Page #1
--------------------------------------------------------------------------
________________
POORDAROOOOOOOOOOOOOOOOOOO
॥ श्रीमद्विजयानन्दसूरिपादपद्मेभ्यो नमः॥ श्रीआत्मानन्दग्रन्थमालाया द्वात्रिंशं ( ३२) रत्नम्
॥ श्रीमदुत्तराध्ययनसूत्रम् ॥ ॥ उपाध्याय-श्रीमद्भावविजयगणिविरचिंतया विवृत्त्या समलङ्कतम् ॥ ॐ न्यायाम्भोनिधिजैनाचार्यश्रीमद्विजयानन्दसूरिपुरन्दरपशिष्यपण्डितप्रकाण्डश्रीमद्हर्षविजयशिष्यश्रीमद्वल्लभविजयमुनिमतल्लजोपदिष्टाणहिल्लपुरपत्तनवास्तव्यश्रेष्ठिवर्य-बाबू " चूनीलाल पन्नालाल" द्रव्यसाहा
य्येन प्रकाशयित्री भावनगरस्था श्रीजैन "आत्मानन्द सभा" वीरनिर्वाणात् २४४१. आत्मसंवत् १९. विक्रमसंवत् १९७१. ई. सन् १९.१५. इदं पुस्तकं मोहमय्यां वल्लभदास-त्रिभुवनदास-गांधी, मनिश्रीजैन-आत्मानंदसभा-भावनगर इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीथ्यां २३, तमे गृहे रामचंद्र येसु शेडगे द्वारा मुद्रयित्वा प्रकाशितम् । कान्हळहळलन्डन्न्क
न्छन्
HORRORRIORLORE
Page #2
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १ ॥
॥ उपाध्यायश्रीमद्भावविजयगणिविरचितविवृत्त्या सहितम् ॥
॥ श्रीमदुत्तराध्ययनसूत्रम् ॥
॥ अँनमः ॥
স
॥ ॐ नमः सिद्धिसाम्राज्य - सौख्यसंतानदायिने । त्रैलोक्यपूजिताय श्री - पार्श्वनाथाय तायिने ॥ १ ॥ श्रीवर्द्धमानजिनराजमनन्तकीर्ति, वाग्वादिनीं च सुधियां जननीं प्रणम्य ।
श्रीउत्तराध्ययनसंज्ञकवाङ्मयस्य, व्याख्यां लिखामि सुगमां सकथां च कांचित् ॥ २ ॥
निर्युक्तत्यर्थः पाठा - न्तराणि चार्थान्तराणि च प्रायः । श्रीशांतिसूरिविरचित - वृत्तेर्ज्ञेयानि तत्त्वज्ञैः ॥ ३॥ पूर्वैर्विहिता यद्यपि, बह्वयः संत्यस्य वृत्तयो रुचिराः । पद्यनिबद्धकथार्थ, तदपि क्रियते प्रयत्नोऽयम् ॥ ४ ॥ इहोत्तराध्ययनानीति कः शब्दार्थः १ उच्यते, उत्तराणि श्रीदशवैकालिकनिष्पत्तेः प्राक् श्रीआचारांगपठनोत्तरकालं पठ्यमानत्वेन दशवैकालिकनिष्पत्तेरनु च तत एवोर्द्धमधीयमानत्वेन, उत्तराणि वा प्रधानान्यध्ययनानि उत्तराध्ययनानि तानि च षट्त्रिंशत्, तत्र श्रीजिनेन्द्रप्रणीतधर्मकल्पवृक्षस्य विनय एव मूलमित्यादौ शासनाधिकारी श्रीसुधर्म
प्रथमाध्यय नम् (१)
॥ १ ॥
Page #3
--------------------------------------------------------------------------
________________
25
खामी विनयाध्ययनमाह । तस्य चेदमादि सूत्रम्मूलम्-संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो।विणयं पाउकरिस्सामि,आणुपुट्विं सुणेह मे ॥१॥ | व्याख्या- संयोगाद् द्रव्यतो मातापित्रादिसंबंधाद्भावतश्च कषायविषयादिक्लिष्टतरभावसंबंधात् 'विप्पमुक्कस्सत्ति' विविधैर्ज्ञानभावनादिभिः प्रकारैः प्रकर्षेण परीषहसहनादिरूपेण मुक्तो विप्रमुक्तस्तस्य, अयं भावः “अन्योऽन्यं भवचक्रे, याताः सर्वेऽप्यनन्तशो जीवाः ॥ मात्रादिबन्धुभावं, शत्रूदासीनभावं च ॥१॥" ततः कोऽत्र निजः परो वा? तथा “कोहो अमाणो अ अणिग्गहीआ, माया य लोभो अपवड्डमाणा ॥ चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥१॥" ततो न देयः कोपादिविपक्षपक्षस्थावकाशः, इत्यादिभावनाभिः खजनादिगोचराभिधंगरहितस्य । तथा-'अणगारस्सत्ति' न विद्यते अगारं द्रव्यतो दृषदादिरचितं गृहं, भावतश्च अनंतानुबंध्यादिकृतं कषायमोहनीयं यस्यासौ अनगारस्तस्य भिक्षोः साधोः विनयं साधुजनासेवितं समाचार, अभ्युत्थानादिकमुपचार वा प्रादुष्करिष्यामि प्रकटीकरिष्यामि कथयिष्यामीत्यर्थः । 'आणुपुर्वित्ति' आनुपूर्त्या परिपाट्या प्राकृतत्वात्तृतीयार्थे द्वितीया। 'सुणेह मेति' तं विनयं प्रादुष्करिष्यतः सतो मे मम सकाशात् शृणुत श्रवणं प्रति सावधानो भवत, अनेन वाक्येन धर्ममभिधातुकामेन धीधनेन पूर्व श्रोताऽभिमुखः कर्तव्य इति सूचितं, अन्यथा वक्तवाक्यस्य वैफल्यप्रसंगात्, उक्तं हि-"अप्रतिबद्धे श्रोतरि, वक्तुर्वाचः प्रयान्ति वैफल्यम् । नयनविहीने भर्चरि, लावण्यगुणस्तृणं
Page #4
--------------------------------------------------------------------------
________________
उत्तराध्ययन स्त्रीणाम् ॥ १॥" किं चैवं श्रोतारमभिमुखीकृत्यापि धर्म वदतो वक्तुर्लाभ एव, यदुक्तं-“न भवति धर्मः श्रोतुः, सर्व-13 प्रथमाध्यय
स्यैकांततो हितश्रवणात् ॥ त्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकांततो भवति ॥१॥” इति सूत्रार्थः ॥ १॥ अथ विनयो । |नम् (१) ॥२॥
गुणः, स च जीवादभिन्न इति विनीतगुणैरेव विनयखरूपमाहमूलम्-आणाणिदेसयरे, गुरूणमुववायकारए । इंगिआगारसंपन्ने, से विणीयत्ति वुच्चइ ॥२॥ | व्याख्या-आज्ञा, सौम्य ! इदं कुरु, इदं च माकार्षीरिति गुरुवचनं, तस्या निर्देश इदमित्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरः। तथा गुरूणां आचार्यादीनां उपपातः समीपदेशावस्थानं, तत्कारकस्तद्विधायी गुरुपार्थावस्थायी, न तु गुर्वादेशादिभीत्या दूरदेशस्थायीति भावः, इंगितं निपुणमतिज्ञेयं प्रवृत्तिनिवृ|त्तिसूचकं ईषद्भशिरःकंपाद्याकारः स्थूलधीसंवेद्यः प्रस्थानादिभावज्ञापको दिगवलोकनादिः, आह च-"अवलोअणं
दिसाणं, विभणं साडयस्स संवरणं ॥ आसणसिढिलीकरणं, पट्ठिअलिंगाई एआई ॥१॥” अनयोर्द्वद्वे इंगिता8|कारौ ताभ्यां गुरुगताभ्यां संपन्नो युक्तस्तद्वेदितया इंगिताकारसंपन्नः स इति पूर्वोक्तविशेषणयुक्तो विनेयो विनीतो विनयान्वित इत्युच्यते तीर्थकराद्यैरिति सूत्रार्थः॥२॥ अविनीतत्वत्यागेन हि विनीतो भवतीति अविनीतखरूपमाह
॥२॥ है मूलम्-आणाणिदेसयरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीएत्ति वुच्चई ॥३॥
RAKESARSECREENSESAKA
Page #5
--------------------------------------------------------------------------
________________
व्याख्या- आज्ञानिर्देशं न करोतीत्याज्ञानिर्देशाकरः, तथा गुरूणामनुपपातकारकः, प्रत्यनीकः प्रतिकुलवर्त्ती | कुतोऽयमेवंविधः ? इत्याह- यतो असंबुद्धोऽज्ञाततत्त्वः सोऽविनीत इत्युच्यते, कूलवालक श्रमणवत्, तथा हि
सूरेरेकस्य शिष्योऽभू-दविनीतोऽतिरोषणः ॥ चुकोप कोपसदनं, शिक्ष्यमाणः स सूरिणा ॥ १ ॥ दक्षया शिक्षया सूरि-स्तथापि तमशिक्षयत् ॥ स तु तामपि मेनेऽन्त - विषाक्तविशिखोपमाम् ॥ २ ॥ हितशिक्षा हि दुष्टानां, नोपकाराय जायते ॥ पयःपानमिवाहीनां, किन्तु स्याद्विषवृद्धये ॥ ३ ॥ नत्वाऽन्यदा सिद्धशैले, जिनानुत्तरतो गुरून् ॥ पेष्टुं दुष्टः स पृष्ठस्थो, गंडशैलमलोठयत् ॥ ४ ॥ शब्दायमानमायान्तं तं च प्रेक्ष्य गुरुर्द्धतम् ॥ पादौ प्रासारयत् प्राज्ञस्ततः सोऽगात्तदन्तरे ॥ ५ ॥ अक्षतांस्ततः सूरिः क्रुद्धस्तेन कुकर्मणा ॥ भावीपातोऽङ्गनायास्ते, रे ! पापेति शशाप तम् ॥ ६ ॥ गुरोर्गिरं मृषाकर्त्तु, क्षुलः क्षुद्रमतिः स तु ॥ गत्वा निर्मानुषारण्ये, तस्थौ गिरिणदीतटे ॥ ७ ॥ स तत्रातापनासेवी, तपस्तेपे सुदुस्तपम् ॥ पारणां चाध्वगादिभ्यो, मासपक्षादिना व्यधात् ॥ ८ ॥ अथायातासु वर्षासु, तरुणांबुदकामुकैः ॥ अपूर्यतार्णवानीतै- नदीवेश्याः पयोधनैः ॥ ९ ॥ एनं कूलंकपाकूलं, निकषासंस्थितं मुनिम् ॥ मानैषीदंवपुरोऽच्धि, दुष्टो वाह इवाटवीम् ॥ १० ॥ इति ध्यात्वा नदीदेव्या, साऽन्यतोऽवाहि वाहिनी ॥ कूलवालक इत्यू - स्ततस्तं संयतं जनाः ॥ ११ ॥ ( युग्मम् )
इतश्च श्रेणिको राजा, पुरे राजगृहेऽभवत् ॥ नंदा च चिल्लणा चास्तां, महिष्यौ तस्य मंजुले ॥ १२ ॥ तत्रा -
Page #6
--------------------------------------------------------------------------
________________
उत्तराध्ययन
प्रथमाध्ययनम् (१)
द्यायाः सुतो जज्ञे-ऽभयोऽन्यस्याः सुनंदनाः॥ कूणिकहल्लविहल्ला-स्त्रयोऽभूवन्मनोहराः॥१३॥ कालाद्या भ्रातरस्तेषां, दशाऽऽसन् भिन्नमातृकाः ॥ मात्रा सत्राऽभयस्तत्रा-ऽऽददे दीक्षां जिनान्तिके ॥ १४ ॥ प्रव्रजती तदा नंदा, ददौ हल्लविहल्लयोः॥ कुंडलद्वितयं देव-दत्तं क्षौमयुगं तथा ॥ १५॥राज्यं ज्येष्ठस्य भावीति, ध्यात्वा राजाप्यदात्तयोः॥ गंधद्वीपं सेचनकं, हारं च त्रिदशार्पितम् ॥ १६ ॥ कूणिकस्ते च कालाद्याः, दुष्टा बवाऽन्यदा नृपम् ॥ विभज्याददिरे राज्यं, राजा त्वजनि कूणिकः ॥ १७ ॥ राज्यादिकं ददौ हारा-दिकं तातोऽनयोः खयम् ॥ इति राज्यविभागं ते, नादुहल्लविहल्लयोः॥१८॥ कारास्थ एव पितरि, विषं भुक्त्वान्यदा मृते ॥ सानुतापो रतिं प्राप, पुरे तत्र न कू४ाणिकः ॥ १९ ॥ वासयित्वा ततोऽन्यत्र, नव्यां चंपाभिधां पुरीम् ॥ उवास वासव इव, महर्द्धिः कूणिको नृपः॥२०॥
हारकुंडलवासोभि-दिव्यैर्भूषितभूघनौ ॥ गंधद्वीपं तमारूढी, सान्तःपुरपरिच्छदौ ॥ २१॥ क्रीडायै प्रत्यहं हल्लविहल्लौ जग्मतुर्नदीम् ॥ तदेति क्रीडयामास, तद्वधूमन्धसिन्धुरः ॥ २२॥ (युग्मम् ) स्कन्धेऽध्यारोपयत्काश्चिच्छुण्डयाऽऽदाय सुन्दरीः ॥ काश्चिन्यवेशयन्मौलौ, काश्चिद्दन्तान्तरेष्वधात् ॥ २३ ॥ उीकृत्य करं काश्चिद्वालिकावद्वियत्यधात् ॥ काश्चिदान्दोलयबोला-मिव शुण्डां विलोलयन् ॥ २४॥ "किंबहुना" ? यथा यथा प्रोचिरे ता-स्तस्मै शस्ताय हस्तिने ॥ विभंगज्ञानवान् सोऽपि, प्रावर्त्तत तथा तथा ॥ २५॥ तच प्रेक्ष्याद्भुतं सर्वो-ऽप्येवं पौरजनो जगौ ॥राज्यश्रीफलभोक्तारा-विमावेव न कुणिकः ॥ २६ ॥ तच पद्मावती राज्ञी, श्रुत्वा
सा॥३॥
Page #7
--------------------------------------------------------------------------
________________
कूणिकभूभुजः । जातामर्षप्रकर्षेति, चिंतयामास चेतसि ॥ २७ ॥दिव्यहारादिना गंध-हस्तिना चामुना विना ॥ राज्यं न राजते प्राज्य-मप्यनाज्यमिवाशनम् ॥ २८ ॥ तत् पत्या सर्वमप्येत-द्राहयिष्ये बलादपि ॥ ध्यात्वेति सा, खमाकूतं, रहो राजे न्यवेदयत् ॥ २९ ॥ भूपोऽवादीदाददानो, भात्रोरपि रमामहम् ॥ काकादपि निकृष्टः स्या, तदलं वार्त्तयानया ॥ ३० ॥ निषिद्धापि नृपेणैवं, नाग्रहं तं मुमोच सा ॥ बालानामिव बालाना-माग्रहो हि भवे-12 बली ॥ ३१॥ प्रपेदे तद्विशामीश-स्तत्प्रेमविवशोऽथ सः॥ अकार्यमपि किं प्रायो, न कुर्वति ? वशावशाः ॥ ३२॥ यदुक्तम्-"सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्त्रिया ॥ स्नेहलं दधि मन्नाति, पश्य मंथानको न किम् ? ॥ ३३ ॥" हारादिकं नृपोऽन्येद्यु-तरौ तावयाचत ॥ विहाय दूरतः स्नेह-मुन्मत्त इव चीवरम् ॥ ३४ ॥ तावूचतुस्तातदत्तं, तदातुं नाईमावयोः ॥ तथापि दद्वहे राजन् ! राज्यांशं चेद्ददासि नौ ॥ ३५ ॥ इत्युक्तः पार्थिवस्ताभ्यां, कषायकलुषोऽवदत् ॥ वात्सल्यादविमृश्यैव, तातेनादायि किं ततः ? ॥ ३५॥ किं चाहति ममैवेदं, सारं रत्नचतुष्टयम् ॥ रत्नानि राजगामिनी-त्युच्यते हि जडैरपि ॥ ३७ ॥ ततस्तद्दीयतां नोचे-द्रहीष्यामि बलादपि ॥ ओमित्युक्त्वा । ततो हल्ल-विहल्लौ जग्मतुहम् ॥ ३८ ॥ दध्यतुश्चेति राज्ञोऽस्य, शोभनो नायमाशयः । वासः ससर्पधाम्नीव, नेह. श्रेयांस्तदावयोः॥ ३९ ॥ ध्यात्वेत्यादाय हारादि, सर्व तौ सपरिच्छदौ ॥ चंपायर्या निशि निर्गत्य, वैशाली जग्मतुः पुरीम् ॥४०॥ मातामहाय तौ तत्र, चेटकाय महीभुजे ॥ सर्व खोदंतमावेद्या-स्थातां तत्कृतगौरवौ ॥४१॥ कूणि-|
Page #8
--------------------------------------------------------------------------
________________
NCR
प्रधमाध्ययनम् (१)
उत्तराध्ययन कस्तूभयभ्रष्ट-तया चिन्ताञ्चितस्ततः॥ वैशाल्यां तौ गतौ ज्ञात्वा, प्रेषीतं वचखिनम् ॥४२॥ गत्वा दूतोऽपि
वैशाली, नत्वा चेटकमित्यवक ॥ राजन् ! कूणिकराजस्त्वां, मया विज्ञपयत्यदः॥४३॥ गजादिरत्नान्यादाया-गता॥४ ॥
विह कुमारको ॥ प्रेषणीयौ द्रुतं पूज्य-स्तुल्यैर्मयि तयोस्तथा ॥४४॥ तौ चेन्नागच्छतस्तर्हि, प्रेष्यं सद्यो द्विपादिकम् ॥ नो चेद्वो भविता भूया-नायासोऽनुशयावहः॥४५॥ अथेति चेटकोऽवोच-दृत ! त्वं ब्रूहि कृणिकम् ॥ तातदत्ता भ्रातृलक्ष्मी-ग्रहीतुं युज्यते न ते ॥४६॥ रक्ष्यते शरणायाताः, किं चान्येऽपि मनखिभिः॥ तौहित्रौ कथंकारं, प्रेषणीयाविमौ मया ॥४७॥ दौहित्रत्वात्समाना मे, भवंतो यद्यपि त्रयः॥ न्यायित्वादाश्रितत्वाच, विशिष्यते तथाऽप्यम् ॥४८॥ सत्यप्येवं दापयामि, द्विपादि तव तुष्टये ॥ ददासि यदि राज्यांश, न्यायोपेतं त्वमेतयोः॥४९॥ तच्चेटकवचो गत्वा, दूतः खखामिनेऽवदत् ॥ क्रोधाध्मातस्ततः सोऽपि, यात्राभंभामवीवदत् ॥५०॥ कालाधैर्दशभिर्युक्तो, भ्रातृभिर्निजसन्निभैः॥ त्रयस्त्रिंशत्सहस्राश्व-रथसिंधुरसंयुतः॥५१॥ त्रयस्त्रिंशत्कोटिपत्ति-क|लितश्चलितस्ततः॥ कृणिकोऽच्छादयत्सैन्यै-भुवं द्यां च रजोभरैः ॥५२॥ (युग्मम् )
ततो युतोऽष्टादशभि-भूपैर्मुकुटधारिभिः ॥ सप्तपंचाशत्सहस्र-रथहस्तिहयान्वितः ॥५३॥ चेटकोऽप्यभ्यगात्ससास-पंचाशत्कोटिपत्तियुक ॥ खदेशसीम्नि सैन्ये च, वार्द्धिव्यूहमचीकरत् ॥५४॥ (युग्मम् )
कूणिकोऽप्यागतस्तत्र, ता_व्यूह व्यधाबले ॥ न्यधाचमूपतित्वे च, कालं कालमिवोत्कटम् ॥५५॥ व्यक्त
॥४॥
Page #9
--------------------------------------------------------------------------
________________
CALLOCALCALMOREASEASON
वीरगणोन्मुक्त-पृषक्ताच्छादितांबरे ॥ आरेभाते रणं भीम-मुभे अपि ततो बले ॥५६॥ निषादिना व्यधायुद्धं, निषादी रथिना रथी ॥ सादिना च समं सादी, पदातिस्तु पदातिना ॥ ५७ ॥ काली जयार्थमुत्तालः, समं चेटकसेनया ॥ युध्यमानस्तदा राज्ञ-श्चेटकस्यान्तिके ययौ ॥ ५८ ॥ दिनं प्रत्येकविशिख-मुक्तिसंधाधरस्ततः ॥ चेटको दिव्यबाणेन,
तं कृतान्तातिथिं व्यधात् ॥ ५९॥ चंपापतेर्बलं शोका-कुलं द्रष्टुमिवाक्षमः ॥ तदा भानुर्जगामास्तं, विशश्राम ततो दरणः ॥६०॥ द्वितीयेऽप्यह्नि सैन्याभ्या-मारब्धे संगरे पुनः ॥ महाकालं कूणिकस्य, सेनान्यं चेटकोऽवधीत् ॥६१॥ | अन्येष्वपि हतेष्वेवं, तेनाष्टवष्टभिर्दिनैः ॥ शोकाक्रान्तोऽशोकचन्द्रः, इति चेतस्यचिन्तयत् ॥ ६२॥ राज्ञोऽस्याऽजानता दिव्यां, शक्तिमतां हहा मया ॥ मुधैव प्रापिताः कालं, कालाद्या भ्रातरो दश ॥ ६३ ॥ तदद्यापि सुरं कंचिदाराध्यामुं जयाम्यरिम् ॥ नो चेद्भविष्याम्यनुग-स्तेषामहमपि द्रुतम् ॥ ६४ ॥ ध्यात्वेति देवताध्याने, स्थितं तं विहिताष्टमम् ॥ प्राग्जन्मसंगतौ शक्र-चमरेंद्रावुपेयतुः॥६५॥किमिच्छसीति जल्पंतौ, तावित्यूचेऽथ कूणिकः ॥ यदि तुष्टौ युवां सद्य-श्चेटको मार्यतां तदा ॥६६॥ ऊचे शक्रः सधर्माणं, चेटकं न हि हन्म्यहम् ॥ करिष्याम्यंगरक्षा
तु, तव भक्तिवशंवदः ॥ ६७॥ महाशिलाकंटकाह्व-रथादिमुशले रणे ॥ चमरेंद्रस्त्वदात्तस्मै, वैरिनिर्जयकारणे ॥६८॥ द्र तत्राद्ये वैरिषु क्षिप्ता-वपि कर्करकंटकौ ॥ महाशिलामहाशस्त्रे, इव स्यातां मृतिप्रदौ ॥ १९॥ युद्धे द्वितीये तु रथ
मुशले भ्रमकं विना ॥ भ्राम्यतः परितो वैरि-पक्षपेषणतत्परे ॥ ७० ॥ ततस्तुष्टो ययौ दुष्टः, कूणिकः समराजिरम् ॥
Page #10
--------------------------------------------------------------------------
________________
в
उत्तराध्ययन । ममंथ वार्धिन्यूह च, मंथाचल इवोदधिम् ॥ ७१ ॥ तमापतंतं संहर्तु, सामर्षश्चेटको नृपः ॥ मुमोचाकर्णमाकृष्य, प्रथमाध्यय
सद्यो दिव्यं शिलीमुखम् ॥ ७२ ॥ कूणिकस्य पुरो वज्र-कवच वज्रभृद्दधौ ॥ पृष्ठे तु लौहं सन्नाहं, तदा तस्यासुरेश्वरः नम् (१) ॥ ७३ ॥ तस्मिन् दिव्ये शरे वज्र-वर्मणा स्खलितेऽन्तरा ॥ भटाश्टकराजस्य, मेनिरे सुकृतक्षयम् ॥ ७४॥ सत्यसंधो द्वितीयं तु, चेटको नामुचच्छरम् ॥ द्वितीयेऽप्यह्नि तद्वाणं, तथैवाऽजनि निष्फलम् ॥ ७५ ॥ आये रणे षण्ण
वति-लक्षा नृणां ययुः क्षयम् ॥ लक्षाश्चतुरशीतिश्च, द्वितीये तु महाहवे ॥ ७६ ॥ तेष्वेको वरुणः श्राद्धो, नागनप्ता लाययो दिवम् ॥ तत्सुहृद्भद्रको नृत्वं, तिर्यक्त्वं नरकं परे ॥ ७७ ॥ इत्यन्वहं जायमाने, समरे सैन्ययोस्तयोः ॥ यात्सुरी
खखपुरं नंष्ट्वा-ऽष्टादशखपि राजसु ॥ ७८ ॥ प्रणश्य चेटकोशो , वैशालीमविशत्पुरीम् ॥ रुरोध सर्वतस्तां च, कुणिकः प्रबलैर्बलैः ॥ ७९ ॥ (युग्मम् ) ४॥ अथ सेचनकारूढौ, कृणिकस्याखिलं बलम् ॥ उपद्दवतुहल-विहल्लौ तौ प्रतिक्षपम् ॥ ८०॥ अवस्कंदप्रदानाया
गतं तं गंधहस्तिनम् ॥ न हंतुमनुगंतुं वा, तत्सैन्ये कोऽप्यभूत् प्रभुः ॥८१॥ तन्मार्गे मंत्रिणां बुद्ध्या, कूणिकोऽची-1 करत्ततः ॥ खातिका ज्वलदंगार-पूर्णा पर्णाद्यवस्तृताम् ॥ ८२॥ रात्रौ तत्रागतः सोऽथ, गजो ज्ञात्वा विभंगतः॥ ज्वलदंगारगती तां, नुन्नोऽपि न पुरोऽचलत् ॥ ८३॥ तावूचतुस्ततः खिन्नौ, कुमाराविति तं द्विपम् ॥ परेभ्यः किं बिभेषि ? त्वं, यत्पुरो न चलस्यरे ! ॥ ८४॥ वरं श्वा पोषितः शश्व-स्वामिनं योऽनुवर्तते ॥कृतघ्नोऽहिरिव खामि
% %%%%%%%%%%%%%%%%%%%EX
R
Page #11
--------------------------------------------------------------------------
________________
कृत्यनाशी भवान्नतु ॥८५॥ इत्युक्तः सिंधुरस्ताभ्यां, खामिभक्तधुरंधरः ॥ गृहीत्वा शुंडया स्कन्धा-त्ती बलेनोदतारयत् ॥ ८६ ॥ खयं तु तस्यां गायां, दत्वा झंपां विपद्य च ॥ आद्येऽगान्नरके धैर्य-महो तस्य पशोरपि ! ॥ ८७॥ तद्वीक्ष्य सानुतापी तौ, कुमाराविति दध्यतुः॥क्रोधान्धाभ्यां धिगावाभ्यां, किमकार्यमिदं कृतम् !॥८८||| कृते यस्य कृतो देश-त्यागो भ्राता रिपृकृतः॥ अस्मिंश्च व्यसनांभोधौ, क्षिप्तो मातामहोऽप्यहो !॥ ८९॥ निहत्य तं गजं युक्तं, नैव जीवितुमावयोः ॥ जीवावश्चेद्वीरदेव-शिष्यीभूयैव नान्यथा ॥९०॥ (युग्मम् )
तदा शासनदेव्या तौ, नीतौ वीरजिनान्तिके ॥ प्रव्रज्यैकादशांगानि, सुधियौ पेठतुः क्रमात् ॥ ९१॥ गुणरत्नं तपस्तत्वा, संलिख्य च समाधिना ॥ हलः सुरो जयंतेऽभू-विहलस्त्वपराजिते ॥१२॥ गृहीतेऽपि व्रते ताभ्यां, पुरीमादातुमक्षमः ॥ व्यधात्संधामित्यशोक-चन्द्रो निस्तन्द्रविक्रमः ॥ ९३॥ खरयुक्तहलैरेनां, नगरी न खनामि चेत् ॥ तदा त्यजाम्यहमसून् , भृगुपातादिना ध्रुवम् ॥९॥ तथापि तां पुरी भक्तु-मनीशे श्रेणिकात्मजे ॥क्रमात् खेदं गते देवी, कापीत्यूचे नभःस्थिता ॥९५॥ “समणे जदि कूलवालए, मागधिअं गणिों गमिस्सए ॥ राया य असोगचंदए, वेसालिं नगलिं गहिस्सए ॥ ९६ ॥” तन्निशम्य नृपस्तुष्ट-स्तां वेश्यामेवमादिशेत् ॥ इहानय पतीकृत्य, भद्रे ! त्वं कूलवालकम् ॥ ९७॥ तत्प्रपद्याभवन्माया-श्राविका सा पणांगना ॥ मुनेः कुतोऽपि तत्रस्थ-मज्ञासीत्तं च संयतम् ॥ ९८॥ तत्रारण्ये ततो गत्वा, तं च नत्वा यथाविधि ॥ इति सा दंभिनी प्रोचे, वचनैरमृतोपमैः॥ ९९ ॥
Page #12
--------------------------------------------------------------------------
________________
प्रथमाध्ययनम् (१)
उत्तराध्ययन दानंतुं तीर्थानि चंपातः, प्रभो ! प्रस्थितया मया ॥ सर्वतीर्थाधिकाः पूज्य- पादा दिष्ट्याऽत्र वन्दिताः ॥१०॥
मत्पाथेयात्तदादाय, भिक्षामनुगृहाण माम् ॥ तयेति सादरं प्रोक्त-स्तत्सार्थे साधुरप्यगात् ॥१॥ तस्यादान्मिश्रि- तद्रव्यान् , सामोदा सापि मोदकान् ॥ तद्भक्षणादतीसार- स्तस्यासीदतिदुस्सहः ॥ २॥ ततः सा तत्र तद्वैयावृत्यदंभेन तस्थुपी ॥ मुहुर्मुनिमुपासर्प-त्सर्पवत्कुटिलाशया ॥३॥ उद्वर्त्तनादिना खांग-स्पर्श चाचीकरन्मुहुः॥ भेषजान्तरदानाच, तमुलाघं व्यधाच्छनैः ॥ ४ ॥ तत्कटाक्षसरागोक्ति-शरीरस्पर्शविभ्रमैः ॥ मुनेर्मनोऽचलत्तस्य, स्त्रीसंगे कनु ? तत्स्थिरम् ॥५॥ त्यक्तव्रतस्ततस्तस्या-मासक्तः सोऽभवत्तथा ॥ यथा तया विना स्थातुं, नाभूत्क्षणमपि प्रभुः ॥६॥ तद्वशः कूणिकोपान्तं, ततोऽगात्कूलवालकः ॥ सत्कृत्य कूणिकोऽप्येव-मब्रवीत्तं मुनिब्रुवम् ॥ ७॥ महा-15 त्मन् ! गृह्यते नेय-मुपायैर्बहुभिः पुरी ॥ ततस्तद्हणोपायं, विधेहि धिषणानिधे ! ॥ ८॥ ततो दैवज्ञवेषेण, वैशाली प्रविवेश सः॥ श्रीसुव्रतार्हतः स्तूपं, भ्रमंस्तत्र ददर्श च ॥९॥ दध्यौ च नूनमस्यास्ति, प्रतिष्ठालग्नमुत्तमम् ॥ अभंगा तन्महिनासौ, नगरी ननु वर्तते ॥ १०॥ कथं मया पातनीय-स्तदसाविति चिंतयन् ॥ अपृच्छयत पुरीरोधाकुलेनेति जनेन सः ॥११॥ वद दैवज्ञ ! वैशाल्या,रोधो यास्यत्यसौ कदा ? ॥ खिन्नाः स्मो यद्वयं कारा-वासेनेवामुना भृशम् ॥ १२॥ मुदितः स ततोऽवादीत् , पापपंकैकशूकरः॥ स्तूपोऽसौ यावदत्र स्या-त्तावदुद्वेष्टनं क्व ? वः॥१३॥ तल्लोकाः ! यद्ययं स्तूपो, युष्माभिः पात्यते द्रुतम् ॥ तदाऽपयाति नियतं, पुरीरोधोऽधुनैव हि॥१४॥प्रोक्तो धूर्तेन
Page #13
--------------------------------------------------------------------------
________________
*****MAXIES SAAAAA*
तेनेति, बालवद्वालिशो जनः ॥ तं स्तूपं भक्तुमारेभे, धूतैः को न हि बंच्यते ॥ १५॥ स्तूपे च भक्तुमारब्धे, गत्वा मागधिकाधिपः॥ सद्योऽपासारयचंपा-धीशं क्रोशद्वयं ततः॥ १६ ॥ ततः स प्रत्ययैर्लोकः, स्तूपे मूलात्प्रपातिते ॥ व्याघुट्य कुणिकोऽविक्षत् , पुरी सबलवाहनः ॥१७॥ तदा चानशनं कृत्वा, स्मृत्वा पंचनमस्क्रियाः॥ चेटको न्यपतत् ६ कूपे, बवाऽयःपुत्रिकां गले ॥१८॥ तदा तत्रासनास्थैर्या-दागत्य धरणाधिपः ॥ साधर्मिकं तमादाय, निनाय भवने |
निजे ॥१९॥ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत्। तत्रस्थः प्राप्य पंचत्वं, चेटकस्त्रिदिवं ययौ॥२०॥ Pइतश्च सुज्येष्ठासूनु-दौहित्रश्चेटकप्रभोः ॥ वैशाल्यामाययौ दैवा-त्तदा सत्यकिखेचरः॥२१॥ मातामहप्रजां सर्वा. लुंख्यमानां स रक्षितुम् ॥ निनाय नीलवत्यद्रौ, द्रुतमुत्पाट्य विद्यया॥ २२॥ कोपाविष्टः कूणिकोऽथ, तां पुरी युक्तरासभैः ॥ खेटयित्वा हलैस्तीर्ण-प्रतिज्ञः स्वपुरीं ययौ ॥२३॥ कूलवालकनामा तु, मृत्वागानरकं कुधीः ॥उद्धृतस्तु ततो-|| ऽनन्ते, संसारे पर्यटिष्यति ॥२४॥ कूलवालकमुनेरिव दुःखा-वाप्तिरेवमविनीतमुनेः स्यात् ॥ धृष्टतां तदपहाय सुशिष्यैः, सगुरोविनय एव विधेयः॥२५॥ इतिकूलवालककथा, इति सूत्रार्थः ॥३॥ अथ दृष्टांतपूर्वकमविनीतस्य दोषमाहमूलम्-जहा सुणी पूइकण्णी, निक्कसिज्जइ सबसो। एवं दुस्सील पडिणीए, मुहरी निक्कसिज्जइ ॥४॥
व्याख्या-यथा शुनी, पूती परिपाकात् कुथितगन्धौ, उपलक्षणत्वात् कृमिकुलाकुलौ च कर्णौ यस्याः सा पूतिकर्णी, निष्काश्यते बहिः कर्ण्यते, 'सवसोत्ति' सर्वेभ्यो गृहांगणादिभ्यो “हत हत" इत्यादिवाक्यैर्लेष्ट्वादिभिश्च, अत्र च शुनीति
Page #14
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥७॥
स्त्रीनिर्देशोऽतीवकुत्सासूचकः, 'पूतिकर्णीति' विशेषणं तु सर्वागकुत्सासूचकम्, उपनयमाह - एवमनेन प्रकारेण दुःशीलो दुष्टाचारः, प्रत्यनीकः प्राग्वत्, मुखरो बहुविधासंबद्धभाषी, निष्काश्यते सर्वतः कुलगणसंघादेर्बहिः क्रियते, इति सूत्रार्थः ॥ ४ ॥ ननु कुतोऽयं ज्ञात्वाप्यनर्थहेतौ दौशील्ये रमते ? पापोपहतमतित्वात्तत्रैवास्य रतिः स्यादेत - | देव दृष्टांतेन दर्शयति
मूलम् - कणकुंडगं चइत्ताणं, विद्वं भुंजइ सूअरे । एवं सीलं चइत्ताणं, दुस्सीले रमई मिए ॥ ५ ॥
व्याख्या - कणास्तंदुलास्तेषां तन्मिश्रो वा कुंडकः कुक्कसः कणकुंडकस्तं त्यक्त्वा विष्टां पुरीषं भुंक्ते, शूकरो गर्त्ताशुकरो यथेति गम्यते, एवमविनीतः शीलं प्रस्तावाच्छोभनमाचारं त्यक्त्वा दुष्टं शीलं दुश्शीलमनाचाररूपं तत्र रमते धृतिमाधत्ते, मृग इव मृगोऽपायानभिज्ञत्वात्, यथा हि मृगो गीताक्षिप्तो मरणापायमपश्यन् व्याधमनुसरति, तथा - ऽयमपि प्रेत्यदुर्गतिपातमपश्यन्निर्विवेको दुःशीले रमते, इति सूत्रार्थः ॥ ५ ॥ उक्तमुपसंहृत्य कृत्यमुपदिशति — | मूलम् - सुणिआभावं साणस्स, सूअरस्स नरस्स य । विणए ठविज अप्पाणं, इच्छंतो हिअमप्पणो ॥ ६ ॥
व्याख्या - श्रुत्वा आकर्ण्य अभावं अशोभनभावं सर्वतो निष्काशनरूपं 'साणस्सत्ति' प्राकृतत्वात् शुन्याः शूकरस्य चोपमानस्य नरस्य चोपमेयस्य विनये स्थापयेदात्मानमात्मनैवेति शेषः, इच्छन् हितमैहिकं पारत्रिकं च आत्मनः,
प्रथम ध्ययनम् (१)
॥ ७ ॥
Page #15
--------------------------------------------------------------------------
________________
विनयादेव हितावाप्तेर्यदुक्तम्- “विणया नाणं नाणाओ, दंसणं दंसणाओ चरणं च ॥ चरणाहिंतो मोक्खो, मोक्खे सुक्खं निराबाहं ॥१॥ इति सूत्रार्थः ॥ ६॥ यतश्चैवं ततः किमित्याहमूलम् तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ। बुद्धपुत्तनिआगट्टी, न निक्कसिज्जइ कण्हुइ॥७॥ | व्याख्या-तस्माद्विनयमेषयेत् , धातूनामनेकार्थत्वात् , कुर्यात् , किं पुनर्विनयस्य फलं ? यदेवमुपदिश्यते, इत्याह शीलं प्रतिलभेत प्राप्नुयात् , यतो विनयात् , अनेन विनयस्य शीलावाप्तिः फलमुक्तं, अथ तस्य किं फलमित्याह-बुद्धानामाचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः साधुः, निश्चितं यजनं नियागः संपूर्णभावस्तवरूपः सर्वसंवरस्तत्फल-13॥ भूतो मोक्षश्च, कारणे कार्योपचारात्तदर्थी सन् न निष्काश्यते 'कण्हुइत्ति' कुतश्चिद्गच्छादेः, किंतु विनीतत्त्वेन सर्वत्र | मुख्य एव क्रियते इति सूत्रार्थः ॥ ७ ॥ कथं पुनर्विनयो विधेय इत्याशयेनाहमूलम्-निसंते सिआ मुहरी, बुद्धाणं अंतिए सया। अजुत्ताणि सिक्खिजा, निरट्टाणि उ वजए ॥८॥
व्याख्या निशान्तो नितरामुपशांतः, अन्तःक्रोधत्यागाद्वहिश्च शान्ताकारत्वात् , स्यात् भवेत् अमुखरः, तथा बुद्धानां आचार्यादीनां अन्तिके समीपे सदा सर्वकालं अर्थयुक्तानि हेयोपादेयार्थवाचकान्यागमवाक्यानि शिक्षेत अभ्यसेत् , निरर्थकानि तद्विपरीतानि तु पुनर्वात्स्यायनादीनि वर्जयेत् परिहरेदिति सूत्रार्थः ॥८॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्याहमलम्-अणुसासिओ न कुप्पिज्जा, खंतिं सेविज पंडिए। खुड्डेहिं सह संसग्गिं,हासं कीडं च वजए॥९॥
Page #16
--------------------------------------------------------------------------
________________
ला
प्रथमाध्ययउत्तराध्ययन | व्याख्या-अनुशिष्टः कदाचित् परुपोक्त्यापि, शिक्षितो न कुप्येत् न कोपं कुर्यात् । तर्हि किं कुर्यादित्याह
नम् (१) क्षान्ति परुषभाषणादिसहनात्मिकां सेवेत, पंडितो बुद्धिमान् , तथा 'खुडेहिति' क्षुदैर्वालैः शीलहीनः पार्थस्थादिभिर्वा सह समं 'संसम्गिति' संसर्ग परिचयं, हासं हसनं, क्रीडां च अन्त्याक्षरिकाप्रहेलिकादानादिकां वर्जयेत् , कागमविरुद्धत्वाद्गुरुकर्मबंधहेतुत्वाचैषामिति सूत्रार्थः ॥९॥ पुनरन्यथा विनयमेवाहमलम-माय चंडालिअंकासी, बहअं मा य आलवे।कालेण य अहिज्जित्ता, तओझाएज एगगो॥१०॥
व्याख्या-मा निषेधे, चः समुच्चये, चंडः क्रोधस्तदशादलीकमनृतभाषणं माकाKाविधाः। लोभालीकाद्यपलक्षणं चैतत् । तथा बहु एव बहुकं अपरिमितं आलजालरूपं स्वीकथादिकं मा च आलपेद्भाषेत, बहुभाषणात्स्वाध्याया-16 दिकार्यानिवातक्षोभादिसंभवात् । किं तर्हि कुर्यादित्याह-कालेन प्रथमपौरुष्यादिलक्षणेन, चः पुनरर्थे, अधीत्य पठि-1* त्या पुच्छाद्यपलक्षणं चैतत् , ततोऽध्ययनाद्यनन्तरं ध्यायेचिन्तयेदेकको भावतो रागादिरहितो द्रव्यतो विविक्तवसत्यादी स्थित इति सूत्रार्थः ॥ १०॥ इत्थमकार्यनिषेधः कार्वविधिश्चोक्तः, अथ कदाचिदेतद्वयत्यये किं कार्यमित्याहमूलम्-आहच्च चंडालिअंकद्दु, न निण्हविज कयाइवि। कडं कडित्ति भासिज्जा, अकडंणो कडित्ति अ॥११॥
व्याख्या-'आहच्च' कदाचिचंडालीकं पूर्वोक्तं कृत्वा न निढुवीत मया न कृतमिति नापलपेत् , कदाचिदपि यदा परैर्न ज्ञातस्तदापीत्यर्थः । किं तर्हि कुर्यादित्याह-कृतं विहितं चंडालीकादि कृतमेव भाषेत, न तु भयलज्जादिभिरकृ-15
SANAAARRER
Page #17
--------------------------------------------------------------------------
________________
B
AASIAS
तमिति । तथा अकृतं चंडालीकादि नो कृतमिति अकृतमेव भाषेत, न तु मायोपरोधादिना अकृतमपि कृतमिति वदेत् , मृषावादादिदोषसंभवात् । अयं चात्राऽभिप्रायः-कथंचिदतिचारोत्पत्तौ लज्जाद्यकुर्वन् गुरुपार्श्वमागत्य-"जह बालो जप्पंतो, कजमकजं च उजु भणइ ॥तं तह आलोएज्जा, मायामयविप्पमुक्को उ॥१॥” इत्याद्यागममनुसरन् यथावत् शल्यमालोचयेदिति सूत्रार्थः ॥११॥अथ यदैव गुरुर्वक्ति तदैव प्रवृत्तिनिवृत्ती कर्त्तव्ये इत्याशंका निराकर्तुमाह
मूलम् मा गलिअस्सुव कसं, वयणमिच्छे पुणो पुणो। कसंव दटुमाइण्णे, पावगं परिवज्जए ॥ १२॥3 RI व्याख्या-मा निषेधे गल्यश्च इव अविनीतवाजीव कशां कशाप्रहारं वचनं प्रवृत्तिनिवृत्तिविषयं उपदेशं गुरूणामिच्छेदभिलपेत् पुनः पुनारं वारं । अयं भावः-यथा गलिरश्वः कशाप्रहारं विना न प्रवर्तते निवर्त्तते वा, नैवं सुशि
येणापि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्ष्यं, किंतु 'कसं वेत्यादि'-कशां चर्मयष्टिं दृष्ट्वा आकीर्ण इव विनीताश्च 18|इव प्रक्रमात् सुशिष्यो गुरोराकारादिकं दृष्ट्वा पापकं अशुभानुष्ठानं परिवजयेत् सर्वप्रकारैस्त्यजेत्, उपलक्षणत्वात्
शुभानुष्ठानं च कुर्यात् । अयमाशयः- यथा आकीर्णोऽश्वः कषाग्रहणादिना आरोहकाभिप्रायं ज्ञात्वा कशयाऽस्पृष्ट एव तदाशयानुरूपं चेष्टते तथा सुशिष्योऽप्याकाराधैराचार्याशयं ज्ञात्वा वचनेनाप्रेरित एव सर्वकृत्येषु प्रवर्तते, माभूदरोवचनायास इति सूत्रार्थः ॥ १२॥ गल्याकीर्णकल्पशिष्ययोर्दोषगुणावाह
ISSAUSASAASAASAS
Page #18
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ९ ॥
*
मूलम् - अणासवा थूलवया कुसीला, मिउंपि चंडं पकरंति सीसा । चित्ताणुआ लहु दक्खोववेआ, पसायए ते हु दुरासयंपि ॥ १३ ॥
व्याख्या - अनाश्रवा गुरुवचस्यस्थिताः, स्थूलवचसोऽविचारितभाषिणः, कुशीलाः कुत्सिताचाराः, मृदुमपि अकोपनमपि गुरुं चंडं प्रकुर्वेति, प्रकर्षेण विदधति शिष्याः, ये पुनश्चित्तानुगा गुरुमनोऽनुवर्त्तिनः लघु शीघ्रं दाक्ष्योपपता अविलंबितकारित्वयुक्ताश्च भवंति, अत्र 'उप, अप, इत' इति शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे च | उपपेत इति सिद्धम् । ते शिष्याः प्रसादयेयुः प्रसन्नं कुर्युः, हुः पुनरर्थे, दुराशयमपि अतिकोपनमपि प्रस्तावागुरुं, किं पुनरनुत्कटकषायमिति, अत्रोदाहरणं चंडरुद्राचार्यशिष्यः, तत्कथासंप्रदायश्चायम् —
,
उज्जयिन्यां पुरि नात्रो -द्याने नंदनसन्निभे । चंडरुद्राभिधः सूरिः सगच्छः समवासरत् ॥ १ ॥ ऊनाधिकक्रियादोषान्, स्वगच्छीयतपस्विनाम् ॥ दर्श दर्श स चाकुप्यत् प्रकृत्याप्यतिरोषणः ॥ २ ॥ भूयसां वारणं ह्येषां मयैकेनातिदुष्करम् ॥ परं रोषातिरेकान्मे, स्वहितं न हि जायते ॥ ३ ॥ ध्यात्वेति सूरिरेकांते, तस्थौ सद्ध्यानहेतवे । तप्तिं विहाय शिष्याणां स्वाध्यायध्यानतत्परः ॥ ४ ॥ [ युग्मम् ] इतश्चोजयिनीवासी, व्यवहारिसुतो युवा ॥ आगात्कुंकुमलिप्तांगो, नवोढस्तत्र मित्रयुक् ॥ ५ ॥ साधून् दृष्ट्वा परीहास - पूर्वकं तान् प्रणम्य च ॥ सोऽवादीद्भगवंतो मे, धर्म त सुखाकरम् ॥ ६ ॥ वैहासिकोऽयमिति ते, ज्ञात्वा नो किंचिदूचिरे ॥ ततो भूयः स निर्यथान्, सोपहास
प्रथमाध्यय
नम् (१)
॥ ९ ॥
Page #19
--------------------------------------------------------------------------
________________
मभाषत ॥७॥ दौर्भाग्याद्भार्यया त्यक्तो, विरक्तोऽहं गृहाश्रमात् ॥ तत् प्रसद्य भवांभोधि- तारकं दत्त मे व्रतम् ॥८॥ धूर्तः प्रतारयत्यस्मा-नर्मवाक्यैर्मुहुर्मुहुः ॥ तघृष्यतामसी सम्यक्, चिंतयित्वेति ते जगुः ॥ ९ ॥ गुरोरधीना न वयं, स्वयं दीक्षादि दद्महे ॥ तदाश्रय व्रताय त्व-मस्मद्गुरुमितः स्थितम् ॥ १०॥ श्रुत्वेति सवयस्योऽथ, सोऽब्रजसूरिसन्निधौ ॥ अब्रवीत्तं च वंदित्वा, सोपहासं कृतांजलिः ॥ ११॥ गृहव्यापारतो भग्नो, लग्नोऽस्मि त्वत्पदाजयोः॥ तत्प्रव्राजय मां खामि-स्तिष्ठामि ससुखं यथा ॥ १२ ॥ सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः ॥ सरिजंगी व्रतेच्छुश्चे-त्तदा भस्मानय द्रुतम् ॥ १३ ॥ ततस्तत्सुहृदैकेना-नीते भस्मनि साधुराट् ॥ तं गृहीत्वा खबाहुभ्यां,
लोचं कृत्वा ददौ व्रतम् ॥ १४ ॥ तद्विलोक्य विषण्णास्त-द्वयस्यास्तमथाभ्यधुः ॥ मित्र ! सद्यः पलायस्व, धाम यामो ४ लवयं यथा ॥ १५ ॥ आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिंतयत् ॥ कथं गच्छाम्यहं गेहं, स्ववाचा स्वीकृतव्रतः॥१६॥
प्रमादसंगतेनापि, या वाक् प्रोक्ता मनखिना ॥ सा कथं दृपदुत्कीर्णा-क्षरालीवाऽन्यथा भवेत् ॥ १७॥ नर्मणापि मया लब्धं, रक्षणीयं ततो व्रतम् ॥ जहाति घुमणिं को हि, विनायासमुपस्थितम् ॥ १८ ॥ ध्यात्वेति भावसाधुत्वं, स सुधीः प्रत्यपद्यत ॥ यथास्थानं ततो जग्मु- स्तद्वयस्था विषादिनः ॥ १९ ॥ विनेयोऽथावदत्सूरिं, भगवन् ! बंधवो मम ॥ श्रामण्यं मोचयिष्यंति, तद्यामोऽन्यत्र कुत्रचित् ॥ २०॥ गच्छो महानसौ गच्छन्, प्रच्छन्नमपि यजनैः॥ ज्ञायते तद् द्वयोरेवा-ऽऽवयोर्गमनमर्हति ॥ २१ ॥ सूरिः प्रोवाच यद्येवं, तदाऽध्वानं विलोकय ॥ यथा रजन्यां
Page #20
--------------------------------------------------------------------------
________________
उत्तराध्ययन
प्रथमाध्यय
नम् (१)
॥१०॥
गच्छामः, सोऽप्यालोक्य तमाययौ ॥ २२ ॥ प्रतस्थेऽथ निशीथिन्यां, सूरिनूतनशिष्ययुक् ॥ पुरो याहीति गरुणा. चोक्तः शिष्यो ययौ पुरः ॥ २३॥ अपश्यन्निशि वृद्धत्वात्, स्थाणुना स्खलितो गुरुः ॥ वेदनाविहलो जजे. ज्वलद्रोषभराकुलः ॥ २४ ॥ हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन् , दंडेन शिष्यं शिरसि, कृतलोचे जघान सः॥ २५॥ तत्प्रहारस्फुटन्मौलि-निर्गच्छद्रुधिरोऽपि सः ॥न व्यब्रवीनाप्यकुप्यत्, प्रत्युतैवमचिंतयत् ॥ २६ ॥ खगच्छमध्ये ससुखं, तिष्ठंतोऽमी महाशयाः ॥ अधन्येन मया दुःख-भाजनं विहिता हहा ! ॥ २७॥ आजन्मसौ-1 ख्यदाः शिष्या, गुरोः स्युः कोऽपि धीधनाः ॥ आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ॥ २८ ॥ स्थावादिना गुरोः पीडा, माभूयोऽपि भूयसी ॥ ध्यायन्निति प्रयत्नेन, स चचाल शनैः शनैः ॥ २९॥ तस्यैवं व्रजतः शुद्धा-शयस्य समतानिधेः॥ महात्मनः समुत्पदे, निशायामेव केवलम् ॥ ३० ॥ अथ प्रभाते संजाते-ऽभ्युदिते च दिवाकरे ॥ सूरिणा ददृशे शिष्यो, रुधिरालिप्समस्तकः ॥ ३१॥ ततः शांतरसाचांत-खांतः सूरिचिंतयत् ॥ अहो ! नवीनशिष्यस्या-ऽप्यमुष्य शांतिरुत्तमा ॥ ३२ ॥ क्रोधाध्मातेन मयका, दंडेनैवं हतोऽपि यत् ॥ नातनोद्वाङ्मनोदेहै- वैगुण्यं किंचिदप्यसौ ॥ ३३ ॥ चिरप्रजितस्यापि, रोषदोषांश्च जानतः ॥ प्राप्ताचार्यपदस्थापि, धिग्मे प्रबलकोपताम्! ॥ ३४ ॥ इयचिरं सुदुष्पालं, पालितं मयका व्रतम् ॥ परं तनिष्फलं जज्ञे, कोपात्तन्मेऽमुना कृतम्॥३५॥ भावनाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनींद्रः ॥ एवमुत्कटरुषोऽपि गुरोः स्यु-र्मोक्षदाः सविनयाः
RESSLCUSTORECORDSMS
Page #21
--------------------------------------------------------------------------
________________
सुविनेयाः ॥ ३६ ॥ इति श्रीचंडरुद्राचार्यकथा ॥ इति सूत्रार्थः ॥ १३ ॥ अथ गुरुचित्तानुवृत्तेरुपायमाहमूलम्-नापुट्टो वागरे किंचि, पुट्ठो वा नालिअंवदे॥कोहं असच्चं कुव्विज्जा,धारिजा पिअमप्पिअं ॥१४॥ __व्याख्या-नापृष्टः कथमिदमित्यादि गुरुणाऽजल्पितः व्यागृणीयाद्वदेत्तादृशकारणं विना, किंचित् स्तोकमपि, 3 पृष्टो वा नालीकमनृतं वदेत् , कारणांतरेण च गुरुभिर्निर्भसितोऽपि न तावत्कुप्येत्, कथंचिदुत्पन्नं तु क्रोधमसत्यं तदुत्थविकल्पविफलीकरणेन कुर्वीत विदध्यात् । क्रोधासत्यत्वकरणे चायं दृष्टांतः- तथाहि कुत्रचिद्रामे, कुलपुत्रस्य कस्यचित् ॥ सोदरः प्रत्यनीकेन, निन्ये यमनिकेतनम् ॥ १॥ ततस्तजननी प्रोचे, तमिति प्रत्यहं मुहुः ॥ प्रभविश्नुरपि भ्रातृ-घातक हंसि नो कुतः? ॥ २॥ बलिनो बलसायंते, वैरशुद्ध्यै न कर्हिचित् ॥ न विपक्षमुपेक्षन्ते, पन्नगा अपि मानिनः ! ॥३॥ तदाकर्ण्य सरोषेण, तेन पौरुषशालिना ॥ जीवग्राहं प्रगृह्यारि-रानिन्ये मातुरन्तिकम् ॥४॥ प्रोक्तश्चारे ! भ्रातृघातिन् !, कथं त्वा मारयाम्यहम् ? ॥ ततः स प्रांजलिः प्रोचे, कृपाणं प्रेक्ष्य कंपितः॥५॥ हन्यंते शरणायाता, यथा त्वं मां तथा जहि ॥ सदैन्यमिति तेनोक्ते, स मातुर्मुखमैक्ष्यत ॥ ६॥ सापि तं दीनतां प्राप्त, प्रेक्ष्योत्पन्न कृपाऽलपत् ॥ आर्यैः पुत्र! न मार्यते, कदापि शरणागताः॥७॥ यतः-"शरणागतविस्रब्ध-प्रणतव्यसनार्दितान् ॥ रोगिणः पंगुमुख्यांश्च, नैव नंति महाशयाः! ॥८॥” पुत्रः प्रोवाच मातर्मे, रोषः स्यात्सफलः कथम्?॥ सर्वत्र सफलः कोपो, न कार्य इति साप्यवक् ॥९॥ इति मातृगिरा जातो- पशान्तिस्तं मुमोच सः॥ तौ नत्वा
Page #22
--------------------------------------------------------------------------
________________
प्रथमाध्यय
उत्तराध्ययन क्षमयित्वा च, खागः सोऽपि गृहं ययौ ॥१०॥ मातृवाक्यमधिगम्य यथासौ, मोघमेव विदधे किल कोपम् ॥ तद्
नम् (१) &ादेव भजता जिनवाणी, साधुनापि विफलः स विधेयः ॥ ११ ॥ इति क्रोधासत्यीकरणे कुलपुत्रकथा ॥ ॥११॥
तथा 'धारिजत्ति' धारयेत् समतयाऽवधारयेत् , प्रियं प्रीत्युत्पादकं स्तुत्यादि, अप्रियं च तद्विपरीतं निन्दादि, न तयो राग द्वेषं वा कुर्यादित्यर्थः, उदाहरणं चात्र तृतीयभूतस्य, तथाहि
पुरे कस्मिंश्चिदशिवे, समुत्पन्नेऽतिदारुणे ॥ अमंदमांद्यपीडाभि-विद्रुते चाखिले जने ॥ १॥ तच्छान्तये च भूपेन, डिंडिमे वादिते सति ॥ भूभुजोऽभ्यर्णमभ्येत्य, जगदुर्मात्रिकास्त्रयः ॥२॥ [युग्मम् ] शमयामो वयं खामि-नशिवं भवदाज्ञया ॥ नृपोऽजल्पदुपायेन, केनेति ब्रूत मांत्रिकाः!॥३॥ तेष्वेकोऽथाब्रवीद्रूपं, पृथ्वीनाथावधार्यताम् ॥ मंत्रसिद्धं ममास्त्येकं, भूतं सद्यः शिवंकरम् ॥४॥ तच्चातिरुचिरं रूपं, विकृत्य पुरि पर्यटत् ॥ न वीक्षणीयं दृष्टं तु, द्रष्टारं हन्ति कोपतः॥५॥ तत्प्रेक्ष्याधोमुखं तिष्ठे-धोऽसौ रोगैर्विमुच्यते ॥ तदाकर्ण्य जगौ राजा, चंडेनानेन नः || कृतम् ! ॥६॥ अथावादीद्भूतवादी, द्वितीयोऽवनिवल्लभम् ॥ मंत्रसिद्धं ममाप्यस्ति, भूतं नूतनशक्तियुक् ॥७॥ तचा
ID॥११॥ तिलंबविस्तीर्ण-कुक्षिकं पंचमस्तकम् ॥ एकक्रमं शिखाहीनं, बीभत्सं श्यामलं महत् ॥ ८॥ गायनरीनृतन्मुंच-| दट्टहासान् पदे पदे ॥ रूपं विधाय सकले, पुरे भ्रमति सर्वतः ॥९॥ [युग्मम् ] तद्वीक्ष्योपहसेत्सम्यक्, प्रविलोकेत, वा न यः॥ दूषयेद्यश्च तन्मौलि-द्रुतं भिद्येत सप्तधा ॥ १०॥ यस्त्वर्चयति पुष्पाद्यैः, सद्वाक्यैः श्लाघते च तत् ॥
Page #23
--------------------------------------------------------------------------
________________
गदास्तस्य विलीयंते, वातोद्भूता इवांबुदाः ॥ ११॥ तन्निशम्याभ्यधाद्भूमा-नस्माकममुनाप्यलम् ॥ तृतीयोऽथावद
द्राज-नस्ति भूतं ममापि हि ॥ १२॥ कुरूपमपि तन्नैव, कदाचिदपि कुप्यति ॥ प्रियाप्रियकृतोर्हन्ति, दृष्टमेवा Aऽमयांस्तथा॥ १३॥ ततो राज्ञा प्रदत्ताज्ञः, स मांत्रिकशिरोमणिः॥ अशिवोपशमं चक्रे, तत् पर्याट्याऽखिले पुरे॥१४॥
ततोऽसावशिवध्वंस-मोदिना मेदिनीभृता ॥ अपूजि वस्त्रभूषायै-लोकैश्च सकलैरपि ॥ १५॥ एवं विमुण्डशिरसं मलदिग्धदेहं, द्विष्टो हि गर्हति मुनि सुजनस्तु नौति ॥ सत्साधुना समदृशान्तिमभूतवत्तत्, सोढव्यमेव सकलं प्रियमप्रियं च ॥ १६ ॥ इति प्रियाप्रियसमत्वे तृतीयभूतकथा; इति सूत्रार्थः ॥ १४ ॥ ननु कोपाद्यसत्यकरणादिना कि-3 मात्मन एव दमनमुपदिश्यते ? न परस्येत्यत्रोच्यते
मूलम्-अप्पा चेव दमेअबो, अप्पा हु खलु दुइमो॥अप्पा दंतो सुही होइ, आस्सिं लोए परत्थ य ॥१५॥ BI व्याख्या-'अप्पा चेवत्ति' आत्मैव दमितव्यो मनोज्ञामनोज्ञविषयेषु रागद्वेषत्यागेन उपशमं नेतव्यः, कुतश्चैव
मुपदिश्यते ? इत्याह 'अप्पा हुत्ति' आत्मैव खलु यस्माहुईमो दुर्जयः, अत एवात्मदमनमेवोपदिश्यते इति भावः ।। किं पुनरात्मदमने फलमित्याह-आत्मा दान्तः सुखी भवति अस्मिन् लोके इह भवे, परत्र च परभवे, यतो दान्तात्मानो महर्षय इहैव देवैरपि पूज्यन्ते, परत्र मोक्षं च साधयन्ति, अदान्तात्मानस्तु चौरपारदारिकादय इहैव विनश्यन्ति, परत्र च दुर्गतिपातादि प्राप्नुवन्ति । तत्र चायमुदाहरणसंप्रदायः, तथाहि
Page #24
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १२ ॥
सन्निवेशे क्वाप्यभूतां, चौरेशौ द्वौ सहोदरौ ॥ आजग्मुर्मुनयस्तत्रा - ऽन्यदा सार्थेन संयुताः ॥ १ ॥ धारासारैः सुधासारैर्भुवमुच्छासयन् भृशम् ॥ तदैव विश्वजीवातुः प्रादुरासीत् घनागमः ॥ २ ॥ युक्तं वर्षासु नास्माकं, विहर्त्तुमाधवः ॥ वसतिं याचितुं चौर - पत्योः पार्श्व तयोर्ययुः ॥ ३ ॥ ततस्तद्दर्शनोद्भुत - प्रमोदौ तौ प्रणम्य तान् ॥ भन्यौ पप्रच्छतुः पूज्याः ! कं हेतुं यूयमागताः ? ॥ ४ ॥ अभ्यधुः साधवोऽस्माकं बिहारो जलदागमे ॥ न कल्पते ततो दत्त, वर्षायोग्यमुपाश्रयम् ॥ ५ ॥ दत्वाथ वसतिं तेषां तौ व्यजिज्ञपतामिति ॥ ग्राद्यमस्मद्गृहेष्वेव, युष्माभिरशनादिकम् ॥ ६ ॥ तेऽभ्यधुर्धानि नैकस्मिन्, भिक्षामादद्महे वयम् ॥ किन्तु माधुकरीं वृत्तिं कुर्मः सर्वेषु वेश्मसु ॥७॥ युवाभ्यां तु महाभागौ, वसतेरेव दानतः ॥ उपार्जितं महत्पुण्यं, सकलक्लेशनाशकम् ॥ ८ ॥ यतः - “उपाश्रयो येन दत्तो, मुनीनां गुणशालिनाम् ॥ तेन ज्ञानाद्युपष्टंभ - दायिना प्रददे न किम् ? ॥ ९ ॥ सुरार्द्धिः सुकुलोत्पत्ति- भोगलब्धिश्च जायते ॥ साधूनां स्थानदानेन, क्रमान्मोक्षश्च लभ्यते ॥ १० ॥ " इत्याकर्ण्य विशेषात्तौ, संतुष्टौ भेजतुयतीन् ॥ तस्थुस्तत्र चतुर्मासीं मुनयोऽपि यथासुखम् ॥ ११ ॥ चतुर्मास्यां च पूर्णायां, निर्ग्रन्था विजिहीर्षवः, इत्यभापन्त तावन्य- व्रतमादातुमक्षमौ ॥ १२ ॥ सन्तौ भवन्तौ कुरुतां, रात्रौ भोजनवर्जनम् ॥ अत्रामुत्र च यद्दोषा, भूयां सः स्युर्निशाशने ॥ १३॥ यदाहु:- "मेधां पिपीलिका हंति, यूका कुर्याज्जलोदरम् ॥ कुरुते मक्षिका वांतिं कुष्टरोगं च कोलिकः ॥ १४ ॥ कंटको दारुखंड च, वितनोति गलव्यथाम् || व्यंजनांतर्निपतित-स्तालु विध्यति वृश्चिकः ॥ १५ ॥
प्रथमाध्यय
नम् (१)
॥ १२ ॥
Page #25
--------------------------------------------------------------------------
________________
5/ विलमस्तु गले वालः, खरभंगाय जायते ॥ इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ॥ १६ ॥ उलूककाकमार्जार-3
राप्रशंबरशूकराः ॥ अहिवृश्चिकगोधाश्च, जायते रात्रिभोजनात् ॥ १७ ॥ वाचंयमानां तौ वाच-मित्याकर्ण्य वितेहै नतुः ॥ निशाहारपरिहारं, विजहुः साधवोऽप्यथ॥१८॥ ततस्तौ तद्रुतं सम्यक्, पालयामासतुर्मुदा ॥ जग्मतुश्चान्यदा
चौर्य-कृते चौरज्जैवृतौ ॥ १९ ॥ बहु गोमाहिषं लात्वा, वलितास्तेऽथ दस्यवः ॥ अध्वन्येवाशनायतो, महिषं । जनुरेककम् ॥ २०॥ तन्मांसमेके संस्कर्तु-मारभंताऽपरे पुनः । ग्राममेकं समीपस्थं, मद्यार्थ जग्मुरुन्मदाः ॥२१॥ मथ ते पलपक्तारो, लोभेनेति व्यचिंतयन् ॥ हालाहेतोगतान् हन्तु-मुपायं कुर्महे वयम् ॥ २२ ॥ भागेऽस्माकं यथाऽऽयाति, प्रभूतं धेनुमाहिषम् ॥ ते विमृश्येति तद्भोज्ये, पिशिते चिक्षिपुर्विषम् ॥ २३ ॥ दैवात्तथैव सञ्चिन्त्य, प्राममध्यगता अपि ॥ क्षिप्त्वा हालाहलं हाला-दले तत्पार्थमाययुः ॥२४॥ तदा च वसुपूर्णोऽपि, प्राप्तपूर्वोदयोऽपि हि ॥ वारुणीसेवया सद्यो, ययावस्तं गभस्तिमान् ॥ २५ ॥ ततोऽन्यः साग्रहं प्रोक्ता-वपि तौ सोदरौ तदा ॥ प्रतभंगभयान्नैवा-भुजातां सत्वशालिनौ ॥ २६ ॥ अन्ये त्वन्योन्यदत्तेन, मधेन पिशितेन च ॥ विषयुक्तेन मुक्तेन, मृत्वा दुर्गतिमैयरुः ॥ २७॥ ततस्तान्निधनं प्राप्ता-निरिक्ष्य निखिलानपि ॥ इत्यचिंतयतां चित्ते, तावुभौ खीकृतप्रतौ ॥ २८ ॥ नूनं हालाहलालीढे, मद्यमांसे बभूवतुः ॥ एतेषामन्यथा कस्मा-दकस्मान्मरणं भवेत् ॥ २९ ॥ भावयो भविष्यच्चे-निशाभुक्तिवतं हितम् ॥ आवामप्यतदाहारा-त्तत्प्राप्स्यावो दशामिमाम् ॥ ३०॥ महोपका
4444
Page #26
--------------------------------------------------------------------------
________________
उत्तराध्ययन / रिणो नूनं, ज्ञानिनस्ते महर्षयः॥ प्रत्याख्यानमिदं दत्त-मावयोर्यैः शुभावहम् ॥ ३१ ॥ ध्यायंताविति धेन्वादि, प्रथमाध्यय.
तावादाय गृहं गतौ ॥ अभूतां सुखिनौ धर्म-कर्मणाऽत्र परत्र च ॥ ३२ ॥ इत्थं रसज्ञादमनादपीमा-वविन्दतां | नम् (१) ॥१३॥
दस्युपती सुखानि ॥ सर्वात्मना खं दमयंस्तु सौख्यं, यदनुते किं किल तत्र वाच्यम् ॥ ३३॥ इत्यात्मदमने भ्रातद्वयकथा, तदेवमात्मा दांतः सुखी भवतीति सूत्रार्थः ॥ १५॥ किं पुनर्विचिंत्यात्मानं दमयेदित्याहमूलम्-वरि मे अप्पा दंतो, संजमेण तवेण य । माहं परेहिं दम्मंतो, बंधणेहिं वहेहि अ॥ १६ ॥ ___ व्याख्या-वरं प्रधान, मे मया आत्मा जीवस्तदाधारभूतः कायोवा, दांतो दमं ग्राहितोऽसंयमचेष्टातो व्यावर्तितः, केनेत्याह-संयमेन पंचावविरमणादिना, तपसा चानशनादिना, मा अहं परैरन्यैः 'दम्मंतोत्ति' आपत्वाइमितः खेदितः, कैरित्याह-बंधनैर्ऋधादिरचितैर्मयूरबंधाधैः, वधैश्च लकुटादिताडनैः ॥ उदाहरणं चात्र सेचनकहस्ती
तथाटव्यामेकरयां, हस्तियूथमभून्महत् ॥ तत्सामी च बभूवैकः, सिंधुरो भूधरोपमः ॥१॥प्रवृद्धः कलभः कोऽपि, माहन्मामिति चिंतयन् ॥ बालद्विपान् जातमात्रा-नवधीत्स तु दुष्टधीः ॥२॥ ततः सगर्भा करिणी, तस्य काचिदचिंतयत् ॥ भविता कलभश्चेन्मे, तं हनिष्यति यूथपः ॥ ३॥ तस्मात्तद्रक्षणोपायं, करोमीति विमृश्य
॥१३॥ सा॥ खजायमाना दंभेन, शनैथादपासरत् ॥ ४॥ प्रतीक्षमाणं यूथेशं, घटीप्रहर वासरैः॥ द्विवैर्मिलंती सा तस्य, विसंभं चोदपादयत् ॥ ५॥ प्रसूतिकाले त्वासन्ने-अपश्यत्सा कश्चिदाश्रमम् ॥ सुषुवे च तमाश्रित्य, विश्वस्ता कलभं
Page #27
--------------------------------------------------------------------------
________________
***
शुभम् ॥६॥ यूथे गत्वाऽथ यूथेशं, वंचयित्वा च सा मुहुः। तमाश्रमं समागत्य, खनंदनमदीधयत् ॥७॥ मुग्धत्वमधुराकार, कलमं मुनयोऽपि तम् ॥ सलीलं लालयामासुः, खपुत्रमिव वत्सलाः॥८॥ शुण्डामापूर्य सकलः कलभोऽपि सः॥ सहर्षिपुत्रकैः सेकं, चकाराश्रमभूरुहान् ॥९॥ तं सेचनकनामानं, तापसाः प्रोचिरे ततः॥ क्रमाच यौवनं प्राप्तः, सोऽभूत्प्राज्यपराक्रमः ॥१०॥ अटन्नटव्यां तबूथं, द्विपः सोऽपश्यदन्यदा ॥ अरीरमञ्च |संजाता-नुरागास्तत्करेणुकाः॥ ११॥ तं दृष्ट्वाऽमर्षणो यूथ-नाथस्तं प्रत्यधावत ॥ वृद्धं निहत्य तं यूथ-खामी सेचनकोऽभवत् ॥ १२॥ अन्यापि काचित्करिणी, कलभं रक्षितुं निजम् ॥ उपायं मम मातेव, माकार्षीदितिचिंतयन् ॥ १३॥ कृतघ्नः सगजोऽभांक्षी-न्मक्षु तं तापसाश्रमम् ॥भजन्ति खाश्रयं दन्ता-बलाः प्रायः खला इव ॥ १४ ॥ [युग्मम् ] अस्माभिः पोषितेनाऽपि, द्विपेनाऽनेन हा! वयम् ॥ उपद्रुतास्तकिमपि, दर्शयामोऽस्य तत्फलम् ॥१५॥ ध्यात्वेति तापसाः कोपा-दत्वा श्रेणिकभूभृते ॥ पुष्पादिप्राभृतभृतो, विज्ञा व्यज्ञपयन्निदम् ॥ १६ ॥ [ युग्मम् ] प्रभो ! सेचनकाह्वानः, सर्वलक्षणलक्षितः ॥ भद्रजातिवनेऽस्माकं, विद्यते गन्धसिन्धुरः ॥ १७ ॥ पृथिव्यां रत्नभूतोऽयं, तवैवाऽर्हति भूपते ! ॥ श्रुत्वेति सैन्ययुक् राजा, तं ग्रहितुमगाद्वनम् ॥ १८ ॥ उपायैर्भूरिभिर्भूप-स्तं गृहीत्वाथ दंतिनम् ॥ आनीय खपुरेऽबधा-दालाने शृंखलागणैः ॥ १९ ॥ ततः स्वीयवशायूथ-वियोगातुरचेतसम् ॥ अरुन्तुदैवचोभिस्तं, निनिंदुरिति तापसाः॥ २०॥रे! कृतघ्न ! क? तबीय, शौण्डीय चाधुना तव ॥ फलमस्मद
453
Page #28
--------------------------------------------------------------------------
________________
उत्तराध्ययन वज्ञाया, इदमाजन्म भुज्यताम् ! ॥ २१॥ निशम्येति क्षतक्षार-क्षेपकल्पां स तद्गिरम् ॥ रोषादालानमुन्मूल्य, दधावे प्रथमाध्यय
प्रति तापसान् ॥ २२॥ हतप्रतिहतान् कुर्व-स्तांश्चारण्यं गतो गजः ॥ तान् बभंजाश्रमान् भूयः, प्रभंजन इव नम् (१) ॥१४॥
दुमान् ॥ २३ ॥ पुनस्तद्हणायाऽगा-त्तद्वनं श्रेणिको नृपः॥ तदेत्यऽवधिनाऽज्ञासी-द्रजाधिष्टायिका सुरी॥ २४॥ सिंधरोऽसावस्य वश्यो-ऽवश्यं भावी महीपतेः ॥ ज्ञात्वेति साऽब्रवीद्यालं, वाक्यैः पीयूष पेशलैः ॥ २५॥ भूयांसो
भाविनी वत्स!, स्वयं दान्तस्य ते गुणाः ॥ कृतबन्धवधैरन्यै-रन्यथा त्वं दमिष्यसे ॥ २६ ॥ तच्छत्वा स स्वयं ६ गत्वा, रात्रावालानमाश्रयत् ॥ तद् ज्ञात्वा नृपतिस्तुष्ट-स्तस्याची बहुधा व्यधात् ॥ २७॥ स्वयं दांत इति प्रेम,
तत्राधाद्भधवो भृशम् ॥ न्यधाच पट्टहस्तिनं ॥ व्यधादृत्तिं च भूयसीम् ॥ २८॥ दांतः स्वयं प्राप यथा रमामसौ, तथा शिवार्थी मनुजोऽप्यवाप्नुयात् ॥ खयंदमी मंक्षु सकामनिजरां, परस्तु नो तामिति दम्यतां खयम् ॥ २९ ॥ इति सेचनककरिकथा ॥ तदेवं खयमेव खात्मा दमनीय इति सूत्रार्थः ॥ १६ ॥ अथ विनयांतरमाह
मूलम्-पडिणीअंच बुद्धाणं, वाया अदुव कम्मुणा । आवी वा जइवा रहस्से, णेव कुज्जा कयाइवि॥१७॥ है। व्याख्या-प्रत्यनीकं प्रतिकूलं चेष्टितमिति शेषः, चः पादपूरणे, बुद्धानामाचार्यादीनां वाचा 'किं त्वमपि किंचि-14॥ १४ ॥
जानीषे ?' इत्यादिरूपया 'अदुवत्ति' अथवा कर्मणा संस्तारकातिक्रमणपाणिपादस्पर्शनादिना, आविर्वा जनसमक्षं, |यदिवा रहसि एकांते 'णेवत्ति' नैव अत्र एवकारः “शत्रोरपि गुणा ग्राह्या, दोषा वाच्या गुरोरपि” इति कुमता
Page #29
--------------------------------------------------------------------------
________________
A
HARRARY
पोहार्थः । कुर्याद्विदध्यात् , कदाचिदपि परुषभाषणादिसमयेऽपीति सूत्रार्थः ॥ १७ ॥ अथ शुश्रूषणा विनयमाहमूलम्-ण पक्खओ ण पुरओ, णेव किच्चाण पिट्टओ। ण जुंजे ऊरुणा ऊरु, सयणे णो पडिस्सुणे॥१८॥ | व्याख्या-न पक्षतो दक्षिणादिपार्श्वमाश्रित्योपविशेदिति सर्वत्र गम्यं, तथोपवेशने हि तत्पंक्तिप्रवेशादात्मनोऽपि तत्साम्यदर्शनरूपोऽविनयः स्यात् , पाठनादि समये च गुरोरपि तन्मुखप्रेक्षणे वक्रावलोकनेन स्कन्धकन्धरादिवाधा भवेदिति । तथा न पुरतोऽग्रतः, तत्र हि वन्दारुलोकस्य गुरुमुखादर्शनादिना अप्रीतिः स्यादिति । तथा नैव कृत्यानां |कृतिकर्मार्हाणां गुरूणामित्यर्थः, पृष्ठतः पृष्ठदेशमाश्रित्य, तत्र द्वयोरपि मुखाप्रेक्षणेन न तादृशो रसः स्यादिति, तथा न युंज्यान्न संघट्टयेत् अतिसंवेशदेशोपवेशनादिना ऊरुणा आत्मीयेन ऊरं गुरुसंबंधिनं, तथाकरणेऽत्यन्ताविनयप्रसंगात् , उपलक्षणं चैतत् शेपांगस्पर्शत्यागस्य । तथा शयने शय्यायां शयित उपविष्टो वा न प्रतिशृणुयात् न खीकुर्याद्गुरुवाक्यमिति शेषः, अयं भावः-शय्यास्थितः शिष्यो गुरुणा कृत्यं प्रति प्रोक्तो न तत्र स्थित एव करोम्येवेदमित्यादि वदेत्, किन्तु गुरुवचःश्रवणानन्तरं तत्कालमेव कृतांजलिगुरुपार्श्वमागत्य पादपतनपूर्वमनुगृहीतोऽह|मिति मन्यमानो भगवनिच्छाम्यऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ तथामूलम्–णेव पल्हत्थिअं कुजा, पक्खपिंडं व संजए। पाए पसारए वावि, ण चिट्टे गुरुणंतिए ॥ १९॥ व्याख्या-नैव पर्यस्तिकांजानुजंघोपरि वस्त्रवेष्टनरूपां कुर्यात् , पक्षपिण्डं वा बाहुद्वयेन कायपिण्डनात्मकं, संयतः
NANAGAR
Page #30
--------------------------------------------------------------------------
________________
*
उत्तराध्ययन
**
*
साधुः, तथा पादौ प्रसारयेद्वापि नैवेतीहापियोज्यम् , अत्र वा शब्दः समुच्चये, अपिशब्दस्तु इतस्ततोऽपि नैव निक्षिपे-1
प्रथमाध्ययदिति दर्शनार्थः । अन्यच्च-न तिष्ठेन्नासीत गुरूणामंतिके अत्यन्तसन्निधौ किन्तूचितप्रदेश एव, अन्यथा अविनयदोष- नम् (१) संभवात् , अनेन चावष्टंभादिकमपि तत्र नैव कुर्यादिति सूचितमिति सूत्रार्थः ॥ १९ ॥ पुनः प्रतिश्रवणविधिमाहमूलम्-आयरिएहिं वाहित्तो, तुसणीओ ण कयाइवि। पसायपेही णिआगट्टी उवचिद्वे गुरुं सया ॥२०॥ ___ व्याख्या-आचार्यैर्गुरुभिः 'वाहित्तोत्ति' व्याहृतः शब्दितः तूष्णीकस्तूणींशीलोन कदाचिदपि ग्लानाद्यवस्थायामपि भवेत् , किन्तु प्रसादप्रेक्षी प्रसादोऽसौ मे यदन्यसद्भावेऽपि गुरवो मामादिशंतीति प्रेक्षितुं विचारयितुं शीलमस्येति
प्रसादप्रेक्षी, नियागार्थी मोक्षार्थी उपतिष्ठेत् , मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसत् गुरु धर्माचार्यादिकं है सदेति सूत्रार्थः ॥ २०॥ तथा
मूलम्-आलवंते लवंते वा, ण णिसीज कयाइवि । चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ॥२१॥ | व्याख्या-आलपति सकृद्वदति, लपति वारंवारं, गुरौ इति गम्यते, न निषीदेत् , न निषण्णो भवेत् , कदाचिदपि, व्याख्यानादिकार्येण व्याकुलतायामपि, किन्तु त्यक्त्वा अपहाय आसनं पादपुंछनादि, धीरो बुद्धिमान् , यतो यत्न-8॥ १५ ॥ वान् , 'जत्तंति' प्राकृतत्वात् जकारस्य बिन्दुलोपे तकारस्य च द्वित्वे यद्गुरव आदिशति तत्प्रतिशृणुयादवश्यविधेय. तयाऽभ्युपगच्छेदिति सूत्रार्थः ॥ २१॥ अथ पृच्छाविनयमाह
*
*
*
Page #31
--------------------------------------------------------------------------
________________
HA
मूलम्-आसणगओण पुच्छिजा, णेव सिज्जागओ कया।आगम्मुकुडुओ संतो,पुच्छिज्जा पंजलीउडो॥२२॥
व्याख्या-आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैव शय्यागतः संस्तारकस्थितस्तथाविधावस्था विनेति गम्यते,कदाचिद्बहुश्रुतत्वेऽपि, अयंभावः-बहुश्रुतेनापि संशये सति प्रष्टव्यं, पृच्छता च गुरोरवज्ञान कार्या, सदापि गुरुविनयस्यानतिक्रमणीयत्वादिति, किं तर्हि कुर्यादित्याह-'आगम्मेत्यादि' आगम्य गुरुपार्श्वमेत्य उत्कुटुको मुक्तासनः कारणे पादपुंछनादिगतो वा सन् पृच्छेत् सूत्रादिकमिति शेषः, प्रांजलिपुटः कृतांजलिरिति सूत्रार्थः ॥ २२ ॥ ईशस्य शिष्यस्य गुरुणा यत्कार्य तदाहमूलम्-एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स. वागरेज जहासअं॥ २३ ॥
व्याख्या-एवं उक्तनीत्या विनययुक्तस्य सूत्रं कालिकोत्कालिकादि, अर्थ च तस्यैवाभिधेयं, तदुभयं सूत्रार्थोभयं, पृच्छतो ज्ञातुमिच्छतः शिष्यस्य खयं दीक्षितस्योपसंपन्नस्य वा व्यागृणीयात्कथयत् , यथा येन प्रकारेण श्रुतमाकार्णतं गुरुभ्य इति शेषः, न तु खबुद्धिकल्पितमिति सूत्रार्थः॥ २३ ॥ पुनर्विनेयस्य वाग्विनयमाहमूलम्-मुसं परिहरे भिक्खू, ण य ओहारिणि वए । भासादोसं परिहरे, मायं च वजए सया ॥२४॥ व्याख्या-मृषां असत्यं भूतनिह्नवादिकं परिहरेत् , “धर्महानिरविश्वासो, देहार्थव्यसनं तथा ॥ असत्यभाषिणां
RRASS
Page #32
--------------------------------------------------------------------------
________________
उत्तराध्ययन निंदा, दुर्गतिश्योपजायते ॥ १॥” इति विमृश्य सर्वप्रकारमपि त्यजेत् मिथुर्मुनिः, न च नैवावधारिणी प्रस्तावा- प्रथमाध्यय
नम् (१) द्वाणी गमिष्याम एवेत्यादिनिश्चयात्मिकां वदेत् भाषेत, किं बहुना ? भाषादोषं सावधानुमोदनाचं जकारमकारा-12| ॥१६॥
दिकं च परिहरेत् , मायां, च शब्दात् क्रोधादींश्च असत्यहेतून् वर्जयेत्सदा सर्वकालमिति सूत्रार्थः ॥ २४ ॥ किञ्चमूलम्-ण लविज पुट्ठो सावजं, ण णिरटुंण मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥२५॥ | व्याख्या-न लपेन्नवदेत् पृष्टः केनापि सावधं सपापं वचनमिति सर्वत्र ज्ञेयम् ,न निरर्थ निष्प्रयोजनं अमिधेयशून्य सावा, यथा-"एष बन्ध्यासुतो याति, खपुष्पकृतशेखरः। मृगतृष्णाम्भसि सातः, शशभंगधनुर्द्धरः ॥१॥” इति ।
तथा न नैव मर्मगं मर्मवाचकं 'त्वं काणः' इत्यादिकं, अस्यातिसंक्लेशोत्पादकत्वादिति, आत्मार्थ खार्थ, परार्थ वा अन्याथै, उभयस्यात्मनः परस्य च प्रयोजनादितिशेषः, तथा अन्तरेण वा बिना वा प्रयोजनमिति सत्रार्थः॥ २५॥ इत्थं खगतदोषापोहमुक्त्वा उपाधिकृतदोपत्यागमाह
मूलम्-समरेसु अगारेसु, संधीसु अ महापहे । एगो एगित्थिए सद्धिं, णेव चिट्टे ण संलवे ॥ २६ ॥3 KI व्याख्या-समरेषु लोहकारशालासु, उपलक्षणं चैतदशेषनीचास्पदानां, अगारेषु गृहेषु, संधिषु गृहद्वयान्तरालेषु, 8॥१६॥
महापथे राजपथादौ, एकोऽसहाय एकस्त्रिया सार्द्ध सह नैव तिष्ठेन्नैवोर्द्धस्थानस्थो भवेत् , न संलपेन्न तयैव सह संभाष कुर्यात् , अत्यंतदुष्टताख्यापकं चात्रैकग्रहणं, अन्यथा ह्येवंविधास्पदेपु ससहायस्यापि स्त्रिया सहावस्थानं संभाषणं
C+CHESTER RSS
Page #33
--------------------------------------------------------------------------
________________
*X
च दोषायैव, प्रवचनमालिन्यादिदोषसंभवात् , उक्तं हि "मात्रा खस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानि|| द्रियग्रामः, पंडितोऽप्यत्र मुह्यति॥१॥” इति सूत्रार्थः ॥२६॥ कदाचित् स्खलिते च गुरुणा शिक्षितो यत्कुर्यात्तदाह-18 मूलम्-जं मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभोत्ति पेहाए, पयओ तं पडिस्सुणे ॥२७॥
व्याख्या-यन्मे मां बुद्धा गुरवः अनुशासंति शिक्षयन्ति, शीतेन उपचारात् शीतलेन आहादकेनेत्यर्थः, परुषेण वा । कर्कशेन वचसेति शेषः, मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं, यन्मामनाचारकारिणममी सन्मार्गे स्थापयंति, इति प्रेक्षया एवंविधबुद्ध्या प्रयतः प्रयत्नवान् तदनुशासनं प्रतिशृणुयात् , विधेयतयाऽङ्गीकुर्यादिति सूत्रार्थः ॥ २७ ॥ ननु अत्र परत्र च परमोपकारि गुरुवचनमपि किं कस्याप्यनिष्टं स्यात् ? येनैवमुच्यत इत्याहमूलम्-अणुसासणमोवायं, दुक्कडस्स च चोअणं । हिअं तं मण्णए पण्णो, वेसं होइ असाहुणो॥२८॥ __ व्याख्या-अनुशासनं शिक्षणं'ओवायंति' उपाये मृदुपरुषभाषणादौ भवमौपायं, तथा दुष्कृतस्य च कुत्सिताचरितस्य च चोदनं प्रेरणं, हा! किमिदमाचरितमित्यादिरूपं, गुरुकृतमिति दृश्यं, हितमिहपरलोकोपकारि तदनुशासनादि मन्यते प्राज्ञः, द्वेष्यं द्वेषोत्पादकं तद्भवत्यसाधोरसाधुभावस्य, तदेवमसाधोर्गुरुवाक्यमप्यनिष्टं स्यादित्युक्तमिति सूत्रार्थः ॥ २८ ॥ अमुमेवार्थ प्रकटयन्नाहमूलम्-हिअं विगयभया बुद्धा, फरुसंपि अणुसासणं । वेसं तं होइ मूढाणं, खंतिसोहिकरं पयं ॥ २९॥
SALSARLS
***%*
*%*%*%4X
Page #34
--------------------------------------------------------------------------
________________
उत्तराध्ययन
प्रथमाध्यय
नम् (१)
॥१७॥
व्याख्या-हितं पथ्यं विगतभया इहलोकपरलोकादानाकस्मादाजीविकामरणाश्लोकभयरहिता बुद्धा अवगततत्वाः मन्यते इति शेषः, परुषमप्यनुशासनं गुरुकृतमिति ज्ञेयं । 'वेसंति' द्वेष्यं तदनुशासनं भवति मूढानां हिताहितविवे- कविकलानां । क्षांतिः क्षमा, शुद्धिराशयशुद्धता, तत्करं उपलक्षणत्वान्मार्दवाजवादिकरमपि, क्षात्यादिहेतुत्वाद्र्वनुशासनस्य, पदं ज्ञानादिगुणानां स्थानमिति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाहमूलम्-आसणे उवचिठिज्जा, अणुच्चे अक्कुए थिरे । अप्पुट्ठाई णिरुहाइ, णिसीइज्जप्पकुक्कुए ॥ ३०॥ व्याख्या-आसने पीठादौ वर्षासु, ऋतुबद्धे तु पादपुंछने उपतिष्ठेत् , उपविशेत् , अनुच्चे द्रव्यतो नीचे भावतस्तु अल्प-| मूल्यादौ गुर्वासनादिति गम्यते, अकुचे अस्पंदमाने, नतु तिनिशफलकवाकिंचिचलति, तस्य शृङ्गाराङ्गत्वात् । स्थिरे समपादस्थितितया निश्चले, अन्यथा सत्वविराधनासंभवात् । इदृशेऽप्यासने 'अप्पुठाईत्ति' अल्पोत्थायी न पुनः पुनरुत्थानशीलः, निरुत्थायी निमित्तं विना नोत्थानशीलः, निषीदेत् आसीत 'अप्पकुक्कएत्ति' अल्पस्पंदनः करादिभिरप्यल्पमेव चलन् , यद्वा अल्पं कौकुच्यं करचरणभ्रमणाद्यसचेष्टारूपं यस्य सोऽल्पकौकुच्य इति सूत्रार्थः ॥३०॥ |संप्रत्येषणासमितिविषयं विनयमाह|मूलम्-कालेण णिक्खमे भिक्खू , कालेण य पडिक्कमे । अकालं च विवजित्ता,काले कालं समायरे॥३१॥
व्याख्या-काले प्रस्ताव सप्तम्यर्थे तृतीया, निष्कामेद्गच्छेदाहाराद्यर्थ भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसं
॥१७॥
Page #35
--------------------------------------------------------------------------
________________
| भवात् । तथा काले च प्रतिक्रामेत् प्रतिनिवर्तेत भिक्षाटनादिति शेषः । अयं भावः-अलाभेऽल्पलाभे वा अतिलाभार्थी न पर्यटन्नेव तिष्ठेत् , किं तर्हि कुर्यादित्याह-अकालं च तत्तक्रियाया असमयं विवर्य विहाय काले प्रस्तावे कालं तत्तत्कालोचितं प्रत्युपेक्षणाद्यनुष्ठानं समाचरेत् कुर्यात् । यदुक्तम् “कालंमि कीरमाणं, किसिकम्मं बहुफलं जहा होइ ॥ इअ सबच्चिा किरिआ, णिअणिअकालंमि विष्णेआ ॥१॥” इति सूत्रार्थः ॥ ३१॥ भिक्षार्थ | निर्गतश्च यत्कुर्यात्तदाहमूलम्-परिवाडीए ण चिटेजा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मिअंकालेण भक्खए॥३२॥ | व्याख्या-परिपाट्यां पंक्त्यां भुजानमानवसंबंधिन्यांन तिष्ठेद्भिक्षार्थ, अप्रीत्यदृष्टकल्याणतादिदोषसंभवात् , यद्वा परिपाट्यां दायकसौधसंबंधिन्यां पंक्तिस्थगृहभिक्षाग्रहणाय नैकत्रावतिष्ठेत् , तत्र दायकदोषापरिज्ञानप्रसंगात् । तथा| भिक्षुर्दत्तं दानं तस्मिन् गृहिणा दीयमाने एषणा तद्गतदोषान्वेषणात्मिका दत्तैषणा तां चरेदासेवेत, अनेन ग्रहणैषणा | उक्ता, किं कृत्वा दत्तैषणां चरेदित्याह-'पडिरूवेण' इत्यादि-प्रतिरूपेण चिरंतनमुनीनां प्रतिबिंबेन पतगृहादिधारणात्मकेन सकलान्यदर्शनिविलक्षणेन, न तु 'भिक्षापि नाडंबरं विना प्राप्यते' इति ध्यात्वा कृताडंबरेण, एषयित्वा गवेषयित्वा अनेन च गवेषणोक्ता, ग्रासैषणामाह-मितं परिमितं, अमितभोजने हि स्वाध्यायविघातादिबहुदोषसंभवात् , कालेन "णमोकारेण पारित्ता" इत्याद्यागमोक्तप्रस्तावेन अद्रुताविलंबितरूपेण वा भक्षयेद्धंजीतेति सूत्रार्थः
Page #36
--------------------------------------------------------------------------
________________
उत्तराध्ययन
प्रथमाध्ययनम् (१)
॥१८॥
MASASUSNEPALNELS
॥ ३३ ॥ भिक्षाचर्यां च कुर्वता पूर्वागतान्यभिक्षुकसंभवे यत्कार्यं तदाहमूलम्-णाइदूरमणासपणे, णण्णेसिं चक्खुफासओ । एगो चिटिज भत्तहा, लंघिआ तं णइक्कमे ॥३३॥|
व्याख्या-'णाइदूरंति' विभक्तिव्यत्ययानातिदूरे विप्रकर्षवति देशे, तत्र भिक्षुनिर्गमाज्ञानात् एषणाशुद्धयसंभवाघ, तथा नासन्ने प्रस्तावान्नातिनिकटे, तत्र पूर्वागतान्यभिक्षुणामप्रीतिसंभवात् , नान्येषां भिक्षुकापेक्षया अपरेषां गृहस्थानां 'चक्खफासओत्ति' अत्र सप्तम्यर्थे तसू , ततश्चक्षुःस्पर्शे दृष्टिगोचरे तिष्ठदिति सर्वत्र योज्यं, किंतु असौभिक्षभिक्षनिक्रमणं प्रतीक्षते इति यथा गृहस्था न विदन्ति तथा विविक्तप्रदेशे तिष्ठेदिति भावः । एकः पूर्वप्रविष्टभिक्षुकोपरि द्वेषरहितः, भक्तार्थ भोजननिमित्तं 'लंघिअत्ति' उलंघ्य तमिति भिक्षुकं नातिकामेत् न गृहमध्ये गच्छेत् , तदप्रीत्यपवादादिदोषसंभवात् । इह च मितं कालेन भक्षयेदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनकथनं तद्ग्लानादि-15 |निमित्तं वयं वा क्षुधामसहिष्णोः पुनर्धमणमपि न दोषायेति ज्ञापनार्थमिति सूत्रार्थः ॥३३॥ पुनस्तद्गतमेव विधिमाह-14
मूलम्-णाइ उच्चे व णीए वा, णासपणे णाइ दूरओ । फासु पक्खडं पिंडं, पडिगाहिज संजए ॥३४ | व्याख्या-नात्युच्चे गृहोपरिभूम्यादौ नीचे वा भूमिगृहादौ स्थित इति शेषः, तत्रोत्क्षेपनिक्षेपनिरीक्षणासंभवात् , दायकापायसंभवाच । यथा नात्युच्चो द्रव्यत उच्चैःकृतकंधरो भावतश्चाहं लब्धिमानिति मदाध्मातः, नीचश्च द्रव्यतोऽत्यन्तावनतग्रीवः भावतस्तु न मयाद्य किमपि लब्धमिति दैन्यवान्, वा शब्द उभयत्रापि समुच्चये। तथा नासन्ने
॥१८॥
Page #37
--------------------------------------------------------------------------
________________
नातिदूरप्रदेशे स्थित इति शेषः, आसन्नातिदूरयोर्हि यथायोग जुगुप्साशंकानेषणादयो दोषाः स्युः, तत्र स्थितश्च । प्रासुकं सहजसंसक्तजजंतुरहितं परेण गृहिणा खार्थं कृतं परकृतं पिंडमाहारं प्रतिगृह्णीयात् खीकुर्यात् , संयतो | यतिरितिसूत्रार्थः॥ ३४ ॥ पुनासैषणाविधिमाहमूलम्-अप्पपाणप्पबीअंमि, पडिच्छण्णंमि संवुडे ॥ समयं संजए भुंजे, जयं अपरिसाडिअं॥ ३५॥ । व्याख्या-अत्राल्पशब्दोऽभाववाची, ततश्च अल्पप्राणे अपखितागन्तुकत्रसप्राणरहिते, तथाऽल्पबीजे शाल्यादिबीजवर्जिते, उपलक्षणत्वात्सकलस्थावरजंतुविकले च, प्रतिच्छन्ने उपरि आच्छादिते, अन्यथा संपातिमप्राणिसंपातसंभवात् , संवृते पार्थतः कटकुड्यादिना संकटद्वारे, अटव्यां तु कुडंगादौ स्थाने इति शेषः, अन्यथा दीनादिना या
चने दानादानयोः पुण्यबंधप्रद्वेषादिदोषदर्शनात् , समकमन्यमुनिभिः सह, न तु रसलंपटतया समूहासहिष्णुतया वा * एकाक्येव, गच्छस्थितसामाचारी चेयं, संयतः साधुर्भुजीत, अश्नीयात् , 'जयंति'यतमानः, 'सुरसुर"चबचब कसकस3 कादिशब्दानकुर्वन् , 'अपरिसाडिअंति' परिशाटीरहितं यथा स्यात्तथेतिसूत्रार्थः ॥ ३५ ॥ यदुक्तं यतमान इति तत्र
वाग्यतनामाहमूलम्-सुकडित्ति सुपक्कित्ति, सुच्छिण्णे सुहडे मडे॥ सुणिट्टिए सुलट्टत्ति, सावजं वजए मुणी॥३६॥ व्याख्या-सुकृतं सुष्टु निवर्त्तितं अन्नादि, सुपक्कं घृतपूरादि, इतिः उभयत्र प्रदर्शने, सुच्छिन्नं शाकपत्रादि, सुहृतं
Page #38
--------------------------------------------------------------------------
________________
उत्तराध्ययन
प्रथमाध्यय. नम् (१)
॥१९॥
शाकपत्रादेस्तिक्तत्वादि, यद्वा सुहृतं सूपयवाग्वादिना पात्रकादेघृतादि,सुमृतं घृतायेव सक्तुसूपादौ, सुनिष्ठितं सुप्तु निष्ठां रसप्रकर्षात्मिकां गतं, सुलष्टं अतिशोभनमोदनादि, अखंडोज्ज्वलखादुसिक्थत्वादिना, इत्येवं प्रकारमन्यदपि सावा । वचो वर्जयेन्मुनिः । यद्वा सुष्टु कृतं यदनेन रिपोः प्रतिकृतं, सुपक्कं मांसादि, सुच्छिन्नोऽयं न्यग्रोधादिः, सुहृतं कदयस्य धनं चौराद्यैः, सुमृतोऽयं प्रत्सनीकविप्रादिः, सुनिष्ठितोऽयं प्रासादकूपादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावधं वर्जयेन्मुनिरिति । अनवद्यं तु सुकृतमनेन धर्मध्यानादि, सुपक्कमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयं शिष्यः खजनेभ्य उत्पाबाजयितुकामेभ्यः, सुमृतमस्य पंडितमरणमर्तुः, सुनिष्ठितोऽयं साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहणस्वेत्यादिरूपं वाक्यं वदेदपीतिसूत्रार्थः ॥ ३६ ॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोर्यत्स्यात्तद्दर्शयन्नाह
मूलम्-रमए पंडिए सासं, हयं भदं व वाहए ॥ बालं सम्मइ सासंतो, गलिअस्सं व वाहए ॥३७॥ dil व्याख्या-रमते अभिरतिमान् भवति, पंडितान् विनीतशिष्यान् शासदाज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति
शेषः, कमिव क इत्याह-हयमिवाश्वमिव भद्रं कल्याणावहं वाहकोऽश्वदमः। बालमज्ञं श्राम्यति खिद्यते शासत् , स हि | सकृदुक्त एव कृत्यं न कुरुते, ततश्च पुनः पुनस्तमाज्ञापयन् गुरुः श्राम्यत्येवेति भावः, अत्रापि दृष्टांतमाह-गल्यश्चमिव वाहक इति सूत्रार्थः ॥ ३७॥ गुरुशिक्षणे बालस्याशयमाह
१९॥
Page #39
--------------------------------------------------------------------------
________________
*
*
*
मूलम्-खड्डुआमे चवेडा मे, अक्कोसा य वहा य मे ॥ कल्लाणमणुसासंतो, पावदिट्टित्ति मण्णइ॥३८॥ || व्याख्या-खड्डकाः टक्करा मे मम, चपेटाः करतलाघाता मे, आक्रोशाश्च निष्ठुरभाषणानि मे, वधाच दंडादिघाता & मे, अयंभावः- खड्कादय एव मे गुरुणा दीयन्ते नत्वन्यत्किमपि समीहितमस्तीत्यनुशास्यमानो बालश्चिंतयति, अ-18
न्यच-कल्याणमिहपरलोकहितं 'अणुसासंतोत्ति' विभक्तिव्यत्ययादनुशासतं शिक्षयन्तं गुरुं पापष्टिः पापबुद्धिरयमा-1 ४ाचार्य इति स मन्यते, यथा पापोऽयं गुप्तिपाल इव निघृणो मां हन्तीति । अथवा वाग्भिरेव कल्याणं 'अणुसास-13
तोत्ति' गुरुणा अनुशास्यमानः शिक्ष्यमाणः पापदृष्टिः कुशिष्यः खड्डुकादिरूपा गुरुवाचो मन्यते इति सूत्रार्थः ॥३८॥ विनीताध्यवसायमाहमूलम्-पुत्तो मे भाय णाइत्ति, साहु कल्लाण मण्णइ॥पावदिट्टी उअप्पाणं, सासं दासित्तिमण्णइ ॥३९॥ | व्याख्या-अत्र इवार्थस्य गम्यमानत्वाद्विभक्तिव्यत्ययाच पुत्रमिव भ्रातरमिव ज्ञाति खजनमिव 'मे' इति मां अय-3 माचार्योऽनुशास्तीत्यध्याहारः, इत्येवं साधुः सुशिष्यः कल्याणकारि अनुशासनं मन्यते, यतः स शिष्य एवं विचारयति, यत्सौहार्दादेष मामनुशास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ? किन्तु ममैवार्थभ्रंश इति । बालः पुनः किं मन्यते ? इत्याह-पापदृष्टिस्तु कुशिष्यः पुनरात्मानं 'सासंति' शास्यमानं दासमिव मन्यते, यथैष दासमिव मामाज्ञापयतीति सूत्रार्थः ॥ ३९॥ विनयसर्वखमाह
*
*
*
*
Page #40
--------------------------------------------------------------------------
________________
उत्तराध्ययन मूलम्—ण कोवए आयरियं, अप्पाणंपिण कोवए ॥ बुद्धोवघाई ण सिआ, णसिया तोत्तगवेसए॥४०॥ प्रथमाध्यय॥२०॥ 18] व्याख्या-न कोपयेन्न कोपवशगं कुर्यात्तादृशवचनादिभिराचार्य, उपलक्षणत्वादन्यमपि विनयाह, आत्मानमपि 5 नम् (१)
गुरुभिः परुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत् , कथंचित्सकोपतायामपि बुद्धोपघाती आचार्याापघातकारी न स्थान्न भवेत् उदाहरणं चात्र, तथाहिP] गच्छे कापि पुराऽभूवन् , गणिसंपत्समन्विताः। युगप्रधानाःप्रक्षीण-पाप्मानः सूरिपुङ्गवाः॥१॥ चिकीर्षवोऽपि
ते सम्यग्, विहारं मुनिनायकाः ॥ क्षीणजंघाबला नित्यं, पुरे क्वाप्यवतस्थिरे ॥ २ ॥ सत्खेतेषु मुनीन्द्रेषु, जिनशास-6 नभानुषु ॥ तीर्थ सनाथमस्तीति, चिन्तयन्तो महाधियः ॥३॥ तत्रत्याः श्रावका धन्यं-मन्याः सम्यगुपाचरन् । तद्योग्यैः स्निग्धमधुरै-राहारैरौषधैश्च तान् ॥४॥[युस्मम् ] गुरुकर्मभराकान्ता, निःस्नेहाः खगुरावपि ॥ अन्यदा तत्समीपस्थाः, कुशिष्या व्यसृशन्निति ॥५॥ अस्माभिः पालनीयोऽयं, कियच्चिरमजङ्गमः॥स्थेयं चात्र कियत्कालं, कारायामिव बन्दिभिः॥६॥ ततः केनाप्युपायेन, कार्यतेऽनशनं गुरोः ॥ मृतेऽस्मिन् बंधनोन्मुक्ता, विहरामो यथा वयम् ॥ ७॥ विमृश्येति पुरः सूरे-रन्तप्रान्ताशनादिकम् ॥ उपनीय स्फुरत्खेदा, इवैवं ते जडा जगुः ॥ ८॥ ईशामपि युष्माकं, योग्यमन्नौषधादिकम् ॥ सम्पादयन्ति न श्राद्धा, धनिनोऽप्यविवेकिनः ॥९॥ निर्विण्णास्तदमी नूनं, श्रावका नित्यदानतः॥ भवेयुर्नीरसा भूरि-पीडनान्नेक्षवोऽपि किम् ? ॥१०॥ अकिंचना वयं तकिं, कुर्मो
Page #41
--------------------------------------------------------------------------
________________
दत्तोपजीविनः ॥ कुतः सम्पादयामश्च, युष्मद्योग्याशनादिकम् ॥ ११॥ गुरोः पुरो निगद्येति, ते भिक्षायै गताः पुनः॥ सूरियोग्यं न जगृहु-हिदत्ताशनादिकम् ॥ १२ ॥ तद्वाहणार्थ चात्यर्थ-माग्रहे श्रावकैः कृते ॥ ते प्रोचुर्ग
रवो नेदं, प्रणीतं भुजतेऽधुना ॥ १३ ॥ किन्तु संलेखनाहेतो-रल्पाल्पं रसवर्जितम् ॥ गृहंति सूरयो भक्तं, खदेहेऽपि * गतस्पृहाः ॥ १४ ॥ तच्छ्रुत्वा श्रावकाः खेद-भरभंगुरमानसाः ॥ गुरुपार्श्वमुपेत्यैवं, जगदुर्गद्दाक्षरम् ॥ १५॥ जिनेषु विश्वसूर्येषु, चिरातीतेष्वपि प्रभो ! ॥ युष्माभिः शासन जैन, भाति वेश्मेव दीपकैः ॥ १६ ॥ अकालेऽपि तदारेभे, पूज्यैः संलेखना कुतः ॥अप्रस्तावे हि नो कार्य-मारभन्ते भवादृशाः॥१७॥निर्वेदहेतुरेतेषा-महं भावीत्यपि स्वयम् ॥ न चिन्तनीयं खनेऽपि, भगवद्भिर्युगोत्तमैः ॥ १८॥ शिरःस्था अपि यद्यूयं, जगत्पूज्यपदाम्बुजाः ॥ नास्माकं न विनेयानां, चामीषां भारकारिणः ॥ १९ ॥ इदानीं तन्न कर्तव्यः, पूज्यैः संलेखनाग्रहः ॥ श्रुत्वेतीगितवित्सूरि-रिति चेतस्यचिन्तयत् ॥ २० ॥ नूनमस्मद्विनेयानां, सर्वमेतद्विजृम्भितम् ॥ तदमीभिः कृतं प्राणै-रेषां निर्वे-15
दहेतुभिः ॥ २१॥ धर्मार्थिना हि नान्येषां, पीडोत्पाद्या कदाचन ॥ ध्यात्वेति सूरयः प्रोचुः, समतामृतवार्द्धयः है॥ २२॥ वैयावृत्यं कारयद्भिः, सदास्माभिरजङ्गमैः ॥ यूयमेते विनेयाश्च, खेदनीयाः कियचिरम् ॥ २३॥ तदुत्तमार्थ
मेवाथ, प्रतिपद्यामहे वयम् ॥ इति सम्बोध्य तान् भक्तं, प्रत्याख्यान्तिम सूरयः॥ २४ ॥गुरुः प्रपाल्यानशनं जगाम, त्रिविष्टपं निष्ठितपापकर्मा ॥ शिष्यास्तु ते प्रापुरिहापवादं, परत्र दुःखं च गुरूपघातात् ॥ २५॥ इति गुरूपघाति
Page #42
--------------------------------------------------------------------------
________________
-96
श्यतः
कुशिष्यकथा ॥ तदेवं बुद्धोपघाती न स्यात् । तथा 'न सिआ तोत्तगवेसएत्ति' तुद्यते व्यथ्यतेऽनेनेति तोत्रं. द्रव्यतः। प्रथमाध्यय. उत्तराध्ययन प्राजनको भावतस्तु दोषोद्भावकं वचनमेव, तद्वेषयति, किमहमेषां जात्यादिदूषणं वच्मीति अन्वेषयतीति तोत्रगवे
नम् (१) ॥२१॥
षको न स्यादिति सत्रार्थः॥४०॥ तदेवमाचार्य न कोपयेदित्युक्तं, कथंचित्कुपिते पुनः किंकार्यमित्याहमूलम्-आयरिअं कुविणच्चा, पत्तिएण पसायए॥ विज्झविज्ज पंजलीउडो, वइज्ज ण पुणत्ति अ॥४१॥3 ___ व्याख्या-आचार्यमुपलक्षणत्वादुपाध्यायादिकं वा कुपितं अशिक्षणादृष्टिदानादिना प्रादुष्कृतकोपं ज्ञात्वा 'पत्तिएणत्ति' प्रतीतिजनकेन शपथादिना, यद्वा प्रीत्या साम्नैव प्रियवचोभाषणादिकेन प्रसादयेत् प्रसन्नं कुर्यात् , कथमि-17 त्याह-विज्झविजत्ति' विध्यापयेत् कथञ्चिदुदीरितकोपानलमपि शान्तं कुर्यात् प्राअलिपुटः कृताअलिः, इत्थं कायिकं । मानसं च विध्यापनोपायमुक्त्वा वाचिकं तं दर्शयति, 'वइजत्ति' अग्रेतनचकारस्य भिन्नक्रमस्येह योगात् वदेच त्याच किमित्याह-न पुनरिति, अयं भावः-खामिन् ! प्रमादाचरितमिदं क्षम्यतां, न पुनरित्थमाचरिष्यामीति गुरुं प्रसादयन् शिष्यो वदेचेति सूत्रार्थः ॥४१॥ अथ यथा गुरोः कोप एव नोत्पद्यते तथाहमूलम्-धम्मज्जिअं च ववहारं, बुद्धेहीयरिअं सया ॥ तमायरंतो ववहारं, गरहं णाभिगच्छइ ॥४२॥
॥२१॥ * व्याख्या-धर्मेण क्षान्त्यादिना अर्जित उपार्जितः, चः पूत्तौं, यो व्यवहारः प्रत्युपेक्षणादिमुमुक्षुक्रियारूपः बुद्धैतितत्त्वै-*
राचरितः सेवितः सदा सर्वकालं तमाचरन् सेवमानः 'ववहारंति'विशेषेण अवहरति पापकर्मेति व्यवहारस्तं पापकर्मा
Page #43
--------------------------------------------------------------------------
________________
SANSAR
पहारिणमित्यर्थः, गीं अविनीतोऽयमितिनिन्दा नाभिगच्छति न प्राप्नोति यतिरिति शेषः, तदा च न स्यादेवगुरोः कोपोत्पत्तिरिति सूत्रार्थः ॥ ४२ ॥ किम्बहुनामूलम्-मणोगयं वक्तगयं, जाणित्तायरिअस्स उ ॥ तं परिगिज्झ वायाए, कम्मुणा उववायए॥४३॥
व्याख्या-मनोगतं मनसि स्थितं तथा वाक्यगतं कृत्यमितिशेषः, ज्ञात्वा आचार्यस्य गुरोः, तु शब्दः कायगतकार्यपरि-12 ग्रहार्थः, तत् मनोगतादि गुरुकृत्यं परिगृह्याङ्गीकृत्य, वाचा इदमित्थं करोमीत्यादिरूपया, कर्मणा क्रियया तन्निष्पादनात्मिकया, उपपादयेद्विदधीतेति सूत्रार्थः ॥४३॥ सचैवं विनीततया यादृक् स्यात्तदाहमूलम्-वित्ते अचोइए णिचं, खिप्पं हवइ सुचोइए ॥ जहोवइटं सुकयं, किच्चाई कुवइ सया ॥४४॥
व्याख्या-वित्तो विनीततया प्रसिद्धः शिष्यः 'अचोइएत्ति'अनोदितोऽप्रेरित एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्तते इत्यध्याहारः, नित्यं सदा न तु कदाचिदेवेति भावः, न चायं वयं प्रवर्त्तमानो गुरुभिः प्रेरितोऽनुशयवानपि स्यात्, किन्तु क्षिप्रं शीघ्रं भवति यथोचितकृत्यकारीति गम्यते, सुचोदके शोभनप्रेरयितरि गुरौ सतीति शेषः, ततश्च यथोपदिष्टं उपदिष्टानतिक्रमेण सुष्ठ कृतं सुकृतं यथा स्यादेवं कृत्यानि करोति, सदा सर्वदेति सूत्रार्थः॥४४॥ अथोपसंहर्जुमाहमूलम्-णच्चा णमइ मेहावी, लोए कित्ती से जायइ॥हवइ किच्चाण सरणं, भूआणं जगह जहा॥४५॥ व्याख्या-ज्ञात्वाऽनन्तरोक्तं सर्वमध्ययनार्थमवगम्य नमति तत्तत्कृत्यकरणं प्रति प्रवीभवति मेधावी मर्यादावर्ती,
Page #44
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥ २२ ॥
लोके कीर्त्तिः सुलब्धमस्य जन्म ! निस्तीर्णो भवाब्धिरनेनेत्यादिका से तस्य जायते प्रादुर्भवति, तथारूपश्च भवति कृत्यानां पुण्यानुष्ठानानां शरणमाश्रयः, भूतानां प्राणिनां जगती पृथ्वी यथेति सूत्रार्थः ॥ ४५ ॥ ननु विनयः पूज्यप्रसादनफलः, पूज्यप्रसादनाच्च किं लभ्यते ? इत्याह
मूलम् - पुज्जा जस्स पसीअंति, संबुद्धा पुवसंथुआ ॥ पसण्णा लाभइस्संति, विउलं अट्ठिअं सुअं ॥ ४६ ॥ व्याख्या - पूज्या आचार्यादयो यस्य शिष्यस्य प्रसीदन्ति तुष्यन्ति सम्बुद्धाः सम्यग्ज्ञाततत्वाः पूर्वं वाचनादिकालात् प्राक् संस्तुता विनयविषयतया परिचिताः सम्यक्स्तुता वा सद्भूतगुणोत्कीर्त्तनादिना पूर्वसंस्तुताः प्रसन्नाः सप्रसादाः लम्भयिष्यन्ति प्रापयिष्यन्ति, विपुलं विस्तीर्ण, अर्थो मोक्षः, स प्रयोजनमस्येत्यार्थिकं श्रुतमङ्गोपाङ्गादिभेदं, अनेन पूज्यप्रसादनस्यानन्तरं फलं श्रुतलाभः, परम्परं तु मोक्ष इति सूचितमिति सूत्रार्थः ॥ ४६ ॥ अथ श्रुतावासौ तस्य ऐहिकमामुष्मिकं च फलं काव्याभ्यामाह
मूलम् - सपुज्जसत्थे सुविणीअसंस, मणोरुई चिट्ठइ कम्मसंपया ॥ तवोसमायारिसमाहिसंवुडे, महज्जुई पंचवयाई पालिया ॥ ४६ ॥
व्याख्या - स इति प्रसादितगुरोः प्राप्तश्रुतः शिष्यः, पूज्यं विनीततया श्लाघ्यं शास्त्रं यस्यासौ पूज्यशास्त्रः, सुष्ठु विनीतोऽ| पनीतः प्रसादितगुरुणैव शास्त्ररहस्यप्रदानेन संशयः सूक्ष्मार्थविषयः सन्देहो यस्य स सुविनीतसंशयः, मनसः प्रस्तावा
प्रथमाध्यय
नम् (१)
॥ २२ ॥
Page #45
--------------------------------------------------------------------------
________________
दुरुसम्बन्धिनश्चित्तस्य रुचिरिच्छा यस्मिन् स मनोरुचिर्गुरुमनोनुवर्ती, न तु खेच्छाचारीति भावः 'चिट्ठइकम्मसंपयत्ति' कर्म क्रिया, दशविधचक्रवालसामाचारी, तस्याः संपत् समृद्धिः कर्मसंपत् तयोपलक्षितस्तिष्ठति आस्ते । तथा तपसो|ऽनशनादेः समाचारी समाचरणं, समाधिश्चेतःखास्थ्यं, ताभ्यां संवृतो निरुद्धाश्रवः तपःसमाचारीसमाधिसंवृतः। महती द्युतिस्तपस्तेजोमयी यस्य स महाद्युतिर्भवतीति शेषः । किं कृत्वत्साह-पञ्च व्रतानि प्राणातिपातविरमणादीनि पालयित्वा संस्पृश्यति सूत्रार्थः ॥ ४॥ तथामूलम्- स देवगंधवमणुस्सपूइए, चइत्तु देहं मलपंकपुवयं ॥
सिद्धे वा हवइ सासए देवे वा, अप्परए महिडिएत्तिबेमि ॥ ४८ ॥
उत्तरज्झयणस्स पढमज्झयणं समत्तं ॥१॥
| व्याख्या-स विनीतविनेयो मुनिर्देवैवैमानिकज्योतिष्कैः, गन्धर्वैश्च गन्धर्वनिकायोपलक्षितैय॑न्तरभवनपतिभिर्मनुष्यैश्च नृपायैः पूजितोऽर्चितो देवगन्धर्वमनुष्यपूजितः, त्यक्त्वाऽपहाय देहं शरीरं, 'मलपंकपुत्वयंति' मलपको रक्तवीर्ये तत्पू
Page #46
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२३॥
कं तत्प्रथमकारणं, सिद्धो वा भवति शाश्वतः सर्वकालावस्थायी, न तु बुद्धादिवत्तीर्थनिकारे पुनरत्रागंता !। सावशे- प्रथमाध्ययकर्मा तु देवो वा भवति, अल्परजाः प्रतनुवध्यमानकर्मा, महती विकुर्वणादिरूपा ऋद्धिर्यस्य स महर्द्धिकः, अविनम् (१) राधितमुनिधर्माणां महर्द्धिकवैमानिकदेवेष्वेवोत्पादात्, इति परिसमाप्तौ ब्रवीमि तीर्थकरगणधराद्युपदेशेन न तु खबुपैवेति सूत्रार्थः ॥ ४८॥
ഭയയായവയറുവയൽ
॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रवोपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती
विनयश्रुताख्यं प्रथमाध्ययनं सम्पूर्णम् ॥१॥
ROMAWAR
॥२३॥
Page #47
--------------------------------------------------------------------------
________________
“अथद्वितीयमध्ययनम्”
॥ अर्हम् ॥ व्याख्यातं प्रथमाध्ययनमथ द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः, इह पूर्वाध्ययने विनय उक्तः, स च स्वस्थावस्थैः परीषहार्त्तेश्च विधेय एव, अथ के नामैते परीपहाः ? इति जिज्ञासायां तत्स्वरूपावेदकमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य परषहाध्ययन स्येदमादिसूत्रम् -
मूलम् -सुअं मे आउसं तेणं भगवया एवमरकायं, इह खलु बावीसं परीसहा, समणेणं भगवया महावीरेणं कासवेणं पवेइआ, जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआ परिवयंतो पुट्ठो ण विहणेज्जा ॥ व्याख्या - श्रुतमाकर्णितं मे मया आयुष्मन्निति शिष्यामंत्रणं, इदञ्च सुधर्मस्वामी जम्बूखामिनं प्रत्याह, तेन जगत्रयप्रतीतेन भगवताऽष्टमहाप्रातिहार्यादिसमग्रैश्वर्ययुक्तेन एवममुना वक्ष्यमाणप्रकारेण आख्यातं कथितं किमाख्यातमित्याह, 'इह खलुत्ति' अन खलुशब्दस्य एवकारार्थत्वात् इहैव जिनप्रवचने एव, न तु शाक्यादिशासने, द्वाविं| शतिः परीषहाः सन्तीति गम्यते, यदिवा 'आउसंतेणंति' मया इत्यस्य विशेषणं कार्य, ततश्च आवसता आगमोक्त - मर्यादया वसता गुरुकुलवासे इति शेषः, अनेन च यावज्जीवं गुरुकुलवास एव सर्वथा वस्तव्यमित्याह, उक्तञ्च -
*%* 4 4 4 4
Page #48
--------------------------------------------------------------------------
________________
द्वितीयमध्ययनम् (२)
उत्तराध्ययन "णाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ॥धण्णा आवकहाजे, गुरुकुलवासंण मुंचंति॥१॥"अथ यद्भगवता
द्वाविंशतिः परीषहाः सन्तीत्याख्यातं तकिमन्यतोऽवगम्य खतो वेति शिष्यसंशयं निराकर्तुमाह,श्रमणेन तपखिना भग॥२४॥
वता महावीरेण श्रीवर्द्धमानखामिना काश्यपेन काश्यपगोत्रेण 'पवेइअत्ति' सूत्रत्वात् प्रविदिताः प्रकर्षण उत्पन्नकेवलज्ञानतया खयं साक्षात्कारित्वलक्षणेन विदिता ज्ञाताः नत्वन्योपदेशेनेति भावः, ते च कीदृशा इत्याह-जे भिक्खू' इत्यादि- यान् परीषहान् भिक्षुः साधुः श्रुत्वा गुरुपार्थे समाकर्ण्य, ज्ञात्वा यथावदवबुद्ध्य, जित्वा पुनः पुनरभ्यासेन परिचितान् विधाय, अभिभूय सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षाचर्यायां भिक्षाटने परिव्रजन् समन्ताद्गच्छन् स्पृष्टः
आश्लिष्टः प्रक्रमात्परीषहरेव नो नैव विहन्येत संयमशरीरोपघातेन विनाशं लभेत, उदीयन्ते हि भिक्षाटने प्रायः परीदषहा इति तद्ब्रहणं, उक्तञ्च-"भिक्खायरिआए बावीसं परीसहा उईरिजंतित्ति" इत्युक्त उद्देशः । पृच्छामाह
मूलम्-कयरे खल ते बावीसं परीसहा समणेणं भगवया महावीरेणं. कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खापरिआए परिवयंतो पुट्ठो णो विहणेज्जा ॥
व्याख्या-कतरे किं नामानस्ते अनन्तरसूत्रोद्दिष्टाः खलु वाक्यालंकारे शेषं प्राग्वत् । निर्देशमाह- मूलम्- इमे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे |भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिवयंतो पुट्ठो णो विहणेजा ॥
CAMERASACAUSAMS
SANGRESEARNA
॥४२॥
Page #49
--------------------------------------------------------------------------
________________
AAAA*S*
HARGAR
व्याख्या-इमे हृदि वर्तमानतया प्रत्यक्षाः, ते इति ये त्वया पृष्टाः, शेपं प्राग्वत् ॥
मूलम्- तंजहा-दिगिंछापरीसहे ( १ ), पिवासापरीसहे (२), सीअपरीसहे ( ३ ), उसिणपरीसहे (४), दंसमसयपरीसहे (५), अचेलपरीसहे (६), अरइपरीसहे (७), इत्थीपरीसहे (८), चरिआपरीसहे (९), णिसीहिआपरीसहे (१०), सिज्जापरीसहे (११), अकोसपरीसहे (१२), वहपरीसहे (१३), जायणापरीसहे ( १४ ), अलाभपरीसहे (१५), रोगपरीसहे ( १६), तणफासपरीसहे ( १७ ), जल्लपरीसहे (१८), सकारपुरकारपरीसहे (१९),|| पण्णापरीसहे (२०), अण्णाणपरीसहे (२१), दंसणपरीसहे (२२)॥
व्याख्या-तद्यथा इत्युपन्यासार्थः, 'दिगिंछा' देशीपरिभाषया बुभुक्षा, सैव भृशमाकुलताहेतुरपि, असंयमभीरुत्वेन आहारपचनाप्रासुकानेषणीयभोजनादिवाञ्छाविनिवर्त्तनेन परि समन्तात् सह्यते इति परीपहो दिगिंछापरीषहः (१)| पिपासा तृषा, सैव परीपहः पिपासापरिपहः (२) एवं सर्वत्रापि, नवरं, शीतं हिमसमयादी जातः शीतस्पर्शः (३) उष्णं निदाघादितापात्मकम् (४) दंशमशकाः प्रतीताः, यूकाद्युपलक्षणञ्चैते (५) अचेल चेलाभावो जिनकल्पिकविशेषाणां, अन्येषां तु जीर्णमल्पमूल्यञ्च चेलं सदप्यचेलमेव (६) रतिः संयमविषया धृतिस्तद्विपरीता चारतिः (७)
.
