SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 9244444 चिंत्यात्, तथैवाऽनुभवादिति कल्पलतायां विपञ्चितत्वात् ।।८।। भवाभिष्वङ्गतस्तेनाऽनाभोगाच्च विषादिषु । अनुष्ठानत्रयं मिथ्या द्वयं सत्यं विपर्ययात् ॥९॥ भवेति । तेन कर्तृभेदादनुष्ठानभेदेन 'भेदनं भवाभिष्वङ्गतः = संसारसुखाभिलाषात् (अनाभोगात् =) अनाभोगतः सन्मूर्छनजप्रवृत्तितुल्यतया च विषादिषु अनुष्ठानेषु मध्ये अनुष्ठानत्रयं आदिमं मिथ्या निष्फलम् । द्वयं उत्तरं च सत्यं = सफलं, विपर्ययात् = भवाभिष्वङ्गाऽनाभोगाऽभावात् ।।९।। इहाऽमुत्र फलाऽपेक्षा भवाऽभिष्वङ्ग उच्यते । क्रियोचितस्य भावस्याऽनाभोगस्त्वतिलङ्घनम् ।।१०।। इहेति । प्रागेव शब्दार्थकथनाद् गतार्थोऽयम् ।।१०।। विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजाऽनुष्ठानमिति पञ्चविधं जगुः ।।११।। विषमिति । पञ्चानामनुष्ठानानामयमुद्देशः ।।११।। विषं लब्ध्याद्यपेक्षातः क्षणात्सच्चित्तनाशनात् । १. हस्तादर्श 'भेदनं' पदं नास्ति । २. मुद्रितप्रतौ 'सत्यं' पदं नास्ति । ३. हस्तादर्श 'भावः स्या' इत्यशुद्धः । पाठः । ४. हस्तादर्श 'स्मृतम्' इति पाठान्तरम् । ५. मुद्रितप्रतौ 'मारणात्' इति पाठः । व्याख्यानुसारतः सोऽशुद्धः। ||२२४। ॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy