________________
To
It
To
For
स्तोकानामिति- स्पष्ट: । नवरमिष्टापूर्तस्वरूपमेतत्ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां हि यद्दत्तमिष्टं तदभिधीयते ।। वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमेतत्तु पूर्तं तत्त्वविदो विदुः ।।
(योगदृष्टिससमुच्चय ११६-११७) इति ।।४।। नन्वेवं कारणिकदानशालादिकर्मणोऽप्युच्छेदापत्तिरित्यत आह -
पुष्टालम्बनमाश्रित्य दानशालादिकर्म यत् । तत्तु प्रवचनोन्नत्या बीजाधानादिभावतः ।।५।। बहूनामुपकारेण नानुकम्पानिमित्तताम् ।
अतिक्रामति तेनात्र मुख्यो हेतुः शुभाशयः ॥६॥ पुष्टालम्बनमिति । पुष्टालम्बनं = सद्भावकारणं आश्रित्य यद्दानशालादिकर्म प्रदेशिसम्प्रतिराजादीनां, तत्तु प्रवचनस्य प्रशंसादिना उन्नत्या (= प्रवचनोन्नत्या बीजाधानादिभावतः) बीजाधानादीनां भावतः = सिद्धेर्लोकानाम् ।।५।।
बहूनामिति । ततो निर्वृतिसिद्धेः बहूनामुपकारेणानुकम्पानिमित्ततां नातिक्रामति ।
तेन कारणेन अत्र = अनुकम्पोचितफले मुख्यः शुभाशयो हेतुः, दानं तु गौणमेव, 'वेद्यसंवेद्यपदस्थ एव तादृगाशयपात्रं, तादृगाशयानुगम एव च निश्चयतोऽनुकम्पेति फलितम् १. हस्तादर्श 'वैद्य...' इत्यशुद्धः पाठः ।
।।४।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org