५
Page #50
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २५ ॥
स्त्री रामा, सैव तद्गतरागहेतुगतिविलासहास चेष्टा चक्षुर्विकारकुचभाराद्यवलोकनेऽपि तदभिलापविनिवर्त्तनेन परिपह्यमाणत्वात् परीषहः ( ८ ) चर्या विहारात्मिका ( ९ ) नैषेधिकी खाध्यायभूः (१०) शय्या उपाश्रयः ( ११ ) | आक्रोशोऽसभ्यभाषणरूपः ( १२ ) वधो लकुटादिभिस्ताडनम् (१३) याचना प्रार्थना ( १४ ) अलाभो वाञ्छितवस्तुनोऽप्राप्तिः (१५) रोगः कुष्टादिः ( १६ ) तृणस्पर्शो दर्भादिस्पर्शः ( १७ ) जल्लो मलः ( १८ ) सत्कारो वस्त्रादिभिः पूजनम्, पुरस्कारोऽभ्युत्थानादिसम्पादनम्, तावेव परीपहः (१९) प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदः ( २० ) ज्ञानं मत्यादि, तदभावश्चाज्ञानम् ( २१ ) दर्शनं सम्यग्दर्शनम्, तदेव विचित्रमतश्रवणेऽपि सम्यक् | परिषद्यमाणं निश्चलतया धार्यमाणं परीषहो दर्शनपरीषहः (२२) इत्थं नामतः परीषहानुक्त्वा खरूपतो विवक्षुस्तानाहमूलम् - परीसहाणं पविभत्ती, कासवेणं पवेइआ ॥ तं भे उदाहरिस्सामि, आणुपुत्रिं सुणेह मे ॥ १ ॥
व्याख्या - परीपहाणां पूर्वोक्तानां प्रविभक्तिः पृथक्स्वरूपतारूपः प्रविभागः काश्यपेन श्रीमहावीरेण प्रवेदिता प्ररूपिता, तां परीषहप्रविभक्तिं 'भेत्ति' भवतां उदाहरिष्यामि प्रतिपादयिष्यामि आनुपूर्व्या क्रमेण शृणुत हे शिष्याः ! यूयमिति शेषः, मे ममोदाहरतः सकाशादिति सूत्रार्थः ॥ १ ॥ इह च " छुहासमा वेअणा नत्थि" इति वचनात् परीषहाणां मध्ये क्षुत्परीपह एव दुस्सह इत्यादितस्तमाह
| मूलम् — दिगिंछापरिगए देहे, तवस्सी भिक्खु थामवं ॥ ण छिंदे ण छिंदावए, ण पए ण पयावए ॥ २ ॥
द्वितीयमध्ययनम् (२)
॥ २५ ॥
Page #51
--------------------------------------------------------------------------
________________
___ व्याख्या-दिगिंछापरिगते क्षुधाव्याप्ते देहे शरीरे सति तपखी षष्ठाष्टमादिविकृष्टतपोनुष्ठायी भिक्षुर्मुनिः स्थामवान् संयमबलवान् न छिन्द्यात् स्वयं, न छेदयेदन्यैः, फलादिकमिति शेषः, तथा न पचेत् खयं, न चान्यैः पाचयेत् , उपलक्षणत्वाच नान्यं छिन्दन्तं पचन्तं वाऽनुमन्येत, एवं न खयं क्रीणीयान्नापि कापयेदन्यैर्न चान्यं क्रीणन्तमनुमन्येत, तदेवं क्षुत्क्षामकुक्षिरपि नवकोटिशुद्धमेवाहारं खीकुर्यादिति सूत्रार्थः ॥ २ ॥ किञ्चमूलम्-कालीपत्वंगसंकासे, किसे धमणिसंतए ॥ मार्यपणे असणपाणस्स, अदीणमणसो चरे ॥३॥ ___ व्याख्या-काली काकजंघा, तस्याः पर्वाणि कालीपर्वाणि, तत्संकाशानि तत्सदृशानि तपःशोपितमांसशोणिततयाऽङ्गानि बाहुजंघादीनि यस्य स कालीपर्वसंकाशाङ्गः, सूत्रे तु व्यत्ययः प्राकृतत्वात् । अत एव कृशः कृशशरीरः, धमनीभिः शिराभिः सन्ततो व्याप्तः, इदृशावस्थोऽपि मात्रज्ञः परिमाणवेदी, नत्वतिलौल्यादतिमात्रोपभोगी, कस्ये| स्याह-अशनमोदनादि, पानं सौवीरादि, तयोः समाहारेऽशनपानं, तस्य । तथा अदीनमना अनाकुलचितश्चरेत् संयममार्गे यायात् । अयं भावः, अत्यन्तं क्षुधापीडितोऽपि साधुर्नवकोटीशुद्धमप्याहारं प्राप्य न लौल्यादतिमात्रं भुञ्जीत, तदप्राप्तौ च न दीनत्वमवलम्बेतेत्येवं क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ॥ ३॥ उदाहरणश्चात्र, तथाहि___ अस्त्यत्र भरते वर्ग-जयिन्युजयिनी पुरी ॥ हस्तिमित्राभिधः श्रेष्ठी, तत्राभूद्भरिभूतिमान् ॥१॥ सौभाग्यसेवलाधिदक्षा-वधिस्तस्य च वल्लभा ॥ अकाण्ड एवानियत, स्वप्राणेभ्योऽपि वल्लभा ॥२॥ संसारासारतां ध्यायं-स्ततो
Page #52
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २६ ॥
वैराग्यवानसौ ॥ प्रात्राजीत् हस्तिभूत्याह - पुत्रयुक् साधुसन्निधौ ॥ ३ ॥ अन्यदा तावुज्जयिन्याः, प्रस्थितौ सह साधुभिः । प्रति भोजकटं यान्ता - वरण्यानीमवापतुः ॥ ४ ॥ हस्तिमित्रमुनेस्तत्र, मर्माभित्कण्टको महान् ॥ भग्नः पादतले तेन, पुरो गन्तुं स नाशकत् ॥ ५ ॥ ततः स तद्वयथापूरैः, प्रापितः प्राणसंशयम् ॥ खसन्निधिस्थितान् साधू-नभ्यधादिति धीनिधिः ॥ ६ ॥ यूयं व्रजत कान्तार - पारञ्च प्राप्त द्रुतम् ॥ अहं त्विहैवानशनं करिष्ये गन्तुमक्षमः ॥ ७ ॥ तच्छ्रुत्वा मुनयः प्रोचु- र्हस्तिमित्र ! विषीद मा ॥ त्वां सहोत्पाट्य नेप्यामो, मोक्ष्यामो न पुनर्वने ॥ ८ ॥ धर्मकृत्येषु सारं हि वैयावृत्यं जगुर्जिनाः ॥ तत्पुनलनसम्बन्धि, विना पुण्यं न लभ्यते ॥ ९ ॥ वैयावृत्यं तदेतत्ते, करिष्यामो वयं मुदा ॥ तदाकर्ण्य जगौ हस्ति - मित्रर्षिः सत्वसेवधिः ॥ १० ॥ सत्यमेतत्परमहं, प्राप्तकालोऽस्मि साम्प्रतम् ॥ तन्मामुत्पाट्य मा यूयं, मुधा बाधामवाप्स्यथ ! ॥ ११ ॥ किञ्चात्र श्वापदाकीर्णे, प्रचुरोपद्रवे वने ॥ सर्वेषां त्यक्तसार्थानां न स्थातुमुचितं चिरम् ॥ १२ ॥ इत्युक्त्वाऽनशनं कृत्वा, क्षमयित्वा च संयतान् ॥ स सद्य: प्रेषयामास, सह सार्थेन साग्रहम् ॥ १३ ॥ स्थातुकाममपि नेहा - त्सहादायाथ तत्सुतम् ॥ प्रस्थिता मुनयो हस्ति - मित्रस्त्वस्थागुहान्तरे ॥ १४ ॥ दूरं गत्वापि तत्पुत्रो, वञ्चयित्वा मुनीनगात् ॥ पितुः समीपं सेहो हि निमंत्राकर्षणं मतम् ॥ १५ ॥ ततस्तातोऽवदत्पुत्र !, न शोभनमदः कृतम् ॥ मुनीन् विमुच्य मत्पार्थ - मविमृश्य यदागमः ॥ १६ ॥ प्रासुकान्नोदकादीनां, दाता नास्तीह कोऽपि यत् ॥ क्षुत्तृषाविवशस्तस्मा - त्वमप्यत्र विपत्स्यसे ! ॥ १७ ॥
द्वितीयमध्ययनम् (२)
॥ २६ ॥
Page #53
--------------------------------------------------------------------------
________________
ततः पुत्रोऽवदत्तात !, यद्भाव्यं तद्भवत्विह ॥ परमस्यामवस्थायां, मुक्त्वा वो न ब्रजाम्यहम् !॥१८॥ हस्तिमित्रोऽथ तत्रैव, दिवसे वेदनाकुलः ॥ स्मृतपञ्चनमस्कारो, विपद्याजनि निर्जरः ॥ १९ ॥ विपन्नमपि जीवन्तं, सुतो मोहाद्विवेदतम् ॥ प्रयुक्तावधिरज्ञासी-त्सुरोऽपि प्राग्भवं निजम् ॥ २०॥ अद्राक्षीच वपुः खीयं, तत्रस्थं तनयञ्च तम् ॥ ततस्तत्कृपया खांङ्गे, प्रविश्येति सुरोऽब्रवीत् ॥ २१॥ भिक्षायै बत्स ! गच्छ त्वं, सोऽवादीत् क व्रजाम्यहम्॥ उवाच निर्जरो याहि, भूरुहेषु वटादिषु ॥ २२ ॥ तद्वासिनो जनार्तुभ्यं, प्रदास्यन्त्यशनादिकम् ॥ तत्प्रपद्य ययौ सोऽपि, मुग्धात्मा भूरुहामधः ॥ २३ ॥ धर्मलाभ इति प्रोचैः,प्रोच्य तत्राथ तस्थुषे ॥ तस्मै भिक्षामदादृक्षा-निर्गत्यालङ्कृतः करः ॥ २४ ॥ इत्थं भिक्षां ददौ तस्मै, हस्तिमित्रामरोऽन्वहम् ॥ कृताहारञ्च तं स्नेहा-द्वार्तयामास सर्वदा ॥२५॥ देशे भोजकटस्याथ, जज्ञे दुर्भिक्षमुल्वणम् ॥ ततस्तत्राभवद्भिक्षा, भिक्षूणामतिदुर्लभा ॥ २६ ॥ तिनस्ते ततो वर्षे, द्वितीये प्रति माल वम् ॥ वलिताः पूर्वदृष्टेन, चेलुस्तेनैव वर्मना ॥ २७ ॥ अटव्यां चाययुस्तस्यां, क्षुल्लक ददृशुश्च तम्॥ कतिष्ठसि ? कथं भुझे ?, पप्रच्छुरिति तञ्च ते ॥ २८ ॥ अवादीत्सोऽथ तिष्ठामि, सर्वदा पितुरन्तिके ॥ वृक्षनिर्गतहस्ताच, लभेऽहमशनादिकम् ॥ २९ ॥ अद्य यावद्विनाऽऽहारं, वृद्धः किं जीवतीति ते ॥ तं वीक्षितुं गताः शुष्कमद्राक्षुस्तकलेवरम् ॥ ३०॥ ततस्ते व्यमृशन्नूनं, हस्तिमित्रोऽभवत्सुरः ॥ कृपयाऽन्नादिदानेन, तेनैवायमरक्ष्यत ॥३१॥ अत्राहुः केऽपि बालेन, न सोढः क्षुत्परीषहः ॥ वृद्धेन स पुनः सोढो, धैर्याधरितभूभृता ॥ ३२ ॥ अन्ये त्याहुः सुते
Page #54
--------------------------------------------------------------------------
________________
उत्तराध्ययन नापि, सोढ एव परीपहः ॥ यन्नासौ प्रासुकालाभे-ऽप्यैच्छद्भोक्तुं फलादिकम् ॥ ३३ ॥ हस्तिभूतिरपि ज्ञात्वा- द्वितीयमध्य
Isऽहारलाभं सुधाशनात् ॥ आलोचितः प्रतिक्रान्तो, विजहार सहर्षिभिः ॥ ३४ ॥ परीपहो दुर्विषहो यथाऽऽभ्यां, यनम् (२) ॥२७॥
सेहे बुभुक्षाविषयो मुनिभ्याम् ॥ ऐदंयुगीनैरपि पुण्यपीनैः, सबस्तथाऽसौ मनसाप्यदीनः॥ ३५॥ इति क्षधापरी
पहे हस्तिमित्रकथा ॥१॥ है। उक्तः क्षुत्परीषहः, क्षुधातस्य च शुद्धाहारार्थं पर्यटतः श्रमादेः पिपासोत्पद्यते, सापि सम्यक् सोढव्येति तत्परीषहमाह
मूलम्-तओ पुट्ठो पिवासाए, दोगुच्छी लज्जसंजए॥ सीओदगं ण सेविजा, विअडस्सेसणं चरे॥४॥ __ व्याख्या-ततः क्षुत्परीपहादनन्तरं स्पृष्टोऽभिद्रुतः, पिपासया, 'दोगुंच्छित्ति' जुगुप्सकोऽनाचारस्येति शेषः, 'लजसंजएत्ति' लजायां संयमे सम्यक् यतते इति लज्जासंयतः, शीतोदकं सचित्ताम्बु न सेवेत नपानादिना भजेत् , किन्तु वियडस्सत्ति' विकृतस्य वह्नयादिना विकारं प्रापितस्य एषणां एषणासमितिं चरेत् पुनः पुनः सेवेत, न त्वेकवारं| एपणाया अशुद्धावपि तृषातिरेकात्तदनेषणीयं गृह्णीयाँदिति सूत्रार्थः ॥ ४॥ तथामूलम्-छिण्णावाएसु पंथेसु, आउरे सुपिवासिए ॥ परिसुक्कमुहद्दीणो, तं तितिक्खे परीसहं ॥५॥
॥२७॥ व्याख्या-छिन्नोऽपगत आपातो जनसंचारो येषु ते छिन्नापाता विजना इत्यर्थस्तेषु पथिषु मार्गेषु गच्छन्निति शेषः, आतुरोऽत्यन्ताऽऽकुलकायः, कुत एवमित्याह-यतः 'सुपिवासिए' सुष्टु अतिशयेन पिपासितस्तृषितः परिशुष्कमप
Page #55
--------------------------------------------------------------------------
________________
गतनिष्ठीवनतयाऽना, मुखं यस्य स परिशुष्कमुखः, स चासावदीनश्च परिशुष्कमुखादीनः, तं तृषापरीषहं तितिक्षेत सहेत, अयं भावः-एकान्तस्थानस्थोऽपि बहुतृषाव्याकुलोऽपि च नोक्तमर्यादामुलंघयेत्ततस्तृट्परीषहः सोढो भवतीतिसूत्रार्थः ॥ ५॥ कथासम्प्रदायश्चात्र । तथाहि& अभूदुज्जयिनीपुर्य्या, धनमित्राभिधो वणिक् ॥ धनशर्माश्रयस्तस्य, धनशर्मा सुतोऽभवत् ॥१॥ गुरुवाणी समाकर्ण्य,
गुरुवैराग्यवान् धनः ॥ पुत्रेण पुण्यसत्रेण, सत्रा तत्राऽऽददे व्रतम् ॥ २॥ खस्मिन् परे च सहितौ, सहितौ तौ बतिवजैः॥प्रस्थितावेलगपुरा-ऽध्वनि मध्यंदिनेऽन्यदा ॥३॥ तदा च भीष्मग्रीष्मार्क-करसम्पाततापितः॥ पिपासापीडितो बालः, स चचाल शनैः शनैः ॥ ४ ॥ मुनयोऽन्येऽग्रतो जग्मु-र्धनमित्रमुनिः पुनः ॥ पश्चाच्चचाल सूनोस्तत्-प्रेमपाशनियत्रितः॥५॥ मार्गे तत्राययौ रंग-तरंगाथ तरङ्गिणी ॥ ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमोदभाक् ॥ ६॥ जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् ॥ मदभ्यर्णे च नास्त्यम्भः, प्रासुकं तत्करोमि किम् ? ॥ ७॥ तदिदानीं नदीनीरं, पीत्वोदन्यानि हन्यताम् ॥ निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ॥ ८॥ यदुक्तंनिषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा ॥ घनाम्बुना राजपथेऽति पिच्छिले, क्वचिदुधैरप्यप-18 थेन गम्यते ॥९॥” मृत्युदामापदमिमां, तदुलंघ्य कथंचन ॥ पश्चादालोचयेः पापं, समीपे सद्गुरोरिदम् ॥१०॥ इत्युदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् ॥ नूनं मदर्शने पुत्रो, हिया पास्यति नोदकम् ॥ ११॥ हीमान् कुर्वन्न
Page #56
--------------------------------------------------------------------------
________________
उत्तराध्ययन । कार्य हि, खच्छायातोऽपि शङ्कते ॥ तद्दर्शनपथादस्या-पसरामि शनैः शनैः ॥ १२ ॥ ध्यात्वेति स पुरोऽचालीत्, द्वितीयमध्य॥२८॥ क्षुलोऽथ प्राप निम्नगाम् ॥ तृषार्तोऽपि न तत्तोय-मपिबच्च दृढव्रतः ॥ १३ ॥ अन्ये त्वाहुरुदन्यानि, बाधितः सायनम् (२)
शिशुभृशम् ॥ शुष्यत्तालुमुखोरस्क-श्चेतसीति व्यचिन्तयत् ॥१४॥ पिबाम्यऽनादेयमपि, नाऽऽदेयं वारि साम्प्रतम् ॥ प्रायश्चित्तं ग्रहीष्यामि पश्चात्सद्गुरुसन्निधौ ॥ १५॥ विमृश्येति समुत्पाट्य, पातुमञ्जलिना जलम् ॥ निन्ये यावन्मुखस्याग्रे, सोऽध्यासीदिति तावता ॥ १६ ॥ पिवामीमान् कथं जीवा-नहं विज्ञातजैनगीः ॥ उदविन्दौ यदेकत्रा|ऽसङ्खयजन्तून् जिना जगुः ॥ १७ ॥ त्रसाः पूतरमत्स्याद्याः, स्थावराः पनकादयः॥ नीरे स्युरिति तघाती, सर्वेषां हिंसको भवेत् ॥ १८ ॥ तत्कियद्भिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् ॥ तान् प्राणान् रक्षितुं दक्षः, परप्राणान्निहन्ति कः ? ॥ १९॥ सजीवं जीवनमिदं, तन्न पास्यामि सर्वथा ॥ निर्णीयेति शनैनद्यां, स मुमोचाजलेर्जलम् ॥२०॥ वालोऽप्यबालधैर्यस्ता-मुत्तीर्य तटिनी ततः॥ तत्तीर एव सोऽपत-तृष्णया गन्तुमक्षमः॥ २१॥ धर्मस्थैर्य दधचित्ते, पिपासाविवशोऽपि सः॥ स्मृतपञ्चनमस्कारो, विपद्य त्रिदिवं ययौ ॥ २२ ॥ प्रयुज्याथावधिज्ञानं, ज्ञात्वा पूर्वभवं निजम् ॥ पुरो गत्वा स्थितं तातं, प्रेक्ष्य खाङ्गे प्रविश्य च ॥ २३ ॥ अन्वगाद्धनमित्रर्षि, ततश्चलयितुं सुरः॥ समायान्तं सुतं दृष्ट्वा, हृष्टः सोऽप्यचलत्पुरः ॥ २४॥[युग्मम् ] अथोदन्या व्यथार्तानां, मुनीनामनुकम्पया ॥ धनशर्माऽमरो भूरि- गोकुलान्यध्वनि व्यधात् ॥ २५ ॥ तेभ्योऽधिगत्य तक्रादि, साधवः खास्थ्यमासदन् ॥ सुधाकुण्डे
॥२८॥
Page #57
--------------------------------------------------------------------------
________________
भ्य आसाद्य, पीयूषमिव निर्जराः॥२६॥ विहरन्तः सुखेनैवं, तत्कृते जिका व्रजे॥उलंघ्यारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ॥ २७ ॥ ततोऽग्रे गच्छतां तेषां, मध्यात्कस्यापि विण्टिकाम् ॥ खं जिज्ञापयिषुः सोऽथ, तत्र व्यस्मरयत्सुरः ॥ २८ दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती ॥ उपधेर्विण्टिकांतत्रा-ऽपश्यत्वां न तु गोकुलम् ॥ २९॥ तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः ॥ अवदद्विण्टिकाळामं, गोकुलादर्शनं च सः॥ ३०॥ जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशन्निति ॥ नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ॥ ३१ ॥ अत्रान्तरे प्रादुरासीत् , स सुरः
कान्तिभासुरः ॥ विहाय पितरं सर्वान् , मुनीनऽन्यान्ननाम च ॥ ३२ ॥ एनं कुतो न नमसी-त्युक्तः स ब्रतिभि|स्ततः॥खीयं व्यतिकरं सर्व, निवेद्येत्यवदत्सुरः ॥ ३३ ॥ सजीवाम्भोऽपि पातुं य-तदासौ मे मतिं ददौ, तत्पूर्वभवव-12
सापि, साधु रेषन वन्द्यते ॥ ३४॥ स्नेहादपि रिपोरेव, काय विहितवानसौ ॥ यद्दतिनिमित्तं मे, तदा तदपदिष्टहवान् ॥ ३५ ॥ अपास्यं चेत्सचित्ताम्वु, तदैतद्वचनादहम् ॥ व्रतभङ्गभवात्पापा-दभ्रमिष्यं तदा भवे ॥ ३६ ॥ स एव
हि बुधैः पूज्यो, गुरुश्च जनकोऽपि च ॥ शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्तयेत् ॥३७॥ धनशर्मसुपर्वैवमुदीर्यागात्रिविष्टपम् ॥साधवोऽपि ततः स्थाना-द्विजहस्ते यथासुखम् ॥ ३८॥क्षुल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः॥ एवं समग्रैरपि संयतैः सा, सह्या महानन्दपदानुरक्तैः॥ ३९॥ इति तुटपरीपहे धनशर्ममुनि कथा ॥२॥
उक्तस्तृपापरीपहः, क्षुत्पिपासासहनकृशतनोश्च शीतकाले शीतमपि बहु लगतीति शीतपरीषहमाह
Page #58
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २९ ॥
मूलम् —चरंतं विरयं लूहं, सीअं फुसइ एगया ॥ णाइवेलं मुणी गच्छे, सोच्चा णं जिणसासणं ॥ ६ ॥ - चरन्तं ग्रामानुग्रामं मोक्षमार्गे वा प्रजन्तं विरतं सावद्ययोगान्निवृत्तं 'लहंति' तैलाभ्यंगस्नानस्निग्धाहारादिपरिहारेण रूक्षं, मुनिमितिशेषः, शीतं हिमं, स्पृशति, अभिद्रवति, बाधते इत्यर्थः । एकदा शीतकाले, ततः किं कुर्यादित्याह-न नैव अतिवेलं वेलां स्वाध्यायादिसमयात्मिकामतिक्रम्य शीतभयान्मुनिः साधुर्गच्छेत् स्थानान्तर - मुपसप्र्पेत् श्रुत्वा 'णमिति' वाक्यालङ्कारे, जिनशासनं जिनागमं 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादौ शीतवेदना अनुभूता ! जीवैरित्यादिकम् ' इतिसूत्रार्थः ॥ ६ ॥ किञ्च -
मूलम् — ण मे णिवारणं अस्थि, छवित्ताणं ण विज्जइ ॥ अहं तु अग्गिं सेवामि, इइ भिक्खु ण चिंत ॥ ७ ॥
व्याख्या- न मे मम निवारणं शीतवातादिनिवारकं सौधाद्यस्ति विद्यते, तथा छवित्राणं त्वक्त्राणं कम्बलवस्त्रादि न विद्यते, ततोऽहं शीतमपाकर्तुं तु पुनरग्निं सेवे इति भिक्षुर्न चिन्तयेन्न ध्यायेत्, चिन्तानिषेधे सेवनं तु दूरापास्तमिति सूत्रार्थः ॥ ७ ॥ दृष्टान्तश्चात्र । तथाहि
पूरे राजगृहेऽभूवं चत्वारश्चतुरोत्तमाः ॥ सखायोऽन्योन्यमुत्कृष्ट-प्रेमभाजो वणिग्वराः ॥ १ ॥ भद्रबाहुखामि - पार्थे, श्रुत्वा धर्म जिनोदितम् । ते चत्वारोऽपि सआत - संवेगाः प्रात्रजन् मुदा ॥ २ ॥ गुरुश्रुश्रूषणात्पार- दृश्वा - नस्ते श्रुतोदधेः ॥ एकाकित्वविहाराख्यां, प्रतिमां प्रतिपेदिरे ॥ ३ ॥ कल्पश्वायमभूत्तेषां यद्विहाराशनादिकम् ॥
द्वितीयमध्ययनम् (२)
॥ २९ ॥
Page #59
--------------------------------------------------------------------------
________________
तृतीय एव प्रहरे, कार्य कार्य समाहितैः॥४॥ तुर्ययामप्रवेशे तु, भवेद्यो यत्र संस्थितः ॥ तेन तत्र प्रतिमया, स्थेयं | प्रहरसप्तकम् ॥५॥ कल्पमेनं श्रयन्तस्ते, विहरन्तो धरातले ॥ परेद्यवि पुरं राज-गृहं पुनरुपाययुः॥ ६॥ तदा च | तुहिनव्यूहैः, पीडयन् जगतीजनम् ॥ पत्रपुष्पफलोपेतान् , स्थाणून् कुर्वन् महीरुहान् ॥ ७॥ तटाकान्यपि सर्वाणि, स्त्यानयन्नाज्यवन्निशि ॥ निरास्पदान् पक्षिपशु-श्वापदान् दारुतां नयन् ॥ ८॥ शीतकम्प्रदरिद्राणां, दन्तवाद्यं प्रवादयन् ॥ कृशानुसेविनं कुर्वन् , सर्व श्रोत्रियवजनम् ॥ ९॥ रुष्टानपि मिथोऽत्यर्थ, दम्पतीन् परिरम्भयन् ॥ हेमन्तर्नुः प्रववृते, विश्वं हेममयं सृजन् ॥ १०॥ [चतुर्भिः कलापकम् ] हिमत्तौं तत्र वैभार-गिरेस्ते मुनयः पुरे ॥ आहारार्थ समाजग्मुः, प्रहरेऽहस्तृतीयके ॥ ११ ॥ कृताहाराश्च ते सर्वे, गन्तुं वैभारभूधरम् ॥ पृथक् पृथग् न्यवत्तेन्त, पुरमध्यामहर्षयः ॥ १२॥ वैभाराद्रिगुफाद्वारे, प्राप्तस्यैकस्य तेष्वथ ॥ द्वितीयस्य पुरोद्याने, तृतीयस्य तदन्तिके ॥ १३॥ तुर्यस्य तु पुरोपान्ते, चतुर्थः प्रहरोभवत् ॥ कायोत्सर्ग ततः कृत्वा, ते तत्रैवायतस्थिरे ॥ १४॥ [युग्मम् ] तेष्वद्रिकंदराद्वार-संस्थितस्य तपखिनः ॥ उच्चैः स्थितत्वादलग-च्छीतमत्यन्तदारुणम् ॥ १५॥ पततुहिनसम्पर्क-शीतलैः शैलमारुतैः ॥ कायश्चकम्प तस्योचै-न किञ्चिदपि मानसम् !॥ १६ ॥ स शीतवेदनां सम्यक्, सहमानो महामुनिः॥ यामिन्याः प्रथमे यामे, परलोकमसाधयत् ॥ १७ ॥ उद्यानस्थस्य नीचैस्त्वा-च्छीतमल्पं किमप्यभूत् ॥ ततो रजन्याः| प्रहर, द्वितीये स व्यपद्यत ॥ १८ ॥ उद्यानपार्थवृत्तेस्तु, वृक्षाद्याश्रयतोऽलगत् ॥ शीतमल्पं ततो यामे, स विपन्नस्तृ
Page #60
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥ ३० ॥
तीयके ॥ १९ ॥ आसीदल्पतरं शीतं, तुर्यस्य नगरोष्मणा ॥ ततः स प्रहरे तुर्ये, परासुत्वमगान्मुनिः ॥ २० ॥ चत्वारोऽपि प्राज्यधैर्या मुनींद्राः, स्वर्ग प्रापुस्ते विषह्येति शीतम् ॥ इत्थं सर्वैः साधुभिस्त्यक्तकामै - स्तत्सोढव्यं मुक्तिसंयु|क्तिकामैः ॥ २१ ॥ इति शीतपरीषहे साधुचतुष्ककथा ॥ ३ ॥
इदानीं शीतविपक्षमुष्णमिति, यद्वा शीतकाले शीतं तदनु ग्रीष्मे उष्णमिति तत्परीषहमाहमूलम् -- उसिणप्परिआवेणं, परिदाहेण तजिए ॥ धिंसु वा परिआवेणं, सायं णो परिदेवए ॥ ८॥ व्याख्या- उष्णं उष्णस्पर्शयुक्तं भूरेणुशिलादि, तेन परिताप उष्णपरितापस्तेन, तथा परिदाहेन बहिः खेदमलाभ्यां वह्निना वा, अन्तश्च तृष्णोत्थदाहरूपेण तर्जितोऽत्यन्तपीडितः, तथा 'घिसुवत्ति' ग्रीष्मे, वाशब्दात् शरदि वा परितापेन रविकिरणकृतेन तर्जित इत्यत्रापि योज्यम्, सातं सुखं प्रतीतिशेषः, नो परिदेवेत् 'हा ! कदा चन्द्रचन्दनझंझानिलादयः सुखहेतवो मम संपत्स्यन्ते' इति न प्रलपेदिति सूत्रार्थः ॥ ८॥
मूलम् - उण्हाभितत्तो मेहावी, सिणाणं णोवि पत्थए ॥ गायं णो परिसिंचेजा, ण वीएजाय अप्पयं ॥ ९॥
व्याख्या - उष्णाभितप्तो मेधावी मर्यादावर्त्ती स्नानं जलाभिषेकं 'णोवि पत्थपत्ति' अपेर्भिन्नक्रमत्वात् नो नैव प्रार्थये - दपि, अभिलषेदपि, कथं पुनस्तत्कुर्यादितिभावः, तथा गात्रं देहं नो परिसिञ्चेत् न सूक्ष्माम्बुविन्दुभिराद्रकुर्यात्, न वीजयेच तालवृन्तादिभिः, अल्पकमपि, स्तोकमपि किम्पुनर्बहुरिति सूत्रार्थः ॥ ९ ॥ उदाहरणञ्चात्र, तथाहि—
द्वितीयमध्ययनम् (२)
॥ ३० ॥
Page #61
--------------------------------------------------------------------------
________________
अभूलक्ष्मीकुलागारं, नगरी तगराभिधा ॥ दत्तप्रमोदस्तत्रासी-इत्तनामा वणिग्वरः ॥ १॥ स भद्राभार्यया साकं, भुजानः सुखमुत्तमम् ॥ अरहन्नकनामानं, पुत्ररत्नमजीजनत् ॥ २॥ धर्ममार्हतमाका -ऽर्हन्मित्राचार्यसन्निधौ ॥ विरक्तो व्रतमादत्त, दत्तः पत्नीसुतान्वितः ॥३॥ दत्तोऽरहन्नकं स्नेहा-दिष्टैर्भोज्यैरपोषयत् ॥ कदाचिदपि भिक्षार्थ, प्रेषयामास तं न तु ॥४॥ उत्तमर्ण इवानेन, किमयं पोष्यतेऽन्वहम् ॥ समर्थोऽपि च किं भिक्षा-चर्यामेष न कार्यते ? ॥ ५॥ ध्यायन्तोऽपीति निर्ग्रथा, वक्तुं किमपि नाशकन् ॥ पुत्रं वा पालयन् वप्ता, निषेधूं केन शक्यते ? ॥ ६॥ [ युग्मम् ] निदाघसमयेऽन्येधु-दत्तः साधुळपद्यत ॥ तद्वियोगान्महादुःख-माससादाऽरहन्नकः ॥ ७ ॥ ततोऽन्ये संयतास्तात-विरहातुरचेतसे ॥ तस्मै द्वित्रान् दिनान् याव-दानीयाहारमार्पयन् ॥ ८ ॥ अथ तं यतयोऽवोचन् , भिक्षार्थ पर्यट खयम् ॥ नेदानीं पितृवत्कोऽपि, दास्यत्यानीय भोजनम् ॥ ९॥ दग्धोपरिष्ठात् पिटको-पमां वाचं निशम्य ताम् ॥ चचाल विमनाः सोऽथ, भिक्षायै मुनिभिः समम् ॥ १० ॥ अतीवसुकुमाराङ्गः, पूर्वमप्यकृतश्रमः ॥ तदा निदाघतापेन, पर्यभूयत सोऽधिकम् ॥ ११॥ ग्रीष्मार्ककिरणोत्तप्त-रेणुकानिकरेण सः॥ अदह्यत पदो ढं,
मोलौ च तपनांशुभिः ॥ १२ ॥ पश्चास्थितोऽन्यसाधुभ्य-स्तृषा शुष्यन्मुखाम्बुजः ॥ महेभ्यसदनच्छायां, विश्रमाय 3 इस शिश्रिये ॥१३॥ सौभाग्यमन्मथं तं च, तत्रस्थं तद्गृहेश्वरी॥धनाढ्यवणिजोभार्या-ऽपश्यत्प्रोपितभर्तृका ॥१४॥
अचिंतयच सा रूप- महो ! अस्य मनोहरम् ॥ यदृष्टमात्रमपि मे, समाकृषति मानसम् ॥ १५॥ तदमुं रमयित्वा
Page #62
--------------------------------------------------------------------------
________________
स
दितीयपध्व
नम् (२)
खं, करोमि सफलं वयः ॥ ध्यात्वेति प्राहिणोदासी, सा तदाह्वानहेतवे ॥ १६ ॥ दास्याहूतः सोऽपि तस्याः, मनसीव
गृहेऽविशत् ॥ सापि हर्पभरोदश्च-त्कुचकुम्भा तमभ्यगात् ॥ १७ ॥ पप्रच्छ च स्मितोन्मिश्र-दन्तांशद्योतिताधरा समग्रसुभगोत्तंस !, किं याचति भवानिति ॥ १८॥ अथारहन्नकः स्माह, भिक्षामभ्यर्थये शुभे ॥ ततः सा व्यमृशत्स्मेर-स्मरापस्मारविह्वला ॥ १९ ॥ वशीकरोम्यमुं स्निग्ध-मधुराहारदानतः ॥ खादुभोज्यं हि सर्वेषां, वशीकरणमुत्तमम् ॥ २. ध्यात्वेति सार्पयत्तस्मै, मोदकान् सुन्दरान् बहून् ॥ सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम्
॥ २१॥ पश्यन्ती स्निग्धया दृष्ट्या, सा प्रप्रच्छेति तं पुनः ॥ युवत्वेऽपि त्वया तीन, किमर्थ व्रतमाददे । है मुनिरूचे मया दीक्षा, जग्रहे सौख्यहेतवे ॥ सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ॥ २३॥ यद्येवं तन्मया सार्द्ध,
भुङ्ख वैषयिकं सुखम् ॥ पालिताया इयत्कालं, दीक्षायाः फलमामुहि ॥ २४ ॥ कुरूपदुःस्थस्थविर- कर्कशाङ्गजनोचिताम् , इमां कष्टक्रियां मुञ्च, मुधा खं वञ्चयख मा ॥ २५॥ इदं गृहमियं लक्ष्मी-रयं परिजनोऽखिलः॥ सर्वमेतत्तवायत्तं, यदि त्वं खीकरोपि माम् ॥ २६ ॥ लावण्याव्यमिदं रूपं, शरीरं चेदमावयोः ॥ अन्योन्यसङ्गमादद्य, सफलत्वं प्रपद्यताम् ॥ २७ ॥ भवेद्यदि च दीक्षायां, भवतोऽत्यन्तमाग्रहः ॥ भुक्तभोगस्तदा भूयो, वा के तां समाचरेः ॥ २८ ॥ श्रुत्वेति तद्वचस्तस्याः, विभ्रमांश्च विलोक्य सः ॥ भग्नचित्तोऽभवत्को वा, कामिनीभिर्न भिद्यते ? ॥ २९ ॥ यदुक्तं-"दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः !॥ किम्पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ! ॥३०॥"
Page #63
--------------------------------------------------------------------------
________________
ततः स्वीकृत्य तद्वाच- मवतस्थे स तद्गृहे ॥ तया साकं यथाकाम, रेमे चात्यन्तरक्तया ॥ ३१ ॥ अथ गोचरच यां, वसतौ चाऽरहन्नकम् ॥ अप्रेक्षमाणा मुनयो-ऽन्वेषयन्निखिले पुरे ॥ ३२ ॥ तत्प्रवृत्तिमपि कापि, नालभन्त तथापि ते ॥ ततस्तन्मातुरार्याया-स्तं तदृत्तान्तमूचिरे ॥ ३३ ॥ वार्ता निशम्य तां पुत्र-शोकेनातिगरीयसा ॥ प्रणवत्ता सा भूता-ऽऽविष्टेवोन्मत्ततामगात् ॥ ३४ ॥ ततोऽरहन्नकेत्युच्चै-विलपन्ती सगद्गदम् ॥ सा पुरे सकलेऽभ्राम्य- नारी चेटकपेटकैः ॥ ३५॥ पन्थानमभिषिञ्चन्ती, नयनश्रवदश्रुभिः ॥ तमिश्रेणेव मोहेन, प्रस्खलन्ती पदे पदे ॥ ३६॥ दृष्टोऽरहन्नकः क्वापि, पुत्रो मे प्राणवल्लभः १ ॥ यं यं पश्यति तं तं च, पृच्छन्तीति पुनः पुनः ॥ ३७ ॥ कृतानुकम्पा
सुजनै-हस्यमाना च दुर्जनैः॥ दृष्टाऽरहन्नकेनोच्चै- गवाक्षस्थेन साऽन्यदा ॥ ३८ ॥ [ त्रिभिर्विशेषकम् ] प्रत्यभिज्ञाय B/ता प्रेक्ष्य, तदवस्थां च तादृशीम् ॥ स समुत्पन्ननिर्वेदः, खहृदीति व्यचिन्तयत् ॥ ३९ ॥ अहो ! मे निर्विवेकत्व
हो! दुष्कर्मकारिता॥ यदस्या वचनैस्यक्तं. मया मक्तिप्रदं व्रतम ॥४०॥दस्सहे व्यसने माता, पातितेयमपी-1 दृशे ॥ खात्मा च व्रतभङ्गेन, भवाब्धौ पातितो हहा !॥४१॥ इदानीमपि तन्मातुः, शोकमुन्मूलयाम्यहम् ॥ ध्यात्वेति स गृहात्तस्मा-निर्जगाम ससम्भ्रमः॥४२॥ कुलाङ्गारोपमो मात-रसौ त्वामरहन्नकः ॥ नमतीति ब्रुवन् बाष्प-प्लुताक्षस्तां ननाम च॥४३॥ तं वीक्ष्य स्वस्थचित्ता सा, सप्रमोदैवमब्रवीत् ॥ एतावन्ति दिनान्यस्थात् ?, कुत्र पुत्र ! भवानिति ॥४४॥ ततः प्रोवाच स प्राच्यं, सर्व व्यतिकरं निजम् ॥ तं श्रुत्वा साऽवदद्वत्स !, भूयः स्वीकुरु
Page #64
--------------------------------------------------------------------------
________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
॥३२॥
संयमम् ॥ ४५ ॥ तुच्छानां मर्त्यसौख्याना-मेतेषां हेतवे कृतिन् !॥ अनन्तदुःखदामा स्म-स्वीकार्नरकव्यथाः॥४६॥ सोऽशंसन्नैव शक्तोऽस्मि, पापोऽहं व्रतपालने ! ॥ ततो वदसि चेन्मातः!, करोम्यनशनं तदा ॥४७॥ तुष्टा भद्राऽभ्यधाद्भद्र !, तवैतदपि साम्प्रतम् ॥ नत्वनन्तभवभ्रान्ति-निमित्तं व्रतभञ्जनम् ॥४८॥ यदाहुः-“वरमग्गिमि पवेसो, वरं विसुद्धण कम्मुणा मरणं ॥ मा गहिअवयभंगो, मा जीअं खलिअसीलस्स ॥४९॥" ततः स योगं सा|वद्यं, प्रत्याख्याय महाशयः ॥ क्षमयित्वाऽखिलान् जन्तू-निन्दित्वा दुरितं निजम् ॥ ५० ॥ श्रित्वा चत्वारि शरणान्यादायाऽनशनं तथा ॥ गत्वा वहिर्दिनेशांशु-तापितामश्रयच्छिलाम् ॥ ५१॥ [ युग्मम् ] धर्मध्यानी पादपोपगमनं प्रतिपालयन् ॥ तामुष्णवेदनां सम्यक्, सहमानोऽतिदारुणाम् ॥ ५२ ॥ स साधुः सुकुमाराङ्गः, स्मरन् पञ्च नमस्क्रियाः॥ व्यलीयत मुहूर्तेन, तत्र म्रक्षणपिण्डवत् ॥५३॥ [युग्मम् ] इत्थमुष्णमधिसह्य स पश्चा- इत्तनन्दनमुनिस्त्रिदशोऽभूत् ॥ एवमेतदपरैरपि सम्यग् , मर्षणीयमृषिभिर्निरमः ॥५४॥ इत्युष्णपरीषहे अरहन्नकमुनिकथा ॥४॥ ___अथ ग्रीष्मे उष्णं तदनु च वर्षासु दंशमशकाः स्युरिति तत्परीषहमाह
मूलम्-पुट्ठो अ दंसमसएहिं, समरेव महामुणी॥णागो संगामसीसे वा, सूरो अभिहणे परं ॥१०॥ I व्याख्या-स्पृष्टोऽभिद्रुतः, चः पूत्तौं, दंशमशकैरुपलक्षणत्वाचूकामत्कुणादिभिश्च ‘समरेवत्ति' सम एव शत्रुमित्रेषु तुल्यचित्त एव, प्राकृतत्वाद्विसर्जनीयस्य रेफः, महामुनिः 'णागो सङ्गामसीसे वत्ति' नाग इव करीव, वाशब्दस्येवार्थ
॥ ३२॥
Page #65
--------------------------------------------------------------------------
________________
स्थात्र सम्बन्धात् , संग्रामशिरसि रणमस्तके शूरः पराक्रमी अभिहन्यात् जयेत् परं शत्रु, अयं भावः- यथा शूरः करी, शरैर्व्यथ्यमानोऽपि तानगणयन् रणशिरसि शत्रु जयति, एवं मुनिरपि दंशाद्यैः पीड्यमानोऽपि भावविपक्षं क्रोधादिकं जयेदिति सूत्रार्थः ॥ १०॥ कथं पुनर्भावरिपुं जयेदित्याहमूलम्–ण संतसे ण वारिजा, मणंपि ण पओसए॥उवेह ण हणे पाणे, भुंजते मंससोणिअं॥ ११ ॥ ___ व्याख्या-न संत्रसेन्नोद्विजेइंशादिभ्य इति शेषः, न वारयेन्न निषेधयेइंशादीनेव तुदतोऽपि माभूदन्तराय इति, तथा . मनश्चित्तं तदपि आस्तां वचनादि न प्रदूषयेन्न प्रदुष्टं कुर्यात् , किन्तु 'उहत्ति' उपेक्षेत औदासीन्येन पश्येत्, एव न हन्यात् प्राणिनो जीवान् भुनानान् भक्षयतो मांसशोणितं, किन्त्वाहारार्थिनोऽमी भोज्यं चैषां मम वपुर्बहुसाधारणं च यदि भक्षयन्ति तर्हि किमत्र प्रद्वेषेणेति चिन्तयेदिति सूत्रार्थः ॥ ११॥ उदाहरणश्चात्र, तथाहि| अस्त्यकम्पा पुरी चम्पा-भिधाना भूविभूषणम् ॥ तस्यां सान्वर्थनामासी-जितशत्रुर्महीपतिः ॥ १॥ तस्य श्रम-2 णभद्राह्वः, सूनुः सात्विकपुङ्गवः ॥ युवराजोऽजनि जग-जनाहादनचन्द्रमाः॥२॥ धर्मघोषगुरोः पार्थे, धर्म जिनोदितम् ॥ विरक्तः कामभोगेभ्यो, महात्मा सोऽग्रहीद्वतम् ॥ ३॥ श्रुताम्भोनिधिपारिणः,स प्रसादागुरोरभूत् ॥ |एकाकित्वविहाराख्यां, प्रतिमां च प्रपन्नवान् ॥४॥ निम्नभूमिप्रदेशेषु, विहरन् सोऽन्यदा मुनिः ॥ शरत्काले महाहाटव्यां, तस्थौ प्रतिमया निशि ॥५॥ सूचीसमानवदना-स्तत्र दंशा सहस्रशः॥ विलग्य कोमले तस्य, शरीरे शोणितं
श्रुत्वा
Page #66
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥३३॥
पपुः ॥ ६॥ निरन्तरं विलग्नेस्तै-देशैर्दशनतत्परैः॥ स मुनिः स्वर्णवर्णोऽपि, लोहवर्ण इवाऽऽबभौ ॥७॥ दशत्सु तेषु
द्वितीयमध्यतस्योच्चै-वेदनाऽऽसीत्तथापि सः॥ तितिक्षामास तां क्षान्ति-क्षमो न तु ममार्ज तान् ॥८॥ अचिन्तयच दंशोत्था, | यनम् (२) काव्यथाऽसौ कियता मम ॥ इतोऽप्यनन्तगुणिता, नरकेषु हि सा भवेत् ॥९॥ यतः-"परमाधार्मिकोत्पन्ना, मि-12
थोजाः क्षेत्रजास्तथा ॥ नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनाऽपि न !॥१०॥" किञ्च-अन्यद्वपुरिदं जीवा-1 जीवश्चान्यः शरीरतः॥ जानन्नपीति को दक्षः, करोति ममतां तनौ ? ॥ ११॥ किञ्चानेन शरीरेण, खल्पकालविनाशिना ॥ यद्येषां जायते तृप्तिः, किं न प्राप्तं ? तदा मया ॥ १२॥ भावयन्निति स प्राज्ञः, क्षममाणश्च तां व्यथाम्॥ रात्रावेव जही प्राणान् , दंशैः शोषितशोणितः॥ १३॥ इति विषय स दंशपरीषह, श्रमणभद्रमुनिस्त्रिदशोऽभवत् ॥ तदपरैरपि साधुवरैरयं, जिनवचोनिपुणैः परिपद्यताम् ॥ १४ ॥ इति दंशमशकपरीषहे श्रमणभद्रश्रमणकथा ॥५॥ | अथ दंशाद्यैः पीड्यमानेऽपि वस्त्रान्वेषणपरो न स्यादित्यचेलपरीषहमाह
मूलम्-परिजुण्णेहिं वत्थेहि, होक्खामित्ति अचेलए॥अदुवा सचेलए होक्खं, इइ भिक्खूण चिंतए॥१२॥ | व्याख्या-परिसमन्तात् जीर्णैर्दुलैर्वस्त्रैः कल्पादिभिः 'होक्खामित्ति' भविष्यामि अचेलकश्चलहीनोऽल्पदिनमा-2 लावित्वादेषां, प्राच्यस्य 'इति' शब्दस्य भिन्नक्रमस्खेह सम्बन्धात् इत्येतद्भिक्षन चिन्तयेदिति योगः, 'अदुवत्ति' अथवा
सचेलको भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिदुपासकः सुन्दराणि वस्त्राणि दास्यतीति भिक्षुने चिन्तयेत्,
॥ ३३
%3D
Page #67
--------------------------------------------------------------------------
________________
४ अयं भावः- न जीर्णचेलोऽन्यचेलानां लाभासम्भावनया दैन्यं, लाभसम्भावनया वा प्रमोदं, गच्छेदिति सूत्रार्थः M॥ १२ ॥ यतः
मूलम्-एगया अचेलओ होइ, सचेलेआवि एगया॥एअं धम्महिअंणच्चा, णाणी णो परिदेवए ॥१३॥ | व्याख्या-एकदा जिनकल्पाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादि वस्त्रतया वाऽचेलको भवति, सचेलकश्चापि एकदा स्थविरकल्पिकाद्यवस्थायां, ततः किमित्याह-एतदित्यवस्थौचित्येन सचेलत्वमचेलत्वञ्च धर्महितं साधुधर्मो-13 पकारकं ज्ञात्वाऽवबुध्य, तत्राऽचेलत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिना, सचेलकत्वस्य तु तथात्वमन्याद्यारम्भनिवारकत्वेनेति ध्येयं, ज्ञानी नो परिदेवयेत् , अचेलस्य मम शीतसम्पातसन्तापितस्य किमिदानी शरणमिति न दैन्यमा-2 लम्बतेति सूत्रार्थः ॥ १३ ॥ उदाहरणम् सम्प्रदायश्चायमत्र, तथाहिT अभूत्पुरे दशपुरे, सोमदेवो द्विजाग्रणीः ॥ तस्य भार्याऽभवद्रुद्र-सोमाह्वा परमाईती ॥ १॥ तयोरभूतां द्वौ पुत्री, गुणरत्नमहोदधी ॥ तत्रार्यरक्षितो ज्येष्ठो, द्वितीयः फल्गुरक्षितः ॥२॥ तत्राऽधीत्य पितुः पार्थे, तद्विद्यामार्यर-| क्षितः ॥ जगामाधिकविद्यार्थी, पाटलीपुत्रपट्टनम् ॥३॥ साङ्गवेदपुराणाद्याः, विद्यास्तत्र चतुर्दश ॥ अधीत्यागाद्दशपुरं, पुरं स खजनोत्सुकः ॥ ४ ॥ तमधीतचतुर्वेद, ज्ञात्वाऽऽयातं नरेश्वरः ॥ अभिगम्य गजस्कन्धे-ऽध्यारोप्यावीविशत्पुरे | ॥ ५॥ कृत्वोत्तम्भितकेतुं त-नगरं नागरा अपि ॥ अभ्याययुस्तं सर्वेऽपि, प्रौढप्राभृतपाणयः ॥ ६॥ सम्पूज्यमानः
Page #68
--------------------------------------------------------------------------
________________
द्वितीयमध्य यनम् (२)
उत्तराध्ययन
सर्वेण, पूर्जनेन नृपेण च ॥ जगाम खगृहं बाह्य-शालामध्यवसच सः॥ ७ ॥ पुरलोकेन राज्ञा चा-ऽय॑मानं तं धना-
