________________
स्वाशयश्च विधेयोऽत्राऽनिदानो जिनरागतः ।
अन्यारम्भपरित्यागाज्जलादियतनावता ।।८।। __ स्वाशयश्चेति । स्वाशयश्च = शुभाऽऽशयश्च विधेयः अत्र = जिनभवनकृत्ये अनेनाऽऽलम्बनत्वाख्यविषयतया शुद्धिरभिहिता । अनिदानः = निदानरहितो जिनरागतः = भगवद्भक्तेः, अनेनोद्देश्यत्वाख्यविषयतया शुद्धिरभिहिता । •अन्येषां = गृहादिसम्बन्धिनामारम्भाणां परित्यागात् (= अन्यारम्भपरित्यागात्) । जलादीनां या यतना स्वकृतिसाध्यजीवपीडापरिहाररूपा तद्वता (= जलादियतनावता), अनेन साध्यत्वाऽऽख्यविषयतया शद्धिरभिहिता. ।।८।।
इत्थं चैषोऽधिकत्यागात्सदारम्भः फलाऽऽन्वितः
प्रत्यहं भाववृद्ध्याऽऽप्तैर्भावयज्ञः प्रकीर्तितः ॥९॥ इत्थमिति । इत्थं च = यतनावत्त्वे च एषः = प्रकृत आरम्भः अधिकत्यागाद् = निष्फलाऽधिकाऽऽरम्भनिवृत्तेः फलाऽन्वितः = श्रेयःफलयुक्तः सदारम्भः प्रत्यहं = प्रतिदिवसं भाववृझ्या = कृताऽकृतप्रत्युपेक्षणादि-शुभाशयाऽनुबन्धरूपया आप्तैः = साधुभिः भावयज्ञः = भावपूजारूपः प्रकीर्तितः। तदाह 'एतदिह भावयज्ञः' (षोडशक-६/१४) इति। न चैवं द्रव्यस्तवव्यपदेशाऽनुपपत्तिः, द्रव्य-भावयोरन्योऽन्यसमनुवेधेऽपि द्रव्यप्राधान्येन तदुपपादनादिति ...... चिह्नद्वयमध्यवर्ती अग्नेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्श नास्ति ।
।।।।७३ ।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org