________________
। मोक्षफलकत्वाभिधानात् ।।१।।
अनुकम्पाऽनुकम्प्ये स्याद् भक्तिः पात्रे तु सङ्गता ।
अन्यथाधीस्तु दातृणामतिचारप्रसञ्जिका ॥२॥ अनुकम्पेति । अनुकम्पाऽनुकम्प्ये विषये, भक्तिस्तु 'पात्रे साध्वादौ सङ्गता स्यात् = समुचितफलदा स्यात् । अन्यथाधीस्तु = अनुकम्प्ये सुपात्रत्वस्य सुपात्रे चानुकम्प्यत्वस्य बुद्धिस्तु दातॄणामतिचारप्रसञ्जिका = अतिचारापादिका । अत्र यद्यपि सुपात्रत्वधियोऽनुकम्प्येऽसंयतादौ मिथ्यारूपतयाऽतिचारापादकत्वं युज्यते, सुपात्रेऽनुकम्प्यत्वधियस्तु न कथञ्चित्, तत्र ग्लानत्वादिदशायामन्यदापि च स्वेष्टोद्धारप्रतियोगिदुःखाश्रयत्वरूपानुकम्प्यत्वधियः प्रमात्वात्, तथापि स्वापेक्षया हीनत्वे सति स्वेष्टोद्धारप्रतियोगिदुःखाश्रयत्वरूपमनुकम्प्यत्वं तत्राप्रामाणिकमेवेति न दोषः । ___ अपरे त्वाहुः- तत्र प्रागुक्तं निर्विशेषणमनुकम्प्यत्वं प्रतीयमानं साहचर्यादिदोषेण यदा हीनत्वबुद्धिं जनयति तदैवातिचारापादकं, नान्यदा, अन्यथाधियो हीनोत्कृष्टयोरुत्कर्षापकर्षबुद्ध्याधानद्वारैव दोषत्वात् । अत एव → न चानुकम्पादानं साधुषु न सम्भवति, "आयरिय अणुकम्पाए गच्छो अणुकम्पिओ महाभागो" इति वचनाद् + (अष्टक २७/ १. हस्तादर्श :...सुपात्रे' इति अर्थत: शुद्धोऽपि मूलानुसारेणाऽशुद्धः पाठः । २. मुद्रितप्रतो 'बुद्धया...' इत्यशुद्धः पाठः। ३. हस्तप्रतौ ....कंपयाए...' इति पाठः ।
।
॥२
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org