दिना ॥ दृष्ट्वा तद्वन्धवो हृष्ट-मानसा वह्वमानयन् ॥ ८॥ आवद्धतोरणं सद्यः, पौरैस्तन्मन्दिरं तदा ॥ रूप्यस्वर्णम- ॥३४॥
|णिधेन-प्रभृतिप्राभृतैर्भूतम् ॥९॥ अथार्यरक्षितो दध्यौ, प्रमादाजननी निजाम् ॥ यन्नाद्राक्षमहं पूर्व. तद्विनीतस्य नो. साचितम ॥ १०॥ मद्वियोगादशां माता, कामप्यासा भविष्यति ॥ तदद्यापि निजां लक्ष्मी, दर्शयन् मोदयामि ताम्
॥ ११॥ ध्यात्वेति स द्रुतं दिव्य-वस्त्राभरणभूषितः ॥ अन्तर्गेहमगात्सीयां, सवित्री प्रणनाम च ॥ १२ ॥ स्वागतं
तव हे पुत्रे-त्युदित्वा मौनमाश्रिता ॥ उदासीनेव सा त्वस्थात् , प्रेमान्तबहु बिभ्रती ॥ १३॥ स्नेहोद्रेकं तदा मातुहरपश्यन्नित्युवाच सः॥ चिरादेतं भक्तिमन्तं, माता भाषसे न किम् ? ॥ १४ ॥ अथेत्थं रुद्रसोमाख्य-त्किमेभिः
खान्यनाशकैः ॥ हिंसोपदेशकैः शास्त्रै-रधीतैनरकप्रदैः ॥ १५ ॥ एतेषां च प्रभावेण, त्वां घोरे दुःखसागरे ॥ पतिप्यन्तं प्रपश्यन्त्याः, स्यादानन्दः कथं ? मम ॥१६॥ मद्वाचि प्रत्ययश्चेत्ते, भक्तिश्च मयि विद्यते ॥ स्वर्गापवर्गदं वत्स !, दृष्टिवादं तदा पठ॥ १७॥ अथार्यरक्षितो ध्या-वपि लोकप्रमोदिना ॥ तेनाधीतेन किं ? येन, जननी मे न तुष्यति ॥ १८ ॥ ध्यात्वेत्यम्बां स पप्रच्छ, दृष्टिवादः क्व पठ्यते ? ॥ साऽप्यवादीदृष्टिवादो-ऽधीयते साधुसन्निधौ ॥ १९॥ दर्शनानां विचारो यो, दृष्टिवादः स उच्यते ॥ तन्नामाऽप्यऽस्य शास्त्रस्य, दृश्यते सुन्दरान्वयम् ॥२०॥ इत्यार्यरक्षितो ध्यायन् , जगाद जननीमिति ॥ अध्येष्येऽहं दृष्टिवाद, त्वदादेशवशंवदः ॥ २१॥ [ युग्मम् ] सङ्गं
॥ ३४॥
Page #69
--------------------------------------------------------------------------
________________
| स्यन्ते व पुनर्मे, दृष्टिवादस्य पाठकाः ॥ श्रुत्वेति रुद्रसोमा तं, स्माह हर्षोल्लसत्तनुः॥ २२॥ त्वया विनीतपुत्रेण, सुपुसूत्रजननीष्वहम् ॥ नीता प्रथमतामेतं, मदादेशं चिकीर्षता ॥ २३॥ तद्गच्छ वत्स ! त्वरित-मिथुवाटमितो मम ॥
सूरीस्तोसलिपुत्राख्यान् , स्थितांस्तत्र समाश्रय ॥२४॥ पाठयिष्यन्ति ते तुभ्यं, दृष्टिवादं महामते!॥सोऽप्यूचे मातरध्येष्ये, प्रातर्गत्वा तदन्तिकम् ॥ २५॥ भावयन् दृष्टिवादार्थ, सोऽथ निश्यपि नाऽखपीत् ॥ आपृच्छ्याम्बां निशाशेषे, तमध्येतुं चचाल सः ॥ २६ ॥ | इतश्च तत्पितुर्मित्रं, ग्रामे क्वाप्यभवद्विजः ॥ स चार्यरक्षितं श्रुत्वा-ऽऽयातं धाम्नीत्यचिन्तयत् ॥ २७ ॥ प्रमादेन सुहृत्पुत्रं, नाद्राक्षं गतवासरे ॥ पश्यामि तं तदद्यापि, मन्मनोम्भोजभास्करम् ॥ २८ ॥ ध्यात्वेति स द्विजः पूर्णा, इक्षुयष्टीनवोत्तमाः ॥ तत्खण्डं चैकमादायो- त्सुकस्तत्सदनं ययौ ॥ २९॥ निर्गच्छन्तं गृहादार्य- रक्षितं स निरक्षत ॥ किन्तूपालक्षयत् स्पष्ट-प्रकाशाभावतो न तम् ॥ ३०॥ कोऽसि त्वमिति भूदेवः, सोऽप्राक्षीदार्यरक्षितम् ॥ आर्यरक्षितनामाह-मस्मीति माह सोऽपि तम् ॥ ३१ ॥ अथावदविजो मित्र-पुत्र ! त्वां ह्यस्तने दिने॥ नाद्राक्षमिति तज्जातं, दिन मे वत्सरोपमम् ॥ ३२ ॥ इत्युक्त्वा सोमजं प्रेम्णा, समालिंग्य द्विजो जगौ ॥ त्वन्निमित्तं मयाऽऽनीता, गृहाणेक्षुलता इमाः ॥ ३३ ॥ सोऽवादीदिक्षुसन्दोहो, मन्मातुर्दीयतामयम् ॥ अहं तु देहचिन्तायै, बहिर्गच्छामि साम्प्रतम् ॥ ३४ ॥ मन्मातुश्चेति कथये- यद्गच्छन्नार्यरक्षितः ॥ मामेव पूर्वमद्राक्षी- कलितं ललितेक्षुभिः ॥ ३५ ॥
Page #70
--------------------------------------------------------------------------
________________
॥३५॥
उत्तराध्ययन तेनेत्युक्तस्तदम्बायै, तत्सर्वं स द्विजोऽवदत् ॥ तच्छृत्वा रुद्रसोमापि, निपुणेति व्यचिन्तयत् ॥ ३६ ॥ यत्सूनोः द्वितीयमध्य
प्रस्थितस्याभू-निमित्तमिदमुत्तमम् ॥ तदसौ नव पूर्वाणि, साधिकानि पठिष्यति ॥ ३७ ॥ दध्यौ विशुद्धधीरार्य- यनम् (२) रक्षितोऽपि पथि ब्रजन् ॥ लप्स्येऽहं दृष्टिवादस्य, विभागानव साधिकान् ॥ ३८ ॥ अथेक्षुसदनं प्राप्तः, सोमसूरित्यचिन्तयत् ॥ अज्ञातवन्दनविधि-मध्ये गच्छाम्यहं कथम् ? ॥ ३९ ॥ तदिहाहं प्रवेक्ष्यामि, श्रमणोपासकैः समम् ॥ साधूनां वन्दनाचारं, यथा तेभ्योऽवधारये ॥४०॥ विमृश्येति क्षणं याव-वार्यस्थादार्यरक्षितः॥ तत्रागाद ढहरश्राद्ध-स्तावद्वन्दनहेतवे॥४१॥ सोऽविशद्वसतिं बाढ-वरं नषेधिकीं वदन् ॥ गर्जनिवेर्यापथिकी, प्रतिचक्राम चक्रमात ॥ ४२ ॥ अभिवन्द्य ततः सूरीन् , मुनींश्च विधिपूर्वकम् ॥ पुरो गुरोरुपाविक्षत्, क्षितिं च प्रत्युपेक्ष्य सः ॥ ४३॥ अथार्यरक्षितस्तस्मा-दवधार्याखिलं विधिम् ॥ प्रविश्योपाश्रये सूरीन् , मुनींश्च विधिनाऽनमत् ॥४४॥ किन्त्वसौ
ढड्डरश्राद्ध-मनत्वोपाविशद्यतः ॥ नव्यश्राद्धोऽयमिति तं, गुरवो विविदुस्ततः॥४५॥ पप्रच्छुश्च तमाचार्या, धर्मालाप्तिस्तं कुतोऽभवत् ? ॥ सोप्यभ्यधान्मया धर्मः, श्राद्धादस्मादुपाददे॥४६॥ तं वीक्ष्य मुनयोऽप्युच्चै-गुरून् व्यज्ञपय
निति ॥आर्यरक्षितभट्टोऽयं-रुद्रसोमात्मजः प्रभो !॥४७॥ चतुर्दशानां सद्विद्या-स्थानानामेष पारगः ॥प्रावेशि पत्तने राज्ञा, गजारूढो गतेऽहनि ॥४८॥ अत्रागमनमप्यस्य, दुर्घटं वेदवेदिनः ॥ तदस्मिन् श्रावकाचारं, प्रेक्ष्य चित्रीयते मनः!॥४९॥ अथार्यरक्षितः सर्व, खवृत्तान्तमुदीर्य तम् ॥ इति व्यजिज्ञपत्सूरीन् , पद्मकोशीकृताअलिः ॥५०॥
Page #71
--------------------------------------------------------------------------
________________
अध्येतुं दृष्टिवादं हि, पूज्यानहमशिश्रियम् ॥ तत्तदध्यापनेनोचैः,प्रसादः क्रियतां मयि !॥५१॥ तच्छ्रुत्वा सूरयोऽप्यूचुयद्येवं तत्परिव्रज ॥ क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् ॥५२॥ सोमजन्माप्युवाचैवं, प्रव्राजयत मां द्रुतम् ॥ किन्तु स्थानादतोऽन्यत्र, गन्तव्यं सूरिपुङ्गवः ॥ ५३॥ इह स्थितं हि मां राजा, खजनाः पूर्जनास्तथा ॥ दीक्षातः पातयिष्यन्ति, प्रसह्याप्यनुरागतः ॥ ५४ ॥ तच्छ्रुत्वा गच्छयुक्तास्ते, तमादायान्यतो ब्रजन् ॥ अभूदाद्यमिदं शिष्यचौर्य ! श्रीवीरशासने ॥५५॥ ततः प्रव्राजयन्नार्य-रक्षितं मुनिपुङ्गवाः ॥ क्रमाञ्चैकादशाङ्गानि, गुरुपार्थे पपाठ सः ॥५६॥ यावांस्तोसलिपुत्राणां, दृष्टिवादः स्फुटोऽभवत् ॥ तावन्तं तं च जग्राह, बुद्धिमानार्यरक्षितः॥ ५७॥ श्रीवजखामिनो भूयान् , दृष्टिवादोऽस्ति सम्प्रति ॥ श्रुत्वेति सोऽचलद्वज्रा-श्रितां प्रति पुरीपुरीम् ॥५८॥ मार्गायातामथावंती-मासदत् सोमदेवभूः॥ तत्र श्रीभद्रगुप्ताह- सूरिशक्रान्ननाम च ॥५९॥ ते सूरयोऽपि तं सर्व-गुणाढ्यं श्रुतपूर्विणः॥ उपलक्ष्यालिलिङ्गुर्दाकु, प्रमोदाच्चैवमूचिरे॥६०॥ धन्योऽसि कृतकृत्योऽसि, लब्धजन्मफलोऽसि च ॥ यत्त्य|क्त्वा शासनं शैवं, जैनमङ्गीकृतं त्वया !॥६१॥ किन्चाद्यानशनं कर्तु-मिच्छामि स्वल्पजीवितः ॥ ततस्त्वां प्रार्थये वत्स !, भव नियोमको मम ॥ ६२॥ ततोऽङ्गीकृत्य तद्वाचं, तस्थौ तत्रार्यरक्षितः॥ ते सूरयोप्यनशनं, विधायेति तमूचिरे ॥६३॥ एकत्रोपाश्रये वज्र-खामिना सह मा वसेः॥ किन्तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् ॥ ६४ ॥ वसेद्वज्रेण साई हि, यः सोपक्रमजीवितः॥ एकामपि निशां नूनं, तेन साकं म्रियेत सः ॥६५॥ तद्वचः प्रतिपद्याथ,
Page #72
--------------------------------------------------------------------------
________________
यनम् (२)
तान्निाम्य च सोमभूः॥ पुरीमगाद्वज्रयुतां, बहिस्तस्थौ च तां निशाम् ॥ ६६ ॥ तस्याः क्षपायाः प्रान्ते च, उत्तराध्ययन
वज्रोऽमुं खप्नमैक्षत ॥ मत्पात्रस्थं सावशेष, पयः कोऽप्यतिथिः पपौ॥६७॥ प्रातस्तं खप्नमाचख्यौ, साधूनां ॥३६॥ साधुसिन्धुरः ॥ तेषामजानतां सम्यक्, तदर्थश्चैवमत्रवीत् ॥ ६८॥ आगन्ताद्य मुनिः कोपि, स च पूर्वगतं श्रुतम् ॥
अस्मत्पार्थात्सुधीः सर्व, किञ्चिदूनं ग्रहीष्यति॥ ६९॥ अथार्यरक्षितःप्रात-बज्राचार्यमवन्दत ॥ कुत आगास्त्वमिति? टू तं, वज्रखाम्यपि पृष्टवान् ! ॥ ७० ॥ सोऽवक् तोसलिपुत्राव-सूरिपार्थादिहागमम् ॥ किमार्यरक्षितोऽसि ? त्व-मिति
वज्रोऽपि तं जगौ ॥ ७१॥ एवमेवेति तेनोक्ते, वज्रसूरिरदोऽवदत् ॥खागतं तव किन्तु त्वं, स्थितोऽसि क प्रतिश्रये ? ॥७२॥ सोऽवग बहिः स्थितोस्मीति, ततो वज्रस्तमभ्यधात ॥ बहिःस्थितं कथंकार, त्वं पठिष्यसि ? सन्मते ! ॥७३॥ सोऽवादीत् भद्रगुप्ताह-सूरीन्द्रस्यानुशासनात्॥स्वामिन्नहमितो भिन्न-मुपाश्रयमुपाश्रयम् ॥७४॥ दत्तोपयोगं वज्रोऽपि, तन्निमित्तं विभाव्य च ॥प्रोचे युक्तमिदं प्रोक्तं, तैः पूज्यानसागरैः ॥७५॥ अथाऽन्यवसतिस्थस्या-प्यायेंरक्षितसन्मुनेः॥श्रीमान् वज्रगुरुः पूर्वा-ऽध्यापनाय प्रचक्रमे ॥७६॥ ततोऽल्पेनापि कालेन, नव पूर्वाण्यधीय तम्॥दशमं पूर्वमध्येतुं, प्रवृत्तं गुरुरित्यवक॥७७॥पूर्वस्य दशमस्याथ, यमकानि पठ द्रुतम् ॥ ततः पठितुमारेभे, विषमाण्यपि तानि सः॥७८॥
१ दशमं पूर्वमध्येतुं, यैरधीत :प्रभुर्भवेत् । यमकानीति तान्याहः, सूत्राणि परिकर्मणः ॥ ग्रन्थान्तरे 'यविकानि" इति यमकस्थाने दादृश्यते इति गसंज्ञकपुस्तके ।
॥३६॥
Page #73
--------------------------------------------------------------------------
________________
३०७
इतश्च पितरावार्य - रक्षितस्य समुत्सुकौ ॥ इति प्राहिणुतां भूयः, सन्देशान् बहुभिर्जनैः ॥ ७९ ॥ आगच्छ कुलभानो ! त्वं, वत्सोद्योतं विधेहि नः ॥ त्वद्वियोगाद्यदस्माकं, दर्शरात्रीयते जगत् ॥ ८० ॥ इति सन्देशवचनै- र्यावदागान्न सोमभूः । तावत्ताभ्यां तमाह्वातुं, प्रेषितः फल्गुरक्षितः ॥ ८१ ॥ सोऽप्यागत्य प्रणम्यार्य - रक्षितर्षिमदोऽवदत् ॥ किमेवं खकुटुम्बेऽपि, निर्मोहत्वं त्वयाऽऽहतम् १ ॥ ८२ ॥ वैराग्याद्वा न ते रागो, यद्यपि खेषु विद्यते ॥ तथापि शोकमग्नांस्तान्, कारुण्येन समुद्धर ॥ ८३ ॥ किञ्चादातुं परिव्रज्या -मुत्सुकाः सन्ति बन्धवः ॥ तत्रागत्य ततस्तेषां, देहि मुक्तिप्रदं व्रतम् ॥ ८४ ॥ अथेति व्याजहारार्य - रक्षितः फल्गुरक्षितम् ॥ यदि सूनृतमेतत्स्यात्, तदा त्वं स्वीकुरु व्रतम् ॥ ८५ ॥ इति तेनोदितः प्राज्ञः सोऽवदद्देहि मे व्रतम् ॥ ततस्तस्मै ददौ दीक्षां, भगवानार्यरक्षितः ॥८६॥ गन्तुं स्माह पुनः फल्गु - रक्षितोऽप्यार्यरक्षितम् ॥ गमनायोत्सुकः सोऽपि, श्रीवत्रं पृष्टवांस्ततः ॥ ८७ ॥ वज्रखामी | ततोऽवादी - द्वत्स ! त्वं पठ मा त्रज || निर्विण्णः सोऽथ यमकै - रित्यपृच्छत्पुनर्गुरून् ॥ ८८ ॥ कियन्मात्रं मयाऽ - धीतं, कियच्छेषं च वर्त्तते ॥ स्वामिन् ! दशमपूर्वस्ये - त्याख्याहि मम साम्प्रतम् ॥ ८९ ॥ ततः स्मित्वाऽवदत्सुरिः, | पूर्वस्य दशमस्य हि ॥ विन्दुमात्रं त्वयाऽऽदायि, शेषं तु जलधेः समम् ॥ ९० ॥ अथार्यरक्षितः स्माह, श्रान्तोऽस्मि ! पठनादहम् ॥ पारं प्राप्तुं तदेतस्य न शक्ष्याम्यम्बुधेरिव ॥ ९१ ॥ गुरुर्जगाद वत्स ! त्वं, सोद्यमोऽसि सुधीरसि ॥ तदस्य पारं त्वरितं, लप्स्यसे किं विषीदसि १ ॥ ९२ ॥ इत्थमुत्साहितोऽध्येतुं प्रवृत्तोऽपि पुनः पुनः ॥ गन्तुं पप्रच्छ
Page #74
--------------------------------------------------------------------------
________________
उत्तराध्ययन
पास गर. तं गुरुस्तु निषिद्धवान् ॥ ९३ ॥ अन्यदा स सहादाया-ऽनुजं गुर्वन्तिकं गतः ॥ इत्यूचेऽसौ मम भ्राता, द्वितीयमध्य
मामाह्वातुमिहाययौ ॥ ९४ ॥ तदादिशत मां पूज्याः, श्रुत्वेति व्यमृशद्गुरुः॥रक्ष्यमाणोऽप्यसी, कस्मा-दन्तुमुत्सहते?-यनम् (२) ॥३७॥
महः ॥ ९५ः॥ विचिन्तयन्निति श्रीमान्, वज्रखामी गुणोदधिः ॥ श्रुतोपयोगं कृतवा-निति च ज्ञातवांस्ततः॥९६॥ नाऽऽगन्ताऽसौ गतः सद्यः, खल्पमायुर्ममाऽपि च ॥ तदेतद्दशमं पूर्व, मयि स्थास्यति निश्चितम् ॥ ९७ ॥ ज्ञात्वेत्यनु-13 मतो गन्तं. श्रीवजेणार्यरक्षितः॥ पुरं दशपुरं फल्गु-रक्षितेन समं ययौ ॥९८॥ श्रुत्वा तमागतं रुद्र-सोमासोमौ नृपोऽपि च ॥ नागराश्च मुदागम्य, प्रणम्योपाविशन् पुरः॥ ९९ ॥ तेषां हिताय सोप्युच्चै-विदधे धर्मदेशनाम : ताञ्चाकर्ण्य महानन्द-मविन्दन्त नृपादयः ॥ १०॥ ततो भ्रातृव्यदौहित्र-स्नुपापुत्रादिभिः समम् ॥ रुद्रसोमा|ऽऽददे दीक्षां, सम्यक्त्वं पार्थिवः पुनः ॥ १०१॥ कथं पुत्रीस्नुषादीनां, पुरो नग्न इवाऽन्वहम् ॥ तिष्ठामीति हिया सोम-देवो न प्राबजत्पुनः॥१०२ ॥ किन्तु खजनपुत्रादि-स्नेहपाशनियत्रितः ॥ शश्वत्तत्पार्थ एवास्था-न त्वन्यत्र जगाम सः ॥ १०३ ॥ तश्चार्यरक्षिताचार्याः, प्रोचुरेवं मुहुर्मुहुः ॥ तात ! यूयं परिव्रज्य, फलं गृह्णीत जन्मनः ॥१०॥
॥ ३७॥ यज्ञसूत्रपदत्राण-छत्रशाटककुण्डिकाः ॥ चेन्मेऽनुमन्यसे तर्हि, प्रव्रजामीति सोऽप्यऽवक् ॥ १०५ ॥ यथाकथञ्चिट्टद्धोऽयं, तार्य एवेति चिन्तयन् ॥ सूरिस्तदुररीकृत्य, सोमदेवमदीक्षयत् ॥ १०६ ॥ करणं चरणं चानु-वृत्तिमेव वितन्वता ॥ ग्राहणीयो मया तातो, ध्यात्वेति माह तं गुरुः ॥ १०७ ॥ सर्वेऽमी मुनयश्चोल-पढे परिदधत्यमी ॥ स्थ
Page #75
--------------------------------------------------------------------------
________________
विरत्वात्तु युष्माकं, शाटकोऽप्यनुमन्यते ! ॥१०८ ॥ छत्रादिकं पुन:त-दात्मनां बहु शोभते ! ॥ निशम्येति वचः
सूरेः, सोमदेवमुनिर्जगौ ॥ १०९॥ गन्तुं शक्नोम्यहं नैव, पुत्र! छत्रं विनाऽऽतपे ॥ विण्मूत्रोत्सर्जने शौचं, कथं | स्यात्करकं विना ? ॥ ११०॥ त्यजामि यज्ञसूत्रं च, विप्रत्वावेदकं कथम् ॥ पीडा च स्यात्कण्टकैर्मे, विनोपानहमध्वनि ॥१११॥ सूरिःस्माहाऽथ यद्येवं, तिष्ठत्वेतत्तदाऽखिलम्॥ भवद्भिस्त्यज्यतां किन्तु, सर्वोऽप्यऽन्यः परिग्रहः॥११२॥ ततः परिग्रहं सोऽन्य-मत्याक्षीदथ सूरयः ॥ बालान् किञ्चिच्छिक्षयित्वा-ऽन्यदा नन्तुं जिनान् ययुः ॥ ११३ ॥ ततसच्छिक्षिता बालाः, सोमदेवतपखिनम् ॥ हित्वा क्षुल्लकपर्यन्तान् , सर्वसाधून् ववन्दिरे ॥ ११४ ॥ दर्श दर्श सोमदेवं, ते चैवं प्रोचिरे मिथः ॥ नाऽस्माभिर्वन्दनीयोऽयं, छत्रवान् स्थविरो मुनिः॥ ११५ ॥ तच्छृत्वा सोमदेवर्षी-रुष्टोऽभाषिष्ट तानिति ॥ अरे ! मत्पुत्रपौत्रादीन् , वन्दध्वे बालकानपि ॥ ११६ ॥ मां तु वृद्धं गुरोस्तात-मपि नो नमथाभकाः! ॥ तत्किं मया परिव्रज्या, नोपात्ताऽद्यापि विद्यते ? ॥ ११७ ॥ वालाःप्रोचुर्दीक्षितस्य, भवेच्छत्रादिकं कथम् ॥ त्यक्तातपत्राः सर्वेऽपि, दृश्यन्ते साधवः खलु !॥ ११८ ॥ सोमोऽथ व्यमृशच्छावाः, अप्येवं शिक्षयन्ति माम् ॥ साध्वाचारविरुद्धं त-च्छत्रमेतजहाम्यहम् ॥ ११९॥ विचिन्त्येति जिनान्नत्वा-ऽऽगतान्सूरीनुवाच सः ॥ उद्वेजकेन सर्वेषां, छत्रेणानेन मे कृतम् ॥ १२०॥ गुरुर्जगाद यद्येवं, तदा छत्रं विमुच्यताम् ॥ प्रबले त्वातपे धार्यः, कल्पको मस्तको-| परि ॥ १२१ ॥ गुरौ गतेऽन्यदा क्वापि, बालास्तच्छिक्षिताः पुनः ॥ तं विहायापरान्नेमु-स्तत्पृष्टाश्चैवमूचिरे ॥१२२॥
Page #76
--------------------------------------------------------------------------
________________
उत्तराध्ययन
द्वितीयमध्य| यनम् (२)
॥३८॥
कमण्डलुधरत्वाद्धि, न त्वां वन्दामहे वयम् ॥ यत्कदापि यतेः पार्थे, नाऽपश्याम कमण्डलुम् ॥ १२३ ॥ तच्छ्रुत्वा सूरिमापृच्छय, स प्राग्वत्कुण्डिकां जहौ ॥ पात्रकेणैवाऽथ शौचं, कार्य गुरुरपीत्यवक् ॥ १२४ ॥ पुनस्तथैव तं बाला, नाऽनमन् सूरिशिक्षिताः॥ अवन्दननिदानञ्च, पृष्टास्तेनेति तं जगुः॥१२५ ॥ यज्ञोपवीतवन्तं नो, मुनिं मन्यामहे वयम्॥ ततः सोमः सुतं पृष्ट्वो-पवीतमपि मुक्तवान् ॥१२६॥ तन्मोक्षणक्षणे त्वेवं, प्रोचुः श्रीआर्यरक्षिताः॥ एतन्मुञ्चत कोबस्मान, विप्रान्नो वेत्त्यदो विना? ॥१२७॥ इत्थं छत्रादिके तेन, त्यक्ते वालाः पुनर्जगुः॥ न शाटकोपसंव्यानमेनं वन्दामहे मुनिम् ॥ १२८ ॥ सोमदेवस्तदाकर्ण्य, जजल्पाऽनल्पकोपभाक् ॥रे ! मा नमत मां यूयं, समं पितृपितामहैः ॥१२९ ॥ येऽन्ये नमन्ति तैरेव, सन्तुष्टिम भविष्यति!॥ कटीपट्टकमेनं तु, न त्यक्ष्यामि ! भवद्विरा ॥१३०॥ तदाकर्ण्य ययुर्बालाः, अन्यदा च महामुनिः ॥ विहिताऽनशनः कोऽपि, तत्र गच्छे व्यपद्यत ॥१३॥ तदा पितुः कटीपट्ट-त्याजनाय जगौ गुरुः॥अस्य देहं वहति य-स्तस्य लाभो भवेन्महान्॥१३२॥ततस्तच्छिक्षिताः पूर्व-दीक्षिता भिक्षवः परे॥ उदतिष्ठस्तमुद्वोढुं, तदा चेत्यऽब्रवीद्गुरुः ॥ १३३॥ यूयं यदुत्थिताः सर्वे-ऽप्यमुं लाभं जिघृक्षवः ॥ तदस्मद्वन्धुवर्गोऽयं, निर्जरां लप्स्यते कथम् ॥ १३४ ॥ तदाकर्ण्य सकर्णोऽथ, सोमदेवमुनिर्जगौ ॥ किमत्र प्राप्यते पुत्र !, निजरा भूयसीतरा? ॥ १३५ ॥ उवाच सूरिः कार्येऽस्मि-निर्जरा जायते भृशम् ॥सोऽभ्यधादहमप्येनं, तद्वहिष्ये सहर्षिभिः ॥१३६ ॥ गुरुर्जगो बालकृतः, उपसर्गोऽत्र जायते ॥ तं चेत्सहितुमीशिध्वे, वहनीयस्तदा ह्ययम् ॥ १३७ ॥
॥३८॥
Page #77
--------------------------------------------------------------------------
________________
GASASAYSASSARISSAASSASSG
तं च चेन्न सहिष्यध्वे, तदा स्यात्सुन्दरं न नः ॥ इति स्थिरीकृतः सोमो-ऽवहत्तं सह साधुभिः ॥१३८॥ तदा च तस्य पुरतो, गच्छत्सु बहुसाधुषु ॥ तद्वयुत्सर्गार्थमेतासु, स्थिताखार्यासु पृष्ठतः ॥ १३९ ॥ पूर्वसङ्केतिता बालाः, सोमदेवमुनेद्रुतम् ॥ कटीपट्टकमाकृष्या-ऽऽदाय च त्वरितं ययुः ॥. १४० ॥ [ युग्मम् ] अतीव लज्जितः सोऽथ, परैरूचे 5 शवं त्यजन् ॥ उपसर्ग सहखाऽमुं, मा मुञ्च मृतकं करात् ॥१४१॥ ततस्तस्याऽन्यमुनिना, मानोपेतान्यचीवरम् ॥ |बद्धं दवरकेणोच्चै-विधाय कटिपट्टवत् ॥ १४२ ॥ पश्यन्ति मां स्नुषाः पश्चा-दिति हीणोऽपि तं शबम् ॥ स उवाहोप |सर्गोऽसौ, जात इत्यवधारयन् ॥ १४३॥ परिष्ठाप्य शबं पश्चा-दागतं वीक्ष्य तं गुरुः ॥प्रोचे तात ! किमयेदं, वासः |परिदधे ? लघु॥१४४॥सोमः शशंस पुत्राऽद्यो-पसर्गोऽभूदुपस्थितः॥ गते च शाटके तेन, पर्यधां लघु चीवरम् ॥१४५॥5 ससम्भ्रमा इवाचार्या-स्तन्निशम्यैवमूचिरे ॥ तातार्थमानयत भो-विनेयाः! पृथु शाटकम् ॥१४६॥ ततः सोमोऽब्रवीत्पुत्र !, लज्जनीयं बभूव यत् ॥ तन्मेऽद्य सकलैदृष्ट-माकृष्टे कटिपट्टके ॥ १४७ ॥ तचोलपट्ट एवाऽस्तु, शाटकेन कृतं मम ॥ इत्यूचानमनूचाना-स्तं तथैवाऽनुमेनिरे ॥ १४८ ॥ इत्युपायैश्चोलपढें, ग्राहितः सूरिपुङ्गवैः ॥ सोमस्ततः परं । सम्यक, सेहेऽचेलपरीषहम् ॥ १४९ ॥ पश्चादचीवरपरीषहमेष यद्वत् , श्रीसोमदेवमुनिरित्यसहिष्ट सम्यक् ॥ सह्यः परैरपि तथा श्रमणैः स नित्यं, श्रीमजिनेन्द्रवचनान्यनुवर्तमानैः ॥ १५० ॥ इत्यचेलपरीषहे सोमदेवर्षिकथा ॥६॥
Page #78
--------------------------------------------------------------------------
________________
उत्तराध्ययन अचेलस्य चाऽप्रतिबद्धविहारिणः शीतादिभिः पीड्यमानस्याऽरतिरपि स्यादिति तत्परीषहमाह
द्वितीयमध्यमूलम्-गामाणुगामं रीअंतं, अणगारं अकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥ १४ ॥ यनम् (२) ॥ ३९॥
| व्याख्या-ग्रामश्च जिगमिषतोऽनुग्रामश्च तन्मार्गानुकूलो ग्रामानुग्रामस्तं, उपलक्षणं चैतन्नगरादेः 'रीअंतंति' रीयमाणं विहरन्तं अनगारं मुनिं अकिञ्चनं निष्परिग्रह, अरतिः संयमविषया अधृतिः अनुप्रविशेन्मनसि लब्धास्पदा भवेत् , तं अरतिरूपं तितिक्षेत सहेत परीषहमिति सूत्रार्थः ॥ १४ ॥ तत्सहनोपायमाहमूलम्-अरइं पिट्टओ किच्चा, विरए आयरक्खिए । धम्मारामे णिरारंभे, उवसंते मुणी चरे ॥१५॥ | व्याख्या-अरतिं पृष्ठतः कृत्वा धर्मविघ्नहेतुरियमिति तिरस्कृत्य विरतो निवृत्तो हिंसादेः, आत्मा रक्षितो दुर्गति-12 हेतोरपध्यानादेरनेनेत्यात्मरक्षितः, धर्मे श्रुतधर्मादौ आरमते रतिमान् स्यादिति धर्मारामः, निरारम्भोऽसक्रियाभ्यो निवृत्तः, उपशान्तः क्रोधाद्युपशमवान् मुनिश्चरेत् , संयम परिपालयेन पुनरुत्पन्नारतिरपि व्रतं त्यक्तुकामः स्यादिति
सूत्रार्थः ॥ १५॥ कथानकचात्र तथाहिBI जितशत्रुरभूद्भपः, पुरेऽचलपुरे पुरा ॥ तत्सुतो युवराडू दीक्षां, रथाचार्यान्तिकेऽग्रहीत् ॥ १॥ विहरन्तोऽन्यदा ॥३९॥
तेन, युवराजर्षिणा समम् ॥ पुण्यप्रथा रथाचायों- स्तगरानगरी ययुः ॥२॥ तेषां खाध्यायशिष्यास्तु, विश्वविख्यातकीर्तयः॥ आर्यराधाभिधाचार्या, उज्जयिन्यां तदाऽभवन् ॥३॥ तच्छिष्याः केप्यवन्तीत-स्तगरानगरी
Page #79
--------------------------------------------------------------------------
________________
गताः ॥ रथाचार्यानवन्दन्त, ततस्तैरित्यपृच्छयत ॥४॥ आर्यराधा निरावाधा-स्सन्ति कचित्तपखिनः ॥ कचिन्निरुपसर्ग वा-ऽवंत्यां तिष्ठन्ति साधवः ॥५॥ ते प्रोचिरे सर्वमस्ति, भव्यं पूज्यप्रसादतः ॥ राट्पुरोधःसुतौ किन्तु, तत्रोद्वैजयतो यतीन् ॥ ६ ॥ तच्छत्वा युवराजर्पिः, सोऽध्यासीदिति शुद्धधीः ॥ अवंतीनृपपुत्रो यः, स भ्रातृव्यो भवेन्मम ॥७॥ असौ साधूनवज्ञाय, संसारे मा भ्रमेदिति ॥ आपृच्छय खगुरुन् शीघमुज्जयिन्यां जगाम सः॥ ८॥ आर्यराधान् प्रणम्याथ, तैर्निषिद्धोऽपि स स्वयम् ॥ ययौ भिक्षार्थमादाय, क्षुल्लकं गृहदर्शकम् ॥ ९॥ गच्छंश्च युवराजर्पिः, क्षुल्लकं तमदोऽवदत् ॥ वेश्म दर्शय मे ताव-नृपसूनोमुनिद्विषः ॥१०॥ नृपाङ्गजगृहं तस्या-ऽदीदृशत् क्षुल्लकोऽपि सः॥प्राविशयुवराजर्षि-रपि तत्र भयोज्झितः॥११॥ तदा च तत्र क्रीडन्तौ, सुतौ राजपुरोधसोः ॥ अभूतां सङ्गतावेक-राशौ पापग्रहाविव ॥१२॥ दृष्ट्वा तं चाऽऽगतं राज-परिवारोऽब्रवीदिति॥ व्रजाऽन्यत्र मुने! नो चेत्, त्वां कुमारौ हनिष्यतः॥१३॥ तदाकापि स पुरो, ययौ धैर्यनिधिमुनिः॥ धर्मलाभ इति प्रोचै-बढखरमुवाच च ॥ १४ ॥ अयं क्रीडनकप्रायो, यदिहागान्मुनिः खयम् ॥ तदस्मद्भाग्ययोगेन, जातमद्याति शोभनम् ॥ १५ ॥ जल्पन्ताविति तौ राज-पुरोहितसुतौ शठौ ॥ तां मुनेर्गिरमाकर्ण्य, तदभ्यर्णमुपे| यतुः ॥ १६ ॥ [ युग्मम् ] अभ्यधत्तां च साधो ! त्वं, नर्त्तितुं बुध्यसे न वा! सोऽवादीद्वेश्यऽहं नाट्यं, वाद्यं वादयतं युवाम् ॥ १७॥ आरेभाते ततस्तूर्य-ताडनं तौ यथातथा ॥ वाचं वादयितुं किन्तु, नाऽज्ञाशिष्टां यथोचितम् ॥१८॥
Page #80
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥४०॥
ततो वाचंयमःप्रोचे, सम्यग् वादित्रवादनम् ॥ रे! कोलिकौ! न जानीथो, युवां जडशिरोमणी ॥ १९ ॥ तदाका द्वितीयमध्यतिरष्टौ तौ, मुनिं हन्तुमधावताम् ॥ नियुद्धवेदी साधुस्तु, तावायान्तौ गृहीतवान् ॥ २०॥ कुदृयित्वा तदङ्गानि,
यनम् (२) सन्धिभ्यश्चोदतारयत् ॥ मुनिना हन्यमानौ तु, तौ चक्रन्दतुरुच्चकैः॥ २१ ॥श्रुत्वाऽऽक्रन्दास्तदा दध्यौ, बहिःस्थस्तत्प|रिच्छदः ॥ हन्यमानः कुमाराभ्यां, नूनमाक्रन्दति व्रती ॥ २२॥ ऋषिद्विषोस्तयोरेवं, शिक्षां दत्वा गते मुनौ॥साशकस्तत्परिकर-स्तयोः पार्श्वमगात्ततः॥ २३ ॥ निश्चेष्टौ काष्टवद्वक्तु-मप्यशक्तौ गतौ भुवम् ॥ दृशाऽतिदीनया प्रेक्षमाणौ सर्व परिच्छदम् ॥ २४ ॥ तो समीक्ष्य तथावस्थौ, सम्भ्रान्तस्तत्परिच्छदः॥ न्यवेदयदुदन्तं तं, द्रुतं नृपपुरोधसोः ॥ २५॥ [युग्मम् ] तदाकातिसम्भ्रान्तौ, सद्यो राजपुरोहितौ ॥ पुत्रयोर्दुरवस्थां तां, तत्रायातावपश्यताम् ॥ २६ ॥ परीवारगिरा ज्ञात्वा, मुनिमूलां दशां च ताम् ॥ जग्मतुर्यतिपार्थे तौ, क्षिप्रं मापपुरोधसौ ॥ २७ ॥ इत्यूचतुश्च नत्वा श्री-आर्यराधपदाम्बुजान् ॥ पूज्याः! प्रसीदतेदानी, पुत्रौ जीवयताऽऽवयोः ॥ २८॥ आयेंराधा जगुभूप!, वेझयहं नात्र किञ्चन ॥ प्राघूर्णकममुं किन्तु, प्रसादय महामुनिम्॥ २९ ॥ भूपोऽप्युत्थाय तत्पाथे, गत्वा नत्वा || च तं मुनिम् ॥ उपाविशत्पुरस्तस्य,प्रत्यभिज्ञातवांश्च तम् ॥ ३०॥ एवञ्चोवाच हे भ्रातः!, खभ्रातृव्यं पटूकुरु ॥ ततो मुनिर्जगादेत्थं, तस्य कल्याणकाम्यया ॥ ३१॥ यत्त्वं स्वपुत्रभाण्डाना-मपि साधु विडम्बनाम् ॥ शिक्षां दातुं न शक्नोषि, तत्सौराज्यं धिगस्तु! ते ॥३२॥राज्ञा न्यायवता लोकं, सामान्यमपि पीडयन् ॥ निग्राह्यः खलु पुत्रोऽपि,
Page #81
--------------------------------------------------------------------------
________________
४/किम्पुनः साधुबाधकः! ॥ ३३ ॥ अथाऽभ्यधान्नपो प्रात-मन्तुमेनं क्षमख मे॥ अनुकम्पख चेदानी, तौ बालौ दुर्दशा तगतौ ॥ ३४ ॥ मुनिः प्रोवाच यद्येता-वाददाते व्रतं हितम् ॥ तदा तौ सजयामि द्राकू, कुमारौ नान्यथा पुनः
॥ ३५॥ पुरोहितेन राज्ञा च, प्रतिपन्नेन तद्वचः ॥ पृष्टौ कुमारौ तौ दीक्षा-ऽऽदानं खीचक्रतुस्तदा ॥ ३६ ॥ ततः स 2 युवराजर्षिः, प्राक् कृत्वा लुञ्चनं तयोः ॥ पश्चात्ती सजयामास, दीक्षयामास च द्रुतम् ॥ ३७॥ तत्र पृथ्वीपतेः पुत्रो,8 निश्शङ्कोऽपालयद्वतम् ॥ मुहुर्जातिमदं चक्रे, पुरोहितसुतः पुनः॥ ३८ ॥ प्रद्वेषादिति दध्यौ च, सदीक्षां पालयन्नपि ॥ अहो ! अनेन मुनिना, दीक्षितोऽस्मि बलादहम् ॥ ३९ ॥ ततो दुर्लभवोधित्वं, पुरोधः सूनुरार्जयत् ॥ क्रमावावपि तौ कालं, कृत्वा देवौ बभूवतुः ॥ ४० ॥ इतश्च पुर्यां कौशाम्ब्यां, श्रेष्ठ्यभूत्तापसाभिधः ॥ स मृत्वा खगृहे जज्ञे, लोभा-15 वेशेन शूकरः॥४१॥ स खसौधादिकं दृष्ट्वा, जातजातिस्मृतिः किरिः॥ निजन्ने तत्सुतैरेव, तस्य श्राद्धदिनेऽन्यदा ॥४२॥ ततो रंसावशावेणी- कल्पः खगृह एव सः ॥ भुजगोऽजनि जातिं च, सस्मार प्राग्वदात्मनः ॥ ४३ ॥ भ्रमन्नयं गृहान्तों, मावधीदिति चिन्तिभिः॥ सुतैरेव हतः सोऽहिः, स्वसूनोस्तनयोऽभवत् ॥४४॥ प्राग्वजातिस्मृति प्राप्तो, मूकत्वं खीचकार सः॥ नुषामम्बां सुत तातं, कथं ? वच्मीति चिन्तयन् ॥ ४५ ॥ उपायैः प्रचुरैर्माता| पितृभ्यां विहितैरपि ॥ मायामूकस्य तस्याऽगा-न मूकत्वं कदाचन ॥ ४६ ॥ अशोकदत्त इत्यासी-त्तस्याह्वा तातनि
१ रसा पृथ्वी एव वशा स्त्री तस्या वेणीकल्पः ॥
Page #82
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥ ४१ ॥
|र्मिता ॥ लोकास्तु तमल्पंत - मजल्पन्मूकनामकम् ॥ ४७ ॥ ज्ञात्वा ज्ञानेन मूकस्य, प्रतिबोधमथाऽन्यदा ॥ चतुर्ज्ञानधरास्तत्र, स्थविरा: समवासरन् ॥ ४८ ॥ तैश्च मूकगृहे श्रेष्ठौ श्रमणी प्रहितावुभौ ॥ तच्छिक्षितामिमां गाथां, पुरो मूकस्य पेठतुः ॥ ४९ ॥ “ तावस ! किमिणा ? मूअ - एण पडिवज़ जाणितुं धम्मं ॥ मरिऊण सूअरोरग, जाओ पुत्तस्स पुत्तोत्ति ॥ ५० ॥ श्रुत्वेति विस्मितो मूक- स्तौ प्रणम्येति पृष्टवान् । एतद्युवां कथं वित्थ - स्ततस्तावित्यवोचताम् ॥५१॥ | इहोद्याने स्थिता अस्म-गुरवो हि विदन्त्यदः ॥ ताभ्यां सह ततो मूको, गत्वोद्यानेऽनमगुरून् ॥ ५२ ॥ श्रुत्वा तद्देशनां पाप - पंकप्लावनवाहिनीम् ॥ स तापसश्रेष्ठिजीवः, श्राद्धधर्ममुपाददे ॥ ५३ ॥ इतश्च जातिमदकृ-त्पुरोहितसुतोमरः ॥ महाविदेहे सर्वज्ञ - मित्यपृच्छत्कृताञ्जलिः ॥ ५४ ॥ अहं किमस्मि ? सुप्राप - बोधिस्तदितरोऽथ वा ॥ जिनो जगाद देव ! त्वमसि दुर्लभवोधिकः ॥ ५५ ॥ सुरोऽपृच्छत्पुनः सार्व, कोत्पत्येऽहमितश्युतः ॥ जिनो जगौ त्वं कौशाम्ब्यां, मूकभ्राता भविष्यसि ॥ ५६ ॥ धर्मावातिश्च ते मूका-द्भाविनीति निशम्य सः ॥ जिनं प्रणम्य कौशाम्ब्यां, मूकोपान्तमगात्सुरः ॥ ५७ ॥ दत्त्वा तस्मै बहुद्रव्यं तमित्यूचे च सोऽमरः ॥ अहं त्वन्मातुरुत्पत्स्ये, गर्भे स्वर्गात्परिच्युतः ॥ ५८ ॥ अकालेऽपि तदा तस्याः, भावी माकन्ददोहदः ॥ सदाफलाम्रस्तद्धेतो- रोपितोऽस्ति मया गिरौ ॥५९ ॥ आम्राणि याचते सा च यदा तद्दोहदाकुला ॥ अक्षराणि पुरस्तस्या - स्त्वमेतानि लिखेस्तदा ॥ ६० ॥ गर्भस्थमङ्गजमिमं मातर्मह्यं ददासि चेत् ॥ ददे तदानीमानीय, सहकारफला ॥ ६१ ॥ इदं तस्यां प्रपन्नायां समानीय ततो
द्वितीयमध्ययनम् (२)
"स्ये"
॥ ४१ ॥
Page #83
--------------------------------------------------------------------------
________________
गिरेः ॥ फलानि तस्य चूतस्य, तस्यै दद्या महामते ! ॥६२॥ मां च जातं खसात्कृत्वा, जैन धर्म विबोधयेः ॥ न पुनस्त्वमुपेक्षेथा, देवभूयं गतोऽपि माम् ॥ ६३॥ किञ्च वैताढ्यनित्याह-चैत्यपुष्करिणीजले ॥ न्यस्तमस्ति खनामाङ्क, कुण्डलद्वितयं मया ॥६४ ॥ वहूपायैरनुत्पन्न-प्रतिबोधस्स मे पुनः ॥ तद्दर्शनीयं भवता, स्वर्गलोकमुपेयुषा ॥६५॥ इति तद्वचने तेन, मूकेनाऽङ्गीकृते सति ॥ पुरोहितसुतः खर्गी, स्वस्थः खस्थानमासदत् ॥ ६६ ॥ स चान्यदा दिव
वा, मूकाम्बाकुक्षिमाययो॥ तस्याश्चाभूदकालेऽपि, तदाम्रर्फलदोहदः ॥ ६७॥ तं ज्ञात्वत्यलिखन्मूक-स्तदने स्मृतदेवगीः॥ चेन्मे गर्भममुं दत्से, तदाऽऽम्राणि समानये ॥ ६८ ॥ तद्वचः प्रतिपन्नाया-स्तस्या देवोक्तपर्वतात् ॥ आनीयाऽऽम्राणि मूकोऽपि, तं दोहदमपूरयत् ॥ ६९ ॥ सम्पूर्णदोहदा साऽथ, समये सुषुवे सुतम् ॥ तस्याऽर्हद्दत्त इत्याऽऽह्वा, पितरौ चक्रतुर्मुदा ॥ ७० ॥ ततः स मूकस्तं बाल-सोदरं लालयन् खयम् ॥ धर्माभ्यासकृते चैत्यो-पाश्र-10 येष्वनयत्सदा॥७१॥ मूनीन् वन्दयितुं मूको, नीचैश्चक्रे च तं बलात् ॥ स तु वीक्ष्य मुनीनुच्चै-रोदीन्न त्ववन्दत॥७२॥ नीतोप्युपाश्रये तेन, मोदकाद्यैः प्रलोभ्य सः॥ यतिदर्शनतोऽनश्यत् , करभादिव सैरिभः ॥७३॥ मूकेनोक्तोऽपि
बहुधा, साधूनां गन्धमप्यसौ ॥न सेहे कुग्रहग्रस्त, इव मत्रितगुग्गुलोः॥७४ ॥ परिश्रान्तस्तती मूकः, प्राब्राजीत्सा ४ धुसन्निधौ॥प्रपाल्य संयम खर्ग, गतः प्रायुत चाऽवधिम् ॥७५॥ सानुजं तमपश्यच, परिणीतचतुष्प्रियम् ॥ तत्पूर्व
१ उष्ट्रान्महिष इव ॥
Page #84
--------------------------------------------------------------------------
________________
उत्तराध्ययन भववाक्यं चा-स्मार्षीत्स्वीकृतमात्मना ॥ ७६ ॥ दुर्बोधस्य ततस्तस्य, प्रतिबोधाय सोऽमरः ॥ पाथः पूर्णतिप्राय, प्रोचै-द्वितीयमध्य ॥४२॥ चक्रे जलोदरम् ॥ ७७ ॥ उत्थातुमपि तद्धारा-दर्हद्दत्तः शशाक न॥ जहुवैद्याश्च सर्वेऽपि, तं चिकित्सितुमक्षमाः॥७॥ यनम् (२)
सद्यः समग्ररोगान्तं, करोमीत्युचकैर्वदन् ॥ ततोऽभ्रमत्पुरे तत्र, स देवो वैद्यरूपभृत् ॥ ७९ ॥ अहहत्तोऽथ तं वीक्ष्य, सद्यः माह कृताञ्जलिः॥नीरुजं कुरु मां वैद्य !, व्यपनीय जलोदरम् ॥ ८॥ निजगादाऽगदङ्कारो, गदोऽसाध्योऽयमस्ति ते॥ तथापि शमयाम्येन-मुपायैर्विविधैरहम् ॥ ८१॥ किन्तु भेषजशस्त्रादे-रमुंकोत्थलकं मम॥ यावजीवं समुत्पाट्य, त्वया सेव्योऽहमन्वहम् ॥ ८२॥ ततो रोगी जगौ रोग-मेनं हृतवतस्तव ॥ सेवकोऽस्मि विना मूल्यं, क्रीतः किं ? भूरिभाषितैः॥८३॥ नीतो नीरोगतां माया-भिषजा भेषजैस्ततः॥ तद्दासत्वमुरीकृत्य, तेन साकं चचाल | सः॥ ८४॥ उत्पाटनार्थ तस्याथ, शस्त्रकोत्थलकं निजम् ॥ देवो ददौ महाभारं, निर्ममे तं च मायया ॥८५॥ अर्हदत्तोऽपि तं भूरि-भारमन्वहमुद्वहन् ॥ इति दध्यौ कलमयं, मया शश्वद्वहिष्यते ? ॥८६॥ वाग्बद्धश्च कथङ्कार, भारमेनं । जहाम्यहम् ॥ चिन्तयन्निति सोऽचाली-द्वीवधानतकन्धरः॥ ८७॥ ददर्श चाऽन्यदा क्वापि, साधून्खाध्यायतत्परान्॥ | तदा तं वीवधोद्विग्न-मेवं मायाभिषग् जगौ॥ ८८ ॥ प्रव्रज्यां यदि गृह्णासि, तदा त्वं मुच्यसे मया ॥ स निशम्येति | ४. १ अत्रानिट्त्वादिटा न भाव्यम् , तथापि सर्वेषां धातूनां विकल्पितेट्रत्वं [ धूगौदितः-४-४-३८ ] इति सूत्रे 'बहुलमेकेषां विकल्पः'।
इति मतान्तरप्रदर्शनेन समर्थितवन्तः श्रीहेमचन्द्रसूरयः ॥
Page #85
--------------------------------------------------------------------------
________________
तद्वाणी-मित्यभाणीद्भरादितः॥ ८९ ॥ वाहं वाहममुं भारं, वज्रसारमहर्निशम् ॥ कुजीभूतोऽस्म्यहं तन्मे, साम्प्रतं 8 साम्प्रतं व्रतम्॥९॥ ततो मायागदङ्कार-तं निन्ये मुनिसन्निधौ ॥ तस्मै प्रदाप्य दीक्षां च, खयं खलॊकमीयिवान्॥११॥ गते देवे व्रतं हित्वा-ऽर्हद्दत्तोऽगानिजं गृहम् ॥ सुरोऽप्यवधिनाऽज्ञासी-तंप्रव्रज्यापरिच्युतम् ॥९२॥ ततो जलोदरव्याधि-बाधितं तं व्यधात्पुनः॥ तयैव परिपाट्या च, दीक्षयामास निर्जरः॥ ९३॥ मूकदेवे गतेऽत्याक्षी-दहदत्तः पुनव्रतम् ॥ तृतीयवारमप्येवं, व्रतमादाय सोऽमुचत् ॥२४॥ अथो चतुर्थवेलायां, पुनः प्रव्राज्य तं सुरः॥ तस्थिरीकरणायाऽस्था-न्नित्यं तत्पार्थ एव सः॥ ९५॥ सुरस्तत्प्रतिवोधाय, तृणभारधरोऽन्यदा ॥ प्रवेष्टुं प्रज्वलद्वामे, समं तेन प्रचक्रमे ॥ ९६ ॥ दक्षंमन्यस्ततो देव-महहत्तोऽब्रवीदिदम् ॥ मध्ये प्रदीपनं यासि, तृणभारं ददत्क
थम् ? ॥ ९७ ॥ देवोऽवक् वेत्सि यद्येत-त्तर्हि कोपादिपावकैः ॥ जाज्वल्यमानं विशति, गृहवासं कुतो भवान् ? है॥९८॥ तन्निशम्याप्यबुद्धं तं, सहादाय पुरो ब्रजन् ॥ मुक्त्वा मार्ग सुरोऽचाली-दुत्पथेनाऽटवीं प्रति ॥ ९९॥
ततो दुर्लभबोधिस्त-मिति प्रोवाच साग्रहम् ॥ हित्वाऽध्वानमरण्यानी, प्रविशस्युत्पथेन किम् ? ॥१०॥ खर्गी| जगाद यद्येत-जानासि त्वं तदा कुतः ॥ विहाय मुक्ति पन्थानं, विविक्षसि भवाटवीम् ॥ १०१॥ तदाकाप्यबुद्धेन, तेन साधं सुधाशनः ॥ अनिर्वेदः श्रियां मूल-मिति ध्यायन् पुरो ययौ ॥ १०२ ॥ व्यन्तरं पूजितं सन्तं,
१ योग्यम् ॥
NAGACANCING
Page #86
--------------------------------------------------------------------------
