________________
// स्याऽपि आगमाख्यया = आगमनाम्ना सद्भावकारणत्वोक्तेः = पुष्टाऽऽलम्बनत्ववचनाद् ।
अस्वारसिककारणस्थल एवोक्तनियमादिति । भावलेशस्तु मार्गानुसारी यत्र क्वचिदपि || मार्गोद्भासनार्थं वन्दनादिविनयाऽर्हतानिमित्तमेव श्रूयते । यदुक्तं बृहत्कल्पभाष्ये
"दंसण-नाण-चरित्तं तव-विणयं जत्थ जत्तियं पासे । जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं" ।। (बृहत्कल्पभाष्य ४५५३) ।।१६।।
विनयेन विना न स्याज्जिनप्रवचनोन्नतिः । पयःसेकं विना किं वा वर्धते भुवि पादपः ।।१७।। विनयं ग्राह्यमाणो यो मृदूपायेन कुष्यति ।
उत्तमां श्रियमायान्तीं दण्डेनाऽपनयत्यसौ ।।१८।। २९/२१
त्रैलोक्येऽपि विनीतानां दृश्यते सुखमङ्गिनाम् । त्रैलोक्येऽप्यविनीतानां दृश्यतेऽसुखमङ्गिनाम् ।।१९।। ज्ञानादिविनयेनैव पूज्यत्वाऽऽप्तिः श्रुतोदिता । गुरुत्वं हि गुणाऽपेक्षं न स्वेच्छामनुधावति ।।२०।। विनये च श्रुते चैव तपस्याचार एव च । चतुर्विधः समाधिस्तु दर्शितो मुनिपुङ्गवैः ।।२१।।
५०० ।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org