________________
htt ho to
दा
न
द्वा
त्रिं
शि
का
१/१
Jain Education International
श्रीयशोविजयोपाध्यायविरचितम् तत्त्वार्थदीपिकाऽभिधान-स्वोपज्ञव्याख्याऽलङ्कृतम्
मुनियशोविजयेन संशोधितं सम्पादितञ्च
द्वात्रिंशद्-द्वात्रिंशिका प्रकरणम्
१. दानद्वात्रिंशिका
ऐन्द्रवृन्दविनताङ्घ्रियामलं यामलं जिनपतिं समाश्रिताम् ।
योगिनोऽपि विनमन्ति भारतीं भारती मम ददातु सा सदा ।। श्रेयोभूतानेकशास्त्रार्थसङ्ग्रहं मनसिकृत्य द्वात्रिंशिकाप्रकरणमारभमाणो ग्रन्थकारो दानधर्मस्य प्राथम्येन परममङ्गलरूपत्वादादौ तद्वात्रिंशिकामाह
ऐन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम् ।
भक्त्या सुपात्रदानं तु मोक्षदं देशितं जिनैः ।।१।।
ऐन्द्रेति - अनुकम्पासमन्वितं = अनुकम्पापूर्वकं दानं, इन्द्रस्य सम्बन्ध्यैन्द्रं यच्छर्म तत्प्रदम् (=ऐन्द्रशर्मप्रदम् ) । सांसारिकसुखान्तरप्रदानोपलक्षणमेतत् । स्वेष्टबीजप्रणिधानार्थं चेत्थमुपन्यासः । भक्त्या सुपात्रदानं तु जिनैः = भगवद्भिः मोक्षदं देशितं, तस्य बोधिप्राप्तिद्वारा भगवत्यां
For Private Personal Use Only
।।१।।
www.jainelibrary.org