________________
उत्तराध्ययनानिपतन्तमधोमुखम् ॥ अर्हद्दत्तः क्वचिचैत्ये-ऽद्राक्षीदिव्यानुभावतः ॥ १०३ ॥ ततः स विस्मयामर्ष-प्रकर्षावेशस-द्वितीयमध्य
सङ्कलः ॥ अमुना वाक्यबाणेन, मुखचापमयोजयत् ॥ १०४ ॥ यथा यथाऽर्च्यते लोकै-य॑न्तरोऽसौ तथा तथा ॥ यनम् (२) ॥४३॥
पतत्यधोमुखो नीचै-रुच्चैः संस्थापितोऽपि यत् ॥ १०५॥ तस्मादस्मादधन्योऽन्यो, न दृष्टः कोऽपि भूतले ॥ इत्यूचानं च तं साधु-मेवं देवोऽवदत्पुनः ॥ १०६ ॥ [ युग्मम् ] यदुचैः संयमस्थाने, स्थापितोऽपि पुनः पुनः ॥ पूज्यमानोऽपि लोकैश्च, ततोऽधः पतसि द्रुतम् ॥ १०७ ॥ तस्मात्त्वमप्यधन्योऽसि, रे दुर्बोधशिरोमणे ! ॥ तदाऽऽकयाऽतिसम्भ्रान्तो-ऽर्हहत्तः पृष्टवानिति ॥१०८॥ भूयो भूयो वदन्नेवं, कोऽसि ? त्वमिति मे वद ॥ ततः सुरो मूक-13 रूपं, दर्शयित्वेत्युवाच तम् ॥ १०९॥ शृणु भ्रातः ! सुरः श्रीमा-नासीस्त्वं पूर्वजन्मनि ॥ तदा च भवता मह्य-मित्यभूत्प्रतिपादितम् ॥ ११॥ भवत्सहोदरत्वेनो-त्पन्नं च्युत्वा त्रिविष्टपात् ॥ बोधयेजैनधर्म मां, त्वं प्राप्तोऽपि सुरालयम् ॥ १११ ॥ इति त्वदुक्तं च मया, तदासीत्स्वीकृतं यतः ॥ त्वां विबोधयितुं देवी-भूतोऽप्यत्राऽऽगमं ततः ॥ ११२ ॥ स्वीकृत्याऽपि ततो धर्म, मा विमुञ्च मुहुर्मुहुः ॥ निशम्येति मरुद्वाक्य-मर्हद्दत्तोऽब्रवीदिदम् ॥ ११३॥ देवोऽहं प्राग्भवेऽभूवं, यत्तत्र प्रत्ययो नु कः? ॥ ततो देवस्तमादाय, ययौ वैताढ्यपर्वतम् ॥ ११४ ॥ कुण्डलद्वितयं ॥ ४३ ॥ तेन, प्रोक्तपूर्व स निर्जरः॥ तन्नामाकं समाकृष्य, पुष्करिण्या अदर्शयत् ॥ ११५॥ तद्वीक्ष्य खाभिधानाङ्क, जातिस्मरणमाप सः॥ लब्धबोधिस्ततो भाव-संयम प्रत्यपद्यत ॥ ११६ ॥ स्थापयित्वेति तं धर्म, स्वस्थानं त्रिदशो ययौ ॥
Page #87
--------------------------------------------------------------------------
________________
454534
अर्हद्दत्तोऽपि तदनु-सेहेऽरतिपरीषहम् ॥ ११७ ॥ प्राप्यबोधममरादिति यद-संयतोऽरतिपरीपहमेषः ॥ सोढवान् शमधनैरपरैर-प्येवमेव स सदा सहनीयः॥ ११८ ॥ इत्यरतिपरीषहे अर्हद्दत्तमुनिकथा ॥७॥ उत्पन्नसंयमारतेश्च स्त्रीभिः प्रार्थ्यमानस्य तदभिलाषः स्यादिति स्त्रीपरीषहमाहमूलम्- संगो एस मणुसाणं, जाओ लोगंमि इत्थीओ।
जस्स एआ परिणाया, सुकडं तस्स सामण्णं ॥ १६ ॥ व्याख्या-सङ्गो लेप एष वक्ष्यमाणो मनुष्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह-याः काश्चन मानुष्याद्या लोके जगति स्त्रियो युवतयः, एता हि हावभावादिभिरत्यन्तासक्तिहेतवो मनुष्याणामित्येवमुक्तं, अन्यथा गीताद्यपि सङ्गहे-1 तुरेव, मनुष्यग्रहणं च तेषामेव मैथुनसंज्ञातिरेकात् , ततः किमित्याह- यस्य यतेरेताः स्त्रियः परिज्ञाता ज्ञपरिज्ञया | अत्रामुत्र च महानर्थहेतुतया विदिताः, प्रत्याख्यानपरिजया च प्रत्याख्याताः, 'सुकडंति' सुष्ठकृतं 'तस्सत्ति' विभ-४ क्तिव्यत्ययात्तेन श्रामण्यं चारित्रं, अयं भावः-अवद्यहेतुत्यागो हि व्रतं, रागद्वेषावेव चावद्यहेतू, न च स्त्रीभ्यः परं है रागद्वेपमूलमस्तीति स्त्रीप्रत्याख्यान एव श्रामण्यं सुकृतं भवतीति सूत्रार्थः ॥ १६ ॥ अतः किं विधेयमित्याह- । मूलम्-एअमादाय मेहावी, पंकभूआ उ इत्थीओ ॥नो ताहिं विणिहणेज्जा, चरेजत्तगवेसए ॥१७॥ व्याख्या-एतमनन्तरमुक्तं वक्ष्यमाणञ्चार्थमादाय बुद्ध्या गृहीत्वा मेधावी तमेवाह- पङ्कः कर्दमस्तद्भता एव मुक्ति
5
625
Page #88
--------------------------------------------------------------------------
________________
उत्तराध्ययन पथप्रवृत्तानां विघ्नकरत्वेन मालिन्यहेतुत्वेन च तदुपमा एव, तुरवधारणे, स्त्रियो भवन्तीत्यवधार्य नो नैव ताभिः द्वितीयमध्य
स्त्रीभिः 'विणिहणिजत्ति' विनिहन्यात् संयमजीवितोपघातेन अतिपातयेदात्मानमिति शेषः । कृत्यमाह- यनम् (२) ॥४४॥
चरेद्धर्मानुष्ठानं सेवेत, आत्मगवेषकः कथं मयाऽऽत्मा संसारान्निस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः ॥१७॥ * उदाहरणश्चात्र, तथाहि। उदायिभूपोपज्ञेऽभूत् , पाटलीपुत्रपत्तने ॥ नन्दवंशे कृतानन्दो, नवमो नन्दभूपतिः ॥१॥ कल्पकान्वयजोऽन
ल्प-बुद्धितल्पो विकल्पवित् ॥ तस्यासीच्छकटालाह्वो, मन्त्री जिष्णोरिवाङ्गिराः॥ २ ॥ तस्य लक्ष्मीवती पत्नी, विष्णो-18 हूँ लक्ष्मीरिवाऽभवत् ॥ स्थूलभद्रश्रीयकाहौ, द्वावभूतां तयोः सुतौ ॥ ३॥ यक्षा यक्षदत्ता भूता, भूतदत्ता च सेनिका ॥
वेणा रेणेति संज्ञाश्च, सुताः सप्ताऽभवंस्तयोः॥४॥ यक्षा दक्षाऽग्रहीत्तासु, श्रुतं सकृदपि श्रुतम् ॥ एकैकवारद्धयाऽन्या, अप्येवं जगृहुर्दुतम् ॥ ५॥ यावद्रेणा सम्मकृत्वः, काव्याद्याकर्ण्य सत्वरम् ॥ निर्ममे कण्ठपीठस्थं, खाभिधानमिवोचकैः॥६॥ रूपेणाप्रतिरूपेण, दत्तपत्रा रतेरपि ॥ लावण्यपुण्या पण्यस्त्री, तत्र कोशाभिधाऽभवत् ॥७॥ स्थूलभद्रः कलाचार्या-दधीत्य सकलाः कलाः॥ कोशां वीक्ष्यानुरक्तस्तां, तस्थौ तस्या निकेतने ॥ ८॥ भूरिभूरि
॥४४॥ प्रदानस्तां, स खीचके कलानिधिः॥ तस्या मानसमप्यात्मा-यत्तं चक्रे गुणैर्निजैः॥९॥ अहो! श्रीस्थूलभद्रस्य, सौभाग्यं जगदुत्तमम् ॥ तन्मयीवाऽभवद्येन, कोशा वारवधूरपि ॥ १०॥ तया सममविज्ञाता-ऽहोरात्रपरिवर्तनः॥
*AICINAS CASA
Page #89
--------------------------------------------------------------------------
________________
विलासैर्विविधैः स्थूल-भद्रो रेमे गुणाम्बुधिः॥११॥ यदभून्निविडं प्रेम, तयोरन्योन्यरक्तयोः॥ अपि वाचस्पते
चां, तद्भवेन्नैव गोचरः॥१२॥ दृढानुरागौ तौ भिन्न-देहावप्येकमानसौ ॥ अन्योन्यं विरहं नाधि-सेहाते नखमांसवत् ॥ १३ ॥ कोशासक्त इति स्थूल-भद्रो नाऽगान्निजं गृहम्॥ श्रीयकस्तु बभूवाङ्ग- रक्षको नन्दभूभुजः ॥१४॥ इतश्च नन्दनृपति, नाम्ना वररुचिः कविः॥ नव्यैरष्टोत्तरशत-काव्यैरन्वहमस्तवीत् ॥ १५॥ तानि श्रुत्वा नृपस्तुष्टो, मश्रिवकं व्यलोकत ॥ स तु मिथ्यामतेस्तस्य, प्रशंसां नाऽकरॊत्कवेः ॥१६॥ ततः पृथ्वीपतिस्तस्मै, भट्टायाऽदान्न किञ्चन ॥ भट्टोऽपि धीसखाधीनं, विवेद नृपति तदा ॥ १७॥ लोकोक्त्या सचिवं तं च, विज्ञाय गृहिणीवशम् ॥ | भेजे लक्ष्मीवतीं खार्थ-सिद्धयै वररुचिर्द्विजः ॥ १८ ॥ तां तुष्टां स्तुतिभिश्चैवं, ययाचे स महाकविः ॥ मत्काव्यं त्वद्राि राज्ञः, पुरो मन्त्री प्रशंसतु ॥ १९॥ दाक्षिण्येनैव दक्षापि, तद्वाचं तां प्रपद्य सा ॥ उवाच मत्रिणे सोऽपि, तदाकाऽब्रवीदिति ॥२०॥ सम्यग्दृशो न युक्तं मे, तत्काव्यानां प्रशंसनम् ॥ किन्तु त्वदाग्रहाधीनः, करिष्ये तदपि प्रिये ! ॥ २१॥ प्रतिपद्येत्यगाद्भूप-सभा सचिवपुङ्गवः ॥ तत्रायातः स भट्टोऽपि, नृपं तुष्टाव पूर्ववत् ॥२२॥ स्तुतिप्रान्ते च भूपेना-ऽमात्यवत्रे विलोकिते ॥ अहो! सूक्तानि काव्यानि, प्राशंसीदिति धीसखः॥ २३॥ नृपोऽथ तस्मै दीनारा-नष्टोत्तरशतं ददौ ॥ इत्थं तावद्धनं तस्मै, भूपोऽदात् प्रतिवासरम् ॥ २४ ॥ शकटालस्ततो दध्यौ, दत्त्वाऽस्मै धनमन्वहम् ॥ कोशं निष्ठापयत्येष, नृपो निष्कारणं किमु ? ॥२५॥ ध्यात्वेति नन्दभूपाल-मवादीदिति
Page #90
--------------------------------------------------------------------------
________________
द्वितीयमध्ययनम् (२)
उत्तराध्ययनधीसखः॥ खामिन् ! किमस्मै भट्टाय, प्रत्यहं दीयते धनम् ॥ २६ ॥राजा जगाद काव्यानि, वर्णितानि त्वयाऽस्य
यत् ॥ ततोऽस्मै दीयते नोचे-त्पूर्व नाऽदामहं कथम् ? ॥ २७॥ अमात्यः स्माह वृत्तानि, लौकिकानि पठत्ययम् ॥ ॥४५॥
तानि प्राशंसिपमहं, ततो भूपतिरित्यवक् ॥ २८॥ किं पुराणानि काव्यानि, पठत्येष पुरो मम ?॥ उवाच सचिवः || सन्ति, जीर्णान्येतानि निश्चितम् ॥२९॥ यद्यत्र प्रत्ययो न स्या- त्तदा सप्ताऽपि मत्सुताः॥ तदुक्तान्येव काव्यानि, पठिष्यन्ति प्रभोः पुरः॥३०॥ तन्निशम्याऽथ साश्चर्यो, नृपो जवनिकान्तरे ॥ सप्ताऽपि मत्रिपुत्रीस्ताः, समाहृय न्य
वीविशत् ॥३१॥ अथाऽऽगतो वररुचिः, काव्यैस्तावद्भिरुत्तमैः॥ तुष्टाव क्ष्मापतिं क्षिप्रं, तानि यक्षाऽप्यधारयत् ४॥३२॥राजादेशात्सभामेत्य, तथैव कथयच सा ॥ एवं वारद्वयं श्रुत्वा, यक्षदत्ताऽपि तान्यऽवक् ॥ ३३॥ सर्वा अप्ये
वमचस्ता-स्तानि राज्ञोऽग्रतः क्रमात् ॥ ततो वररुचे राजा, रुष्टो दानमवारयत् ॥ ३४॥ गङ्गास्रोतोजले यत्रं. चक्रे वररुचिस्ततः ॥ अष्टाग्रशतदीनार-ग्रन्थिकां तत्र च न्यधात् ॥३५॥ प्रातश्च जाह्नवीं स्तुत्वा-ऽङ्गिणा यन्त्रमचीचलत् ॥ दीनारग्रन्थिरुत्प्लुत्य, न्यपतत्तत्करे तदा ॥ ३६ ॥ लोकस्तत्प्रत्यहं प्रेक्ष्य, विस्मितः प्रोचिवानिति ॥ अहो ! गङ्गापि दीनारा-नस्मै दत्ते स्तुता सती ॥३७॥ जनोक्त्या तन्निशम्याऽथ, मत्रिणे स्माह भूधवः ॥ प्रोचेऽमात्यः प्रभो ! प्रातद्रक्ष्यामोऽदः खयं वयम् ॥३८॥ इत्युक्त्वा खगृहं गत्वा, मत्री प्रैपीचरं वरम् ॥गत्वा गङ्गां सोऽपि सायं, शरस्तम्बे तिरोदधे ॥३९॥ तदा चाष्टोत्तरशत-दीनारग्रन्थिकां खयम् ॥ तत्र गङ्गापयोयत्रे, छन्नं वररुचिय॑धात् ॥४०॥वलि
॥४५॥
Page #91
--------------------------------------------------------------------------
________________
तश्च ततः सद्यो, जगाम निजधाम सः॥ आदाय प्रन्थिकां तां च, चरोऽदान्मत्रिणे रहः॥४१॥ छन्नरक्षितदीनार-| ग्रन्थिना मत्रिणा समम् ॥प्रातः पौरपरीतोऽगा-द्भूजानिरथ जाह्नवीम् ॥ ४२ ॥ तत्राऽऽयातो वररुचि-र्दिदृशुं वीक्ष्य | भूपतिम् ॥ प्रोत्सर्पिदर्पः प्रारेभे, गङ्गां स्तोतुं विशेषतः॥४३॥ स्तुतिप्रान्ते च पादाभ्यां, विप्रो यन्त्रमचीचलत् ॥ दीना-13 रग्रन्थिका सा तु, नोल्लुत्याऽऽगाकरोदरे॥४४॥ यदा स ग्रन्थिकां नाऽऽप, पाणिनाऽपि गवेषयन् ॥ स्मित्वाऽमात्यस्तदेत्यूचे, गङ्गा दत्तेऽद्य किं न ते ?॥४५॥ खद्रव्यमुपलक्ष्याऽथ, गृहाणेति निगद्य सः॥ तां प्रन्थिकां ददौ तस्मै, तां च प्रेक्ष्य स खिन्नवान् ॥४६॥ खां प्रवर्धयितुं ख्याति, जनं वञ्चयितुं धनम् ॥ सायमत्र धनं क्षिप्त्वा, प्रातर्गृह्णात्यसौ प्रभो! ॥४७॥ इत्थं वररुचेर्दम्भ, मत्रिणोक्ते नृपादयः॥ अयं महाधूत इति, तं निन्दन्तो गृहं ययुः॥४८॥[युग्मम् ] तेनामात्यप्रयोगेण, प्राप्तनिन्दः स वाडवः ॥ इति व्यचिन्तयद्रोषा-द्वाडवाग्निरिव ज्वलन् ॥ ४९ ॥ हिलीतोऽस्मि मुधा* लोके, पापेनाऽनेन मत्रिणा ॥ तद्यथाशक्त्यहमपि, प्रतिकुर्वेऽस्य किञ्चन ॥५०॥ध्यात्वेति तस्याऽमात्यस्य, छिद्राणि ज्ञातुमन्यहम् ॥ वस्त्रादिदानस्तदासीं, वशीचके स काञ्चन ॥५१॥ मत्रिगेहखरूपं तं, पृच्छन्तं साऽन्यदेत्यवक् ॥ अस्ति श्रीयकवीवाहः, प्रारब्धोऽमात्यसमनि ॥५२॥ तत्र भूमिभुजो भोक्तुं, सतवस्यागमिष्यतः ॥ निष्पाद्यते प्रदानाय, विविधायुधधोरणी॥५३॥ छलान्वेषी तदाऽऽसाद्य, छलं वररुचिर्द्विजः॥ अपाठयच्छिशूनेवं, मोदकादिवशीकृतान् ॥५४॥"यत्कर्ता शकटालोऽयं, तन्न जानाति पार्थिवः॥ हत्वा नन्दं तस्य राज्ये, श्रीयकं स्थापयिष्यति ॥५५॥" प्रति
Page #92
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥ ४६ ॥
स्थानं पठ्यमानं, बालकैस्तन्निशम्य च ॥ तत्स्वरूपं नृपो ज्ञातुं, प्रैषीन्मत्रिगृहे चरम् ॥ ५६ ॥ सोप्यागत्य यथादृष्टं, शस्त्रनिष्पादनादिकम् ॥ राज्ञे व्यज्ञपयद्राजा - ऽप्यकुप्यन्मंत्रिणे ततः ॥ ५७ ॥ अथ सेवार्थमायातो ऽनमन्मंत्री यतो यतः ॥ कोपात्पराङ्मुखस्तस्या- ऽभवद्भूपस्ततस्ततः ॥ ५८ ॥ ततोऽतिकुपितं पृथ्वी - पतिं विज्ञाय धीसखः ॥ व्याघुट्य गेहमागत्य, श्रीयकं प्रोचिवानिति ॥ ५९ ॥ प्रणते मयि भक्तेऽपि, यत्तिष्ठति पराङ्मुखः ॥ तन्मन्येऽस्मद्विपा केना - ऽप्यद्यासौ द्वेषितो नृपः ॥ ६९ ॥ द्विष्टश्च भूधवो भूर्ति, वैगुण्यं नः करिष्यति ॥ नृपदुर्जनसर्पाणा - मात्मीयो हि न कश्चन ॥ ६१ ॥ तद्यावदयमस्माकं न करोति कुलक्षयम् ॥ तद्रक्षायै तावदेतं, वत्सादेशं कुरुष्व मे ॥६२॥ खङ्गेन मौलिं छिन्द्यास्त्वं, भूपतिं नमतो मम ॥ ब्रूयाश्चेति प्रभुद्वेषी, पिताऽपि न मतो मम ॥ ६३ ॥ आसन्नमृत्यौ वृद्धत्वा - न्मयि चैवं मृते सति ॥ मद्वंशवेश्मस्तम्भस्त्वं, भवितासि चिरं ततः ॥ ६४ ॥ तच्छ्रुत्वा श्रीयकः स्माह, रुद न्निति सगद्गदम् ॥ तातेदं गर्हितं कर्म, श्वपचोऽपि किमाचरेत् ? ॥ ६५ ॥ त्वां निहत्य भविष्यामि, नैवाहं कुलपांसनः ॥ तन्मामेव कुलं त्रातुं मारयोर्वीपतेः पुरः ॥ ६६ ॥ ततो मन्त्री जगौ वत्स !, मृतेऽपि त्वयि पार्थिवः ॥ कोपहेतौ मयि सति, क्षपयत्येव नः कुलम् ॥ ६७ ॥ तद्विमर्शममुं मुक्त्वा, वत्स ! स्वीकुरु मद्वचः ॥ त्यजेदेकं कुलस्यार्थे, श्रुतिमेनां विचारय ॥ ६८ ॥ नृपप्रणामावसरे, विषं तालपुटं मुखे ॥ क्षिप्त्वा स्वयं विपत्स्येऽहं तातहत्या ततो न ते ॥ ६९ ॥ तदेतत्प्रतिपद्य त्वं मलिनीकुरु विद्विषम् ॥ सुबुद्धेऽस्मत्कुलं चास्मा - दुद्धर व्यसनोदधेः ॥ ७० ॥ तच्छ्रुत्वा
द्वितीयमध्ययनम् (२)
॥ ४६ ॥
Page #93
--------------------------------------------------------------------------
________________
TOCOCCACCUSEXCOM
श्रीयको दध्यौ, किं करोमि ? कयाम्यहम् ? ॥ वच्मि ? चेदं पुरः कस्य, द्विधाप्यापतितं मम ॥ ७१॥ इतस्तातवपुर्णतः, इतश्चाज्ञाव्यतिक्रमः॥ आपन्नस्तदयं न्यायः, इतो व्याघ्र इतस्तदी ॥७२॥ ध्यायन्नेवं कथमपि, पितृवाणी प्रपद्य ताम् ॥ पुरतो नृपतेः पार्थे, जगाम श्रीयको द्रुतम् ॥ ७३ ॥ पृष्ठतः शकटालोऽगा-नपश्चाभूत्पराङ्मुखः॥ उपविश्य ततो मत्री, किञ्चिदूचे यथोचितम् ॥७४॥ तथाप्यजल्पति मापे, क्षिप्त्वाऽमात्यो मुखे विषम् ॥ नृपं ननाम तन्मौलिं, श्रीयकोऽप्यऽसिनाऽच्छिनत् ॥ ७५ ॥ ततो हाहारवो लोकै-श्चक्रे भूपोऽपि सम्भ्रमात् ॥ तमित्यूचे त्वया | वत्स !, दुष्करं किमिदं कृतम् ? ॥ ७६ ॥ उवाच श्रीयकः खामिन् !, यदस्मिन् प्रणतेऽपि वः ॥ नासीत्प्रसत्तिस्त ज्ञातो, मयाऽयं द्रोहकृत् प्रभोः ॥ ७७ ॥ खामिद्रोही च निग्राह्य, इत्ययं निहतः पिता॥ येन प्रभोरतुष्टिः स्या-तातेनाऽपि हि तेन किम् ? ॥ ७८ ॥ तच्छ्रुत्वा व्यमृशद्भपो, यदीक्सेवकानपि ॥ जनोऽन्यथाऽऽख्यत्सा नूनं, माया वररुचेः कवेः!॥ ७९ ॥ यद्वा ममैव दोषोऽयं, यत्तदा न व्यचारयम् ॥ अविमृश्यकरो यस्मा-दन्धादपि विशिष्यते ! ॥८॥ ध्यात्वेत्याश्वासयद्भपः, श्रीयकं प्रियभापितः॥प्रेम्णा खयं वितेने च, शकटालो देहिकम् ॥ ८१॥ ऊचे च श्रीयकं मत्रि-मुद्रेयं गृह्यतामिति ॥ प्रणम्य श्रीयकोऽप्येव- मथ व्यज्ञपयन्नुपम् ॥८२॥ अस्ति श्रीस्थूलभद्राह्वः, कोशागेहे ममाग्रजः॥ तिष्ठतस्तत्र तस्याद्य, जज्ञे द्वादशवत्सरी ॥८३ ॥ तस्यासौ दीयतां मुद्रा. श्रत्वेत्याहय तं नृपः॥ जगाद मत्रिमुद्रेय-मस्माकं गृह्यतामिति ॥ ८४ ॥ विचार्येदं करिष्यामी-त्युक्ते तेन नृपोऽवदत् ॥यद्विचार्य तदद्यैव,
CANOCOCCASSAMACHAR
Page #94
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥४७॥
595%
विचारय महाशय !॥८५॥ अशोकवनिकांगत्वा, सोऽप्येवं व्यमृशत्ततः॥ नियोगिनां राजकार्य-व्यग्राणां व सुखं द्वितीयमध्यहै भवेत् ? ॥८६॥ नियोगी दुःस्थवत्काले-ऽप्यनुते नहि भोजनम् ॥ अधमर्ण इव क्वापि, नेष्टे निद्रातुमप्यसौ !॥८७॥ यनम् (२)
राज्यचिन्ताकुलः स्त्रीश्च, स स्मर्तुमपि न प्रभुः ॥ क्वाऽसौ क्षमोऽनुभवितुं, गीतनाट्यादिकं पुनः ? ॥ १८ ॥ सत्यप्येवं है। खामिभक्तः, स्वामिकृत्यं विधीयते ॥ नोपद्रवेयुः पिशुना–श्चेनिष्कारणवैरिणः ॥ ८९ ॥ पिशुनोपद्रवोऽप्युच्चै- न दुःखाकुरुते तदा ॥ यदि राज्ञां मनो न स्यात् , पताकाञ्चलचञ्चलम् ॥ ९० ॥ नृपेषु चलचित्तत्व- सन्देहस्त्वमुनैव हि ॥ राज्ञाऽपास्तोऽनुरक्तेऽपि, मत्ताते द्वेषमीयुपा ॥९१॥ तदेवमैहिक सौख्यं, तस्य न स्यात्परत्र तु ॥ दुष्कर्म द्रविण-I क्रीता, ढोकते नरकव्यथा ॥९२॥ तदैहिकामुष्मिकार्थ-बाधके खामिकर्मणि ॥ यत्यते चेत्तदा किं न, यत्यते खहिते | व्रते ? ॥९३ ॥ ध्यात्वेति स्थिरवैराग्यः, स्थूलभद्रो विशुद्धधीः ॥ वेणीमुदखनत्तैल-कस्तूरीपङ्कपङ्किलाम् ॥९४ ॥ कृत्वा धर्मध्वज रत्न-कम्बलस्य दशागणैः ॥ सभां गत्वाऽभ्यधाद्भप-मालोचितमिदं मया ॥९५॥ इत्युक्त्वा धर्म-18 लाभं च, दत्त्वा स प्रस्थितो मुनिः॥निर्मोहो निरगाद्राज-गेहाद इवाम्बुदात् ॥९६॥ मायां विधाय गन्ताऽयं, वेश्यावश्मनि किं पुनः १॥ इति ध्यायन गवाक्षेण, क्षमापस्तं यान्तमैक्षत ॥ ९७॥ कुथ्यत्कुणपदुर्गन्ध-दुर्गमेऽप्याऽऽ-I स्पदे स तु ॥ गच्छन्नाच्छादयद् घ्राणं, नाऽपि वक्रममोटयत् ॥९८॥ तथा ब्रजन्तं तं दृष्ट्वा, दध्यावेवं स भूधवः॥ वीत मोहो महात्मायं, मुधा ध्यातं मयाऽन्यथा ॥९९।। स्थूलभद्रोऽपि सम्भूत-विजयखामिसन्निधौ ॥ गत्वा नत्वा च तान्
॥४७॥
25E
Page #95
--------------------------------------------------------------------------
________________
| दीक्षा - माददे विधिपूर्वकम् ॥ १०० ॥ श्रीयकाय ददौ मन्त्री - मुद्रां नन्दनृपस्ततः ॥ सोऽपि चक्रे राज्यचिन्तां धीनिधिविनयी नयी ॥ १०१ ॥ भट्टो वररुचिः सोऽपि, सिषेवे भूपमन्वहम् ॥ कोशा खसारं भेजे चो- पकोशां तद्वशंवदः ॥ १०२ ॥ स्थूलभद्रे दृढप्रीतिः, कोशात्वन्यमियेष न ॥ स्थूलभद्रगुणान् किन्तु, सा सस्मार दिवानिशम् ॥ १०३ ॥ भ्रातुः प्रियेति तद्देहे, प्रत्यहं श्रीयको ययौ । तं च वीक्ष्योद्भवद्भूरि- दुःखपूरा रुरोद सा ॥ १०४ ॥ श्रीयकस्तां तदेत्याख्य - ब्रूहि भद्रे ! करोमि किम् ? ॥ असौ पापो वररुचि - मम तातमघातयत् ॥ १०५ ॥ श्रीस्थूलभद्रविरहं, चायमेवातनोत्तव ॥ अरुन्तुदविषादिग्ध - शल्यशल्यसहोदरम् ॥ १०६ ॥ तव खसारं तद्याव - दुपकोशां भजत्ययम् ॥ वैरनिर्यातनोपायं तावत्किञ्चिद्विचारय ॥ १०७ ॥ यदि चायं पिवेन्मद्यं, वैरशुद्धिस्तदा भवेत् ॥ तदादिश्योपकोशां त्वं, कारयामुं सुरापिवम् ॥ १०८ ॥ एवं देवरवाक्यं सा, खीचकार पणाङ्गना ॥ ऊचे च भगिनीं मद्य - रुचिं वररुचिं कुरु ॥ १०९ ॥ ततस्तं मद्यपं चक्रे, साप्युपायेन केनचित् ॥ नास्ति किञ्चनाकार्य, स्त्रीवशानां विदामपि ॥ ११० ॥ खैरं वररुचिर्भट्ठो, मद्यमद्यास्ति पायितः ॥ उपकोशेति कोशायै, प्रभातेऽज्ञापयत्ततः ॥ १११ ॥ कोशाऽपि तं तद्वृत्तान्तं, श्रीयकाय न्यवेदयत् ॥ तच्छ्रुत्वा श्रीयको प्युच्चै - स्तुष्टोऽगात् भूपपर्षदि ॥ ११२ ॥ शकटालगुणान् स्मारं, स्मारं नन्दनृपोऽन्यदा । इत्यूचे श्रीयकामात्य - मास्थानस्थः सगद्गदम् ॥ १०३ ॥ शकटालो महामन्त्री, ममाऽभूद्भूरिधीनिधिः ॥ इदं तेन विना स्थानं, शून्यवत्प्रतिभाति मे ! ॥ ११४ ॥ उवाच श्रीयकः स्वामि-न्निह किं कुर्महे ? वयम् ॥ सुरापायी वर
%%%
Page #96
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥४८॥
रुचिः, पापं सर्वमिदं व्यधात् ॥११५॥ किमेष मद्यं पिबती-त्यपृच्छत्तं ततो नृपः॥ इदं वो दर्शयिष्यामी-त्युवाच द्वितीयमध्य श्रीयकोऽपि हि ॥११६॥ द्वितीये चाहि सभ्यानां, राज्ञश्च श्रीयकः सुधीः॥ एकैकमार्पयत्पन, शिक्षितेनाऽनुजीविना। लायनम् (२) ॥११७॥ उग्रप्रत्यग्रमदन-फलनिःस्यन्दभावितम् ॥ पापस्सादापयत्पाथो-रुहं वररुचेः पुनः ॥११८॥ नृपाद्यास्तानि पद्मानि, घायं घायमवर्णयन् ॥ ततो वररुचिःखीय-मप्यजिघ्रत् पयोरुहम् ॥११९॥ सुरां स चन्द्रहासाख्यां, निशापीतां ततोवमत् ॥ तद्वीक्ष्य भर्सितः सभ्यः, सभाया निर्जगाम च ॥१२० ॥ स खनिन्दापनोदाय, प्रायश्चित्तचिकीस्ततः॥ इत्यपृच्छत् द्विजान् किं हि, मद्यपानाघघातकम् ?॥१२१॥ तापितत्रपुणः पानं, मदिरापानपापहृत् ॥ तैरित्युक्ते सोऽपि सद्य- स्तन्निपीय व्यपद्यत ॥ १२२ ॥
इतश्च स्थूलभद्रोऽपि, सम्भूतविजयप्रभून् ॥ सेवमानः श्रुताम्भोधेः, पारं प्राप क्रमात्सुधीः ॥१२३॥ सम्भूतविजयाचार्यान् , प्रणम्य मुनयस्त्रयः ॥ वर्षाकालेऽन्यदाऽऽयाते, चक्रुरेवमभिग्रहान् ॥ १२४॥ स्थित्वा सिंहगुहाद्वारे, चतुर्मासीमुपोषितः॥ कायोत्सर्ग करिष्यामी-त्याद्यश्चक्रे प्रतिश्रवम् ॥ १२५ ॥ दृग्विषाशीविषत्रिल-द्वारे स्थास्याम्युपोषितः॥ चतुर्मासी कृतोत्सर्गो, द्वितीयोऽभ्यग्रहीदिति ॥ १२६ ॥ स्थास्यामि कूपफलके, कृत्वोत्सर्गमुपोषितः ॥
*
॥४८॥ चतुर्मासीमहमिति, प्रतिपेदे तृतीयकः ॥ १२७ ॥ ज्ञात्वा तान् संयतान् योग्या- ननुमेने गुरुयंदा ॥ स्थूलभ-5 द्रस्तदोत्थाय, गुरूनेवं व्यजिज्ञपत् ॥ १२८ ॥ कुर्वन् पडूरसमाहार-मकुर्वन् प्रबलं तपः ॥ स्थास्याम्यहं चतुर्मासी,
CAMERASACRECRACCORRECORE
Page #97
--------------------------------------------------------------------------
________________
*
******
कोशावेश्या निकेतने ॥१२९ ॥ सूरिस्तमुपयोगेन, योग्यं ज्ञात्वाऽन्वमन्यत ॥ सर्वेऽप्यऽङ्गीकृतस्थाना-न्यऽगमन्मुनयस्ततः ॥ १३० ॥ शान्तान् जितेन्द्रियान् घोर-तपोनिष्ठानिरीक्ष्य तान् ॥ शान्तिं प्रापुस्त्रयोऽप्येते, सिंहसारपट्टिकाः ॥ १३१ ॥ अथ श्रीस्थूलभद्रोऽपि, कोशासदनमासदत् ॥ कोशाऽपि प्रमदोत्सर्पि-रोमहर्षा तमभ्यगात् ॥ १३२ ॥ अयं परीषहोद्विग्नो, भग्नः संयमवीवधात् ॥ आगान्नूनं तदद्यापि, दैवं जागर्ति मामकम् ॥ १३३ ॥ चिन्तयन्तीति साऽवोच-द्वाचा पीयूषकुल्यया ॥ खागतं भवतः खामिन् ! कामधिक्कारिरूप हे !॥ १३४ ॥ अद्य चिन्तामणिलब्धः, फलितोऽद्य सुरद्रुमः ॥ अद्य कामगवी प्राप्ता, नाथ ! त्वयि समागते ॥ १३५ ॥ अद्यान्तरायापगमात्, PIपुण्यं प्रादुरभून्मम ॥ दिष्ट्या पीयूषवृष्ट्या , यत्प्राप्तं तव दर्शनम् ॥ १३६ ॥ अथ प्रसद्य सद्यो मां, समादिश करोमि किम् ? ॥ सर्वमेतत्तवैवास्ति, वित्तं चित्तं वपुर्यहम् ॥ १३७ ॥ ततः श्रीस्थूलभद्रर्षि-भगवानेवमब्रवीत् ॥ चित्रशालामिमां देहि, स्थातुं मासचतुष्टयम् ॥ १३८ ॥ गृह्यतामिति साऽप्युक्त्वा, सजयित्वा च तां ददौ ॥ भगवान स्थलभद्रोऽपि, तस्थौ तत्र समाहितः ॥ १३९ ॥ कोशादत्तं षड्रसाढ्य-माहारमुपभुज्य च ॥ प्रणिधानं दधौ साधुः, साधुधर्माब्जषट्पदः ॥ १४०॥ रूपलावण्यकोशोऽथ, कोशा कौशलशेवधिः॥ शृङ्गारागारशृङ्गार-धराऽगान्मुनिस|न्निधौ ॥ १४१॥ कटाक्षलक्षयन्ती तं, मुनिं स्मरशरोपमैः॥ हावैमनोगतं भाव-मुद्वमंती मनोहरैः ॥ १४२ ॥ उत्त|रीययथास्थान-स्थापनव्याजतो मुहुः ॥ व्यञ्जयन्ती स्तनो स्तब्धी, खसौन्दर्यमदादिव ॥१४३॥ सल्लावण्यसुधा
*
*
**
Page #98
--------------------------------------------------------------------------
________________
उत्तराध्ययनपीन-त्रिवलीवल्लिमञ्जुलम् ॥ दर्शयन्ती मध्यदेश-मनमोटनपाटवात् ॥१४४ ॥ रोमराजीवलयितां. गम्भीरा नाभि- नी
कपिकामप्रकाशयन्ती सुन्नीवी-बन्धोच्छ्रासनकैतवात् ॥ १४५॥ दग्धपूर्व महेशेनो-जीवयन्ती मनोभवम् ॥151यनम् (२) ॥४९॥
पक्षमध्वनिमीतेन. पीयूषद्रवबन्धुना ॥ १४६ ॥ वृता सखीगणैर्वेणु-वीणाद्यातोद्यवादकैः ॥ सा साधोः पुरतश्चक्रे, नायं विश्वैकमोहनम ॥ १४७॥ [ षडिः कुलकम् ] तद्वीक्ष्याऽपि स्थूलभद्रो, धर्मध्यानं मुमोच न ॥ ततः कोशा परस्तस्यो-पविश्येति गिरं जगौ ॥ १४८ ॥ खामिंस्तव वियोगेन, तीव्रदुःखौघदायिना ॥ अभून्मे दिनमेकैकं, दिव्यसंवत्सरोपमम ॥ १४९॥ सोदरं वडवावहे-मेन्ये त्वद्विरहं विभो !॥ यदयं नेत्रनीराघ, पायं पायमवर्धत ॥ १५०॥ तन्मां निर्वापय खांग-परिष्वंगसुधारसैः ॥ त्वद्विश्लेषज्वलज्ज्वाला-जिह्वज्यालाकरालिताम् ॥ १५१॥ सम्भोगकल-I होत्पन्न-मपि मद्विरहं भवान् ॥ नासहिष्ट पुरा खामि-स्तत्प्रेम व गतं ? तव ॥ १५२ ॥ विचित्राश्लेषरुचिरा, यास्त्वया कामकेलयः ॥ अनुभूता मया साकं, ताः किं ते विस्मृताः? प्रभो !॥ १५३॥ विभो! विधेहि करुणां, निजे हृदि निधेहि माम् ॥ पिधेहि दुःखवदनं, देहि प्रतिवचो मम ॥ १५४ ॥ इति श्रुत्वाऽपि स मुनि-न चुक्षोभ मनागपि ॥ बहीभिरतिवात्याभिः, सुमेरुः किमु कम्पते ? ॥ १५५ ॥ इत्थं तत्क्षोभनोपाया-स्तया नित्यं कृता
II॥४९॥ अपि ॥ अभवन् विफलास्तत्र, कुलिशे परशस्त्रवत् ॥ १५६ ॥ एवं तस्येन्द्रियजय-प्रकर्ष वीक्ष्य विस्मिता ॥ त्यक्तसम्भोगकामा सा, तं प्रणम्यैवमब्रवीत् ॥ १५७ ॥ यदज्ञानात्त्वया साकं, प्राग्वद्रन्तुमना अहम् ॥ अकार्ष क्षोभनोपा
Page #99
--------------------------------------------------------------------------
________________
यान् , तदागस्त्वं सहख मे ॥ १५८ ॥ स्थूलभद्रस्ततस्तस्यै, श्राद्धधर्ममभाषत ॥ प्रबुद्धा साऽपि तं धर्म, स्वीकृत्या-14 भ्यग्रहीदिति ॥ १५९ ॥ विश्राणयति मां यस्मै, तुष्टो नन्दमहीपतिः ॥ तं विहायाऽपरे माः, सर्वेऽपि मम बान्धवाः ॥ १६० ॥ अथ प्रान्ते चतुर्मास्या-स्तीर्णखखप्रतिश्रवाः॥ ते त्रयो मुनयो जग्मुः, क्रमात्वगुरुसन्निधौ ॥१६१॥ तत्राऽऽयान्तं सिंहगुहा-महर्षि किञ्चिदुत्थितः ॥ गुरुर्जगौ खागतं ते, वत्स ! दुष्करकारक ! ॥ १६२ ॥ अन्याव-13 प्येवमेव द्वौ, प्रोचे सूरिः समागतौ ॥ स्थूलभद्रोऽप्यऽथाऽऽयासी-संतीर्णाभिग्रहार्णवः ॥ १६३ ॥ तञ्चाऽऽयान्तं समुत्थाय, स्माह सूरिः ससम्भ्रमम् ॥ दुष्करदुष्करकारिन् !, स्वागतं ते तपोनिधे ! ॥ १६४ ॥ सामर्षास्तन्निशम्येति, दध्युस्ते यतयस्त्रयः ॥ गुरवो मन्त्रिपुत्रत्वा-देवमामन्त्रयन्त्यमुम् ! ॥ १६५ ॥ नित्यं पडूरसमाहारं, भुक्त्वा तत्र स्थितोऽ| | प्यऽसौ ॥ गुरुभिः कथ्यते साधुः, कृतदुष्करदुष्करः!॥१६६ ॥ वयमप्यैषदब्दे त-लास्यामोऽमुमभिग्रहम् । ध्यायन्त इति ते मासान् , कष्टादष्टाऽत्यवाहयन् ! ॥१६७॥ वर्षाकालेऽथ सम्प्राप्ते, मानी सिंहगुहामुनिः ॥ सम्भूतविजयाचार्यान् , प्रणम्येति व्यजिज्ञपत् ॥ १६८॥ सर्वदा परसाहार-भोजी कोशानिकेतने ॥ स्थास्याम्यहं चतुर्मासी, स्थूलभद्र इव प्रभो!॥१६९॥ अयं हि स्थूलभद्रस्य, स्पर्द्धयाऽङ्गीकरोत्यदः। विमृश्यत्युपयोगं च, दत्त्वैवं सुरिरब्रवीत् ॥ १७० ॥ वत्साभिग्रहमेनं मा-कापर्दुष्करदुष्करम् ॥ क्षमो हि स्थूलभद्रोऽमुं, निर्वोढुं नाऽपरः पुनः ! ॥ १७१ ॥ अपि खयम्भूरमण-स्तरीतुं शक्यते सुखम् ॥ अयं त्वभिग्रहो धर्तु, दुष्करेभ्योऽपि दुष्करः ! ॥ १७२ ॥ दुष्करोऽ
Page #100
--------------------------------------------------------------------------
________________
उत्तराध्ययन
द्वितीयमध्य। यनम् (२)
॥५०॥
प्यस्ति नायं मे, व नु दुष्करदुष्करः ? ॥ करिष्याम्येव तदमु-मित्यूचे स पुनर्गुरून् ॥ १७३ ॥ अथोचे सूरिरेतस्मा- दभिग्रहकदाग्रहात् ॥ वत्स! ते भाविनी लाभ-मिच्छतो मूलविच्युतिः !॥ १७४ ॥ एनामपि गुरोर्वाचं, मुमुक्षुरवमत्य सः॥ वीरंमन्यो ययौ कोशा-सदनं मदनाश्रयम् ! ॥१७५॥ स्पर्धया स्थूलभद्रस्य, नूनमागादयं मुनिः । कोशाऽपि तं विलोक्येति, दध्यौ दक्षा नमच तम् ॥ १७६ ॥ स्थित्यर्थ प्रार्थयामास, स साधुश्चित्रशालिकाम् ॥ कोशापि तां ददौ सोऽपि, सोत्सेकस्तां प्रविष्टवान् ॥ १७७ ॥ बुभुजे च तया दत्त-माहारं षड्रसाञ्चितम् ॥ अथ कोशाऽपि तत्रांगा-मध्याहे तं परीक्षितुम् ॥ १७८ ॥ मृगाक्षी तां च स प्रेक्ष्य, क्षणात्क्षोभमुपागतः ॥ मदनावेशविवशः, संवे|शनमयाचत ॥ १७९ ॥ ततः कोशा तमित्यूचे, खामिन् ! पण्याङ्गना वयम् ! ॥ खीकुर्मः शक्रमपि नो, धनदानं विना कृतम् ! ॥ १८० ॥ मुनिः माह प्रसद्य त्वं, मां निर्वापय सङ्गमात् ॥ वह्नौ शैत्यमिवाऽस्मासु, द्रविणं तु सुदुलभम् ! ॥१८१॥ त्वदाज्ञाविवशश्वाहं, धनमप्यानये द्रुतम् ॥ निवेदयसि चेन्मां, तत्प्राप्तिस्थानमुत्तमम् ॥१८२॥ ततो बोधयितुं सा तं, प्रोचे नेपालभूपतिः ॥ नन्यसाधोर्लक्षमूल्यं, प्रदत्ते रत्नकम्बलम् ॥ १८३ ॥ ततस्त्वं तत्र गत्वाऽऽशु, तं समानय मत्कृते ॥ श्रुत्वेति सोऽप्यऽकालेऽपि, नेपालं प्रति चेलिवान् ॥ १८४ ॥ तत्र गत्वा धरा-
I धीशा-द्रत्नकम्बलमाप्य च ॥ ववले स मुनिः सद्यो, वेश्यां ध्यायन्मनोन्तरे ॥ १८५ ॥ तत्र मार्गे स्थितानां च, |दस्यूनां शकुनस्तदा ॥ आयाति लक्ष्यमित्यूचे, तदज्ञासीच दस्युराट् ॥ १८६ ॥ किमायातीत्यपृच्छच्च, वृक्षारूढं
nten
Page #101
--------------------------------------------------------------------------
________________
चरं ततः ॥ सोऽप्याख्यद्भिक्षुमेवैकं वीक्षे कमपि नाऽपरम् ॥ १८७ ॥ अथ तत्रागतं साधुं धृत्वा चौरा व्यलोकयन् ॥ अपश्यंतश्च किमपि द्रव्यं ते मुमुचुर्मुनिम् ॥ १८८ ॥ शकुनः पुनरित्याख्य याति लक्षमिदं पुरः ॥ ततो विधृत्य तं साधु-मभ्यधादिति चौरराट् ॥ १८९ ॥ वयं तवाभयं दद्मः तथ्यं वद किमस्ति ? ते ॥ ततो यतिर्जगौ यूयं सत्यं शृणुत दस्यवः ! ॥ १९० ॥ अस्ति क्षिप्तो वंशमध्ये, वेश्यार्थ रत्नकम्बलः ॥ मत्पार्श्व इति तेनोक्ते ऽमुचत्तं चौरराट् मुनिम् ॥ १९९ ॥ अथागत्य स कोशायै, रत्नकम्बलमार्पयत् ॥ गृहनिर्धमने साऽपि तं निचिक्षेप पङ्किले ॥। १९२ ॥ विषण्णो वीक्ष्य तत्साधु-रित्यूचे सुन्दरि ! त्वया ॥ महामूल्योऽप्यसौ पङ्के, किं क्षिप्तो रत्नकम्बलः १ ॥ १९३॥ कोशा शशंस यद्येत - ज्जानासि त्वं तदा कथम् ॥ आत्मानं गुणरत्नाढ्यं, क्षिपसि ? श्रकर्दमे ॥ १९४ ॥ किञ्च रत्तत्रयमिदं भुवनत्रयदुर्लभम् ॥ मदङ्गे खालजम्बाल - कल्पे क्षिपसि किं मुधा ? ॥ १९५ ॥ तच्छ्रुत्वोत्पन्नवैराग्यः, कोशा| मिति जगौ यतिः ॥ संसाराब्धौ पतत्साधु, रक्षितोऽहं त्वयाऽनघे ! ॥ १९६ ॥ अतिचारोत्थदुष्कर्म - मलं क्षालयितुं निजम् ॥ अथ ज्ञानाम्बुसम्पूर्ण श्रयिष्येऽहं गुरुहृदम् ॥ १९७ ॥ कोशाऽब्रवीद्ब्रह्मचर्य - स्थितयाऽपि मया मुने ! ॥ | यदेवं खेदितोऽसि त्वं, तन्मिथ्या दुष्कृतं मम ! ॥ १९८ ॥ आशातना मया युष्म- त्प्रतिबोधाय या कृता ॥ सा सोढव्या गुरोराज्ञा, वोढव्या च खमौलिना ! ॥ ९९ ॥ इच्छाम्येतदिति प्रोच्य, सोऽप्यागाद्गुरुसन्निधौ ॥ तान् प्रणम्य प्रकुर्वाणः, खनिन्दामिति चाब्रवीत् ॥ २०० ॥ अहं हि निर्गुणोऽपि श्री - स्थूलभद्र इवाचरन् ॥ प्रापं विडम्बनां काक,
6
Page #102
--------------------------------------------------------------------------
________________
उत्तराध्ययन इव चक्राङ्गवत्तरन् ! ॥२०१॥ क्वाऽहं ? सत्वोज्झितः! क ? श्री- स्थूलभद्रश्च धीरधीः! ॥ व सर्षपः ? व हेमाद्रिः?, द्वितीयमध्य
क खद्योतः क्व चांशुमान् ? ॥२०२॥ इत्युदीर्यालोचनां च, गृहीत्वा स विशुद्धधीः ॥ सुदुस्तपं तपस्तपे, कर्मेन्धनहु- यनम् (२) ॥५१॥
ताशनम् ॥ २०३ ॥ यथा च रथिकं पुण्य-कोशः कोशा व्यबोधयत् ॥ तथा कथानकं ज्ञेयं, श्रीआवश्यकवृत्तितः ॥ २०४ ॥ स्त्रीपरीपह इति श्रमणोधैः, स्थूलभद्रमुनिवत्सहनीयः ॥ मानसं हरिगुहामुनिवन्न। त्वात्मनः शशिमुखीषु |
निधेयम् ॥ २०५ ॥ इति स्त्रीपरीषहे स्थूलभद्रर्षिकथा ॥ ८॥ al स्त्रीपरीषहश्चैकत्र वसतस्तादृशवशाजनसंसर्गवशान्मन्दसत्वस्य सादिति नैकत्र स्थाने स्थेयं, किन्तु ग्रामानुग्रामवि
हाररूपा चर्या कार्येति तत्परीषहमाहमूलम्-एग एव चरे लाढे, अभिभूअ परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ॥१८॥ __ व्याख्या-एक एव रागादिरहित एव चरेत् , अप्रतिबद्धविहारेण विहरेत् , लाढयति प्रासुकैपणीयाहारेण यापयति आत्मानमिति लाढः, अभिभूय निर्जित्य परीषहान् क्षुधादीन् , क्व चरेदित्याह-ग्रामे वा, नगरे वा, 'अपिः' पूरणे, निगमे वा वणिनिवासे, राजधान्यां वा राज्ञो निवासपुर्या, मडम्बाद्युपलक्षणश्चैतदिति सूत्रार्थः ॥ १८॥ ।
पुनःप्रस्तुतमेवाहमूलम्-असमाणो चरे भिक्खू , नेअकुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं, अणिकेओ परिवए ॥१९॥
Page #103
--------------------------------------------------------------------------
________________
SAॐॐॐॐ
व्याख्या-असमानोऽसदृशो गृहस्थैः सहाश्रयमूरिहितत्वेन, अन्यतीर्थिकैश्च सहानियतविहारादिना चरेद्विहरेद्विक्षमनिः कथमेतत्स्यादित्याह-नैव कुर्यात्परिग्रहं,ग्रामादिषु ममत्वरूपं, ममत्वाभावश्च कथं स्यादित्याह-असंसक्तोऽसंबद्धो गृहस्थैहिभिः, अनिकेतो गृहरहितः परिव्रजेत् सर्वतो विहरेत् , गृहस्थसंसर्गादेरेव ग्रामादौ ममत्वं स्यादिति भाव इति सूत्रार्थः ॥ १९ ॥ आख्यानञ्चात्र, तथाहि| अभवन् भुवनाभोग-भासनाम्भोजपाणयः ॥ सूरयः सङ्गमाह्वाना, जिनाज्ञापालनोद्यताः॥१॥ उत्सर्गञ्चापवादश्च, विदन्तस्ते यथास्थितम् ॥ क्षीणजवाबलास्तस्थुः, पुरे कोल्लकिराभिधे ॥२॥ एकदा तत्र दुर्मिक्षे, सजाते गच्छसंयुतम् ॥ सिंहाचार्य खशिष्यं ते, दूरदेशे व्यहारयन् ॥ ३॥ खयं तु तत्रैव पुरे, नव भागान् प्रकल्प्य ते ॥ विजहुमासकल्पादि-विधिना विधिवेदिनः ॥४॥ क्षीणजवाबलत्वात्ते, तत्रस्था अपि न व्यधुः ॥ प्रतिबन्धं पुरश्राद्ध-कुलशय्यासनादिषु ॥५॥ प्रकृष्टांस्तद्गुणान् वीक्ष्य, पुराधिष्ठायिका सुरी ॥ तेषु भक्तिं दधौ प्राज्यां, भेजे तांश्च दिवानिशम् ॥ ६॥ वर्षान्तरे च तत्रागात्, प्रहिता सिंहसूरिणा ॥ सङ्गमाचार्यशुद्धयर्थ, तच्छिष्यो दत्तसंज्ञकः ॥७॥ यत्र स्थितैस्तैराचार्यगच्छः प्रस्थापितोऽभवत् ॥ ते तत्रैवालयेऽभूवं-स्तदायाताः पुनः क्रमात् ॥ ८॥ तांश्च तत्र स्थितान् दृष्ट्वा, दुर्विदग्धशिरोमणिः ॥ उत्सर्गकरुचिर्दत्त-साधुरेवं व्यचिन्तयत् ॥ ९॥ तिष्ठन्तोऽत्रैव दृश्यन्ते, यदमी सूरयस्ततः॥ मन्ये न भावतोप्येते, मासकल्पादि कुर्वते ! ॥ १० ॥ तदमीभिः सहैकत्र, ममोद्युक्तविहारिणः ॥
Page #104
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ५२ ॥
| स्थातुं न युक्तमित्यस्था - त्पार्श्वस्थे स कुटीरके ॥ ११ ॥ पश्चाद्गत्वा सूरिपार्थे, सोऽनमत्तान्निरादरः ॥ साधुसौख्यविहारादि- वार्त्ता तैरप्यपृच्छ्यत ॥ १२ ॥ दत्तोऽपि सकलं सूरि - पृष्टं प्रोचे यथातथम् ॥ भिक्षाकाले च भिक्षार्थ, जगाम सह सूरिभिः ॥ १३ ॥ दत्तसाधुं सहादाय, सङ्गमस्थविरा अपि ॥ निस्संगाः पर्यटन्तिस्म, प्रोच्चनीचकुलेषु ते ॥ १४ ॥ कालदौः स्यादटन्तोपि, नापुस्ते भैक्ष्यमुत्तमम् ॥ लेभिरे प्रान्तभैक्ष्यं तु खल्पं खल्पं क्वचित् क्वचित् ॥ १५ ॥ ततो. दत्तमुनिभैक्ष्यं, तथाविधमनाप्नुवन् ॥ कोपाविष्टो बभूवान्त - र्दुष्टश्चैवमचिन्तयत् ॥ १६ ॥ भ्रमयत्येष वृद्धो मां, प्रतिवेश्म निरर्थकम् ॥ सश्रद्ध श्राद्धगेहानि, न दर्शयति मे पुनः ! ॥ १७ ॥ सूरयोपि तदाकूतं ज्ञात्वा कोपेङ्गिता - दिभिः ॥ ततुष्टिकारिभिक्षार्थ - मिभ्यश्रेष्ठिगृहं ययुः ॥ १८ ॥ दुष्टरेवतिकासंज्ञ - व्यन्तरीभिरुपद्रुतः ॥ तस्य च श्रेष्ठिनः पुत्रो, रुदन्नासीदहर्निशम् ॥ १९ ॥ अगाच्च रुदतस्तस्य, पण्मासी न तु केचन ॥ उपायाः प्राभवंस्तत्र, मातापित्रा - दिकारिताः ॥ २० ॥ गत्वा तस्य शिशोः पार्श्वे, कृत्वा चप्पुटिकाध्वनिम् ॥ वत्स ! मारुदिहीत्यूचु- स्तदा सङ्गमसूरयः ॥ २१ ॥ तेषां तद्वाक्यमाकर्ण्य, रेवत्यो भयविह्वलाः ॥ आशु नेशुः शिशुरपि न रुरोद ततः परम् ॥ २२ ॥ तद्वीक्ष्य मुदितः श्रेष्ठी, मोदकैस्तान्यमन्त्रयत् ॥ हृद्या हि प्राप्यते भिक्षा, गुणैः परिचयेन वा ॥ २३ ॥ दत्तायादा|पयंश्चित्त- मोदकांस्तांश्च मोदकान् ॥ सूरिमुख्याः पुनर्नैक-मपि तं जगृहुः स्वयम् ॥ २४ ॥ भ्रमन्मया समं पूर्णा - Ss हारो मा खिद्यतामसौ ! ॥ ध्यात्वेति वसतिं गन्तुं, व्यसृजन् गुरवोऽथ तम् ॥ २५ ॥ विशिष्टगृहमेकं मे, गुरवो दर्श
द्वितीयमध्ययनम् (२)
॥ ५२ ॥
Page #105
--------------------------------------------------------------------------
________________
यंश्चिरात् ॥ मां विसृज्याथ यास्यन्ति, सौधान् श्रेष्ठतरान् स्वयम् ॥ २६ ॥ चिन्तयन्निति दत्तर्षि- जगामोपाश्रयं निजम् ॥ खयं शठो हि सरल-मप्यन्यं मन्यते शठम् ॥ २७॥ आचार्यास्तु चिरं भ्रान्त्वा, गृहीत्वा प्रान्तभोजनम् ॥ है आययुः खाश्रयं द्वाव-प्याहारं च वितेनतुः ॥२८॥ अथावश्यककाले तं, प्रोचुः सङ्गमसूरयः॥ आलोचयतु भिक्षाया,
दोषानद्यतनान् भवान् !॥ २९ ॥ युष्माभिः सममेवाद्य, भिक्षायै हिण्डितोऽस्म्यहम् ॥ तत्किमालोचयामीति, दत्तेनोक्ते गुरुजगी ॥३०॥ धात्रीचिकित्सापिण्डोऽद्य, भक्षितोस्ति त्वयैव यः ॥ तमालोचय तच्छ्रुत्वा, सकोप इति सोऽब्रवीत् ॥ ३१ ॥ अपि सर्षपमात्राणि, परच्छिद्राणि पश्यसि !॥ आत्मनो बिल्वमात्राणि, पश्यन्नपि न पश्यसि ? ॥ ३२॥ द्रष्टुं खदोषान् लोकानां, नैकमप्यस्ति लोचनम् ॥ सन्ति लोचनलक्षाणि, परदोषविलोकने ॥ ३३ ॥ विब्रुव|न्निति दत्तोऽगा-त्ततो निजकुटीरकम् ॥ तत्रस्थोऽपि च सूरीणां, दोषानेवं व्यचिन्तयत् ॥३४॥ तस्मै निन्दाकारिणेऽपि, नाकुप्यन् सूरयस्तु ते ॥ चुकोप किन्तु तद्भक्ता, पुराधिष्ठायिका सुरी ॥ ३५ ॥ ततस्तस्य कुशिष्यस्य, शिक्षायै विचकार सा ॥ मध्यरात्रे नीरवृष्टिं, सूचीदुर्भेददुर्दिनाम् ॥ ३६ ॥ सकर्करोत्करं रेणु-निकर खरवायुना ॥ उत्क्षिप्योत्क्षिप्य चिक्षेप, तस्य चोपरि सा सुरी ॥ ३७ ॥ दत्तस्ततो भयभ्रान्त-खान्तो ध्वान्तावृतेक्षणः ॥ अन्धान्धुक्षिप्तवत्पश्य-नपि नैक्षिष्ट किञ्चन ॥ ३८ ॥ वेपमानवपुः सोऽथ, भयव्याकुलया गिरा ॥ व सन्ति पूज्या इत्युचैः, सूरिसिंहानशब्दयत् ॥ ३९ ॥ शब्देन तादृशा भीतं, तं ज्ञात्वेति गुरुर्जगौ ॥ वत्सात्रागच्छ सोऽथाऽऽख्य-न वः|
Page #106
--------------------------------------------------------------------------
________________
उत्तराध्ययन पश्यामि तामसैः ॥ ४० ॥ ततस्तस्याङ्गुलीमेका- मामृश्यादीदृशद्गुरुः ॥ सा च दीपशिखेवोच्चै-दिदीपे तत्प्रभावतः द्वितीयमध्य
॥४१॥ तदृष्ट्वा व्यमृशद्दत्तो, दोषदर्शी गुणेष्वपि ॥ निशि प्रदीपमप्यस्म-दुरवो रक्षयन्त्यमी ॥ ४२ ॥ तच तं चिन्तितं यनम् (२) ज्ञात्वा-ऽवधिज्ञानेन देवता ॥ पुरो भूयेत्थमाचष्ट, रुष्टा निष्ठुरया गिरा ॥४३॥ चंद्रोज्ज्वलचरित्रेषु, यद्गुरुष्वीदृशेप्यपि ॥ दोषान् पश्यसि तन्नास्ति, त्वत्तोन्यो भुवि दुर्जनः!॥४४॥ त्वमेवं सद्गुरून्निन्द-निदानी लप्स्यसे क्षयम् !॥ ज्वालाजिलं ज्वलद्रूप-माक्रामन् शलभो यथा ॥४५॥ समतारसपीयूष-कुण्डं यद्यपि सूरयः ॥ शक्तिमन्तोऽप्यऽमी निन्दा-फलं नो दर्शयन्ति ते ॥४६॥ तथापि गुरुपादाब्ज-भक्ताऽहं तव दुर्मते ! ॥ अधुना तदवज्ञाया, दर्शयामि द्रुतं फलम् ॥ ४७॥ तच्छ्रुत्वा जातभीदत्तो, निपत्य गुरुपादयोः ॥ स्वमन्तुं क्षमयामास, शरणीकृतवांश्च तान् ॥४८॥y |गुरवोऽपि जगुर्वत्स!, माभैपीर्नास्ति ते भयम् ॥ उपशान्ता ततो देवी, तान्नत्वाऽगानिजास्पदम् ॥४९॥ नवभाग& विहाराद्यां, गुरुणोक्तां निजक्रियाम् ॥ श्रुत्वा दत्तोऽपि निश्शङ्को, गुरुभक्तोऽभवद्भृशम् ॥ ५० ॥ यथा जरित्वेऽप्यस
हिष्ट चयों-परीषहं सङ्गमसूरिश्वम् ॥ तथा मुनीन्द्रः सकलैः स सह्यो, नीवृत्पुरादिप्रतिबन्धमुक्तैः ॥ ५१ ॥ इति चयोपरीपहे सङ्गमाचार्यकथा ॥९॥ | यथा च ग्रामादिष्वप्रतिबद्धेन चर्यापरीषहः सद्यते, तथा नैपेधिकी परीषहोऽपि देहादिष्वप्रति बद्धेन सह्य इति तमाह-1॥ ५३ ॥ मूलम्-सुसाणे सुण्णगारे वा, रुक्खमूले व एगगो । अकुकुओ निसीएजा, न य वित्तासए परं ॥२०॥
Page #107
--------------------------------------------------------------------------
________________
व्याख्या-श्मशाने प्रतीते, शून्यागारे वा शून्यगृहे, वृक्षमूले वा वृक्षाधोभूभागे, एकक उक्तरूपः, अकुत्कुचो दुष्टचेष्टारहितो निषीदेत् उपविशेत् । न च नैव वित्रासयेत् , परमन्यं मनुष्यादिकं, अयं भावः-३मशानादौ एककोऽपि & भूरिभैरवोपसर्गाद्युपलम्भेऽपि न खयं विभीयात् , न च विकृतखरशरीरविकारादिभिरन्येषां भयमुत्पादयेदिति सूत्रार्थः
॥ २०॥ तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्तौ किं कृत्यमित्याहमूलम्-तत्थ सेचिट्ठमाणस्स, उवसग्गाभिधारए।संकाभिओन गच्छिज्जा, उहित्ता अण्णमासणं ॥२१॥ | व्याख्या-तत्र श्मशानादौ ‘से' तस्य तिष्ठत उपसर्गा दिव्याद्याः सम्भवेयुरिति शेषः । तानुपसर्गानभिधारयेत् , किं नामैते दृढमनसो मे करिष्यन्तीति चिन्तयन् सहेत, शङ्काभीरुस्तत्कृतापकारशङ्कातस्त्रस्तो न गच्छेन्न यायात् उत्थाय तत्स्थानमपहाय अन्यदपरमासनं स्थानमिति सूत्रार्थः ॥ २१॥ दृष्टान्तश्चात्र, तथाहि| अभूत्पुरे गजपुरे, कुरुदत्तसुताभिधः ॥ महेभ्यपुत्रो महतां, गुणानामेकमास्पदम् ॥१॥स संविनो गुरूपान्ते, प्रत्रज्याधीत्य च श्रुतम् ॥ प्रतिपेदेऽन्यदैकाकि-विहारप्रतिमा सुधीः ॥ २॥ विहरन्नेकदा सोऽथ, साकेतनगरान्तिके ॥ तस्थौ प्रतिमया तुर्य-पौरुष्यां धैर्यमन्दरः॥३॥ ततश्च गोधनं हृत्वा, चौरा ग्रामात्कुतश्चन ॥ कुरुदत्तसुतस्यः, पार्थस्थेनाध्वना ययुः॥४॥ साधुपार्थमथाभ्येयु- गोधनान्वेषका अपि ॥ द्वौ मागौं तत्र दृष्ट्वा ते, पप्रच्छुश्चेति तं मुनिम् ॥५॥ ब्रूहि साधो ! पथा केन, जग्मुश्चौराः सगोधनाः!॥ तच्छृत्वापि मुनिस्तेषां, न ददौ किञ्चिदुत्तरम् ॥६॥
WERESERECESS
Page #108
--------------------------------------------------------------------------
________________
॥५४॥
8 ततस्ते कुपिता वारि-क्लिन्नामादाय मृत्तिकाम् ॥ मौलौ तस्य मुनेः पाली, बवन्धुर्दुष्टचेतसः ॥ ७ ॥ तत्र क्षिप्त्वा द्वितीयमध्य चिताङ्गारान् , ययुस्ते क्रोधविह्वलाः॥ मुनिस्तु तैज्वलन्मौलि-रप्येवं हृद्यचिन्तयत् ॥ ८॥ “सह कलेवर ! खेदमचि- दायनम् (२) न्तयन् , खवशता हि पुनस्तव दुर्लभा! ॥ बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ॥९॥" ध्यायन्निति यतिमौलिं, मनश्चाकम्पयन्नहि ॥ सहित्वा चोपसर्ग:ते, परलोकमसाधयत् ॥ १०॥ नैषेधिक्याः परीषहः, श्रीमुनिराजेन यथाऽमुनाऽधिसेहे ॥ सकलैरपि साधुभिस्तथासौ, सहनीयो महनीयपादपद्मः ॥ ११॥ इति नैपेधिकी
परीषहे कुरुदत्तसुतर्षिकथा ॥१०॥ IPI नैपेधिकीतश्च खाध्यायादि कृत्वा शय्यामागच्छेदिति शय्यापरीषहमाह
मूलम्-उच्चावयाहिं सिजाहिं, तवस्सी भिक्खु थामवं। नाइवेलं णिहण्णेजा,पावदिट्ठी विहण्णइ ॥२२॥ KI ब्याख्या-उच्चाः शीतातपनिवारकत्वादिभिर्गुणैरुत्कृष्टाः, तद्विपरीतास्त्ववचाः, उचाश्चावचाश्च, उच्चावचास्ताभिः
शय्याभिर्वसतिभिस्तपखी तपःकर्ता, भक्षर्मुनिः, स्थामवान् शीतातपादि सहनं प्रति सामर्थ्यवान् , न नैव अतिवेलं खाध्यायादि वेलातिक्रमण विहन्यात् , हंतेर्गतावपि प्रवृत्तरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् । यद्वा अतिवेलं अन्यसमयातिशायिनी मर्यादां समतारूपां उच्चशय्यावाप्तौ अहो! सभाग्योहं ! यस्येशी सर्वर्तुसुर शय्येति हर्षेण, अवचावाप्तौ च अहो! मन्दभाग्योहं ! शय्यामपि सुन्दरां न लेभे इति विषादेन, न विहन्यान्न लङ्घयेत्।
CAMERASACRED
STRASIES
SACROSAS
॥५४॥
Page #109
--------------------------------------------------------------------------
________________
है कुतश्चैवमुपदिश्यत इत्याह- पापदृष्टिः पापबुद्धिः 'विहण्णइ' इति-प्राकृतत्वाद्विहन्ति उल्लङ्घते मर्यादामिति शेष इति ।
सूत्रार्थः ॥ २२ ॥ किम्पुनः कुर्यादित्याहमूलम्-पइरिकं उवस्सयं लड़े, कल्लाणं अदुव पावगं । किमेगराइं करिस्सइ, एवंतत्थ हिआसए ॥२३॥ | व्याख्या-प्रतिरिक्तं ख्यादिविरहितमुपाश्रयं वसतिं लब्ध्वा प्राप्य, कल्याणं शोभनं 'अदुवत्ति' अथवा पापकमशोभनं, कि 'न किञ्चित्सुखं दुःखं चेति गम्यते,' एकरात्रं एकां रात्रि करिष्यति विधास्यति ? कल्याणः पापको वा उपाश्रय इति प्रक्रमः । अयं भावः-केचित्सुकृतिनो मणिसुवर्णमयेषु विचित्रचित्रशालेषु सौन्दर्येन्दिराधरीकृतमन्दरषु सप्तभौमादिमन्दिरेषु यावज्जीवं वसन्ति, तदन्ये तु जीर्णपर्णतृणादिमयेषु कोलोन्दरादिविलिखितभूतलेषु कुटीरकेषु, 5 मम त्वद्यैवेयमेवंविधा वसतिः ! कल्ये त्वन्या भविष्यति ! तत्किमत्र हर्षेण विषादेन वा । मया हि समभावार्थमेव व्रतमाहतमेवमनेन प्रकारेण तत्र कल्याणे पापके वोपाश्रयेऽध्यासीत, सुखं दुःखं वा । जिनकल्पिकापेक्षञ्चैकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ॥ २३ ॥ उदाहरणश्चात्र तथाहि
बभूव पूर्या कौशाम्ब्यां, यज्ञदत्ताभिधो द्विजः ॥ तस्याभूतां सोमदत्त-सोमदेवाभिधौ सुतौ ॥ १॥ सोमभूतिमुनेः || पार्थे, तौ द्वावपि महाशयौ ॥ प्रात्राजिष्टां भवोद्विग्ना-वभूतां च बहुश्रुतौ ॥२॥ अन्यदा खजनान् द्रष्टुं, तो कौशा-पता म्बीमुपेयतुः ॥ खजनास्तु तदाऽवन्त्यां, गत्वाऽभूवन स्थितास्तयोः॥३॥ ततस्तावप्य चलता-मभिमालवकं मुनी ॥
१०
Page #110
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ५५ ॥
पिबन्ति तत्र देशे च मद्यं केचिद्विजा अपि ॥ ४ ॥ तत्र ब्राह्मणगेहेषु, भिक्षार्थं गतयोस्तयोः ॥ द्रव्येणान्येन संयोज्य, मद्यं विप्रस्त्रियो ददुः ॥ ५ ॥ अन्ये त्वाहुर्ददे ताभिर्मद्यमेव यथास्थितम् ॥ तद्विशेषमजानन्ता - वपातां तच्च तावपि ॥ ६ ॥ वपुर्भ्रमादिना सीधु, पीतं ज्ञात्वाथ तौ मुनी ॥ जातानुतापौ निष्पापौ, मिथो व्यमृशतामिति ॥ ७ ॥ अयुक्तमेतदावाभ्यामजानद्भयां महत्कृतम् ॥ सुरामप्यऽपिवम्याऽऽवां, प्रमादादसमीक्ष्य यत् ॥ ८ ॥ सेवेताकल्प्य| मप्येव - माहारार्थी कदाचन ! ॥ तदाहारपरीहार - मेवाऽऽवां कुर्वहेऽधुना ! ॥ ९ ॥ इत्यालोच्यापगातीर - गतकाष्ठो|परि स्थितौ ॥ तावका पादपोप- गमनं मुनिसत्तमौ ॥ १० ॥ अकालेऽपि तदा मेघ - वृष्टिर्जज्ञेऽतिभूयसी ॥ पूरयन्ती पयः पूरै - नदीं प्लावित सैकतैः ॥११॥ आरूढश्रमणं दारु, ततारोडुपवत्ततः ॥ उत्तेरतुस्ततो नैव, तदापि प्रतिनौ तु तौ ॥ १२ ॥ सोऽथ सिन्धुरयः कूल - तरून्मूलनतत्परः ॥ काष्ठारूढौ यती सद्य - स्तौ निनाय पयोनिधौ ॥ १३ ॥ | उच्छललोलकल्लोल-लोलनान्दोलनव्यथाम् ॥ उल्लोलोत्क्षिप्तकाष्ठौघा - भिघातञ्चातिदारुणम् ॥ १४ ॥ जलजन्तुकृतां ग्रास - विवाधाञ्चातिदुःसहाम् ॥ तत्र धीरमनस्कौ ता - वक्षमेतां क्षमानिधी ॥ १५ ॥ [ युग्मम् ] यावज्जीवं विषह्येति, तीव्रं शय्यापरीषहम् ॥ देवभूयं सोमदत्त - सोमदेवावविन्दताम् ॥ १६ ॥ तौ साधुसिंहौ सहतः स्म शय्या - परीपहं यद्वदहार्यधैयौं ॥ तथा विषयो मुनिभिः स सर्वैः, शमामृतक्षीरपयोधिकल्पैः ॥ १७ ॥ इति शय्यापरीषहे सोमदत्तसोमदेवर्षिकथा ॥ ११ ॥
द्वितीयमध्ययनम् (२)
।। ५५ ।।
Page #111
--------------------------------------------------------------------------
________________
शय्यास्थितस्य च कदाचित्तथाविधः शय्यातरोऽन्यो वा कश्चिदाक्रोशेदपि, तत आक्रोशपरीषहमाहमूलम्-अक्कोसिज परो भिक्खु, न तेसिंपडिसंजले।सरिसो होई बालाणं, तमा भिक्खू न संजले॥२४॥ । व्याख्या-आक्रोशेतिरस्कुर्यात् परोऽन्यो भिक्षु, धिग् मुण्ड ! किमिह त्वमागतोसीत्यादिवाक्यैः, न 'तेसिंति' सुपो वचनस्य च व्यत्तयात्तस्मै प्रति संज्वलेत्, प्रत्याक्रोशदानादिना वह्निवदीप्येत । चिन्तयेच्चैवं-"आक्रुष्टेन मतिमता, तत्वार्थालोचने मतिः कार्या ॥ यदि सत्यं कः कोपः १, स्यादनृतं किं नु कोपेन ? ॥१॥" किमेवमुपदिश्यत इत्याह-प्रतिसंज्वलन् हि साधुः सदृशो भवति बालानामज्ञानां, तथाविधक्षपकवत् ॥
तथा हि काप्यभूत्कश्चि-दनगारो गुणान्वितः ॥ तपोऽतिदुस्तपं मास-क्षपणादिकमाचरन् ॥१॥ तद्गुणावर्जिता कापि, तं ननामाऽनिशं सुरी॥ कार्य मदुचितं पूज्यैः, प्रसाद्यमिति चाब्रवीत् ॥२॥ श्रुत्वा विप्रस्य कस्यापि, दुर्वाक्यं सोऽन्यदा मुनिः॥ जातकोपः समं तेन, योद्धं प्रववृतेतराम् ॥३॥ क्षत्क्षामदेहः क्षपक-स्ततस्तेन द्विजन्मना ॥ हत्वा मुष्ट्यादिभिः पृथ्व्या-मपात्यत तरखिना ॥ ४ ॥ मुहुर्मुहुस्ताडयित्वा, द्विजेन मुमुचेऽथ सः॥ ततः खस्थानमगम-त्क्षपकोऽपि कथञ्चन ॥ ५॥ तत्पाद्येऽथ विभावाँ, विभाभिर्भासुरा सुरी ॥ समाजगाम तत्पादौ, प्रणनाम च पूर्ववत् ॥ ६॥ तां देवीं जल्पयामास, न किञ्चित्क्षपकः पुनः॥ अजल्पन्तं च तं साधु-मेवं पप्रच्छ देवता ॥७॥ त्वं न जल्पयसि खामि-नपराधात्कुतोऽद्य मां? ॥ ततो वाचंयमोप्युच्चैः, प्रत्युवाचेति निर्जरीम्॥८॥
Page #112
--------------------------------------------------------------------------
________________
उत्तराध्ययन
हा द्वितीयमध्यद्विजेन हत्यमानोऽपि, यन्नाहं रक्षितस्त्वया ॥ ममापकारिणस्तस्य, किञ्चिन्नापकृतं च यत् ॥९॥ ततस्त्वां वादये जा
यनम् (२) नाहं. वाडयात्रप्रीतिकारिणीम् ॥ तच्छुत्वेत्यभ्यधाद्देवी, स्मितविच्छुरिताधरा ॥१०॥ [युग्मम् ] युवयोरभवद्युद्धं. यदान्योन्यविलमयोः ॥ तदाहमपि तत्रैवा-ऽभूवं कौतुकदर्शिनी ॥ ११॥ किन्तु तुल्यौ युवां दृष्टौ, कोपाविष्टौ मया तदा ॥ कः साधुः ? को द्विजश्चेति, नाज्ञासिपमहं तदा !॥ १२ ॥ युष्मद्रक्षां विप्रशिक्षा-मत एव च न व्यधाम् ॥ श्रुत्वेति क्षपकः शान्त-कोपाटोपोऽब्रवीदिति ॥ १३॥ सूनृता प्रेरणा देवि, त्वयाऽसौ विहिता मम ॥ तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे!॥ १४ ॥ ततो यति तं प्रणिपत्य सत्य-भक्त्या निजं धाम जगाम देवी ॥ कुप्यन्मुनिः स्यादिति बालतुल्यो, नाक्रोशकारिष्वपि तेन कुप्येत् ॥ १५ ॥ इतिक्षपककथा ॥ | उक्तमेवार्थ निगमयितुमाह-तम्हत्ति' यस्माद्वालानां सदृशो भवति तस्माद्भिक्षुर्न संज्वलेदिति सूत्रार्थः ॥ २४ ॥ कृत्योपदेशमाहमूलम्-सोच्चाणं फरुसा भासा, दारुणा गामकंटया।तुसिणीओ उवेहेजा, न ताओ मणसी करे ॥२५॥
व्याख्या-श्रुत्वा ‘णमिति' वाक्यालंकारे, परुषाः कर्कशा भाषा वाचः, दारयन्ति संयमविषयां धृतिमिति दारुणाः, तथा ग्राम इन्द्रियग्रामस्तस्य कण्टका इवातिदुःखोत्पादकत्वेन ग्रामकण्टकाः, 'तुसिणीओत्ति' तूष्णींशीलोन कोपात्परु
Page #113
--------------------------------------------------------------------------
________________
पभाषी । उपेक्षेतावधीरयेत् , प्रक्रमात्परुपभाषा एव, कथमित्याह-न ता मनसि कुर्यात्तद्भापिणि द्वेषाकरणेनेति भाव ।
इति सूत्रार्थः ॥ २५ ॥ दृष्टान्तश्चात्र, तथाहि181 अभूत्पुरे राजगृहे, गृहे निःशेषसम्पदाम् ॥मालाकारोऽर्जुनाह्वानः, स्कन्दश्रीस्तस्य च प्रिया ॥ १॥ यक्षो मुद्गरपा
ण्याह्वः पुराद्राजगृहाद्वहिः ॥ अर्जुनस्याराममार्गे–ऽभवत्तद्गोत्रदेवता ॥२॥ कुसुमैर्मेदुरामोद-प्रमोदितजगजनैः ॥ तं| Pयक्षमर्जुनो भूरि-भक्त्याऽपूजयदन्वहम् ॥ ३ ॥ स्कन्दश्रीरन्यदा भर्तु-भक्तं दत्वा गृहं प्रति ॥ पुष्पाण्यादाय वलिता,
यक्षचैत्यान्तिकं ययौ ॥४॥ तदा च तां दुर्ललित-गोष्ठीसत्का मदोत्कटाः ॥ यक्षवेश्मस्थिताः प्रेक्षा-मासुः पद | कामिनो नराः॥५॥ असौ सौन्दर्यवसति-र्वनिताऽर्जुनमालिनः ॥ गृह्यतामिति जल्पन्तो, द्रुतं ते जगृहुश्च ताम् ॥६॥ यक्षायतनमध्ये च, तां समानीय कामिनीम् ॥ यक्षस्याने बुभुजिरे, ते सर्वेऽपि पुनः पुनः ॥ ७ ॥ तदा च यक्षपू-11 जार्थ, तत्रागादर्जुनोऽपि हि ॥ तञ्चायान्तं विलोक्यैवं, स्कन्दश्रीस्तानभाषत ॥८॥ आगच्छत्यर्जुनोऽसौ त-किं |मां यूयं विमोक्ष्यथ ? ॥ ततस्तेऽचिन्तयन्नून-मेतस्याः प्रियमस्त्यदः ॥९॥ वराकान्मालिकादस्मा-नास्माकं भीरु !! भीरिति ॥ ब्रुवन्तस्ते बबन्धुश्च, द्रुतमर्जुनमालिनम् ॥ १० ॥ तं यक्षस्य पुरो न्यस्य, तस्य पश्यत एव हि ॥ सिषेविरे ते | तत्कान्ता-महम्पूर्विकया मुहुः ॥११॥ खमायाँ भुज्यमानां तै-वीक्ष्याऽचिन्तयदर्जुनः ॥ एनं यक्ष पुष्पपुजः, पूजयाम्यहमन्वहम् ॥ १२ ॥ अद्य त्वस्यैव पुरतः, प्राप्नोम्येतां विडम्बनाम् ॥ तनिश्चितमिदं नैव, यक्षः कोप्यत्र विद्यते !
Page #114
--------------------------------------------------------------------------
________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
॥ ५७॥
॥ १३॥ यदि चात्र भवेद्यक्ष-स्तदासौ मां खसेवकम् ॥ नैवेदानीमुपेक्षेत, पीड्यमानमनाथवत् ॥ १४ ॥ ध्यायन्त- मिति तं ज्ञात्वा, यक्षस्तदनुकम्पया ॥ प्रविवेशाशु तस्याङ्गे-ऽछिदत्तद्वंधनानि च ॥ १५॥ सहस्रपलनिष्पन्नं, गृहीत्वा | लोहमुद्गरम् ॥ तान्नारीसप्तमान् गोष्ठी-पुरुषान् षट् जघान च ॥ १६ ॥ इत्थं प्रतिदिनं नारी-सप्तमान् मानवान् स षट् ॥ जघान सतताभ्यासा-ड्रामं भ्रामं पुराबहिः ॥ १७ ॥ तज्ज्ञात्वा पूर्जनः सर्व-स्तावन्न निरगाबहिः ॥ यावत्तेन हता न स्युः, षट् नारीसप्तमा नराः ॥ १८ ॥
अन्यदा तत्पुरोपान्ते, श्रीवीरः समवासरत् ॥ नत्वर्जुनभयात्कोऽपि, जिनं नन्तुं ययौ जनः ॥ १९ ॥ तदा तत्पुवास्तव्यः, श्रुत्वा श्रीमजिनागमम् ॥ एवं सुदर्शनः श्रेष्ठी, दध्यौ हर्षोच्छृसत्तनुः ॥ २० ॥ अहो! जगजनाम्भोजप्रबोधननभोमणिम् ॥ श्रीवीरमपि नन्तुं नो, यात्सर्जुनभयाजनः॥२१॥ जिनस्य विश्वत्रितय-त्रायिणो ध्यायिनं जनम् ॥ हन्तुमीष्टे न हीन्द्रोऽपि, तजनोऽयं बिभेति किम् ? ॥ २२ ॥ यद्भाव्यं तद्भवतु वा, खामिनं किन्तु वन्दितुम् ॥ यास्याम्येवेति स ध्यात्वा, निरगानगराबहिः ॥२३॥ अर्जुनोऽपि दधावे द्राग्, वीक्ष्यायान्तं सुदर्शनम् ॥ उल्लालयन् मुद्रं तं, पुष्पकन्दुकलीलया॥२४॥ तं चापतन्तं वेगेन, धनुर्मुक्तपृषक्तवत् ॥ वीक्ष्येति व्यमृशद्वयं-स्थैर्य
सुदर्शनः ॥ २५ ॥ अयं मुद्गरपाणिमा, हन्तुमायाति मालिकः॥ तदात्मकृत्यं कुर्वेह-मेवं ध्यात्वति सोऽब्रवीत् | ॥ २६ ॥ अर्हत्सिद्धमुनीन् जैनं, धर्म च जगदुत्तमम् ॥ शरणं प्रतिपन्नोऽस्मि, श्रीवीरं च जगद्गुरुम् ॥ २७ ॥ किञ्चा
॥५७॥
Page #115
--------------------------------------------------------------------------
________________
मुलुकवत् ॥ ३२ ॥ आदाय में
स्मादुपसर्गाचे- दद्यमोक्षो भवेन्मम ॥ तदा चतुर्विधाहारः, कल्पते नान्यथा पुनः !॥ २८ ॥ इत्थं निगद्य साकाराऽनशनं प्रतिपद्य च ॥ स्मरन् पञ्च नमस्कारान् , कायोत्सर्ग चकार सः॥ २९ ॥ सद्यः सुदर्शनाभ्यर्ण-मायासीदर्जुनोऽप्यथ ॥ नाशकत्तमुपद्रोतुं, किन्तु धर्मप्रभावतः ॥ ३० ॥ ततस्तं परितोऽभ्राम्य-दलवानर्जुनोऽधिकम् ॥ शशाक शशकं सिंह-मिव नाक्रमितुं पुनः ॥ ३१ ॥ भ्रामं भ्राममविश्राम, यक्षः श्रान्तोऽभवत्ततः॥ न तु तं द्रष्टुमैशिष्ट, दुई-18 याऽर्कमुलूकवत् ॥३२॥ आदाय मुद्दरं मुक्त्वा-ऽर्जुनं यक्षोऽगमत्ततः॥ अपि देवबलाद्धर्म-बलमेव विशिष्यते ! ॥ ३३ ॥ मुक्तस्तेनार्जुनः पृथ्व्यां, पपात च्छिन्नशाखिवत् ॥ उत्तस्थौ च क्षणादङ्ग, मोटयन् गतनिद्रवत् ॥ ३४ ॥ किमकार्ष ? क स्थितोऽस्मि ?, का दशा मम विद्यते ! ॥ इति स ज्ञातवान्नैव, निद्रावस्थानुभूतवत् ॥ ३५ ॥ प्राक्षीत्खखरूपं, कृतोत्सर्ग सुदर्शनम् ॥ उपसर्गः शशामेति, सोप्युत्सर्गमपारयत् ॥ ३६ ॥ सर्व तत्पूर्ववृत्तान्तं, तस्मै सम्यग् जगाद च ॥ तच्छ्रुत्वा जातनिर्वेदो-ऽर्जुनश्चिन्तितवानिति ॥ ३७॥ अहो ! अज्ञानिना घोरं, कर्मेदं नरक
प्रदम् ! ॥ मया कृतमिति ध्यायन् , सोऽपृच्छदिति तं पुनः ॥ ३८ ॥ किमर्थं प्रस्थितोसि त्वं ?, ब्रूहि भ्रातः ! सुददर्शन ! ॥ सोऽभ्यधाच्छ्रीमहावीरं, वन्दनार्थं व्रजाम्यहम् ॥ ३९ ॥ तच्छ्रुत्वेत्यर्जुनोऽवादी-इन्दितुं परमेश्वरम् ॥ अह-18
मप्यागमिष्यामि, त्वया सह महामते!॥४०॥ ततस्तेन समं हृष्टः, श्रीमहावीरसन्निधौ ॥ अगात्सुदर्शनः खामिदर्शनोत्सुकदर्शनः ॥४१॥ श्रीवर्द्धमानतीर्थेश-पादपद्मौ प्रणम्य तौ ॥ सम्यकू शुश्रुवतुर्धर्म-देशनां क्लेशनाशिनीम्
Page #116
--------------------------------------------------------------------------
________________
उत्तराध्ययन
उत्तराध्ययन
॥
"
दात्मशुद्धिं चिकापात
द्वितीयमध्ययनम् (२)
॥५८॥
कर्ममलं तपः॥
याम्बुदा विलीयन्तेल वर्णगतं वहि- जाती
खामि-समीपे व्रतमा
निष्क
540CCCAUSEOCOMSO-GORS
॥४२॥ देशनान्ते च सर्वज्ञ, प्रणम्यापृच्छदर्जुनः ॥ खामिन् ! कथं विशुद्धिर्म, भवेद्बहुलपाप्मनः ॥४३॥ अथोचे भगवांस्त्वं चे-दात्मशुद्धिं चिकीर्षसि ॥ तर्हि संयममादाय, तपस्तप्यख दुस्तपम् ॥ ४४ ॥ मलं वर्णगतं वह्नि-हंसः क्षीरगतं जलम् ॥ यथा पृथक्करोत्येवं, जन्तोः कर्ममलं तपः॥४५॥ यथाम्बुदा विलीयन्ते, प्रचण्डपवनाहताः॥ तथा तीव्रतपोऽपास्ताः, पाप्मानः प्रबला अपि ॥ ४६॥ तनिशम्यार्जुनः खामि-समीपे व्रतमाददे ॥ निर्जरार्थ व्यहार्षीच, पुरे राजगृहे सदा ॥४७॥ निरन्तरं पष्ठतपः, कुर्वन् साम्यसुधाम्बुधिः ॥ साध्वाचारं च सकलं, निष्कलंकमपालयत् ॥४८॥ अस्मत्खजनहन्ताऽसौ, दुष्टो दुष्कर्मदूषितः॥ धूर्तो धत्तेऽधुना साधु-वेषं वेषविडम्बकः ! ॥४९॥ इत्याद्यैर्बहुलोकोक्तै-राक्रोशैस्ताडनैस्तथा ॥ स महात्मा न चुक्षोभ, प्रत्युतैवमचिन्तयत् ॥ ५० ॥ [युग्मम्]| “मनिंदया यदि जनः परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे ॥ श्रेयोऽर्थिनो हि मनुजाः परतुष्टिहेतोदुःखार्जितान्यपि धनानि परित्यजन्ति ॥५१॥" किञ्च "अकोसहणणमारण-धम्मभंसाण बालसुलहाणं ॥ लाभ मण्णइ धीरो, जहुत्तराणं अलाभंमि ॥५२॥” इति ध्यायन् स षण्मासी, सोढाक्रोशपरीषहः ॥ कृतकर्मक्षयः प्राप, केवलज्ञानमुज्ज्वलम् ॥ ५३॥ ततश्चिरं स प्रतिबोध्य भव्यान, मुक्तिं ययावर्जुनमालिसाधुः ॥ एतद्वदाक्रोशपरीपहोन्यै-रपि क्षमाढ्यैः श्रमणैर्विषह्यः ॥५४॥ इत्याक्रोशपरीपहेऽर्जुनमालिकर्षिकथा ॥ १२॥
१ मुक्तिं ययावर्जुनमालिकर्षिः । इति 'ग' संज्ञकपुस्तके ॥
॥५८॥
Page #117
--------------------------------------------------------------------------
________________
अथ कश्चिदाक्रोशमात्रदानेनातुष्यन् वधमपि विदध्यादिति वधपरीपहमाहमूलम्-हओ न संजले भिक्खु, मणंपि न पओसए। तितिक्खं परमं नच्चा,भिक्खुधम्मं विचिंतए॥२६॥ __व्याख्या-हतो यष्टयादिभिस्ताडितो न सज्वलेत् , कायतः कम्पनप्रत्याहननादिना, वचनतश्च प्रत्याक्रोशदानादिना ज्वलंतमिवात्मानं नोपदर्शयेद्भिक्षुमनश्चित्तं तदपि न प्रदूषयेत् न कोपाद्विकृतं कुर्वीत, किन्तु तितिक्षां क्षमां परमां धर्मसाधनं प्रति प्रकर्षवती ज्ञात्वा अवगत्य भिक्षुधर्म यतिधर्म क्षान्त्यादिरूपं वस्तुखरूपं वा विचिन्तयेत् , भावयेच क्षमामूल एव मुनिधर्मो, यच्च मन्निमित्तमयं कर्मोपचिनोति, सोऽपि ममैव दोष इति नैनं प्रति कोप उचित इति सूत्रार्थः ॥ २६ ॥ अमुमेवार्थ प्रकारान्तरेणाह
मूलम्-समणं संजयं दंतं, हणेज्जा कोवि कत्थइ । नत्थि जीवस्स नासोत्ति, एवं पेहिज संजए ॥ २७ ॥ 8 व्याख्या-श्रमणं तपखिन, संयतं पृथ्वीकायादिहिंसानिवृत्तं, इदञ्च लाभाद्यर्थ बाह्यवृत्त्यापि सम्भवेदत आह-दान्त-13
मिन्द्रियनोइन्द्रियदमेन, हन्यात्ताडयत्कोऽपि तादृशो दुष्टः, कुत्रचिद्धामादौ, तत्र किं कार्यमित्याह-नास्ति जीवस्यात्मन उपयोगलक्षणस्य नाशोऽभावः, शरीरस्यैव नाशात् । 'इतिः' पूर्णे, ‘एवं' वरूपार्थे, प्रेक्षेत भावयेत्संयतः साधुरिति सूत्रार्थः ॥ २७॥ निदर्शनश्चात्र, तथाहि| अभून्नगर्यां श्रावस्त्यां, जितशत्रुर्महीपतिः ॥ सधर्मचारिणी तस्य, धारिणी संज्ञिकाऽभवत् ॥ १ ॥ गौरीशयोः
SANSARKARCRACKS
Page #118
--------------------------------------------------------------------------
________________
उत्तराध्ययनस्कन्द इव, स्कन्दकोऽभूत्सुतस्तयोः ॥ पुरन्दरसुतादेश्या, पुरन्दरयशाः सुता ॥२॥ तदा दण्डकि भूपोऽभू-त्कुम्भ-द्वितीयमध्य
कारकृते पुरे ॥ पुरोहितस्तु तस्याऽऽसी-दभव्यः पालकाभिधः ! ॥ ३॥ तेन दण्डकिसंज्ञेन, भूभृता भूरिभूतिना ॥ यनम् (२) ॥ ५९॥
पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा॥४॥ अन्यदा सुव्रतखामी, भव्याम्भोजनभोध्वगः ॥ श्रावस्त्यां समवासार्षी-त्सुरासुरनमस्कृतः॥५॥ धन्यंमन्यः स्कन्दकोऽगा तं नन्तुं परमेश्वरम् ॥ श्रुत्वा तद्देशनां श्राद्ध-धर्मञ्च प्रत्यपद्यत ॥ ६॥ पुरोधाः पालकः सोऽथ, कुम्भकारकृतात्पुरात् ॥ केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ॥७॥ स च भूपसभामध्ये, कुर्वन्निग्रन्थगर्हणाम् ॥ द्रुतं निरुत्तरीचके, स्कन्दकेन महाधिया ॥८॥ पापः प्राप ततो द्वेषं,
पालकः स्कन्दकोपरि ॥ अपकर्तुम्पुनःकिञ्चि-त्तस्य न प्राभवत्तदा ॥९॥ कृतप्रस्तुतकृत्योऽथ, पालकः खास्पदं । |ययौ ॥ जगाम न तु तच्चित्ता-त्कोपः स्कन्दकगोचरः ॥१०॥ अथ श्रीसुव्रतस्वामि-पादान्ते दान्तमानसः ॥ प्रात्रा-12
जीत्स्कन्दकः साकं, मानां पञ्चभिः शतैः ॥ ११॥ क्रमाद्बहुश्रुते जाते, स्कन्दके सुव्रतप्रभुः॥ तस्मै शिष्यतया तानि, पञ्च साधुशतान्यदात् ॥ १२॥ अन्येधुः सुव्रताहन्तं, स्कन्दकः पृष्टवानिति ॥ ब्रजाम्यहं खसुर्देश-मादेशः स्थाद्यदि प्रभोः॥ १३॥ जगी जगत्प्रभुस्तत्रो-त्पत्स्यते मारणान्तिकः ॥ सर्वेषामुपसर्गो व-स्तच्छ्रुत्वा स्कन्दकोऽवदत् ॥ १४ ॥ आराधनासाधको हि, नोपसर्गस्तपखिनाम्॥ दुःखायते महानन्द-महानन्दाभिलाषिणाम् !॥ १५॥ ततो
१ मुनिपञ्चशतान्यदात् । इति 'ग' संज्ञकपुस्तके ।
१९॥
ROGRA
Page #119
--------------------------------------------------------------------------
________________
645555
बेहि प्रभो! तस्मि-त्रुपसर्ग उपस्थिते ॥ आराधका भविष्यामो, वयं यद्वा विराधकाः ॥ १६॥ खामी माह त्वां विनाऽन्ये, सर्वेप्याराधका इति ॥ स्कन्दकस्तन्निशम्येति, व्यमृशशमुत्सुकः ॥ १७ ॥ आराधका इयन्तः स्यु-विहारे यत्र साधवः ॥ नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ॥ १८॥ क्रमाद्गत्वा कुम्भकार-कृते स सपरिच्छदः ॥ उद्याने समवासार्षी-तमश्रौषीच पालकः ॥ १९॥ ततः प्राग्वैरशुद्धयर्थ-मुद्याने तत्र पालकः ॥ प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ॥२०॥ इति दण्डकिराशे चा-ऽपडक्षीणमुवाच सः॥ जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः ॥ २१॥ अयं स्वयं महावीर्य-चण्डदोर्दण्डविक्रमैः॥ साधुवेषधरैयुक्तो, भटानां पञ्चभिः शतैः I॥ २२॥ उद्याने गोपितैः शस्त्र-प्रकरैरतिदारुणैः॥ त्वां वन्दितुं गतं हत्वा, राज्यमेतद्भहीष्यति ! ॥२३॥ [ युग्मम् ] प्रत्ययश्चेन्न ते स्वामि-नस्मिन्मद्वचने भवेत् ॥ तदा तद्वोपितास्त्राणि, गत्वोद्यानं विलोकय ! ॥ २४ ॥ एवं व्युदाहितस्तेन, तदुद्यानं गतो नृपः ॥ स्थानेषु पालकोक्तेषु, नानास्त्राणि निरक्षत !॥ २५॥ दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानबन्धयत् ॥ अकार्य विद्यते किञ्चि-त्राविमृश्य विधायिनाम् ॥ २६ ॥ पापस्य पालकस्यैव, तान्निबद्ध्यार्पयन्नृपः ॥ यत्तुभ्यं रोचते तत्त्व- मेषां कुर्या इति ब्रुवन् ! ॥ २७ ॥ मूषकानिव मार्जार-स्तान् प्राप्य मुदि-|
तोऽथ सः ॥ संयतान् संयतान्मय-पीडायत्रान्तिकेऽनयत् ॥ २८ ॥ इति प्रोचे च रे! यूय-मिष्टं स्मरत दैवतम् ॥ ४ इदानीं पीडयिष्यामि, यत्रेणानेन वोऽखिलान् ॥ २९ ॥ ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः॥ जीविताशा
Page #120
--------------------------------------------------------------------------
________________
उत्तराध्ययन मृत्युभीति-विप्रमुक्ता मनखिनः ॥३०॥ गृहीतालोचना सम्यकु, मैत्रीभावमुपागताः ॥ पर्यन्ताराधनां सर्वे, विदधु- द्वितीयमध्य
है विधिपूर्वकम् ! ॥ ३१ ॥ [ युग्मम् ] मर्त्तव्यं कातरेणापि, धीरेणापि च भूस्पृशा ॥ द्विधापि नियते मृत्यौ, धीरैर्भाव्यं यनम् (२) ॥६०॥
मनखिभिः॥३२॥ इत्यादि वदतोत्साह्य-मानाः स्कन्दकसूरिणा॥ अभवंस्ते विशेषेण, खदेहेऽपि गतस्पृहाः!॥३३॥ [युग्मम् ] क्रूराशयः क्रूरकर्मा, क्रूरगीः पालकस्ततः ॥ एकैकं श्रमणं यत्रे, क्षेपं क्षेपमपीडयत् ॥ ३४ ॥ पीड्यमानान विनेयान् खान् , वीक्ष्यान्तर्दह्यतामयम् ॥ इति स स्कन्दकं यत्र-पार्थे बद्धमधारयत् ॥३५॥ पीड्यमानानगाराङ्गो-च्छलच्छोणितबिन्दुभिः ॥ समन्ताद्भियमाणोऽपि, नाऽकुप्यत्स्कन्दकः पुनः!॥ ३६ ॥ किन्तु साम्यसुधास्पन्द-भावितैः । समयोचितैः ॥ वाक्यैर्निर्यामयामास, तानेवं स महाशयः! ॥३७॥ "भिन्नः शरीरतो जीवो, जीवाद्भिन्नश्च विग्रहः॥ विदन्निति वपु शेऽप्यन्तः खिद्येत कः कृती? ॥३८॥ किञ्चाखिलो विपाकोऽय-मस्ति खकृतकर्मणः॥ दुःखाय | नोपसर्गस्त-त्सतां कर्मजिघांसताम् ॥ ३९ ॥ अवश्यं नाशिनो बाह्य-स्याङ्गस्याऽस्य कृते ततः॥ कोपः कार्यो नान्तरङ्ग-ध्रुवधर्मधनापहः॥४०॥" स्कन्दकेनेति निर्याम्य-माना निर्मलमानसाः॥ महात्मानो विपक्षे च, मित्रे च समदृष्टयः॥४१॥ यत्रपीडनपीडां तां, क्षममाणाः क्षमाधनाः॥ केवलं प्राप्य कैवल्य-सुखं ते लेभिरे क्रमात् !॥ ४२ ॥ युग्मम् ] द्रुतं हतेषु तेनैवं, यूनपञ्चशतर्षिषु ॥ एक क्षुल्लकमुद्दिश्य, पालकं स्कन्दकोऽवदत् ॥४३॥ अनुकम्प्यमिम बालं, पीड्यमानं निरीक्षितुम् ॥ नाहं शक्ष्यामि नियतं, पूर्व पीडय मां ततः!॥ ४४ ॥ तच्छ्रुत्वा पालकस्तस्य, भूरि
SAMROSASSACRECCLOSS
Page #121
--------------------------------------------------------------------------
________________
दुःखविधित्सया ॥ गुरोः पश्यत एव द्राक् , प्राक् तं बालमपीडयत् ! ॥ ४५ ॥ शुक्लध्यानसुधासार-शान्तकर्महुताशनः ॥ बालः सोऽपि महासत्त्वो, महानन्दमविन्दत ! ॥ ४६ ॥ तद्वीक्ष्य स्कन्दकाचार्यः, क्रुद्धोऽन्तर्ध्यातवानिति ॥ अनेन सपरीवारः, पापेनाऽस्मि विनाशितः! ॥४७॥ क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न रक्षितः ॥ निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः॥४८ ॥ अयं भूपोऽपि निग्राह्यो-स्मद्विनाशनिबन्धनम् ॥ उपेक्षाकारिणोऽस्माकं, वध्या जानपदा अपि!॥४९॥ तहुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् ॥ तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! ॥५०॥ इत्थं कृतनिदानः स, पीडितस्तेन दुधिया ॥ मृत्वा वह्निकुमारेषु, सुरोऽभूत्परमर्द्धिकः ॥५१॥ पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् ॥ कुतो हेतोः पुरीमध्ये, न दृश्यन्तेऽद्य साधवः ! ॥५२॥ इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् ॥ रक्ताभ्यक्तं कर इति, जगृहे गृध्रपक्षिणा ॥५३॥ तद्रजोहरणं च द्राग् , भवितव्यनियोगतः ॥ पुरः पुरन्दरयशो-देव्या गृध्रो न्यपातयत् ॥ ५४ ॥ तच्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् ॥ काम्बलं खण्डमद्राक्षी-भातुः प्रव्रजतोर्पितम् ॥ ५५ ॥ चिन तेन च ज्ञात्वा, सोदरादीन्मुनीन् हतान् ॥ महतीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ॥५६॥रे साधुद्विष्ट ! पापिष्ठ!, विनंक्ष्यत्यधुना भवान् ॥ महषीणां सुराणां च नयवज्ञा शुभावहा ! ॥ ५७ ॥ इत्युदीर्येति दध्यौ चा-ऽधुनाऽहं ब्रतमाददे ॥ अलं संसारवासेना-ऽमुना दुःखौघदायिना ! ॥ ५८॥ चिन्तयन्तीति सा देवैः, सुव्रतखामिसन्निधौ ॥ नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् !
उ०११
Page #122
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥६१॥
18|॥ ५९॥ ज्ञात्वाऽथाऽवधिना प्राच्यं, खवृत्तं स्कन्दकामरः ॥ क्रोधाध्मातो देशयुक्त-मधाक्षीन्मक्षु तत्पुरम् ॥ ६॥ द्वितीयमध्य
ततोऽरण्यमभूद्देश-भूमौ दण्डकिभूपतेः ॥ अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुधैः ॥ ६१ ॥ एकोनपञ्चशतसा-31 | यनम् (२) धुवरैरवार्य-वीर्यथा वधपरीपह एप सोढः!॥ सह्यस्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ ६२ ॥ इति वधपरीषहे सपरिवारस्कन्दकर्षिकथा ॥ १३ ॥
परैरभिहतस्य च यतेस्तथाविधौषधादियाचितमेव स्यादिति तत्परीषहमाहमूलम्-दुक्करं खलु भो निच्चं, अणगारस्स भिक्खुणो। सवं से जाइअंहोई, नत्थि किंपि अजाइ॥२८॥ | व्याख्या-दुष्करं दुरनुष्ठेयं, खलुर्विशेषणे, निरुपकारिण इति विशेष द्योतयति, 'भो' इत्यामन्त्रणे, नित्यं सर्वकालं| यावजीवमित्यर्थः, अनगारस्य भिक्षोः । किं तहष्करमित्याह-यत्सर्वमाहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति किञ्चिद्दन्तशोधनादिकमप्ययाचितमिति सूत्रार्थः ॥ २८ ॥ ततश्चमूलम्-गोअरग्गपविहस्स, पाणी नो सुप्पसारए। सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ॥ २९ ॥3
व्याख्या-गोचरो भिक्षाचयों, तस्याग्रं गोचराग्रं, एषणा शद्धग्राहितया प्रधानगोचर इत्यर्थः । तत्प्रविष्टस्य मुनसारिति गम्यं, पाणिहस्तो नो नैव सुप्रसारकः सुखेन प्रसारयितुं शक्यः । कथं हि निरुपकारिणा परः प्रतिदिनं प्राथे
यितुं शक्यते ? उत्तरस्य 'इति' शब्दस्यात्र योगादित्यतो हेतोः श्रेयान् प्रशस्योऽगारवासो गार्हस्थ्य, तत्र हि न कोऽपि
Page #123
--------------------------------------------------------------------------
________________
SHASRASASS
प्रार्थ्यते, खभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते इत्येतद्भिक्षुर्न चिन्तयेत् , बहुसावद्यो हि गृहवासः, कथं | |श्रेयानिति सूत्रार्थः ॥ २९॥ उदाहरणसम्प्रदायश्चात्र, तथाहि__अस्त्यत्र भरते वर्ण-मयी त्रिदशेनिर्मिता ॥ प्रतिबिम्बमिव वर्ग-लोकस्य द्वारका पुरी ॥१॥नलार्धचक्रिणौ राम-कृष्णाद्वौ विश्वविश्रुतौ ॥ तत्राऽभूतां वसुदेव-रोहिणीदेवकीसुतौ ॥ २॥ तौ च प्रद्युम्नशाम्बाद्यैः, सार्धकोटित्रयोन्मितैः ॥ युक्तौ कुमारैरन्यैश्च, कोटिशो यदुपुङ्गवैः ॥३॥ सुररामाभिरामाभिः, स्त्रीभिः सह सहस्रशः ॥ भोगाभोगानभुजातां, पूर्णाखिलमनोरथौ ॥ ४ ॥ [ युग्मम् ] अन्यदा द्वारकापुर्या, केवलज्ञानभास्करः ॥ भव्याजप्रतिबोधार्थ, श्रीनेमिः समवासरत् ॥ ५॥ तदा च श्रीनेमिनाथं, वन्दित्वा रामकेशवौ ॥ समाकर्णयतां धर्म-देशनां सप-2 रिच्छदौ ॥६॥ देशनान्ते च सर्वज्ञं, प्रणम्यापृच्छदच्युतः ॥ अमुष्या द्वारकापुर्याः, वर्गधिकारिसंपदः ॥ ७॥ यदूनां मम चान्तः किं, भावी खत उतान्यतः ? ॥ ततो जगाद भगवान् , ज्ञानराशिरिवाङ्गवान् ॥ ८॥ बहिः शौर्यपुरापारा-सरावस्तापसोऽभवत् ॥ वीक्ष्य नीचकुलां काञ्चित्कन्यां सोऽभूत्स्मरातुरः ॥९॥ तया समं च यमुना-द्वीपे गत्वाऽऽरराम सः॥ ततस्तयोरभूत्सूनु-व्रती द्वैपायनाह्वयः ॥ १०॥ स परिव्राजको ब्रह्म-चारी शान्तो जितेन्द्रियः ॥ इहास्ते यदुषु स्नेहात्, कुर्वन् षष्ठतपः सदा ॥ ११॥ शाम्बादिभिः स मद्यान्धैः, कुट्टितश्चण्डतां गतः ॥ यदुभिः
१ यदुभिः सकलैः साकं, द्वारकां ज्वालयिष्यति । इति 'ग' संज्ञकपुस्तके ।
Page #124
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥६२॥
सकलां साकं, द्वारकां ज्वालयिष्यति ॥ १२ ॥ वसुदेवजरादेवी-नन्दनान्निजसोदरात् ॥ भावी जराकुमाराच, तव द्वितीयमध्यमृत्युर्जनार्दन ! ॥१३॥ श्रुत्वेति यदवः सर्वे-ऽप्युल्मुकायितदृष्टयः॥ व्यलोकयन् जरापुत्रं, सोऽपि चैवमचिन्तयत् ४|| यनम् (२) |॥ १४ ॥ कनीयांसं कुलाधार, भ्रातरं भ्रातृवत्सलम् ॥ कथङ्कारं हनिष्यामि ? वसुदेवसुतोऽप्यहम् ॥ १५॥ तदेतदन्यथा कुर्वे, ध्यायन्निति जराङ्गजः ॥ जिनं नत्वा ययौ सद्यः, कान्तारं चापतूणभृत् ॥ १६ ॥ जिनवाचं जनश्रुत्या, श्रुत्वा द्वैपायनोऽपि ताम् ॥ यदूनां द्वारकायाश्च, रक्षा कर्तुमगनिम् ॥ १७ ॥ नत्वार्हन्तं हरिरपि, प्राविशद्वारकापुरीम् ॥ तं चानथे मद्यमूलं, ध्यायन्नित्युदघोषयत् ॥ १८ ॥ मद्योन्मत्तकुमारीघ-हताद्वैपायनाद्यतः ॥ उपद्रवो द्वारकायाः, श्रीनेमिखामिनोदितः ॥ १९॥ तत्पार्थस्थाचलासन्न-कदम्बवनमध्यतः ॥ कादम्बरीदरीवत्ति-शिलाकुण्डेषु भूरिषु ॥ २० ।। सकलं प्राककृतं मद्य, हेयं पेयं न तत्पुनः ॥ लोकाः सर्वेऽपि तच्छ्रुत्वा, जहुस्तत्राखिलों सुराम् ॥ २१॥ (त्रिभिर्विशेषकम् ) भ्राताऽथ बलदेवस्य, स्नेहात्तस्यैव सारथिः॥ सिद्धार्थः श्रुतसर्वज्ञ-वाणिरित्यवदवलम् ॥ २२ ॥ नोत्सहे दुर्दशां प्राप्ते, द्रष्टं स्वीयपुरीकले ॥ तदहं खामिपादान्ते. प्रव्रजामि त्वदाज्ञया ॥ २३॥ ततोऽनवीद्वलोऽजस्र-स्रवदश्रुजलाविलः ॥ भ्रातर्मयेदं त्वद्वश्य-प्राणेनाऽप्यनुमन्यते ॥ २४ ॥ किन्तु व्रतं पालयित्वा, त्व
NE॥२॥ देवत्वमुपागतः॥ भ्रातर्मा व्यसनप्राप्त-मागत्य प्रतिबोधयः॥ २५॥ तत्प्रपद्याथ सिद्धार्थो, परिव्रज्य जिनान्तिके ॥
१ कदम्बवनवर्तिषु । इति 'ग' संज्ञकपुस्तके ॥
Page #125
--------------------------------------------------------------------------
________________
SISUSULUHISHOSHOG
अत्युग्रञ्च तपस्तत्वा, षड्भिर्मासैः सुरोऽभवत् ॥ २६ ॥ इतश्चानेकवृक्षौघ-पतत्कुसुमसङ्गमात् ॥ षण्मास्या सा सुरा 8 कुण्ड-स्थिता पक्करसाऽभवत् ॥ २७ ॥ तदा च कोऽपि शाम्बस्य, लुब्धकः पर्यटन् वने ॥ तत्र यातस्तृषाक्रान्तः,
पपौ तां मदिरां मुदा ॥ २८ ॥ मुदितस्तेन मधेन, भृत्वा पार्थस्थितां दृतिम् ॥ ददौ शाम्बाय तत्पीत्वा, तुष्टः शा*म्बोऽपि तं जगौ ॥ २९ ॥ प्राप्तं हृद्यमिदं मद्य-मद्य कुत्र ? त्वया सखे ! ॥ कादम्बरीकन्दराया-मवापमिति सोऽ
प्यवक् ॥ ३०॥ कुमारैः सह दुर्दान्त-स्ततः शाम्बोऽपरेऽहनि ॥ गुहां कादम्बरीं गत्वा, मुदितस्तां सुरां पपौ॥३१॥
बहोः कालादधिगता, यावत्तृप्ति निपीय ताम् ॥ उन्मत्ता गिरिमारोहन् , क्रीडन्तस्ते कुमारकाः ॥ ३२ ॥ तत्र द्वैपा-3 टू यनं ध्यान-स्थितमातापनापरम् ॥ वीक्ष्येति ते मिथःप्रोचु-मद्योन्मादवशंवदाः! ॥ ३३ ॥ अयं हि नेमिना प्रोक्तो
ऽस्मत्पुरीकुलनाशकः!॥ तद्धन्यतां हतो ह्येष, कथं हन्ता पुरीकुले ! ॥ ३४ ॥ वदन्त इति ते सर्वे, चपेटायष्टिमु|ष्टिभिः ॥ निजघ्नुः पादघातैश्च, द्वैपायनमुनिं मुहुः॥ ३५॥ इत्थं हत्वा मृतप्राय, विधाय धरणीतले ॥ पातयित्वा |च ते जग्मुः, कुमारा द्वारकापुरीम् ॥ ३६॥ तद्विज्ञाय चरैर्विष्णु-विषण्णो ध्यातवानिति ॥ अहो ! एषां कुमाराणां
मनर्थकृत् ! ॥ ३७ ॥ अथैषां प्राणभूताना, किं करोमीति चिन्तयन् ? ॥ द्वैपायनमनुनेतुं, तत्रागात्सबलो हरिः!॥ ३८॥ तचापश्यत्परिव्राजं, कोपारुणविलोचनम् ॥ ततस्तत्कोपशान्त्यर्थ- मभ्यधादिति माधवः ॥ ३९॥ भो महातापस ! क्रोधः, परत्रात्र च दुःखदः ॥ नैवातः कापि कुप्यन्ति, महासत्त्वा दमेरताः ॥ ४०॥ मद्योन्मादा-15
Page #126
--------------------------------------------------------------------------
________________
॥६३॥
उत्तराध्ययन निर्विवेकै-मन्दज्ञानैश्च मत्सुतैः॥ एभिर्यदपराद्धं त-महर्षे ! मृष्यतां त्वया ॥४१॥ इत्युक्तेऽपि स कृष्णेना-ऽशा
द्वितीयमध्यन्तक्रोधोऽभ्यधादिदम् ॥ भवतः सामवचनै-रथामीभिः कृतं हरे ! ॥ ४२ ॥ युवां मुक्त्वा लोकयुक्तां, निर्दग्धं
| यनम् (२) द्वारका मया ॥ चक्रे निदानं त्वत्पुत्रै-हन्यमानेन निष्ठुरम् ! ॥४३॥ नालीकं नेमिवाक्यं त-प्रतिज्ञाऽप्यन्यथा न मे॥ तद्युवां यातमन्नौ हि, दीप्तेऽन्धुखननेन किम् ? ॥ ४४ ॥ रामोऽप्युवाच हे भ्रातः, प्रयत्नेनामुना कृतम् ! ॥ किं चाटूनि विधीयन्ते, मुधाऽमुष्य त्रिदण्डिनः १ ॥ ४५ ॥ अवश्य भाव्यपाकर्तुं, न शक्रोऽपि प्रभूयते ॥ न च सर्वविदो है
वाक्य-मन्यथा स्यात्कथञ्चन !॥४६॥ ततः शोकाकुलमना, निजं धाम ययौ हरिः॥प्रसिद्धमासीलोकेर सायननिदानकम् ॥४७॥ अथाच्युतो द्वितीयेह्नि, खपुर्यामित्यघोषयत् ॥ भवताऽतः परं लोकाः!, धर्माशक्ता विशेषतः
॥४८॥ तदाकर्ण्य जनः सर्वो, जज्ञे धर्मरतो भृशम् ! ॥ तदा रैवतकाद्रौ श्री-नेमिश्च समवासरत् ॥ ४९॥ तच्छ्रुत्वा तत्र गत्वा च, जिनं नत्वा च माधवः ॥ अश्रीपीद्देशनां विश्व-जनमोहतमोहराम् ॥५०॥ श्रुत्वा तां देशनां शाम्बप्रद्युम्नाद्याः कुमारकाः॥ बहवः प्रात्रजन् रुक्मि-ण्याद्याश्च यदयोषितः॥५१॥ द्वैपायनः कदा कर्ता, द्वारकाया उपद्रवम् ॥ तदेति विष्णुना पृष्टो, नेमिनाथोऽब्रवीदिति ॥५२॥ असौ द्वादश वर्षान्त-रका ज्वालयिष्यति ॥ इत्युक्त्वा व्यहरत्खामी, कृष्णोऽपि द्वारकां ययौ ॥५३॥ द्वितीयवारमप्येव-मथविष्णुरघोषयत् ॥ उपस्थितमिदं | लोकाः!, द्वैपायनभयं महत् ॥ ५४॥ तत्कृपासूनृतास्तेय-ब्रह्मचर्यापरिग्रहान् ॥ यथाशक्ति प्रपद्यध्व-माचाम्लादि
CLICROCARLOCALCC CRESO
॥
Page #127
--------------------------------------------------------------------------
________________
तपस्तथा ॥ ५५ ॥ कुरुध्वं देवपूजाञ्च, प्रयत्नेन महीयसा ॥ इत्याकाऽखिलो लोक-स्तत्तथा प्रत्यपद्यत ॥५६॥ मृत्वा वह्निकुमारेपू-त्पन्नो द्वैपायनोऽप्यथ ॥ द्वारकामाययौ स्मृत्वा, प्राग्वैरं यदुगोचरम् ॥ ५७ ॥ देवपूजातपोनिष्ठपौरायां पुरि तत्र सः॥परं धर्मविशेषेण, नापकर्तुमभूत्प्रभुः ॥५८ ॥ ततः सोन्वेषयंश्छिद्रा-ण्यसुरोऽस्थात्पुरोऽ-18 न्तरे ॥ अथेत्थं द्वादशे वर्षे, प्रासे लोको व्यचिन्तयत् ॥ ५९॥ अस्मत्तपः प्रभावाद्धि, नष्टो द्वैपायनामरः ॥ तहस्तपं तपस्त्यक्त्वाऽधुना खैरं रमामहे ! ॥ ६०॥ इति ते क्रीडितुं लग्ना, मद्यमांसादिसेविनः ॥ द्वैपायनोऽपि तच्छिद्रमासाद्य मुमुदेऽधिकम् ॥ ६१॥ द्वारकायां तदाचास-नुत्पाताः क्षयसूचकाः॥ हलचक्रादिरत्नानि, प्रणेशुः सीरिशाणिोः ॥ ६२॥ ततो विकृत्य संवर्त-यातं द्वैपायनासुरः ॥ काष्ठपत्रतृणव्यूहा-नाहत्याऽपूरयत्पुरीम् ॥६३॥ दिग्भ्योऽष्टभ्योऽपि तेनैव, वातेन निखिलान् जनान् ॥ पलायमानानानीय, निचिक्षेप पुरोऽन्तरे ॥ ६४ ॥ द्वासप्ततिं पुरो मध्य-गताः षष्टिं बहिःस्थिताः ॥ कुलकोटीः पिण्डयित्वा, स देवोऽग्निमदीपयत् ॥६५॥ द्वारकायां ततो ज्वाला-जिह्वो जज्वाल सर्वतः॥ उन्मूल्य वृक्षवल्लयौदी-न्मुहुस्तत्राऽसुरोऽक्षिपत् ॥६६॥ वह्निना तेन नीरन्ध्रधूमेन व्याकुलीकृताः ॥ सन्दानिता इवाऽनीशा, गन्तुमेकमपि क्रमम् ॥ ६७ ॥ बालवृद्धवधूयुक्ताः, क्रन्दन्तः करुणखरम् ॥ सर्वेप्यन्योन्यसंलग्नाः, पौरास्तत्रावतस्थिरे ॥ ६८॥ [ युग्मम् ] गृहा मणिवर्णमया, व्यलीयन्त क्षणात्तदा ॥
१ इत्थं द्वादश वर्षाणां, प्रान्ते लोको व्यचिन्तयत् । इति 'ग' संज्ञकपुस्तके ॥
Page #128
--------------------------------------------------------------------------
________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
॥६४॥
पुस्फुटुः सौधपीठानि, तुत्रुटुः कुट्टिमान्यपि ॥ ६९ ॥ दृष्ट्वा पुरी दह्यमाना-मथ व्याकुलमानसौ ॥ वसुदेवगृहं रामकृष्णौ त्वरितमीयतुः ॥ ७० ॥ वसुदेवं देवकी च, रोहिणी च रथे द्रुतम् ॥ तावारोपयतां तस्मा-दाक्रष्टुं वह्निसङ्क- टात् ॥ ७१॥ हया वृषाश्च नो चेलुः, स्तम्भितास्तेन नाकिना ॥ तदा राममुकुन्दौ तं, रथमाकृषतां खयम् ॥७२॥ स्थामाभिराम ! हाराम, ! हा महाराज ! केशव ! ॥ पाहि पावक्रपातोत्था-दस्मादस्मानुपद्रवात् ॥७३॥ इति पौरकृताक्रन्दान् , श्रुत्वा दैन्यं गतौ बलात् ॥ गोपुरे निन्यतु कि भन्नाक्षमपि तौ रथम् ॥ ७४॥[युग्मम् ] ततस्तदोपुरं दत्त-कपाटं विदधेऽसुरः ॥ तौ चाऽररी पार्णिघातै, रामकृष्णौ बभञ्जतुः ॥ ७५ ॥ तथापि न रथः पङ्क-मनवन्निरगात्पुरः॥ द्वैपायनासुरोप्येवं, तदाऽवादीद्वलाच्युतौ ॥ ७६ ॥ युवां विहाय नैवान्यं, मोक्ष्यामीति मया पुरा ॥ प्रोक्तं तत्किं विस्मृतं वां,? यदद्यैवं विमुह्यथः! ॥ ७७॥ तच्छत्वाऽतिव्याकलौ तौ, पितरोऽप्येवमूचिरे ॥ वत्सौ यातं युवां सन्तु, श्रेयांसि युवयोः पुनः! ॥ ७८ ॥ युवयोर्जीवतोर्भावी, पुनर्यदुकुलोदयः ॥ वयं त्वथ प्रपन्नाःस्म, | शरणं नेमितीर्थपम् ॥ ७९ ॥ प्रत्याख्यातस्तथाऽस्माभि-राहारोऽपि चतुर्विधः ॥ इत्युक्त्वा ते नमस्कारान् , गणयन्तोऽवतस्थिरे ॥ ८०॥ द्वैपायनामरस्तेषु, ववर्षाथ हुताशनम् ॥ ततो मृत्वाऽभवन् देवा, वसुदेवादयस्त्रयः ॥ ८१॥ ___ अथो रुदन्ती करुणं, बहिर्गत्वा बलाच्यतौ ॥ जीर्णोद्यानस्थितौ दह्य-मानां दशतुः पुरीम् ॥ ८२ ॥ ज्वलत्पशुजनाक्रन्द-कोलाहलसमाकुलाम् ॥ परितः प्रसृतज्वाला-जिह्वज्वालाकरालिताम् ॥ ८३ ॥ श्राद्धदेवश्रोत्रियस्य, वह्नि
SLCOMCOLLECORECASSELSDOOGLE*
॥६४॥
Page #129
--------------------------------------------------------------------------
________________
कुण्डत्वमाश्रिताम् ॥ तौ वीक्ष्य द्वारकां वाष्पा-प्लुताक्षाविति दध्यतुः ॥ ८४ ॥[युग्मम् ] पुरन्दरधनुष्कल्प-मनित्यत्वमहो! श्रियाम् ॥ जलबुद्बुददेश्यं च, जीवितव्यमहो ! विशाम् ॥ ८५ ॥ स्वप्नसङ्गमकल्पाश्च, बन्धुसङ्गा अहो अमी! ॥ अहो! अप्रतिकार्यत्वं, भवितव्यस्य वस्तुनः॥ ८६ ॥ यदुक्तं-"धारिजइ इंतो जल-निही वि कलोल भिन्नकुलसेलो ॥ न हु अन्नजम्मनिम्मिअ, सुहासुहो दिवपरिणामो॥ ८७॥” अथोवाच हरिः सर्व-सम्पत्खजनवर्जितौ॥ आवां भ्रातः! क्व यास्यावो?, भीतौ यूथच्युतैणवत् ॥ ८८॥ बलोऽवादीत्पाण्डुपुत्राः, सन्ति नः स्निग्धवान्धवाः॥ तत्पुरी पाण्डुमथुरा, यास्यावोऽवाच्यवाड़िगाम् ॥ ८९॥ प्रोचे कृष्णो मया कृष्णां, प्रत्यादाय समेयुषा ॥ गङ्गोत्तरणवेलायां, बेडान्तर्धानरोषतः ॥ ९० ॥ पाण्डवा राज्यमाच्छिद्य, तदा निर्विषयाः कृताः ॥ दुर्दशायां गमिष्यावः, तत्पार्थे साम्प्रतं कथम् ? ॥ ९१ ॥ [ युग्मम् ] रामोऽवग् न स्मरन्त्यार्या, दुःखप्नमिव विप्रियम् ॥ दुष्प्रापम-13 अवनैवो-पकारं विस्मरन्ति च ॥ ९२ ॥ तन्मेदं विमृश भ्रातः!, कतरो भक्तिमेव ते ॥ श्रुत्वेति सबलः पूर्वी, प्रत्यचालीन्नरायणः ॥९३॥ ___ इतश्च द्वारकापुर्या, ज्वलन्त्यां कुब्जवारकः ॥रामसूनुः खगेहाग्र- मारुह्योचैरदोऽवदत् ॥ ९४ ॥ अहं चरमदेहः |श्री-नेमिना कथितः पुरा!॥ इदानीं तु प्रभोस्तस्य, शिष्योऽस्मि स्वीकृतव्रतः॥९५॥ सा चेत्सत्या विभोर्वाणी,
१ यास्यावोऽपाच्यवाड़िगाम् । इति 'ग' संज्ञकपुस्तके ॥
Page #130
--------------------------------------------------------------------------
________________
ा उत्तराध्ययन तत्किमद्य ज्वलाम्यहम् ? ॥ इत्यूचानं ज्वलद्गुहा-जुम्भकास्तमुदक्षिपन् ॥९६ ॥ निन्युः पहवदेशस्थ-खामिपार्थे द्वितीयमध्य
|च तं सुराः॥ ततः श्रीनेमिपादान्ते, प्राब्राजीत्कुब्जवारकः ॥ ९७ ॥ रामकृष्णयदूनां याः, स्त्रियोऽभूवन् गृहे &ायनम् (२) स्थिताः ॥ ताः कृतानशनाः सर्वाः, पुरीदाहे दिवं ययुः ॥ ९८ ॥ पूर्वोक्ताः कुलकोट्यस्तु, द्राग्दग्धास्तेन नाकिना ॥ पुरी तु दग्धा षण्मास्या, तदनुग्लावितान्धिना ॥ ९९ ॥ इतश्च पादचारेण, व्रजन्तौ रामकेशवौ ॥ मार्गायातं हस्ति
कल्प-नगरं जग्मतुः क्रमात् ॥ १०॥ तत्र चाभूदच्छदन्तो, भूपतिधृतराष्ट्रभूः ॥ पूर्व केशवसाहाय्या-त्पाण्डवैह-४ मतबान्धवः ॥१०१॥ तदेत्यूचेऽच्युतो राम, क्षुधा मां बहु बाधते ! ॥ क्रमं तन्नैकमप्यार्य !, गन्तुं शक्नोमि साम्प्रतम्
॥ १.२॥ बलोऽब्रवीत्तव कृते, भक्तार्थ नगरीमिमाम् ॥ भ्रातर्गच्छाम्यहं त्वं तु, तिष्ठेरत्राऽप्रमद्वरः ॥ १०३ ॥ यदि चात्र पुरे कश्चि-दपायो मे भविष्यति ॥ तदा श्वेडां करिष्येह-मागच्छेस्त्वं निशम्य ताम् ॥ १०४ ॥ इत्युक्त्वाऽन्तहरिं ध्यायन् , प्राविशत्तत्पुरं बलः ॥ दिव्यरूपः पुमान्कोऽय-मिति लोकैर्विलोकितः ॥ १०५॥ अहो ! प्रमाणो. पेतत्व-महोरूपमहोमहः ! ॥ इति दध्युबलं प्रेक्ष्य, पौरास्तत्र पुरेऽखिलाः ॥ १०६ ॥ ते श्रुतद्वारकादाहा, इति च || व्यमृशन्मिथः ॥ ज्वलत्वपुर्या निर्यातो, नन्वायातोऽस्त्यऽसौ हली ॥ १०७ ॥ रामोऽपि मुद्रिकां दत्त्वा, भोज्यं
॥६५॥ कान्दविकाच्छुभम् ॥ आददे कटकं दत्त्वा, शौण्डिकाद्वारुणीमपि ॥१०८॥ तदादाय बहिर्गन्तुं, प्रस्थितं प्रेक्ष्य सात्वतम् ॥ सविस्मयाः पुरारक्षा, गत्वा राज्ञेऽवदन्नदः॥ १०९ ॥ रूपेण सीरिणस्तुल्यो, नरः कोप्यद्य दस्युवत् ॥ मुद्रिका
Page #131
--------------------------------------------------------------------------
________________
वलये भूरि-मूल्ये दत्वा भवत्पुरे ॥ ११० ॥ गृहीत्वा भोज्यमदिरे, अस्तीदानी बहिब्रजन् ॥ ततो यत् स्याद्विधेयं त-द्धराधीश ! विधीयताम् ॥ १११ ॥ [ युग्मम् ] तच्छ्रुत्वा स नृपो हन्तुं, बलं बलयुतो ययौ ॥ गोपुरं च व्यधा-3 दत्त-कपाटं सजितार्गलम् ॥ ११२ ॥ युयुत्सया तमायान्तं, वीक्ष्य वेडां व्यधादलः ॥ मुक्त्वाऽन्नपाने पार्श्वस्थमारोहच महागजम् ॥ ११३॥ उन्मूल्यालानमहितान् , हन्तुं प्रवृते हली॥ रामश्वेडा मुकुन्दोऽपि, श्रुत्वाऽऽगाद्गोपुरे द्रुतम् ॥ ११४ ॥ भक्त्वा कपाटौ पुर्या च, प्रविश्यादाय चार्गलम् ॥ हत्वा सैन्यानच्छदन्तं, वशीकृत्याऽच्युतोऽब्रवीत् ॥ ११५ ॥आत्मवैरिन्नरे मूढ!, किमिदं भवता कृतम्॥ किमस्माकं वपुर्वीर्य-मप्यज्ञासीद्तं भवान् ! ॥ ११६॥ | अथ मुक्तोऽसि राज्यं खं, मुंश्वेत्युक्त्वा बलाच्युतौ ॥ गत्वोद्यानमभुजातां, किञ्चित्तद्भोजनादिकम् ॥ ११७ ॥ ततो | विधायाचमनं, चेलतुः प्रति दक्षिणाम् ॥ अवापतुश्च कौशाम्ब-वनं मुसलिकेशवौ ॥ ११८ ॥ सुरापानात्सलवणा|ऽशनाद्रीष्मातपात् श्रमात् ॥ शोकात्पुण्यक्षयाचाऽभू-तत्र विष्णुस्तृषातुरः!॥११९ ॥सोऽथाऽवादीद्धलं भ्रात-स्तृषा शुष्यति मे मुखम् ॥ गन्तुं शीततरुच्छाये-ऽप्यत्र शक्नोमि नो वने ॥१२०॥ रामोऽप्यूचे प्रियभ्रात-र्जलार्थ याम्यहं द्रुतम् ॥ अत्राऽप्रमत्तो विश्राम्यं-स्तिष्ठेस्त्वं तु तरोस्तले ॥ १२१॥ क्षौमेण वपुराच्छाद्य, न्यस्य जानूपरि क्रमम् ॥ सुष्याप द्रुतले विष्णु-स्ततो भूयोऽभ्यधावलः ॥ १२२॥ यावदायाम्यहं वारि, समादाय त्वदन्तिकम् ।। तावत्तिष्ठेरप्रमत्तः, प्राणवल्लभ हे हरे! ॥ १२३ ॥ उद्दिश्य वनदेवीश्च, स्माह रामो ममानुजः ॥ वल्लभो विश्वलोकानां, जीवा
Page #132
--------------------------------------------------------------------------
________________
उत्तराध्ययनातुर्मम दुःखिनः ॥ १२४ ॥ अस्ति वः शरणे तस्मा-युष्माभिर्वनदेवताः !॥ त्रातव्योऽयमिति प्रोच्चैः, प्रोच्याऽगादम्भसे ||द्वितीयमध्य बलः ॥ १२५ ॥ वितन्वन्मृगयां दीर्घ-कूर्चस्तूणधनुर्धरः ॥ व्याघ्रचर्मावृतोऽथाऽऽगा-तत्र व्याधो जराङ्गजः॥१२६॥
यनम् (२) ॥६६॥
तथास्थं सोऽच्युतं वीक्ष्य, मृगोऽयमिति चिन्तयन् ॥ निचखान शरं तीक्ष्णं, तदङ्कितलमर्मणि ॥ १२७ ॥ उत्थायाऽथ द्रुतं विष्णुः, स्माह निर्मन्तुरप्यहम् ॥ अनालाप्यैव केनैवं, शरेणानितले हतः!॥ १२८ ॥ नाऽज्ञातगोत्रनामा य-कोऽपि पूर्व हतो मया ! ॥ तद्गोत्रञ्चाभिधानञ्च, त्वमऽप्याऽऽख्याहि मे निजम् ॥ १२९ ॥ निकुञ्जस्थोऽथ स प्रोचे, हरिवंशरवेरहम् ॥ सुतोऽस्मि वसुदेवस्य, जरादेवीसमुद्भवः ॥ १३० ॥ जराकुमारनामाऽग्र-जन्मा राममुकुन्दयोः ॥ श्रीनेमिवाक्यमाकर्ण्य, कृष्णं त्रातुमिहागमम् ! ॥ १३१ ॥ द्वादशाब्दीबभूवाऽद्य, वसतोऽत्र बने मम ॥ नाऽपश्यं मानुषं त्वत्र, ब्रूहि कस्त्वमिहाऽऽगतः ? ॥१३२॥ तच्छ्रुत्वा विष्णुरित्याख्य-दागच्छा
गच्छ बान्धव ! ॥ तव भ्राताऽस्म्यहं कृष्णो, यंत्रातुं त्वं वनं श्रितः!॥१३३ ॥ भ्रातर्वादश वर्षाणि, वनवासादिकतस्तव ॥ मुधायासोऽभवन्मिथ्या-मतेरिव तपस्यतः ॥ १३४ ॥ तदाकाकुलखांतः-सम्भ्रान्तो भृशमुन्मनाः ॥ केशवो
वक्ति किमय-मिति दध्यौ जराङ्गजः ॥ १३५ ॥ आययौ च द्रुतं तत्र, प्रेक्षाञ्चक्रे च केशवम् ॥ प्रजल्पन् हा ! हतोस्मीति, मुमूर्होया पपात च ॥१३६ ॥ कथञ्चिल्लब्धसंज्ञस्तु, जराभूविलपन् भृशम् ॥ अप्राक्षीत्पुण्डरीकाक्षं, त्वमागाद्भातरत्र किम् ? ॥ १३७ ॥ द्वैपायनेन किं दग्धा, द्वारका यदुभिः समम् ? ॥ किं नेमिखामिनो वाणी, सा सर्वा
Page #133
--------------------------------------------------------------------------
________________
+
KAMANASSACROS
सूनृताऽभवत् ? ॥ १३८ ॥ कृष्णोऽथ सर्ववृत्तान्तं, यथाजातमऽभाषत ॥ ततः शोकाग्निसन्तप्तः, प्रोवाचैवं जरासुतः ! ॥ १३९ ॥ आतिथ्यं भ्रातुरतिथेः, पापेनाऽदः कृतं मया ॥ हा!क गच्छाम्यहं खास्थ्य-मवाप्स्यामि व वा गतः? ॥ १४० ॥ दुर्दशाम्भोधिमग्नस्य, भ्रातुर्भ्रातृहितस्य ते ॥ घातकोऽहं न हि स्थानं, प्राप्स्यामि नरकेष्वपि ! ॥१४१॥ अहं तवैव रक्षाये, वनवासमशिश्रियम् ! ॥ त्वमप्यत्रैव दुर्दैवे-नाऽऽनीतस्तत्करोमि किम् ? ॥१४२॥ भूत्वा श्रीवसुदेवस्य, सुतस्तव च सोदरः॥ किमकार्षमिदं कर्म, श्वपचैरपि गहितम् ! ॥१४३॥ विधे ! विधेहि करुणां, द्रुतं मामपि मारय ॥ नाऽऽस्यं पापस्य पश्येन्मे, भ्रातृहन्तुर्यथा जनः !॥ १४४ ॥ प्रसद्य सद्यो मातमें, देहि मार्ग वसुन्धरे ! ॥ पश्चादपि हि गन्तव्ये, श्वभ्रे याम्यधुनैव यत् ! ॥१४५ ॥ यद्वा नेमिवचः श्रुत्वा-उमरिष्यं चेत्तदैव हि ॥ भ्रातृहत्या महापाप-मलगिष्यत्तदा न मे ! ॥ १४६ ॥ मुकुन्दोऽथ तमित्यूचे, भ्रातः! खेदममुं त्यज ॥ भवितव्यं भवत्येव, किं तत्र परिदेवनैः ॥ १४७॥ तत्कौस्तुभमभिज्ञानं, लात्वा मे याहि पाण्डवान् ॥ वाती ममाखिलां ब्रूया-स्तेषां स्नेहलचेतसाम् ॥ १४८ ॥ द्रौपद्यानयने जात-मपराधं च मद्विरा ॥ त्वं तेषां क्षमयेः सन्तु, ते ते साहाय्यदायिनः ! ॥ १४९॥ यदुष्वेकस्त्वमेवाऽसि, जीवंस्तद्गच्छ सत्वरम् ॥ अन्यथा मद्वधक्रोधा-द्रामस्त्वां मारयिष्यति ! ॥ १५०॥ भूयो भूय इति प्रोक्तः, केशवेन जराङ्गजः॥ अगात्कौस्तुभमादाया-ऽऽकृष्य कृष्णक्रमाच्छरम् ॥ १५१॥ गते च तस्मिन् कृष्णोऽपि, शरघातव्यथातुरः॥ उत्तराभिमुखो धीरः, प्रोवाचेति कृताअलिः ॥ १५२ ॥ अर्हत्सिद्धसदाचा
Page #134
--------------------------------------------------------------------------
________________
उत्तराध्ययन
को-पाध्यायमुनिपुङ्गवान् ॥ नमामि नेमिनामानं, तीर्थनाथं च भावतः ॥ १५३ ॥ इत्युदीर्य हृषीकेशः, स्थित्वा च द्वितीयमध्यतृणसंस्तरे ॥ आवृत्य वाससा खीय-वपुश्चेति व्यचिन्तयत् ॥ १५४ ॥ पुत्रा प्रद्युम्नशाम्बाद्या, रुक्मिण्याद्याः स्त्रियश्च यनम् (२) मे ॥ धन्या ये प्राव्रजन् पूर्व, धिग् मां तु प्राप्तदुर्दशम् ! ॥ १५५॥ इति ध्यायन् हरिर्घात-जातपीडातिरेकतः ॥ तदैव नष्टसद्भाव-श्वेतसीति व्यचिन्तयत् ॥ १५६ ॥ अपराभूतपूर्वस्य, मर्देवैश्च जन्मतः ॥ द्वैपायनेन पापेन, दत्तेयं, दुर्दशा मम !॥१५७ ॥ कुलं च मे क्षयं नीतं, तेनैवाऽहेतुविद्विषा ॥ तचेत्पश्यामि तं दुष्टं, तदा हन्म्यऽधुनाऽप्य:हम् ! ॥ १५८ ॥ क्षणं ध्यानमिति प्राप्य, रौद्रं विष्णुर्व्यथाकुलः ॥ सम्पूर्णाब्दसहस्रायु-स्तृतीयामवनीमगात् ! ॥ १५९॥ रामोऽथ पद्मिनीपत्र-पुटेनाऽऽदाय जीवनम् ॥ आगाहुर्विहगैर्जाता-शंकः कृष्णान्तिके द्रुतम् ॥ १६०॥ एष निद्रां गतोस्तीति, ध्यायन्नस्थात्क्षणं बलः ॥ कृष्णोपरि भ्रमंतीच, ददर्श श्याममक्षिकाः!॥१६१॥ भीतस्ततो हली भ्रातृ-मुखाद्वस्त्रं व्यपानयत् ॥ विपन्नं वीक्ष्य तं मूर्छा-कुलः पृथ्व्यां पपात च ॥१६२ ॥ कथमप्याप्तसंज्ञस्तु, सिंहनादं व्यधादलः॥वित्रस्तैः श्वापदैः साकं, चकम्पे तेन तद्वनम् ॥ १६३ ॥ इत्थं ततोऽब्रवीचाऽयं, भ्राता मे प्राणवल्लभः॥ विश्वैकवीरः सुप्तोऽत्र, हतो येन दुरात्मना ॥ १६४ ॥ स चेत्सत्यो भटस्तन्मे, प्रत्यक्षीभवतु द्रुतम् ॥ न हि स्त्रीसुप्तबालर्षि-प्रमत्तान् हन्ति सत्पुमान् ! ॥ १६५ ॥ इत्युच्चैरुच्चरन् दुःख-भरभङ्गुरमानसः॥ तत्रारण्ये भ्रमत्कृष्णा-ऽन्तिके गत्वाऽरुदच्च सः॥१६६॥ हा! यादवकुलोत्तंस!, हा ! समग्रगुणाम्बुधे!॥क्कासि ? त्वं पुण्डरीकाक्ष !,
Page #135
--------------------------------------------------------------------------
________________
मन्मनोम्भोजभास्कर ! ॥ १६७॥ पूर्व हि मां विना स्थातुं, नाऽभूः क्षणमपि क्षमः !॥न मेऽधुना तु वचन- मपि दत्से कुतो ? हरे ! ॥ १६८ ॥ मया मन्तुः कृतो नास्ति, तत्कुतः कुपितो भवान् ? ॥ कालक्षेपो यऽयं यद्वा, तव कोपस्य कारणम् ॥१६९॥ कृतकालक्षेपमपि, मां त्वदायत्तजीवितम् ॥ सम्भाषय हरे ! न स्यु-स्त्वादृशा हि स्थिरकुधः!॥ १७०॥ कदाप्यऽकुपितं मह्य-ममुं मे प्रियसोदरम् ॥ वनदेव्योऽनुनयत, यूयं मयि कृपालवः !॥ १७१॥ त्वयि प्रसन्ने सति मे, नेपाऽवस्थाऽपि दुःखदा ॥ रुष्टे तु त्वयि पश्यामि, सर्व शून्यमिदं जगत् ! ॥ १७२ ॥ तत्प्रसद्य समुत्थाय, सलिलं पिब बान्धव !॥ अर्कोऽस्तं याति तन्नायं, निद्राकालो भवादृशाम् !॥ १७३॥ रामो विलापैरित्यायै-स्तां निशामत्यवाहयत् ॥ जजल्प प्रातरप्येव-मुत्तिष्ठोत्तिष्ठ बान्धव ! ॥ १७४ ॥ तथाऽप्यऽनुत्तिष्ठतोऽस्य, शबं| मोहविमोहितः॥ आरोग्य सीरभृत्स्कन्धे, बभ्रामाद्रिवनादिषु ! ॥१७५ ॥ इत्थं तस्मिन् भ्रमत्येव, प्राट्कालः समाययौ ॥ अपश्यच्चाऽवधिज्ञाना-तं सिद्धार्थसुरोऽथ सः॥ १७६ ॥ दध्यौ चैवं स्नेहरागा-तिरेकात्कुणपं हरेः॥ भ्रमति | स्वयमुत्पाट्य, भ्राता मे दुर्दशां गतः!॥ १७७ ॥ तदमुं बोधयामीति, ध्यायन्नागत्य सोऽमरः ॥ रथं कृत्वा मर्त्यरूपो, महारेरुदतारयत् ॥ १७८ ॥ विषमं शैलमुलंघ्य, समे भग्नं च तं रथम् ॥ सन्धातुमुद्यतं देवं, तं वीक्ष्येति बलोऽत्रवीत् ॥ १७९॥ उल्लंघ्य स्थपुटं शैलं, योऽभज्यत समेऽध्वनि ॥ रथं तमक्षतं कर्तु, कथमिच्छसि ? मूढ रे ! ॥१८॥ ततः सुरोऽवदयुद्ध-सहस्रेषु हतो न यः॥ स तेऽनुजो यदा जीवे-द्विना जन्यं मृतोऽधुना ॥ १८१॥ रथोऽपि माम
Page #136
--------------------------------------------------------------------------
________________
उत्तराध्ययन
कीनोऽयं, नूनं सजो भवेत्तदा ॥ इत्युक्त्वाऽथ सुरो वप्त-मारेभेऽश्मनि पद्मिनीम् ॥ १८२॥ तद्वीक्ष्योचे बलो रोह- द्वितीयमध्यसब्जिनी किं दृषद्यपि ॥ सोऽजल्पत्तेऽनुजो जीवे-धदा रोहेदियं तदा ॥ १८३ ॥ सुरो भूयः पुरो भूय, दग्धवृक्षं दी यनम् (२) सिषेच सः॥ बलोऽवताम्बुसेकैः किं, प्लुष्टद्रुः स्यात्सपल्लवः? ॥१८४ ॥ जगाद देवः कुणपं, तव स्कन्धे स्थितं यदा॥ जीविष्यति तदा शाखी, भविताऽसौ सपल्लवः ॥ १८५॥ पुनः किञ्चित्पुरो गत्वा, हरितानि तृणानि सः॥ देवो | धेनुशवास्पेषु, बलात्क्षेतुं प्रचक्रमे ॥ १८६ ॥ बलस्ततो बभाणैव-मेता गावोऽस्थितां गताः ॥ अमीभिर्हरितैर्भूयः, किं जीविष्यन्ति ? रे जड ! ॥ १८७॥ सुरोऽप्याऽऽख्यद्भवद्भाता, जीविष्यति यदा ह्ययम् ॥ एता गावस्तृणैरेभिजीविष्यन्ति पुनस्तदा ॥१८८ ॥ अथाऽध्यासीदिति बलः, किं ममार ममाऽनुजः॥ एकयैव गिरा प्राहुः, सर्वेप्यते जना यतः!॥ १८९ ॥ ततः सुपर्वा सिद्धार्थ-रूपं कृत्वा बलं जगौ ॥ सिद्धार्थः सारथिः सोऽहं, प्रव्रज्य त्रिदशोऽभवम् ॥ १९० ॥ आपद्गतं बोधयेा-मिति प्रव्रजतो मम ॥ त्वयोक्तमासीत्तदहं, त्वां बोधयितुमागमम् ॥ १ विष्णोमुत्युर्जरापुत्रात्, प्रोक्तः श्रीनेमिनाऽभवत् ॥ सत्वभूत्तत एवाम्भ:-कृते त्वयि गते सति !॥ १९२ ॥ हरिणा प्रहितो क्त्वा-ऽभिज्ञाने कौस्तुभं निजम् ॥ अगाजराकुमारस्तु, त्वरितं पाण्डवान्तिकम् ॥ १९३ ॥ बलभद्रोऽथ
॥१८॥ सिद्धार्थ-मालिंग्यैवमभाषत ॥ त्वयाऽहं बोधितः साधु, भ्रातः ! कुर्वेऽधुना किमु? ॥ १९४ ॥ सिद्धार्थोऽथाऽवदद्धात-रिदानी ते विवेकिनः॥ सर्वसङ्गपरित्यक्ता, परिव्रज्यैव युज्यते ! ॥ १९५॥रामस्तत्प्रतिपद्याशु, नाकिना तेन
Page #137
--------------------------------------------------------------------------
________________
संयतः॥ तटिनीसङ्गमेऽभ्यर्च्य, सञ्चस्कार हरेर्वपुः ॥ १९६ ॥ रामस्य दीक्षाकालं च, ज्ञात्वा श्रीनेमितीर्थकता चारणश्रमणं प्रैषी-त्तत्पार्थ प्रानजद्वलः ॥ १९७ ॥ तुङ्गिकाशैलशृङ्गे च, गत्वाऽत्युग्रं तपोऽतनोत् ॥ तस्थौ सिद्धार्थ-18
देवोऽपि, तद्रक्षायै तदन्तिके ॥ १९८॥ PI इतश्च स जरासूनुः, प्राप्तः पाण्डवसन्निधौ ॥ द्वारकाकृष्णनाशाद्य-मवदद्दत्तकौस्तुभः ॥ १९९ ॥ ततः शोकाम्भोधिमग्नाः, पाण्डवा वत्सरावधि ॥ क्रन्दन्तः करुणं प्रेत-कर्माणि विदधुहरेः ॥२०॥ व्रतार्थिनोऽथ तान् ज्ञात्वा, वृतं पञ्चशतर्षिभिः ॥ चतुर्ज्ञानं धर्मघोष-मुनिं प्रैषीच्छिवाङ्गजः ॥ २०१ ॥ ततो दत्वा जरासूनो-राज्यं तस्यान्तिके 8 गुरोः॥ प्रव्रज्य पाण्डवाश्चक्रु-ोरं साभिग्रहं तपः॥ २०२॥ श्रीनेमिं तेऽन्यदा नन्तुं, प्रस्थिताः प्रति रैवतम् ॥ शुश्रुवुः खामिनिर्वाणं, हस्तिकल्पपुरं गताः ॥ २०३ ॥ ततस्ते प्रोद्भवहुःखा, आरुह्य विमलाचलम् ॥ विधायानशनं । प्राप्य, केवलं शिवमासदन् ॥ २०४॥ | इतश्च तुङ्गिकाशैल-शृङ्गस्थो भगवान् बलः ॥ अतितीव्र मासपक्ष-क्षपणादि तपोऽतनोत् ॥ २०५॥ सोऽन्यदा 8 प्रविशन् क्वापि, पुरे मासस्य पारणे ॥ स्त्रिया कयाऽप्यन्धुकण्ठ-स्थयाऽदर्शि सबालया ॥ २०६॥ साऽभूयग्रमना| वीक्ष्य, रामरूपं मनोरमम् ॥ कुम्भकण्ठभ्रमाडिम्भ-कण्ठे पाशं बबन्ध च ॥ २०७॥ तं रुदन्तं क्षिप्यमाणं, कूपे प्रेक्ष्यार्भकं मुनिः ॥ दध्यौ रूपमिदं घिने, महानथैककारणम् ! ॥ २०८ ॥ अहं वनस्थ एवाऽथ, दत्तं काष्ठादिहा
Page #138
--------------------------------------------------------------------------
________________
उत्तराध्ययन
रकैः ॥ आहारादि ग्रहीष्यामि, न यास्यामि पुरादिषु ॥ २०९ ॥ अभिगृह्येति रामर्पि-स्तां वशां प्रतिबोध्य च ॥ द्वितीयमध्यतत एव निवृत्त्याऽगा-तुङ्गिकाद्रिशिरोवनम् ॥ २१० ॥ मासिकादि तपः कृत्वा, मुनिः पारणकेषु सः ॥ तृणकाष्ठा- यनम् (२) दिहारिभ्यः, प्रासुकाहारमाददे ॥ २११ ॥ काष्ठादिहारकान्नीचा-नहमभ्यर्थये कथम् ? ॥ पुरा त्रिखण्डनाथोऽपि, नैवं दध्यौ बलस्तदा ! ॥ २१२ ॥ याचमानो महेभ्यान-प्यन्त्री निर्वेदमश्नुते ॥ रामर्षिस्तु न निर्वेदं, लेभे तत्प्रार्थ-13 नादपि ॥ २१३॥ तितिक्षमाणो रामर्षि-रेवं याचापरीषहम् ॥ सुदुस्तपं तपस्तेपे, मासिकादि महाशयः ॥ २१४ ॥
काष्ठादिहारकास्तेऽथ, खखराजमदोऽवदन ॥ तपः करोति विपिने, नरः कोऽपि सुरोपमः !॥ २१५ ॥ ततस्ते काव्यमृशन्नून-मस्मद्राज्यजिघृक्षया ॥ तपः करोति मन्त्रं वा, साधयत्ययमुत्तमम् ॥ २१६ ॥ सद्यो व्यापादयामस्त-त्तत्र |
गत्वाऽद्य तं नरम् ॥ सहन्ते न हि राजानो-ऽपरं राज्यार्थिनं जनम् ! ॥ २१७ ॥ध्यात्वेति ते बलोपान्ते, ससैन्या||४ युगपद्ययुः ॥ बहून् सिंहांस्ततश्चक्रे, सिद्धार्थस्तत्र भीषणान् ॥ २१८ ॥ वीक्ष्य तान् विकृतान् भीता, नत्वा रामं ययुनूपाः॥ नरसिंह इति ख्याति, लोके लेभे ततो बलः॥ २१९ ॥ स च राममनिस्तत्र, वने तिष्ठन् कृपोदधिः ॥ सिंहादीनां श्वापदानां, पुरो धर्मकथां व्यधात् ॥ २२०॥ तया देशनया व्याघ्र-सिंहाद्याः श्वापदा अपि ॥ बभूवुबहवः शान्ताः, केचित्तु श्राद्धतां दधुः ॥ २२१॥ केचिच्चानशनं चक्रुः, केऽपि भद्रकतां ययुः ॥ त्यक्तमांसाशनाः केऽपि. रामसाधं सिषेविरे ! ॥ २२२ ॥ एणस्त्वेको बलमनिं. प्रेक्ष्य प्राग्भवसङ्गतेः ॥ जातजातिस्मृतिः प्राप्त-संवे
Page #139
--------------------------------------------------------------------------
________________
गस्तं सदाऽभजत् ॥ २२३ ॥ स च तत्राऽऽगतान् सान्न - पानान् काष्ठादिहारकान् ॥ साध्वर्थमन्वेपयितु-मरण्येऽ. न्वहमऽभ्रमत् ॥ २२४ ॥ तांश्च वीक्ष्याऽऽगतो भिक्षा-दायकान् साधुसन्निधौ ॥ स्पृशंस्तदङ्घीं शिरसा, प्रेरयामास तं रयात् ॥ २२५ ॥ समाप्य ध्यानमेणेन, समं तेनाऽध्वदर्शिना । रामर्षिरपि भिक्षायै, तपः पारणकेष्वऽगात् ॥ २२६॥ अथ प्रधानकाष्ठार्थ - मन्यदा रथकारकाः ॥ वने तत्र समाजग्मुः, चिच्छिदुश्च तरून् बहून् ॥ २२७ ॥ स सारङ्गो भ्रमन् वीक्ष्य, तान् भुञ्जानान् प्रमोदवान् ॥ द्रुतं न्यवेदयत् ध्यान-स्थिताय बलसाधवे ॥ २२८ ॥ ध्यानं प्रपूर्य रामर्षि - रपि मासस्य पारणे ॥ हरिणेन समं तेन, तत्र भिक्षाकृते ययौ ॥ २२९ ॥ रथकारपुरोगोऽथ, रामं वीक्ष्य व्यचिन्तयत् ॥ दिष्टया दृष्टो वनेऽप्यत्र, मुनिः कल्पद्रुवन्मरौ ॥ २३० ॥ अहो ! अस्य मुनेः क्षान्ति - रहो ! रूपमहो ! महः ॥ तदहं कृतकृत्योऽस्मि, यस्यासावतिथिर्मुनिः ॥ २३१ ॥ अथास्मै भोजनं दत्त्वा - ऽऽत्मानं विमलयाम्यहम् ॥ विचिअन्त्येति स पञ्चाङ्ग - स्पृष्टभूर्मुनिमानमत् ॥ २३२ ॥ आनीयाऽशनपानादि, प्रदातुञ्चोपचक्रमे । तन्निर्दोषमिति ज्ञात्वा, जग्राह भगवानपि ॥ २३३ ॥ मृगोऽपि स तदा वार्ष - जलापूर्णविलोचनः ॥ निध्यायन् साधुरधिका - वध्यायदिति शुद्धधीः ॥ २३४ ॥ अहो ! अत्युग्रतपसां निवासोऽसौ महामुनिः ॥ अनुग्रहं रथकृत-श्चक्रे खाङ्गेऽपि निर्ममः ॥ २३५ ॥ अहो ! सुलब्धजन्माऽयं, रथकारो महामनाः ॥ शुद्धैः पानाशनैः साधु, प्रतिलम्भयति स्म यः ॥ २३६ ॥ निर्भाग्योऽहं तु सम्प्राप्त - तिर्यक्त्वः कर्मदोषतः ॥ तपस्तप्तुं मुनेर्दातु - ञ्चासमर्थः करोमि किम् ? ॥ २३७॥ तदा च रामरथकृ- मृ
Page #140
--------------------------------------------------------------------------
________________
उत्तराध्ययन
GAURESSANSAR
