SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ज ।। ३ वृ.) इति अष्टकवृत्त्यनुसारेणाचार्यादिष्वप्युत्कृष्टत्वधियोऽप्रतिरोधेऽनुकम्पाऽव्याहतेति । एतन्नये च सुपात्रदानमपि गृहीतृदुःखोद्धारोपायत्वेनेष्यमाणमनुकम्पादानमेव, साक्षा। त्स्वेष्टोपायत्वेनेष्यमाणं चान्यथेति बोध्यम् ।।२।। तत्राद्या दुःखिनां दुःखोद्दिधीर्षाल्पाऽसुखश्रमात् । पृथिव्यादौ जिनार्चादौ यथा तदनुकम्पिनाम् ।।३।। तत्रेति । तत्र = भक्त्यनुकम्पयोर्मध्ये आद्या = अनुकम्पा दुःखिना = दुःखार्तानां पुंसां दुःखोद्दिधीर्षा = दुःखोद्धारेच्छा, अल्पानामसुखं यस्मादेतादृशो यः श्रमस्तस्मात् (= दुःखोद्दिधीर्षाल्पाऽसुखश्रमात्) । इत्थं च वस्तुगत्या बलवदनिष्टाननुबन्धी यो दुःखिदुःखोद्धारस्तद्विषयिणी स्वस्येच्छाऽनुकम्मेति फलितम्। उदाहरति- यथा जिनार्चादी कार्ये पृथिव्यादौ विषये तदनुकम्पिनां ='इत्थम्भूतभगवत्पूजाप्रदर्शनादिना प्रतिबुद्धाः सन्तः षट्कायान् रक्षन्त्वि'ति परिणामवतामित्यर्थः । यद्यपि जिनार्चादिकं भक्त्यनुष्ठानमेव, तथापि तस्य सम्यक्त्वशुद्ध्यर्थत्वात् तस्य चानुकम्पालिङ्गकत्वात् तदर्थकत्वमप्यविरुद्धमेवेति, पञ्चलिङ्ग्यादावित्थं व्यवस्थितेरस्माभिरप्येवमुक्तम् ।।३।। अल्पासुखश्रमादित्यस्य कृत्यमाह - स्तोकानामुपकारः स्यादारम्भाद्यत्र भूयसाम् । तत्रानुकम्पा न मता यथेष्टापूर्तकर्मसु ।।४।। १. हस्तादर्श 'एतन्नये' नास्ति । २. हस्तादर्श'... दिकार्ये' इत्यशुद्धः पाठः । ३. 'व्यस्थि...' इत्यशुद्धः पाठो हस्तादर्श। ।।३।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy