________________
16 |
EPE 3
।। संज्ञापदार्थत्वात् न मुनेरपि भावसाधोरपि, किं पुनस्तदभावेन = आहारसंज्ञाभावेन स्वामिनो
= भगवतो भुक्तिबाधनम् ? तथा चाहारसामान्ये तद्विशेषे, वा आहारसज्ञाया हेतुत्वमेव नास्तीत्युक्तं भवति।
न च तद्विशेषे तद्धेतुत्वमेवाऽप्रमत्तादीनां चाऽऽहाराऽभावान्न व्यभिचार इति कुचोद्यमाशङ्कनीयम्, आहारसंज्ञाया अतिचारनिमित्तत्वेन कदापि निरतिचाराहारस्य साधूनामप्राप्तिप्रसङ्गात् ।।१०।।
अनन्तं च सुखं भर्तुर्ज्ञानादिगुणसङ्गतम् ।
क्षुधादयो न बाधन्ते पूर्णं त्वस्ति महोदये ॥११॥ अनन्तं चेति । (४) अनन्तं च सुखं भर्तुः = भगवतो ज्ञानादिगुणसङ्गतं = तन्मयीभूतमिति यावत् । अज्ञानादिजन्यदुःखनिवृत्तेः सर्वेषामेव कर्मणां परिणामदुःखहेतुत्वाच्च क्षुदादयो न बाधन्ते 'स्वाऽभावनियतसुखानामेव तैर्बाधनं । पूर्णं तु = निरवशेषं तु सुखं महोदये मोक्षे अस्ति । तत्रैव सर्वकर्मक्षयोपपत्तेः ।।११।।
दग्धरज्जुसमत्वं च वेदनीयस्य कर्मणः ।
वदन्तो नैव जानन्ति सिद्धान्ताऽर्थव्यवस्थितिम् ।।१२॥
दग्धेति । (५) दग्धरज्जुसमत्वं च वेदनीयस्य कर्मणो वदन्तः सिद्धान्ताऽर्थव्यवस्थितिं ३०/१२॥ १. मुद्रितप्रतौ 'स्वभाव...' इत्यशुद्धः पाठः ।
Sto
५०७।।
का
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org