________________
दोषाः किल तमांसीव क्षीयन्ते विनयेन च । प्रसृतेनांऽशुजालेन चण्डमार्तण्डमण्डलात् ॥२८ ।। श्रुतस्याऽप्यतिदोषाय ग्रहणं विनयं विना । यथा महानिधानस्य विना' साधनसन्निधिम् ।।२९।। विनयस्य प्रधानत्वद्योतनायैव पर्षदि । तीर्थं तीर्थपतिर्नत्वा कृतार्थोऽपि कथां जगौ ॥३०॥ छिद्यते विनयो यैस्तु शुद्धोञ्छादिपरैरपि । तैरप्यग्रेसरीभूय मोक्षमार्गो विलुप्यते ॥३१॥ नियुङ्क्ते यो यथास्थानमेनं तस्य तु सन्निधौ ।
"स्वयंवराः समायान्ति 'परमानन्दसम्पदः ॥३२॥ शिष्टमर्थं स्पष्टम् ।।३२।।
॥ इति विनयद्वात्रिंशिका ।।२९।।
२९/३२
(
५०२।।
१. मुद्रितप्रती ...विमाण(न)धन...' इत्यशुद्धः पाठः । हस्तादर्शात् . शुद्धः पाठोऽत्र गृहीतः । २. मुद्रितप्रतौ 'शुश्रूषोऽपि(षणा)परै रित्यशुद्धः पाठः । ३. हस्तादर्श 'भूया' इत्यशुद्धः पाठः । ४. मुद्रितप्रती 'स्वयंवरा समा...'
इत्यशुद्धः पाठः । ५. मुद्रितप्रतौ 'परस्य रतिसम्पद' इत्यशुद्धः पाठः । क्वचित् हस्तादर्श 'परमपदस...' इति पाठः । ।। ६. हस्तादर्श 'स्पष्टप्राये' इत्यशुद्धः पाठः । हस्तादर्शविशेषे च 'स्पष्टप्रायम्' इति पाठान्तरः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org