________________
अव्याबाधेति । अव्याबाधस्य = निरतिशयसुखस्य विघातात् (=अव्याबाधविघातात्) सा क्षुधा दोषो गुणदूषणस्यैव दोषलक्षणत्वात् इति चेत् = यदि ते = तव मतं, तदा नरत्वमपि भवतो दोषः स्यात् सिद्धत्वदूषणात् ।
तस्मात केवलज्ञानप्रतिबन्धकत्वेन घातिकर्मोदयोदभवानामज्ञानादीनामेव दोषत्वं, न क्षुधादीनामिति युक्तमुत्पश्यामः ।।८।।
घातिकर्मक्षयादेवाऽक्षता च कृतकृत्यता ।
तदभावेऽपि नो बाधा भवोपग्राहिकर्मभिः ।।९॥ घातीति । (२) घातिकर्मक्षयादेव अक्षता = अहीना च कृतकृत्यता । भवोपग्राहिकर्मभिः = वेदनीयादिभिः सद्भिः तदभावेऽपि = कृतकृत्यत्वाऽभावेऽपि नो = नैव बाधा ।
सर्वथा कृतकृत्यत्वस्य सिद्धेष्वेव सम्भवात् । उपादित्साभावेऽपि उपादेयस्य मोक्षस्य सयोगिकेव-लित्वकालेऽसिद्धेः। रागाद्यभावमात्रेण कृतकृत्यत्वस्य च भुक्तिपक्षेऽप्यबाध एवेति कथितप्रायमेव ।।९।।
आहारसंज्ञा चाऽऽहारतृष्णाख्या न मुनेरपि । किं पुनस्तदभावेन स्वामिनो भुक्तिबाधनम् ।।१०।।
( आहारसंज्ञा चेति । (३) आहारसंज्ञा चाऽऽहारतृष्णाख्या मोहाभिव्यक्तचैतन्यस्य ३०/१०।। १. मुद्रितप्रतौ .....काले सिद्धेः' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'मुक्ति...' इत्यशुद्धः पाठः ।
6 dPER vbo
५०६ ।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org