SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ।। अथ मुक्तिद्वात्रिंशिका ।।३१।। अनन्तरं कवलभोजित्वेऽपि कृतार्थत्वं केवलिनो व्यवस्थापितम् । सर्वथा कृतार्थत्वं चाऽस्य | मुक्तौ व्यवतिष्ठत इति बहुविप्रतिपत्तिनिरासेन मुक्तिरत्र व्यवस्थाप्यते दुःखध्वंसः परो मुक्तिर्मानं दुःखत्वमत्र च । आत्मकालाऽन्यगध्वंसप्रतियोगि'न्यवृत्तिमत् ॥१॥ दुःखध्वंस इति । परो दुःखध्वंसो मुक्तिः । परत्वं च समानकालीन-समानाधिकरणदुःखप्रागभावाऽसमानदेशत्वं वर्धमानग्रन्थे श्रूयते । तत्र च यद्यत्स्वसमान कालीन-स्वसमानाधिकरणदुःखप्रागभावसमानदेशमिदानींतनदुःखध्वंसादि तत्तद्भेदो निवेश्यः, अन्यथा चरमदुःखध्वंससमानकालीनसमानाधिकरणदुःखप्रागभावाऽप्रसिद्धः । वस्तुतः समानाधिकरणदुःखप्रागभावाऽसमानकालीनदुःखध्वंसो मुक्तिरित्येकं लक्षणम् । अपरं च समानकालीनदुःखप्राग भावाऽसमानाधिकरणो दुःखध्वंस इति लक्षणद्वये तात्पर्यम्। तेन नाऽसमानदेशत्वविवेचनेऽन्यतरविशेषणवैयर्थ्यम् । मानं = प्रमाणं च अत्र = मुक्तौ दुःखत्वं इति पक्षः । आत्मकालाऽन्यगः = आत्मका१. हस्तादर्श ...गिनिवृ...' इत्यशुद्धः पाठः । २. हस्तादर्श 'च' नास्ति । ३. हस्तादर्श 'स्वसमोना' इत्यशुद्धः पाठः । ४. हस्तादर्श 'भावसामा..' इत्यशुद्धः पाठः । (५१८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy