________________
// ऽशुभस्वरूपव्यापारस्य विशिष्टनिर्जराकारणत्वाऽयोगादिति ।।३१।।
पूजया परमानन्दमुपकारं विना कथम् ।
ददाति पूज्य इति चेच्चिन्तामण्यादयो यथा ॥३२॥ पूजयेति । व्यक्तः ।।३२।।
।। इति भक्तिद्वात्रिंशिका ।।५।।
।। अथ साधुसामग्र्यद्वात्रिंशिका ।।६।। जिनभक्तिप्रतिपादनाऽनन्तरं तत्साध्यं 'साधुसामग्र्यमाह
ज्ञानेन ज्ञानिभावः स्याद् भिक्षुभावश्च भिक्षया ।
वैराग्येण विरक्तत्वं संयतस्य महात्मनः ।।१।। ज्ञानेनेति । व्यक्तः ।।१।।
विषयप्रतिभासाऽऽख्यं तथाऽऽत्मपरिणामवत् ।
तत्त्वसंवेदनं चेति त्रिधा ज्ञानं प्रकीर्तितम् ॥२॥ विषयेति । विषयप्रतिभास इत्याख्या यस्य, विषयस्यैव हेयत्वादिधर्माऽनुपरक्तस्य १. 'सामग्यमाह' इति त्रुटितः पाठो मुद्रितप्रतौ । २. ..धर्मानुरक्तस्ये'त्यशुद्धः पाठो मुद्रितप्रतौ । हस्तादर्श च 'धर्मानुपरक्रम्य' इत्यशुद्धः पाठः ।
।।।९१॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org