________________
2 - 414 APP 4 +
अथ केवलिभुक्तिव्यवस्थापनद्वात्रिंशिका ।।३०।। अनन्तरं विनय उक्तस्तत्पालनेन च महात्मा केवली भवति, स च कवलभोजित्वान्न || कृतार्थ इति दिगम्बरमतिभ्रमनिरासार्थमाह
सर्वथा दोषविगमात् कृतकृत्यतया तथा ।
__ आहारसंज्ञाविरहादनन्तसुखसङ्गतेः ॥१॥ ___ सर्वेथेति । (१) सर्वथा = सर्वप्रकारैः दोषविगमात् क्षुधायाश्च दोषत्वात्तदभावे कवलाहाराऽनुपपत्तेः।
(२) तथा कृतकृत्यतया केवलिनः कवलभोजित्वे तद्धान्यापत्तेः ।
(३) आहारसंज्ञाविरहात् तस्याश्चाऽऽहारहेतुत्वात् । (४) अनन्तसुखस्य सङ्गतेः (=अनन्तसुखसङगतेः) । केवलिनः कवलभूक्तौ तत्कारणक्षद्वेदनोदयाऽवश्यम्भावात्तेनाऽनन्त ॥ सुखविरोधात् ।।१।।
दग्धरज्जुसमत्वाच्च वेदनीयस्य कर्मणः । ___ अक्षोद्भवतया देहगतयोः सुखदुःखयोः ॥२॥ दग्धेति । च = पुनः (५) वेदनीयस्य कर्मणो दग्धरज्जुसमत्वात् । तादृशेन तेन स्वकार्यस्य क्षुद्वेदनोदयस्य जनयितुमशक्यत्वात् । (६) देहगतयोः = शरीराऽऽश्रितयोः सुख
तया = इन्द्रियाधीनतयाऽतीन्द्रियाणां भगवतां तदनुपपत्तेः ।।२।।
५०३।।
का
।
३०/२ ।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org