SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ वि न य द्वा त्रिं शि का २९/२७ Jain Education International शुश्रूषति विनीतः सन् सम्यगेवावबुध्यते । यथावत् कुरुते चाऽर्थं मदेन च न माद्यति ।। २२ ।। श्रुतमेकाग्रता वा मे भावितात्मानमेव वा । स्थापयिष्यामि धर्मेऽन्यं वेत्यध्येति सदागमम् ॥ २३॥ कुर्यात्तपस्तथाऽऽचारं नैहिकाऽऽमुष्मिकाऽऽशया । कीर्त्याद्यर्थं च नो किं तु निष्कामो निर्जराकृते ।। २४ ।। इत्थं समाहिते स्वान्ते विनयस्य फलं भवेत् । स्पर्शाख्यं स हि तत्त्वाऽऽप्तिर्बोधमात्रं परः पुनः ।। २५ ।। अक्षेपफलदः स्पर्शस्तन्मयीभावतो' मतः । यथा सिद्धरसस्पर्शस्ताम्रे सर्वाऽनुवेधतः ।। २६ ।। इत्थं च विनयो मुख्यः सर्वाऽनुगमशक्तितः । मिष्टान्नेष्विव सर्वेषु निपतन्निक्षुजो रसः ।। २७ ।। १. हस्तादर्शे 'सुश्रुषितो' इत्यशुद्धः पाठः । २ हस्तादर्शे 'सगदागमं' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'अक्षेपः फलद' इत्यशुद्धः पाठः । ४ हस्तादर्शे 'भावनात्मनः' इत्यशुद्धः पाठः । ५. हस्तादर्शे 'नियन्नि' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।५०१ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy