SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ वि न य द्वा त्रिं शि का २९/२७ Jain Education International शुश्रूषति विनीतः सन् सम्यगेवावबुध्यते । यथावत् कुरुते चाऽर्थं मदेन च न माद्यति ।। २२ ।। श्रुतमेकाग्रता वा मे भावितात्मानमेव वा । स्थापयिष्यामि धर्मेऽन्यं वेत्यध्येति सदागमम् ॥ २३॥ कुर्यात्तपस्तथाऽऽचारं नैहिकाऽऽमुष्मिकाऽऽशया । कीर्त्याद्यर्थं च नो किं तु निष्कामो निर्जराकृते ।। २४ ।। इत्थं समाहिते स्वान्ते विनयस्य फलं भवेत् । स्पर्शाख्यं स हि तत्त्वाऽऽप्तिर्बोधमात्रं परः पुनः ।। २५ ।। अक्षेपफलदः स्पर्शस्तन्मयीभावतो' मतः । यथा सिद्धरसस्पर्शस्ताम्रे सर्वाऽनुवेधतः ।। २६ ।। इत्थं च विनयो मुख्यः सर्वाऽनुगमशक्तितः । मिष्टान्नेष्विव सर्वेषु निपतन्निक्षुजो रसः ।। २७ ।। १. हस्तादर्शे 'सुश्रुषितो' इत्यशुद्धः पाठः । २ हस्तादर्शे 'सगदागमं' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'अक्षेपः फलद' इत्यशुद्धः पाठः । ४ हस्तादर्शे 'भावनात्मनः' इत्यशुद्धः पाठः । ५. हस्तादर्शे 'नियन्नि' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।५०१ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy