________________
में
परोपकारहानेश्च पुरीषादिजुगुप्सया ।
व्याध्युत्पत्तेश्च भगवान् भुङ्क्ते नेति दिगम्बराः ।।५।। परेति । (१३) परोपकारहानेश्च भुक्तिकाले धर्मदेशनाऽनुपपत्तेः, सदा परोपकारस्वभावस्य भगवतस्तद्व्याघाताऽयोगात् । (१४) पुरीषादिजुगुप्सया, भुक्तौ तद्धौव्यात् । (१५) व्याध्युत्पत्तेश्च भुक्तेस्तन्निमित्तत्वात् । भगवान् = केवली भुङ्क्ते नेति दिगम्बरा वदन्ति
2 4 44AGE
सिद्धान्तश्चाऽयमधुना लेशेनाऽस्माभिरुच्यते ।
दिगम्बरमतव्यालपलायनकलागुरुः ।।६।। सिद्धान्तश्चायमिति । व्यक्तः ।।६।।
हन्ताऽज्ञानादिका दोषा घातिकर्मोदयोद्भवाः ।
तदभावेऽपि किं न स्याद्वेदनीयोद्भवा क्षुधा ।।७।। हन्तेति । (१) हन्त अज्ञानादिका घातिकर्मोदयोद्भवा दोषाः प्रसिद्धाः । तदभावेऽपि वेदनीयोद्भवा क्षुधा किं न स्यात् । न हि वयं भवन्तमिव तत्त्वमनालोच्य क्षुत्पिपासादीनेव दोषानभ्युपेमो येन निर्दोषस्य केवलिनः क्षुधाद्यभावः स्यादिति भावः ।।७।।
अव्याबाधविघाताच्चेत्सा दोष इति ते मतम् । नरत्वमपि दोषः स्यात्तदा सिद्धत्वदूषणात् ।।८।।
|||५०५॥
३०/८
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org