________________
दुःखध्वंसस्य दुःखसमवायिन्येव तया वृत्तित्वस्य त्वयोपगमात् ।। - अन्यथा = सम्बन्धमात्रेण तदिष्टौ अर्थान्तराऽव्ययात् = अर्थान्तराऽनुद्धारात्, आकाशादावपि दुःखध्वंसस्य व्यभिचारितादिसम्बन्धेन वृत्तित्वात्प्रकृताऽन्यसिद्धेः । ___ कालिक-दैशिकविशेषणताऽन्यतरसम्बन्धेन वृत्तित्वोक्तावपि कालोपाधिवृत्तित्वेन तदनपायात् । ___ कालिकेन दुःखप्रागभावाऽनाधारत्वनिवेशे च दृष्टान्ताऽसङ्गतेः । ___ मुख्यकालवृत्तित्वविशिष्टकालिकसम्बन्धेन तन्निवेशेऽप्यात्मनस्तथात्वात् । उक्ताऽन्यतरसम्बन्धेन तन्निवेशेऽपि तथासम्बन्धगर्भ'व्याप्त्यग्रहादिति भावः ।।३।।
विपक्षबाधकाऽभावादनभिप्रेतसिद्धितः ।
अन्तरैतदयोग्यत्वाशङ्का' योगाऽपहेति चेत् ॥४॥ विपक्षेति। विपक्षे हेतुसत्त्वेऽपि साध्याऽसत्त्वे बाधकस्याऽनुकूलतर्कस्याऽभावात् (=विपक्षबाधकाऽभावात्) । तथा च अनभिप्रेतसिद्धितः = अनिष्टसिद्धिप्रसङ्गात्, कालाऽन्यत्वगर्भसाध्यं प्रत्यपि उक्तहेतोरविशेषात् । ____एतद् = उक्तसाध्यं अन्तरा सर्वमुक्त्यसिद्धौ अयोग्यत्वाऽऽशङ्का ‘य एव न कदाऽपि १. हस्तादर्श 'गर्भा व्याप्त्यः' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ....ग्यत्वाच्छंका(त्वाशंका)..' इति पाठः । ३. हस्तादर्श 'अनिष्टसिप्र..' इत्यशुद्धः पाठः ।
३१/४
५२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org