________________
दिव्यभोगाभिलाषेण गरः कालान्तरे क्षयात् ।।१२।। विषमिति । लब्ध्याद्यपेक्षातः = लब्धि-कीर्त्यादिस्पृहातो यदनुष्ठानं तत् विषं उच्यते । क्षणात् तत्कालं सच्चित्तस्य = शुभान्तःकरणपरिणामस्य नाशनात् (=सच्चित्तनाशनात्), तदाऽऽत्तभोगेनैव तदुपक्षयात । अन्यदपि हि स्थावर-जङगमभेदभिन्नं विषं तदानीमेव नाशयति ।
दिव्यभोगस्याऽभिलाषः = ऐहिकभोगनिरपेक्षस्य सतः स्वर्गसुखवाञ्छालक्षणस्तेन (= दिव्यभोगाभिलाषेण) अनुष्ठानं गर उच्यते । कालान्तरे = भवान्तरलक्षणे क्षयाद् भोगात्पुण्यनाशेनानर्थसम्पादनात् । गरो हि कुद्रव्यसंयोगजो विषविशेषः, तस्य च कालान्तरे विषमविकारः प्रादुर्भवतीति । 'उभयाऽपेक्षाजनितमतिरिच्यते'. ? न, उभयाऽपेक्षायामप्यधिकस्य बलवत्त्वादिति सम्भावयामः ।।१२।।
सम्मोहादननुष्ठानं सदनुष्ठानरागतः ।
तद्धतुरमृतं तु स्याच्छ्रद्धया जैनवर्त्मनः ।।१३।। सम्मोहादिति । संमोहात् सन्निपातोपहतस्येव सर्वतोऽनध्यवसायात् अननुष्ठानं उच्यते, अनुष्ठानमेव न भवतीति कृत्वा । १. हस्तादर्श 'गलः' इति पाठः । २. 'चित्तस्य' इति मुद्रितप्रतौ । ३. 'विषविकार' इति मुद्रितप्रतौ । ....... चिह्नद्वयगतः पाठो हस्तादर्श नास्ति ।
का
॥
।।२२५।
१३/१३
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org