SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ मोहात्परप्रवृत्तेश्च सातवेद्याऽनुदीरणात् । प्रमादजननादुच्चैराहारकथयाऽपि च ॥३॥ __मोहादिति । (७) मोहात् = मोहनीयकर्मणः (च) परप्रवृत्तेः परद्रव्यप्रवृत्तेर्निर्मोहस्य | सत आहारादिपरद्रव्यप्रवृत्त्यनुपपत्तेः । (८) सातवेद्यस्य सातवेदनीयस्याऽनुदीरणात् ( सातवेद्यानुदीरणात्) सातासातमनुजायुषामुदीरणायाः सप्तमगुणस्थान एव निवृत्तेः । __ केवलिनः कवलभुक्तौ तज्जन्यसातोदीरणप्रसङ्गात् । (९) च पुनराहारकथयाऽप्युच्चैः = अत्यर्थं प्रमादजननात् आहारस्य सुतरां तथात्वात् ।।३।। भुक्त्या निद्रादिकोत्पत्तेस्तथा ध्यान-तपोव्ययात् । परमौदारिकाङ्गस्य स्थास्नुत्वात्तां विनापि च ।।४।। भुक्त्येति । (१०) भुक्त्या = कवलाहारेण निद्रादिकस्योत्पत्तेः (=निद्रादिकोत्पत्तेः), आदिना रासनमतिज्ञानेर्यापथपरिग्रहः । केवलिनां च निद्राद्यभावात्तद्व्याप्यभुक्तेरप्ययोगात् । (११) तथा भुक्तौ सत्यां ध्यानतपसोळयात् (=ध्यानतपोव्ययात्), केवलिनश्च तयोः सदातनत्वात् । (१२) तां विनापि च = भुक्तिं विनाऽपि च परमौदारिकाऽङ्गस्य स्थाष्णु(स्नु)त्वात् ३०/४ || || = चिरकालमवस्थितिशीलत्वात् तदर्थं केवलिनस्तत्कल्पनाऽयोगात् ।।४।। P 144P 4 # ।।५०४।। का Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy