SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ (b) tus bb 5 5 he has to f मु क्त्य ष प्रा धा न्य शि का १३/१५ Jain Education International = सदनुष्ठानरागतः तात्त्विकदेवपूजाद्याचारभावबहुमानादऽऽदिधार्मिककालभाविदेवपूजाद्यनुष्ठानं तद्धेतुः उच्यते, मुक्त्यद्वेषेण मनाग् मुक्त्यनुरागेण वा शुभभावलेशसङ्गमादस्य सदनुष्ठानहेतुत्वात् । जैनवर्त्मनो जिनोदितमार्गस्य श्रद्धया 'इदमेव तत्त्वमित्यध्यवसायलक्षणया तु अनुष्ठानं अमृतं स्यात्, अमरणहेतुत्वात् । तदुक्तं- “जिनोदितमिति त्वाहुर्भावसारमदः पुनः I संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः || ” ( योगबिन्दु १६० ) ।।१३।। चरमे पुद्गलाऽऽवर्ते तदेवं कर्तृभेदतः । सिद्धमन्यादृशं सर्वं गुरुदेवादिपूजनम् ।।१४।। चरम इति । निगमनं स्पष्टम् ||१४|| सामान्ययोग्यतैव प्राक् पुंसः प्रववृते किल । तदा समुचिता सा तु सम्पन्नेति विभाव्यताम् ।।१५।। सामान्येति । सामान्ययोग्यता मुक्त्युपायस्वरूपयोग्यता । समुचितयोग्यता तत्सहकारियोग्यतेति विशेषः । पूर्वं ह्येकान्तेन योगायोग्यस्यैव देवादिपूजनमासीत्, चरमावर्ते = १. मुद्रितप्रती ...नादि धा... इत्यशुद्धः पाठः । २. हस्तादर्शे ...दितेमिति' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'समुदिता' इति पाठः । परं व्याख्यानुसारेण सोऽशुद्धः । ४. मुद्रितप्रतौ 'योग्यस्यैव' इत्यशुद्धः पाठः । हस्तप्रतौ 'अयोग्यस्यैव' इति पाठः । योगबिन्दुवृत्तौ 'योगायोग्यस्यैव' इति पाठः । For Private & Personal Use Only ।।२२६ । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy