूजनादन्यादृशत्वमिति ॥ || योगबिन्दुवृत्तिकारः (गा. १६२) ।।१५।।
चतुर्थं चरमावर्ते प्रायोऽनुष्ठानमिष्यते ।
अनाभोगादिभावे तु जातु 'स्यादन्यथापि हि ॥१६॥ चतुर्थमिति। चरमावर्ते प्रायो = बाहुल्येन चतुर्थं तद्धेतुनामकं अनुष्ठानमिष्यते। अनाभोगादिभावे तु जातु = कदाचित् अन्यथाऽपि स्यात् इति प्रायोग्रहणफलम् ।।१६।। शङ्कते
नन्वद्वेषोऽथवा रागो मोक्षे त तुतोचितः ।
आद्ये तत्' स्यादभव्यानामन्त्ये न स्यात्तदद्विषाम् ।।१७।। नन्विति । मुक्त्यद्वेषप्रयुक्ताऽनुष्ठानस्य तद्धेतुत्वेऽभव्याऽनुष्ठानविशेषेऽतिव्याप्तिः, नवमग्रैवेयकप्राप्तेर्मुक्त्यद्वेषप्रयुक्तत्वप्रदर्शनात् । मुक्तिरागप्रयुक्ताऽनुष्ठानस्य तत्त्वे तु मनाग्रागप्राक्कालीनमुक्त्यद्वेषप्रयुक्ताऽनुष्ठानेऽव्याप्तिरित्यर्थः ।।१७।। न चाद्वेषे विशेषस्तु कोऽपीति प्राग निदर्शितम् ।
| ||२२७॥ ईषद्रागाद्विशेषश्चेदद्वेषोपक्षयस्ततः ।।१८।। १. हस्तादर्श 'स्यादस्य' इति अशुद्धः पाठः । २. हस्तादर्श 'स्यादतत्यानामंत्यन' इत्यशुद्धः पाठः । ३. हस्तादर्श । 'न वा दोष' इत्यशुद्धः पाठः । ४. हस्तादर्श 'निदर्शितः' इति पाठः ।
4
2
का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org