________________
आसन्नोऽपीति । आसन्नोऽपि = तद्देशवर्ती स्वजनादिसम्बन्धरहितोऽपि । इत्थं = | भगवद्भक्तिप्रयुक्तौदार्ययोगात् ।।५।।
'इष्टकादि दलं चारु दारु वा सारवन्नवम् ।
गवाद्यपीडया ग्राह्यं मूल्यौचित्येन यत्नतः ।।६।। ___ इष्टकादीति । आदिना पाषाणाऽऽदिग्रहः । चारु = गुणोपेतम् । दारु वा चारु यत्नाऽऽनीतं देवताद्युपवनादेः प्रगुणं च । सारवत् = स्थिरं खदिरसारवत् । (गवाद्यपीडया=) गवादीनामपीडा बहुभाराऽऽरोपणकृतपीडापरिहाररूपा तया। मूल्यौचित्येन ग्राह्यं तत्कारिवर्गतः । | तद्ग्रहणं च पूर्णकलशादिसुशकुनपूर्वं श्रेयः, सुशकुनश्च चित्तोत्साहाऽनुग इति भाव| नीयम् ।।६।।
भृतका अपि सन्तोष्याः स्वयं प्रकृतिसाधवः ।।
धर्मो भावेन न व्याजाद्धर्ममित्रेषु तेषु तु ॥७॥ भृतका इति । स्वयं प्रकृतिसाधव एव भृतका नियोज्याः । ते अपि सन्तोष्याः, तेषामपि धर्मनिमित्तत्वेन धर्ममित्रत्वात्, तेषु वञ्चनविरहितभावेनैव धर्मोपपत्तेः ।।७।। ||७२।। १. हस्तादर्श 'इष्टिका' इति पाठः । २. मुद्रितप्रतौ 'दारु' इति पाठो नास्ति । ३. हस्तादर्श 'तेषु च' इति पाठान्तरम् । ४. हस्तादर्श 'धर्मापत्तेः' इत्यशुद्धः पाठः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org