गाणामुपरि क्षणात् ॥ महावायुविधूतोऽर्द्ध-च्छिन्नोऽपतन्महाद्रुमः ॥ २३८ ॥ पतता तरुणा तेन, सुध्यानास्ते हता-द्वितीयमध्यस्त्रयः ॥ ब्रह्मलोकेऽभवन् देवाः, पद्मोत्तरविमानगाः ॥ २३९ ॥ व्रतं वर्षशतं याव-त्प्रपाल्य त्रिदिवं गतः ॥ रामोऽथा- यनम् (२) वधिनाऽज्ञासी-तृतीयनरकेऽनुजम् ॥२४० ॥ ततः स भ्रातरं द्रष्टु-मुत्सुकः स्नेहसम्भ्रमात् ॥ कृष्णाभ्यर्णमगात्कृत्वा, वपुरुत्तरवैक्रियम् ॥ २४१ ॥ मणिद्युतिभिरुद्योतं, कृत्वा दृष्ट्वा च सोदरम् ॥ पूर्ववत्स्नेहलो रामः, परिरभ्यैवमब्रवीत् ॥ २४२॥ भ्राता ते रामनामाहं, पञ्चमाद्देवलोकतः ॥ इहाउंगतोऽस्मि तद्रूहि, किमभीष्टं करोमि ते ? ॥ २४३॥ कृष्णोऽप्युवाच खकृत-कर्मदोषोद्भवामिमाम् ॥ पीडां भुजेन कोऽप्यत्र, प्रतिकर्तुं भवेत्प्रभुः ॥ २४४ ॥ ततो रामस्तमाक्रष्टुं, नरकास्नेहमोहितः॥ द्रुतमुत्पाटयामास, पाणियुग्मेन बालवत् ॥ २४५॥ उत्पाटितः स रामेण, वह्निस्थनवनीतवत् ॥ विलीयमान इत्यूचे, विष्णुस्तं गद्गदाक्षरम् ॥ २४६ ॥ मां मुञ्च मुञ्च हे भ्रातः!, प्रयासेनामुना कृतम् ॥ त्वया धुत्पाट्यमानस्य, पीडा मे जायते भृशम् ॥ २४७॥ न च कर्मपरीणामो, देवैरप्यन्यथा भवेत् ॥ तत्प्रयत्नममुं त्यक्त्वा, मदभीष्टमदः कुरु ॥ २४८ ॥ शङ्खचक्रगदाखड्ग-धारिणं गरुडध्वजम् ॥ पीताम्बरं विमानस्थं, कृत्वा मामअनद्युतिम् ॥ २४९ ॥ आत्मानं हलमुसल-धारिणं नीलवाससम् ॥ तालकेतुं विमानस्थं, विकृत्येन्दुच्छविच्छविम्
॥७०॥ ॥ २५०॥ गत्वा च भरतक्षेत्रे, दर्शय त्वं पदे पदे ॥ विशेषतो द्वेषिपुरे-प्वस्मन्नाशप्रमोदिषु ॥२५१॥ [ त्रिभिर्विशेषकम् ] तया दुर्दशया जात-तिरस्कारो यथाऽऽवयोः ॥ उपशाम्यति लोकश्च, वेत्त्यावामविनश्वरी ॥२५२॥
Page #141
--------------------------------------------------------------------------
________________
६ इंदं भ्रातृवचो रामः, स्वीकृत्य भरते गतः ॥ सर्वत्राऽदर्शयद्रूप-द्वयं कृत्वा तथैव तत् ॥ २५३ ॥ तद्वीक्ष्य विस्मि-3
तान् लोका-नित्यूचे च स निर्जरः ॥ आवयोः प्रतिमां कृत्वा, प्रपूजयत भो जनाः !॥ २५४॥ उत्पत्तिस्थितिविध्वंस-कारका वयमेव हि ॥ आगच्छाम इह वर्गा-वर्ग यामश्च लीलया ॥ २५५ ॥ अस्माभिरकाऽकारि, क्षिप्ता संहृत्य चोदधौ ॥ वयमेव च लोकानां, स्वर्गादिसुखदायकाः ॥ २५६ ॥ तदाकर्ण्य जनाः सर्वे, सर्वत्र बलकृष्णयोः॥ अची कृत्वाऽयंस्तेषा-मुदयं च ददौ सुरः॥२५७॥ लोकोऽखिलो विशेषात्त-पूजासक्तोऽभवत्ततः ॥ इति भ्रातुर्वचः कृत्वा, रामः स्वस्थानमासदत् ॥ २५८ ॥ तस्य रामामरस्य प्राग, द्वादशाब्दशतायुषः ॥ खलोक जीवितं जज्ञे, सागराणि दशैव हि ॥२५९॥ ततश्च्युतश्चोत्सर्पिण्यां, भाविन्यां द्वादशाहतः॥ कृष्णजीवस्याऽममस्य, तीर्थेऽसौ सिद्धिमेष्यति ॥२६०॥ काष्ठादिहारकजनादशनादि गृह्णन् , याचापरीषहमसौ बलभद्रसाधुः ॥ सेहे यथा विपुलसत्त्वनिधिस्तथाऽयं, सर्वैरपि प्रतिगणैर्नियतं विषयः॥२६१॥ इति याध्यापरीपहे बलभद्रर्षिकथा ॥१४॥
याध्याप्रवृत्तश्च कदाचिल्लाभान्तरायदोषान्न लभेत इत्यलाभपरीषहमाहमूलम्-परेसु घासमेसिज्जा, भोअणे परिणिट्ठिए । लद्धे पिंडे अलद्धे वा, नाणुतप्पिज संजए ॥ ३०॥
व्याख्या-परेषु गृहस्थेषु प्रासं कवलं एषयेद्वेषयेत् , अनेन मधुकरवृत्तिमाह । भोजने ओदनादौ परिनिष्ठिते निष्पन्ने दसति, पूर्व गमने हि साध्वर्थ पाकादिप्रवृत्तेः । ततश्च लब्धे प्राप्ते 'खल्पे अनिष्टे वा इत्यध्याहारः' पिण्डे आहारे ।
Page #142
--------------------------------------------------------------------------
________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
॥७१॥
अलब्धे वा नानुतप्यत, संयतो मुनिः । यथाऽहो ! ममाऽधन्यता ! यदहं किञ्चिन्नलभे इति पश्चातापं न कुर्वीतेति | है सूत्रार्थः ॥३०॥ किं विमृश्य नानुतप्यतेत्याहमूलम्-अजेवाहं न लब्भामि, अवि लाभो सुवे सिआ। जो एवं पडिसंचिक्खे, अलाभो तं न तजइ॥३॥
व्याख्या-अद्यैव अस्मिन्नेव दिने अहं न लभे, न प्राप्नोमि, अपि सम्भावने सम्भाव्यते एतल्लाभः प्राप्तिःश्वः आगामिनि दिने स्याद्भवेदुपलक्षणत्वादन्येधुरन्यतरेधुर्वा । य एवमुक्तनीत्या 'पडिसंचिक्खेत्ति' प्रतिसमीक्षते, अदीनमनाः सन्नऽलाभमाश्रित्य आलोचयति, 'अलाभों' अलाभपरीषहस्तं न तर्जयेन्नाभिभवेदन्यथाभूतं त्वभिभवेदिति भावः । अत्र लौकिकमुदाहरणं, तथाहि
बलदेवो वासुदेवो, दारुकः सत्यकोऽपि च ॥ अन्यदाश्वैरपहृताः, प्रापरेका महाटवीम् ॥१॥प्रतियामं वारकेण, जाग्रद्भिः स्थेयमात्मभिः॥ इति निश्चित्य ते तत्र, वटस्याधोऽवसन्निशि ॥२॥सुप्तेष्वऽन्येष्वाऽऽद्ययामे, यामिकं तत्र दारुकम् ॥ पिशाचरूपभृत्कोपः, समागत्यैवमऽब्रवीत् ॥३॥ग्रसिष्ये शयितानेता-नहं क्षुत्क्षामकुक्षिकः॥ त्वं रक्षकोऽसि यद्यषां, तन्नियुद्धं प्रदेहि मे ॥ ४ ॥ओमित्युक्त्वा दारुकोऽपि, तेन साकमयुझ्यत ॥ अशक्नुवन् पिशाचं तं, |जेतुमुच्चैश्चुकोप च ॥ ५ ॥ चुकोप दारुकोऽत्यर्थं, पिशाचाय यथा यथा॥ कोपात्मकः पिशाचोऽपि, सोऽवर्धत तथा तथा ॥६॥ वर्द्धमानेन तेनाभि-भूयमानो मुहुर्मुहुः ॥ दारुकः प्रथमं याम, कृच्छ्रेण महताऽत्यगात् ॥७॥ द्वितीय
॥७१॥
Page #143
--------------------------------------------------------------------------
________________
यामे तूत्थाप्य, सत्यकं दारुकोऽखपीत् ॥ तमपि व्याकुलीचक्रे, स पिशाचस्तथैव हि ॥८॥ बलं प्रबोध्य सुष्वाप, सोऽथ यामे तृतीयके ॥ पिशाचोऽपि तथैव द्राक्, बलमप्यबलं व्यधात्॥९॥ अशेत तुर्यप्रहरे,हरिमुत्थाप्य सात्वतः॥ पिशाचस्तु तमप्येव-मभ्येत्योवाच गर्वितः ॥१०॥ सुप्तानेतानहं प्स्यातु- मागतोऽस्मि बुभुक्षितः ॥ विष्णुः प्रोचे मामजित्वा, सहायान् हंसि मे कथम् ? ॥ ११॥ ततः पिशाचगोपीशौ, नियुद्धं चक्रतुर्भशम् ॥ स्फोटयन्ताविव भुजा-स्फोटैब्रह्माण्डसम्पुटम् ॥१२॥ यथा यथोचैर्युयुधे, स पिशाचस्तथा तथा ॥ अहो! तरखी मल्लोय-मित्यतुष्यदृशं हरिः॥ १३॥ कृष्णो यथा यथाऽतुष्य-त्सोऽहीयत तथा तथा ॥ हरिणेति क्षयं नीतो, लघुर्बादं बभूव सः ॥१४॥ | ततः प्रक्षिप्य तं नाभी, ररक्ष मधुसूदनः ॥ तांस्त्रीन्प्रातरपश्यच, धृष्टकूपरजानुकान् ! ॥१५॥ यूयमेवं केन घृष्टाः?, इत्यपृच्छच तान्हरिः ॥ ते प्रोचिरे वयं घृष्टाः, पिशाचेन बलीयसा॥१६॥ ततो निष्कास्य नाभेस्तं, दर्शयन्माधवोऽभ्यधात् ॥ पिशाचरूपः कोपोय-मायातो योऽभवन्निशि ॥ १७ ॥ अनेन युद्धयमानैर्य-धुष्माभिचकुपे भृशम् ॥ तदसौ ववृधे यस्मा-कोपः कोपेन वर्धते ॥ १८॥ वृद्धिं गतश्च युष्माकं, पराभवमसौ व्यधात् ॥ वृद्धिं गता हि दोषाय, द्विट| कोपामिविषद्रुमाः॥ १९॥ मया तु कुर्वता युद्धं, शान्तत्वेनोत्कटोऽप्यऽयम् ॥ प्रापितस्तनुतां यस्मा-त्कोपः क्षान्त्यैव है। जीयते ॥ २०॥ तच्छ्रुत्वा तं पिशाचं च, तथाभूतं समीक्ष्य ते ॥ त्रयोऽपि विस्मिता बहीं, प्रशंसां चक्रिरे हरेः ॥ २१॥ कोपो यथा क्लृप्तपिशाचमूर्ति-मुरारिणा शान्ततया विजिग्ये ॥ जयन्त्यऽलाभं मुनयोऽपि तद्वत् , पूर्वोक्त
Page #144
--------------------------------------------------------------------------
________________
उत्तराध्ययन सूत्रार्थविचिन्तनेन ॥ २२ ॥ इति कोपपिशाचजयकथेति सूत्रार्थः ॥ ३१ ॥ निदर्शनश्चात्र, तथाहि
द्वितीयमध्य द मगधेषु पुरा ग्रामे, पूरवारकसंज्ञके ॥ विप्रो भूपनियुक्तोऽभू-कृषिः पाराशराभिधः ॥ १॥ ग्रामीणैः सोऽन्यदायनम् (२) ॥७२॥
लोकै-राजक्षेत्राणि वापयन् ॥ निर्दयं वाहयामास, वेष्टया सीरशतानि षट् ॥२॥ क्षुधितांस्तृषितान् श्रांतान् , तान् वृषान्मानुषांश्च सः ॥ भोजनावसरे भक्ते, समायातेऽपि नाऽमुचत् ॥ ३॥ किन्तु तैर्व्याकुलैर्गोभिः, कर्षकैश्च पृथक पृथक् ॥ एकैकवारं खक्षेत्रे-ऽवाहयत् हलषदशतीम् ॥ ४॥ ततोऽन्तरायकरणात् , दृढं कर्मान्तरायिकम् ॥ उपायं मृत्वा भ्रान्त्वा च, भवे किमपि पुण्यतः ॥ ५ ॥ द्वारकापुरि कृष्णस्य, वासुदेवस्य नन्दनः ॥ सोऽभवडण्ढणादेवी-1 कुक्षिजो ढण्ढणाभिधः॥६॥[युग्मम् ] क्रमात्स यौवनं प्राप्तो, भूयसी पपुत्रिकाः ॥ पर्यणैषीत्वसौन्दर्या-धरितामरसुन्दरीः ॥ ७॥ श्रीनेमिखामिनः पार्थे, धर्ममाकर्ण्य सोऽन्यदा ॥ विरक्तः प्राव्रजत्कृष्ण-कृतदीक्षामहोत्सवः ॥८॥अधीयानः श्रुतं साध, खामिना विजहार सः॥ तस्यान्तरायिकं कर्मा-ऽन्यदोदयमवाप तत् ॥९॥ ततः स विष्णोः पुत्रोऽपि, शिष्योऽपि त्रिजगद्गुरोः॥ द्वारकायां पुरि वर्ग-लक्ष्मीजित्वरसंपदि ॥ १०॥ महेच्छानां महेभ्यानां, सदनेष्वपि पर्यटन् ॥ भैक्ष्यं किमपि न प्राप, प्राप चेन्नोचितं तदा! ॥११॥ [युग्मम् ] समं तेन गतोऽन्योऽपि, मुनिः किञ्चन नाऽऽनशे ॥ ततो हेतुमलब्धेः श्री-नेमिं पप्रच्छ ढण्ढणः॥१२॥ तत्पूर्वभववृत्तान्तं, ततस्तं प्रभुरभ्यधात् ॥ तं श्रुत्वा गाढसंवेगो, ढण्ढणोऽभ्यग्रहीदिति ॥ १३ ॥ लाभ मुनीनामन्येषां, न भोक्ष्येऽहमऽतः परम् ॥
Page #145
--------------------------------------------------------------------------
________________
अभिगृह्येति स प्राज्ञो, भिक्षायै प्रत्यहं ययौ ॥१४॥ भिक्षा चालभमानः स, नोद्विवेज न वा जनम् ॥ निनिन्द किन्तु खं कर्म-दोषमेव व्यचिन्तयत् ॥ १५॥ अदीनमानसो नित्य-मित्यलाभपरीपहम् ॥ सहमानोऽत्यगात्कालं, कियन्तमपि ढण्ढणः॥ १६ ॥ अथान्यदा नेमिनाथं, पप्रच्छेति नरायणः ॥ एषु खामिविनयेषु, को नु दुष्करकारकः ? ॥ १७॥ उवाच भगवान् सर्वे-ऽप्यमी दुष्करकारकाः। सर्वेषु ढण्ढणमुनि-स्त्वतिदुष्करकारकः !॥१८॥ हरिणा कथमित्युक्ते, तस्य व्यतिकरं प्रभुः ॥ परीषहस्सालाभस्य, सहनादिकमभ्यधात् ॥ १९ ॥ ततो भक्तिभरोदञ्च-द्रोमाञ्चः केशवोऽवदत् ॥ महात्मा ढण्ढणमुनिः, क्वाऽधुना विद्यते ? विभो ! ॥ २०॥ जिनो जगौ स भिक्षार्थ, गतोऽस्ति द्वारकापुरीम् ॥ नगयाँ प्रविशंस्तस्यां, पश्यसि त्वं मुकुन्द ! तम् ॥ २१॥ श्रुत्वेत्यर्हन्तमानम्य, दाशार्हो द्वारकां ययौ ॥ तदीयदर्शनीत्सुक्य-सिन्धुपूरप्रणुन्नहृत् ॥ २२॥ पुर्या च प्रविशन् क्षाम-विग्रहं शान्तचेतसम् ॥ अद्राक्षीत्तं मुनिं मूर्ति-मन्तं धर्ममिवाऽच्युतः ॥ २३॥ ततोऽतिमुदितो विष्णु-भक्तिभावोल्लसन्मनाः॥ उत्ततार करिस्कन्धा-दाकृष्ट इव तद्गुणैः ॥ २४ ॥ इलातलमिलन्मौलिः, प्रणनाम च तं हरिः ॥ निराबाधविहारं च, पप्रच्छ रचिताअलिः ॥ २५॥ विष्णुना वन्द्यमानं च, कश्चिदिभ्यो निरीक्ष्य तम् ॥ दध्यौ महात्मा कोऽप्येष, गोविन्दो यं हि वन्दते ! ॥ २६ ॥ दैवात्तस्यैव धनिनः, सदने ढण्ढणोऽप्यगात् ॥ इभ्योऽपि मोदकांस्तस्मै, श्रद्धाशुद्धाशयो ददौ ॥ २७ ॥ ढण्ढणोऽथ जिनाभ्यणे, गत्वा दर्शितमोदकः ॥ इत्यप्राक्षीकिमु क्षीणं, तन्मे कर्मान्तरा
उ. १३
Page #146
--------------------------------------------------------------------------
________________
उत्तराध्ययनायिकम् ॥२८॥ जिनोऽवादीन्न तत्कर्म, क्षीणं लाभस्त्वयं हरेः ॥ विष्णुना वन्दितो यत्त्वं, तत्तेऽदान्मोदकान
धनी ! ॥ २९ ॥ तच्छृत्वा रागरोषादि-विहीनो ढण्ढणो मुनिः ॥ परलाभममुं नैवो-पजीवामीति चिन्तयन् ॥३०॥8॥ यनम् (२) गत्वा शुद्धस्थण्डिलोव्या, मोदकांस्तानमूर्च्छितः॥ परिष्ठापयितुं धीरः, प्रारेभे क्षोदयन् भृशम् ! ॥३१॥ [युग्मम्]] दध्यौ चैवमहो ! दाढ्य, कर्मणां वज्रलेपवत् ॥ अहो ! तेषाञ्चाक्षयत्वं, चक्रवर्तिनिधानवत् ॥ ३२॥ देवेन्द्रा दानवेन्द्राश्च, नरेन्द्राश्च महाबलाः ॥ नैव कर्मपरीणाम-मन्यथा कर्तुमीश्वराः ! ॥३३॥ ध्यायन्नित्यादि सधान-क्षीणदुष्कर्मसंहतिः ॥ महर्षिढेण्ढणः प्राप, केवलज्ञानमुत्तमम् ॥ ३४ ॥ विहृत्य सुचिरं पृथ्व्यां, भव्यजन्तून् विबोध्य च ॥3 सर्वकर्मक्षयं कृत्वा, क्रमान्मुक्तिमवाप सः ॥ ३५ ॥ इत्यलाभविषयं परीषहं, ढण्ढणपिरधिसोढवान् यथा ॥ सह्यतां मुनिवरैस्तथापरै-रप्यसौ शिवसुखाप्तितत्परैः ॥ ३६॥ इत्यलाभपरीषहे ढण्ढणर्षिकथा ॥१५॥
अलाभाचान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पद्येरन्निति रोगपरीपहमाहमूलम्–णचा उप्पइअं दुक्खं, वेअणाए दुहहिए ॥ अदीणो ठावए पण्णं, पुट्ठो तत्थ हि आसए॥३२॥ __ व्याख्या-ज्ञात्वाऽधिगम्य उत्पतितं उद्धृतं, दुःखयतीति दुःखो ज्वरादिरोगस्तं, वेदनया स्फोटपृष्ठग्रहादिपीडया
॥७३॥ दुःखेनातः क्रियतेस्म दुःखार्तितो दुःखपीडित इत्यर्थः । अदीनो दैन्यहीनः स्थापयेत् , दुःखार्तितत्वेन चलंती स्थिरीकुर्यात् , प्रज्ञां खकर्मफलमेवेदमिति तत्त्वधियं, 'पुट्ठोत्ति'अपेलृप्तत्वात् स्पृष्टोऽपि व्याप्तोऽपि राजमन्दादिभिः, तत्र प्रज्ञा
5A5E09245
Page #147
--------------------------------------------------------------------------
________________
स्थापने सति अध्यासीत अधिसहेत, प्रक्रमाद्रोगजं दुःखमिति सूत्रार्थः ॥ ३२ ॥ ननु चिकित्सया किं न रोगापनोदः क्रियते ? इत्याह
| मूलम् — तेगिच्छं नाभिनंदिज्जा, संचिक्खत्त गवेस ॥ एवं खु तस्स सामण्णं, जं न कुज्जा न कारवे ॥३३॥
व्याख्या - चिकित्सां रोगप्रतिकाररूपां नाभिनन्देन्नानुमन्येत अनुमतिनिषेधाच्च दुरापास्ते करणकारणे । 'संचि - क्खत्ति' प्राकृतत्वादेकारस्य लुप्तस्य दर्शनात् 'संचिक्खे' समाधिना तिष्ठेत् न तु कूजितकर्करायितादि कुर्यात्, | आत्मानं चारित्रात्मानं गवेषयति तदपायरक्षणेन मार्गयति योऽसौ आत्मगवेषकः, किमित्येवमत आह- ' एअंति' एतदनन्तरमभिधीयमानं 'खुत्ति' यस्मात्तस्य श्रमणस्य श्रामण्यं श्रमणभावो, यन्न कुर्यान्न कारयेत् उपलक्षणत्वान्नानुमन्येत प्रक्रमाचिकित्सां । जिनकल्पिकापेक्षञ्चैतत् । स्थविरकल्पिकास्त्वपवादे पुष्टालम्वना यतनया चिकित्सां कारयन्त्यपि, यदुक्तं - "काहं अच्छित्तिं अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ अ सारविस्सं, सालंबसेवी समुवेइ मुक्खं ॥ १ ॥ " इति सूत्रार्थः ॥ ३३ ॥ दृष्टान्तश्चात्र, तथाहि
अभृद्भूर्भूरिभूतीनां, नगरी मथुराभिधा ॥ तत्राऽऽसीच्छत्रु वित्रासी, जितशत्रुर्धराधवः ॥ १ ॥ कालाहां सोऽन्यदा वेश्यां दृष्ट्वा हृद्यतराकृतिम् ॥ चिक्षेपान्तःपुरे स्मेर - स्मरापस्मारविह्वलः ! ॥ २ ॥ भुञ्जानस्य तया भोगां - स्तस्य | राज्ञोऽभवत्सुतः ॥ कालावेश्यासुत इति, कालवैशिकसंज्ञकः ॥ ३ ॥ क्रमेण यौवनं प्राप्तः, प्रसुप्तः सोऽन्यदा निशि ॥
Page #148
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥७४॥
शब्दं श्रुत्वा शृगालानां, पप्रच्छेति खसेवकान् ॥ ४ ॥ शब्दोऽसौ श्रूयते केषां ?, फेरूणामिति तेऽवदन् ॥ कुमारो- द्वितीयमध्यऽथाऽब्रवीदेतान् , बवानयत काननात् ॥ ५॥ तेऽप्येकं जंबुकं बवा-ऽऽनीय तस्मै ददुर्वनात् ॥ क्रीडारतिः कुमा- यनम् (२) रोऽपि, वारं वारं जघान तम् ॥ ६॥ स 'खि' खीति ध्वनिं चक्रे, हन्यमानो यथा यथा॥ तमाकर्ण्य कुमारोन्त-जह-14 पोचैस्तथा तथा ॥७॥मार्यमा व तेनैवंस गोमायुर्व्यपद्यत ॥ अकामनिर्जरायोगा-घन्तरत्वमवाप च ॥८॥
इतश्च स मापसतः, साधूनामन्तिकेऽन्यदा॥श्रुत्वा धर्म विरक्तात्मा, परिव्रज्यामुपाददे ॥९॥प्रतिपन्नोऽन्यदैकाकि| विहारप्रतिमां च सः॥ विहरन्मुद्गशैलाव-पुरेऽगाद्गुणसेवधिः ॥ १०॥ तदा च तस्याऽशोरोगः, प्रादुरासीन्महामुनेः॥ सुदःसहव्यथासिन्धु-प्रवर्तनघनाघनः ॥ ११॥ सोऽत्यर्थ व्याधिना तेन, पीब्यमानोऽपि धीरधीः ॥ न जातु मनसाप्यैषी-द्भिषजं भेषजं तथा ॥ १२॥ कदा यास्यत्यसौ व्याधि-रित्यपि ध्यातवान्न सः॥ किन्तु खकर्मदोषोऽय-मिति ध्यात्वाऽसहिष्ट तम् ॥ १३॥ तत्र चाऽभूत्पुरे श्रीमान् , हतशत्रुर्महीपतिः ॥ कालवैशिकसाधोश्च, खसा तस्य महिष्यऽभूत् ॥ १४ ॥ ज्ञात्वाऽर्शोरोगमुत्पन्नं, सा सोदरमुनेस्तदा ॥ चिकित्साविषयं तस्सा-ऽभिग्रह चाऽवबुध्य तम् ॥ १५ ॥ अर्शीनमौषधं साधे, भिक्षया स्नेहमोहिता ॥ भिक्षाथेमागतायादा-त्तस्मै सोदरसाधवे| ॥ १६॥ [युग्मम् ] सोऽथ भुक्ततदाहार-स्तदन्तर्गतमौषधम् ॥ ज्ञात्वा जातोऽनुतापोन्त-श्चिन्तयामास सन्मुनिः ॥ १७॥ अहो ! अनुपयोगेना-ऽयुक्तमेतन्मया कृतम् ॥ आददे भेषजमिदं, यदर्शीजन्तुनाशनम् ॥ १८ ॥ अभिन
Page #149
--------------------------------------------------------------------------
________________
हस्य भङ्गोऽधिकरणग्रहणं तथा ॥ स्यादाहारार्थिनामेवं, तदाहारं जहाम्यहम् ! ॥ १९ ॥ इति ध्यात्वा स निर्गत्य, पुरादारुय भूधरम् । महासत्त्वः पादपोप - गमनं विदधे मुनिः ॥ २० ॥ तञ्चात्तानशनं ज्ञात्वा - Sरक्षयत्वनरैर्नृपः ॥ अस्योपसर्ग माकार्षी-त्कश्चिदित्यवधारयन् ॥ २१ ॥
इतश्च यो हतस्तेन, शिवोऽभूयन्तरस्तदा ॥ सोऽपश्यत्तं भ्रमन् जात - कोपः प्रायुक्त चावधिम् ॥ २२ ॥ ज्ञात्वा प्राग्भववार्ता तां, वैरनिर्यातनोद्यतः ॥ तं मुनीन्द्रमुपद्रोतुं सवत्सां व्यकरोच्छिवाम् ॥ २३ ॥ नृपाऽऽयुक्ता नरा याव - तस्थुस्ते साधुसन्निधौ ॥ तावत्सा व्यन्तरकृता, शृगाली न जघास तम् ॥ २४ ॥ यदा तु ते नरा जग्मुः, | साधुपार्श्वात्तदा तु सा ॥ शिवा 'खि' खीति कुर्वाणा, तं चखाद मुहुर्मुनिम् ॥ २५ ॥ तां शिवोत्पादितां पीडामर्शोबाधां च दुःसहाम् ॥ स महात्माऽसहिष्टोच्चै - धैर्याऽधरितभूधरः ! ॥ २६ ॥ दुःखे रोगोत्थिते सत्य - प्याऽऽर्तध्यानविधायके ॥ गोमायुत्पादिते चोग्र - रौद्रध्यानानुबन्धके ॥ २७ ॥ समतारसपाथोधि - र्मुनीन्द्रः कालवैशिकः ॥ नार्तरौद्रे व्यधात्किन्तु, धर्मध्यानं दधौ स्थिरम् ॥ २८ ॥ [ युग्मम् ] एवं पञ्चदशाहानि, तां शृगालीकृतव्यथाम् ॥ सहमानो महासत्वः, प्रपाल्याऽनशनं शुभम् ॥ २९ ॥ केवलज्ञानमासाद्य, कृत्वा कर्मक्षयं च सः ॥ महामुनिर्महानन्द - पदं प्राप महाशयः ॥ ३० ॥ [ युग्मम् ] इति रोगपरीषहं यथा, परिषेहे मुनिकालवैशिकः ॥ सकलैरपि साधुभिस्तथा, सहनीयोऽयमुदारसाहसैः ॥ ३१ ॥ इति रोगपरीपहे कालवैशिककथा ॥ १६ ॥
*
Page #150
--------------------------------------------------------------------------
________________
उत्तराध्ययन
रोगिणश्च शयनादिषु दुःसहतरस्तृणस्पर्श इति तत्परीषहमाह
द्वितीयमध्यमूलम्-अचेलगस्स लूहस्स, संजयस्स तवस्सिणो ॥ तणेसु सुअमाणस्स, होजा गाय विराहणा॥३४॥ यनम् (२)
व्याख्या-अचेलकस्य रूक्षस्य संयतस्य तपखिनः तृणेषु दर्भादिषु शयानस्य उपलक्षणत्वादासीनस्य च भवेद्गात्रवि-10 राधना शरीरविदारणा, अत्र च सचेलस्य तपखिनः तृणस्पर्शासम्भव इत्युक्तमचेलस्येति । अचेलस्यापि स्निग्धवपुषो| नातिदुःखाकरस्तुणस्पर्श इत्युक्तं रूक्षस्येति, रूक्षस्यापि हरिततृणग्राहिणस्तापसादिवदसंयतस्य तृणस्पर्शो न व्यथायै | स्यादिति संयतस्येत्युक्तमिति सूत्रार्थः ॥ ३४ ॥ ततः किमित्याहमूलम्-आयवस्स निवाएणं, अउला हवइ वेअणा॥एअंनच्चान सेवंति, तंतुजं तणतजिआ ॥३५॥ __व्याख्या-आतपस्य धर्मस्य निपातेन संपातेन अतुला महती भवति वेदना, ततः किं कार्यमित्याह-एतदनन्तरोक्तं ज्ञात्वा न सेवन्ते तंतुजं वस्त्रं कम्बलं वा, तृणैदर्भादिभिस्तर्जिताः पीडितास्तुणतर्जिताः। अयं भावः-यद्यपि दर्भादितृणविलिखितवपुष आतपोत्पन्नखेदक्लेदवशात् क्षतक्षारनिक्षेपरूपैव पीडा स्यात्तथापि कर्मक्षयार्थिभिर्वस्त्रादिकमनाददानैरा-ध्यानमकुर्वाणैः सा सम्यक् सोढव्या, जिनकल्पिकापेक्षञ्चैतत् । स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद्वस्त्रादि सेव-४ न्तेऽपीति सूत्रार्थः ॥ ३६॥ उदाहरणञ्चात्र, तथाहि
श्रावस्तीनगरीभर्तु-र्जितशत्रुमहीपतेः ॥ भद्राभिधोऽभवत्सूनुः, सात्विकेषु शिरोमणिः ॥१॥ मुनीनामन्तिके
॥ ७५॥
Page #151
--------------------------------------------------------------------------
________________
ECCASON
जैन, धर्म श्रुत्वा विरक्तधीः ॥ स प्रव्रज्यामुपादत्त, क्रमाञ्चाऽभूद्वहुश्रुतः ॥ २॥ प्रतिपद्याऽन्यदेकाकि-विहारप्रतिमा है व्रती ॥ विजहार धरापीठे-ऽप्रतिबद्धः समीरवत् ॥३॥ अन्येधुर्विहरन् सोऽथ, क्वापि राज्यान्तरे गतः ॥ हेरिकोयमिति ज्ञात्वा, जगृहे राजपूरुषैः ॥ ४ ॥ कस्त्वं ? केन चरत्वाय, प्रहितोसीति ? जल्प रे ! ॥ पप्रच्छुरिति तं भूयः, पुरुषाः परुषाः रुषाः॥५॥ व्रती तु प्रतिमास्थत्वा न किमप्युत्तरं ददौ॥ ततस्ते कुपिताः क्षार-दानेन तम-| तक्षयन् ॥ ६॥ निशातखड्गबत्तीक्ष्ण-धारैर्दर्भश्च तं मुनिम् ॥ गाढमावेष्ट्य मुक्त्वा च, ते दुष्टाः खाश्रयं ययुः॥७॥ यतेस्तस्याऽऽमिपं बाढं, समन्तादपि तैः कुशैः॥ विदग्धस्येव वैदग्ध्यं, दुर्विदग्धैरकृत्यत !॥ ८॥ तथापि कलुषं ध्यान-मकुर्वाणः क्षमानिधिः ॥ स सम्यगधिसेहे तं, तृणस्पर्शपरीपहम् ॥९॥ लग्ना शुकशिखाऽप्यऽङ्गे-ऽङ्गिनां क्षोभाय जायते ॥ स तु दक्षो न चुक्षोभ, मांसमग्नैः कुशैरपि !॥ १०॥ एवं तृणस्पर्शपरीपहं यथा-ऽधिसोढवान् भद्रमुनिमहाशयः ॥ तथाऽयमऽन्यैरपि साधुपुङ्गवै-स्तितिक्षणीयः क्षतमोहवैरिभिः॥ ११॥ इति तृणस्पर्शपरीपहे भद्रमहर्षि कथा ॥ १७॥ | तृणानि च मलिनान्यपि कानिचिद्भवन्ति तत्सङ्गमाच परिखेदेन जल्लः सम्भवतीति तत्परीपहमाहमूलम्-किलिण्णगाए मेहावी, पंकेण व रएण वा । प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥ ३६॥
१ पाच्छुरिति तं भूप-पुरुषा ऋषिपुङ्गवम् । इति 'ग' संज्ञकपुस्तके ।
AX
R
Page #152
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ७६ ॥
व्याख्या-क्लिन्नगात्रो व्याप्तदेहो मेधावी स्नानाकरणरूपमर्यादावत, पङ्केन वा खेदार्द्रमलरूपेण, रजसा वा पांशुना, 'घिसुवत्ति ' ग्रीष्मे, वा शब्दाच्छरदि वा, परितापेन हेतुभूतेन, अयंभावः - परितापाद्धि स्वेदः, वेदाच्चपङ्करजसी, ततश्च क्लिन्नगात्रता भवतीति । ततो ग्रीष्मादौ परितापादिना क्लिन्नगात्रोऽपि किं न कुर्यादित्याह - सातं सुखमाश्रित्येति शेषः, नो परिदेवयेत् कथं कदा वा मे मलापगमेन सातं भावीति न प्रलपेदिति सूत्रार्थः ॥ ३६ ॥ किं तर्हि कुर्यादित्याहमूलम् — वेएज निजरापेही, आरिअं धम्ममणुत्तरं ॥ जाव सरीरभेओत्ति, जल्लं कारण धारए ॥ ३७ ॥
व्याख्या - वेदयेत्सहेत, प्रक्रमात् जलजनितं दुःखं, निर्जरापेक्षी आत्यन्तिककर्मक्षयाभिकांक्षी, आर्य सर्वाशुभाचाररहितं, धर्म श्रुतचारित्ररूपं, अनुत्तरं सर्वोत्तमं प्रपन्न इति शेषः । अथ सामर्थ्योक्तमप्यर्थं विशेषाद्वयक्तीकुर्वन्नाह - | जावेत्यादि - यावदिति मर्यादायां, शरीरभेदो देहनाशस्तं मर्यादीकृत्य, जलं मलं कायेनाङ्गेन धारयेत् । दृश्यन्ते हि केपि दवदग्धस्थाणुवद्विच्छायकृष्णकायाः शीतवातादिभिरुपहन्यमाना रजःपुञ्जवगुण्ठिता मलाविलकलेवरा नराः, अकामनिर्जरातश्च न कश्चित्तेषां गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा नो मलापनोदार्थ स्वानादि कुर्यात्, यतः - " न शक्यं निर्मलीकर्तुं, गात्रं स्नानशतैरपि ॥ अश्रान्तमिव स्रोतोभि - र्नवभिर्मलमुद्गिरत् ॥ १ ॥ इति सूत्रार्थः ॥ ३७ ॥ कथानकञ्चात्र, तथाहि—
अभवत्पुरि चम्पायां, सुनन्दो नाम वाणिजः ॥ स च श्राद्धः सर्वपण्यै र्व्यवहारं विनिर्ममे ॥ १ ॥ यदौषधादिकं
द्वितीयमध्ययनम् (२)
॥ ७६ ॥
Page #153
--------------------------------------------------------------------------
________________
तस्य, पार्थे योऽमार्गयन्मुनिः। स तत्तस्मै ददौ दर्पा-ऽऽविष्टः किञ्चिदवज्ञया !॥२॥ तस्य हट्टेऽन्यदा जग्ग-ग्रीष्मकाले महर्षयः ॥ भैषज्यार्थ परिखेद-मलक्लिन्नकलेवराः ॥३॥ तेषां च मलगन्धेना-ऽत्युत्कटेन प्रसर्पता ॥ भेष-18 जानामशेषाणा-मपि गन्धोऽभ्यभूयत ॥४॥ मलगन्धं तमाघ्राय, सुरभिद्रव्यभावितः ॥ सुनन्दोऽचिन्तयत्सर्वोऽप्याऽऽचारो वतिनां शुभः॥५॥ किन्त्वेवमतिदुर्गन्ध-मशेषजनगर्हितम् ॥ यदेते विभ्रति मलं, सर्वथा तन्न सुन्दरम् !॥६॥ इति ध्यायन् स दुष्कर्मो-पार्जयन्मुनिनिन्दया ॥ मृतश्च तदनालोच्य, श्रावकत्वात्सुरोऽभवत् ॥७॥ ततश्च्युतश्च कौशाम्बी-पुर्यां सोऽभून्महेभ्यभूः ॥ प्रावाजीच गुरोः पार्थे, श्रुत्वा धर्म विरक्तधीः॥ ८॥ तस्याऽन्यदा 8 | तन्निर्ग्रन्थ-मलगर्दासमर्जितम् ॥ कर्मोदियाय तेनाऽभू- त्सोऽतिदुर्गन्धविग्रहः ॥९॥ शटत्सादिकुणप-गन्धादप्यधिकं तदा ॥ तदीयदेहदुर्गन्धं, न सोढं कोऽप्यऽभूत्प्रभुः ॥ १० ॥ तद्वपुःस्पृष्टपूर्वेण, वायुनाऽपि जनोऽखिलः ॥ अत्यर्थ व्याकुलश्चक्रे, सर्पणेव प्रसर्पता !॥ ११॥ तदा च यत्र यत्राऽसौ, भिक्षाद्यर्थ ययौ यतिः॥ तत्र तत्र जनः सर्व-स्तद्गन्धेनाऽभ्यभूयत ॥ १२ ॥ तदीयदेहदौर्गन्न्यो-डाहो जज्ञे जने महान् ॥ ततस्तमन्ये मुनयः, प्रोचुरेवं महाधियः ॥ १३॥ मुने ! त्वदङ्गदोर्गन्ध्या-दुड्डाहो जायते भृशम् !॥ तत्त्वया वसतावेव, स्थेयं गम्यं बहिर्न हि ॥१४॥ इत्युक्तो मुनिभिः सोऽथ, दौर्गन्ध्यापनिनीषया ॥ उद्दिश्य शासनसुरी, कायोत्सर्ग व्यधान्निशि ॥ १५॥ ततस्तुष्टा|ऽवदद्देवी, किमभीष्टं करोमि ते ? ॥ ऊचे वाचंयमो देवि !, चारुगन्धं विधेहि माम् ॥ १६ ॥ ततः सुरी सुगन्धं तं,
Page #154
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥७७॥
तथा चक्रे यथा जनः ॥ सर्वस्तदङ्गमाघ्राय, नैषीत्कस्तूरिकामपि !॥ १७॥ अहो ! मुमुक्षुरप्येष, सुगन्धिद्रव्यभा- ४ द्वितीयमध्यवितः॥ सर्वदा तिष्ठतीत्युच्चै-रुड्डाहः पुनरप्यभूत् ॥ १८॥ ततस्तेन विषण्णेन, भूयोऽप्याराधिता सती ॥ गन्धं |
यनम् (२) खाभाविकं तस्य, शरीरे विदधे सुरी ॥ १९॥ इति जल्लपरीषहं यथा, न सुनन्दः प्रथमं विसोढवान् ॥ अपरैरनगारकुञ्जरै-न विधेयं विधिवेदिभिस्तथा ॥ २०॥ इति मलपरीष सुनन्दश्राद्धकथा ॥ १८॥ | जल्लोपलिप्तश्च शुचीन्परान् सक्रियमाणान् पुरस्क्रियमाणांश्च दृष्ट्वा सत्कारपुरस्कारौ स्पृहयेदिति तत्परीषहमाहमूलम्-अभिवायणमब्भुट्ठाणं, सामी कुजा निमंतणं॥जे ताइंपडिसेवंति, न तेसिं पीहए मुणी ॥३८॥
व्याख्या-अभिवादनं शिरोनमनादिपूर्व प्रणमामीत्यादिवचनं, अभ्युत्थानं ससम्भ्रममासनमोचनं, खामी राजादिः कुर्यात् , विदध्यात् निमन्त्रणं, अद्य युष्माभिर्मद्हे भिक्षा गृहीतव्येत्यादिरूपं, ये इति खयूथ्याः परतीथिका वा, तान्यभिवादनादीनि प्रतिसेवन्ते आगमनिषिद्धान्यपि भजन्ते. न तेभ्यः स्पृहयेत् । यथा भाग्यवन्तोऽमी ये इत्थमभिवादनाद्यैः सक्रियन्ते इति यतिर्न चिन्तयेदिति सूत्रार्थः ॥ ३८ ॥ किञ्चमूलम्-अणुकसाई अप्पिच्छे,अण्णाएसी अलोलुए। रसेसु नाणुगिज्झिज्जा,नाणुतप्पेज पण्णवं॥३९॥ ॥ ७ ॥ | व्याख्या-अणुकषायी अल्पकषायी, तादृशो हि नमस्कारादिकमकुर्वते न कुप्यति, तत्संपत्तौ वा नाहंकारवान् भवति, न| वा तदर्थमातापनादि छद्म कुरुते, न च तत्र गृद्धिं विधत्ते । अत एवाल्पेच्छो, धर्मोपकरणप्राप्तिमात्राभिलाषी, न स
Page #155
--------------------------------------------------------------------------
________________
काराद्याकांक्षी । अत एवाऽज्ञातो जातिश्रुतादिभिरेषयति गवेषयति पिण्डादीनीत्यज्ञातैषी । कुतः पुनरेवं ? यतोऽलोलुपः, न सरसौदनादिलाम्पट्यवान् । एवं विधोऽपि सरसाहारभोजिनोऽन्यान् वीक्ष्य कदाचिदन्यथा स्यादत |
आह-रसेषु मधुरादिषु नाऽनुगृद्ध्येत् नाभिकांक्षां कुर्यात् । तथा नाऽनुतप्येत तीर्थान्तरीयान् नृपाद्यैः सक्रियमा४ाणान् प्रेक्ष्य किमहमेषां मध्ये न प्रबजितः ! किं मया स्तोकटोकपूज्या बहुजनपरिभवनीयाः श्वेतभिक्षवः कक्षी-12
कृताः ! इति नाऽनुतापं कुर्यात् , 'पण्णवंति' प्रज्ञावान् हेयोपादेयविवेचननिपुणवुद्धिमान् । अनेन सत्कारकारिणि तोपं,न्यक्कारकारिणि रोषञ्चाकुर्वताऽसौ परीषहोऽध्यासीतव्य इत्युक्तं भवतीति सूत्रार्थः॥३९॥ उदाहरणश्चात्र, तथाहि
वभूव मथुरापुर्या-निन्द्रदत्तपुरोहितः ॥ गवाक्षस्थोऽन्यदाऽद्राक्षी- त्स वजन्तमधो मुनिम् ॥ १॥ साधोरस्य है. शिरस्यचिं, मुञ्चन्नस्मीति चिन्तयन् ॥ यतेस्तस्योपरि द्वेषात् , स स्वपादमलम्बयत् ॥२॥ पुरोहितेन तेनैवं, न्यक्कारे विहितेऽपि सः॥ मनसाऽपि मुनि वा-कुप्यच्छान्तरसोदधिः!॥३॥ तच्च प्रेक्ष्य पुरश्रेष्ठी, श्राद्धोन्तातवानिति॥ ज्ञात्वैवाऽसौ दुरात्मास्य-व्यधान्मूर्ध्नि मुनेः क्रमम् ॥ ४ ॥ तदस्य साधुद्विष्टस्य, पापिष्ठस्य दुरात्मनः ॥ अवश्यं छेद-13 नीयोऽङ्गि-मयोपायेन केनचित् ॥५॥ ध्यात्वेति तस्य छिद्राणि, मार्गयन्नप्यनाम्नवन् ॥ सोऽथ श्रेष्ठी पुरः सूरः
खां प्रतिज्ञामभाषत ॥ ६॥ गुरुर्जगाद सत्कार-न्यकारी हि महर्षिभिः ॥ हर्षखेदावकुर्वद्भिः, सद्यावेव महामते ! G॥७॥ प्रतिज्ञा तदियं श्रेष्ठिन् !, किमर्थं निर्मिता त्वया ? ॥ तदाकर्ण्य जगी श्रेष्ठी, तथ्यमेतन्मुनिप्रभो! ॥८॥
Page #156
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ७८॥
|किन्तु तेन तदावज्ञा, यत्कृता भूयसी मुनेः ॥ उत्पन्नभूरिदुःखेन, तत्सन्धासौ मया कृता ॥ ९॥ किञ्च चेत्साध्वव-||द्वितीयमध्य
ज्ञायाः, फलमस्य न दयते ॥ तदा सर्वेऽप्यऽमी लोका, निःशूकास्तां वितन्वते ॥१०॥ सन्धा चेन्मे न पर्येत. | यनम् (२) है तदा जीवाम्यहं कथम् ? ॥ तत्पूर्तेस्तदुपायं मे, किञ्चिद्रूत मुनीश्वराः ! ॥ ११ ॥ सूरिस्तेनेत्थमत्यर्थ, प्रार्थ्यमानो
नवीदिति ॥ पुरोधसस्तस्य सौधे, वद किं विद्यतेऽधुना ? ॥ १२ ॥ श्रेष्ठी स्माह गृहं नव्यं, कृतमस्ति पुरोधसा ॥
स भूपं तत्प्रवेशाहे, सतनं भोजयिष्यति ॥ १३ ॥ तदर्थमधुना भोज्य, विविधं तत्र जायते ॥ तदाकाऽवदत्सूरि-15 हस्तहाक्षिण्योपरोधतः ॥ १४ ॥ पुरोधसो नव्यसौधे, भुक्त्यथ सपरिच्छदम् ॥ प्रविशन्तं विशामीशं, करे धृत्वा खपा-|
णिना ॥ १५ ॥ प्रासाद एष पतती-त्युदित्वा चापसारयः ॥ तदा चाहं तदागारं, पातयिष्यामि विद्यया ॥ १६॥ [[युग्मम् ] तन्निशम्य तथाऽकार्षी-दिभ्योऽपतच तद्गृहम् ॥ ततः श्रेष्ठी नृपश्रेष्ठ-मित्यूचे तुष्टमानसः ॥ १७॥ युष्मान्हन्तमुपायोज्य-मनेन विहितोऽभवत् ॥न चेन्नव्योऽप्यसौ कस्मा-दकस्मानिलयः पतेत् ? ॥१८॥ ततः क्रुद्धो नृपो बदा-पयत्तस्मै पुरोहितम् ॥ यत्तुभ्यं रोचते श्रेष्ठिं-स्तद्विदध्या इति ब्रुवन् ॥ १९॥ तं साध्ववज्ञावृत्तान्तं, स्मरयित्वा पुरोधसः॥ श्रेष्ठींन्द्रकीले तत्पादं, छेत्तुकामो न्यधात्ततः ॥ २०॥ पुरोधाः कान्दिशीकोऽथा-ऽब्रवीदेवं सगद्गदम् ॥ तं साध्ववज्ञामन्तुं मे, सहख वं महामते ! ॥ २१ ॥ नैवं मुनिजनावज्ञां, करिष्येहमतः परम् ॥ तत्कृपामयशील ! त्वं, कृपां कृत्वा विमुञ्च माम् ॥ २२ ॥ तेनेत्युदीरितः श्रेष्ठी, कृपानिष्ठो मुमोच तम् ॥ जैना हि द्रुत
॥७८॥
Page #157
--------------------------------------------------------------------------
________________
मेव स्यः, क्रुद्धाः अप्याद्रमानसाः!॥ २३ ॥ अथ पिष्टमयीं कृत्वा, मूर्ति तस्य पुरोधसः॥ श्रेष्ठी छित्त्वा च तत्पादं. खां प्रतिज्ञामपूरयत् ॥ २४ ॥ यथेति सत्कारपरीषहं स, श्रेष्ठी न सेहे न तथा विधेयम् ॥ किन्त्वेष सवैप्रतिभिः पुरोधो-ऽवज्ञातवाचंयमवद्विषयः ॥२५॥ इति सत्कारपुरस्कारपरीषहे साधुश्राद्धकथा ॥ १९॥ BI इहात्र पूर्वञ्च श्रावकस्य यत् परीषहाभिधानं तदादिमनयचतुष्कमतेनेति भावनीयम् , उक्तञ्च-“तिण्डंपिणेगमणओ,
परीसहो जाव उज्जुसुत्ताओत्ति” अत्र 'तिण्हंति' त्रयाणां सर्वविरतदेशविरताऽविरतानामिति । साम्प्रतं पूर्वोक्ताशेषपरीपहान् जयतोऽपि कस्यचिज्ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे, तदपगमाच्च प्रज्ञोत्कर्षे, वैक्लव्योत्सेको स्थाता|मिति प्रज्ञापरीषहमाह
मूलम्-से नूणं मए पूवं, कम्मानाणफला कडा। जेणाहं नाभिजाणामि, पुट्टो केणइ कण्हुई ॥ ४० ॥ | व्याख्या-से शब्दो ऽथशब्दार्थ उपन्यासे, नूनं निश्चितं मया पूर्व प्राक् कर्माणि अज्ञानफलानि ज्ञानावरणरू-2 पाणि कृतानि, ज्ञाननिन्दादिभिरुपार्जितानि । यदुक्तं-" ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विघ्नैश्च, ज्ञानघ्नं कर्म बध्यते ॥ १॥” मयेत्यभिधानं च स्वयमकृतस्योपभोगासम्भवादुक्तं हि-"शुभाशुभानि कर्माणि, खयं कुर्वन्ति देहिनः ॥ खयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥१॥" कुत एतदित्याह-येन हेतुनाहं नाभि
उ. १४
Page #158
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥७९॥
जानामि नावबुध्ये, पृष्टः, केनचित् खयमजानता कस्मिंश्चिजीवादी वस्तुनि सुगमेऽपीति सूत्रार्थः ॥ ४० ॥ आह द्वितीयमध्ययदि पूर्व कृतानि कर्माणि तर्हि किं न तानि तदैव वेदितानि ? उच्यते
यनम् (२) मूलम्-अह पच्छा उइज्जंति, कम्मानाणफला कडा । एवमासासि अप्पाणं, नच्चा कम्मविवागयं ॥४१॥
व्याख्या-अथेति वाक्यान्तरोपन्यासे, पश्चादबाधोत्तरकालमुदीयन्ते विपच्यन्ते कर्माण्यज्ञानफलानि कृतानि, द्रव्यादिसाचिव्यादेव तेषां विपाकदानात्ततस्तद्विघातायैव यत्नो विधेयो न तु विषादः, एवममुना प्रकारेण आश्वासय स्वस्थीकुरु आत्मानं मा वैक्लव्यं कृथा इत्यर्थः । उक्तमेव हेतुं निगमयति, ज्ञात्वा कर्मविपाककं कर्मणां कुत्सितविपाकमिति सूत्रार्थः ॥४१॥ इदश्च सूत्रयुग्मं प्रज्ञापकर्षमाश्रित्योक्तं, उपलक्षणत्वाचास्य ज्ञानावरणक्षयोपशमात्प्रज्ञोत्कर्षे-18 ऽपि नोत्सेको विधेय इत्यपि दृश्यं, यदुक्तं-" पूर्वपुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यं । श्रुत्वा साम्प्रतपुरुषाः, कथं खबुद्ध्या मदं यान्ति ? ॥ १॥ इति" निदर्शनश्चात्र, तथाहि| उज्जयिन्यां पुरि खर्ग-जयिन्यां निजसम्पदा ॥ अभवन् कालकाचार्याः, सदोद्यतविहारिणः ॥ १॥ बहुश्रुतानां । निर्ग्रन्थ-धर्माम्भोजविवखताम् ॥ तेषां शिष्यास्तु पार्श्वस्थाः, सर्वे पार्थस्थतां दधुः ! ॥ २ ॥ साध्वाचारेऽप्यनुद्योगाः,
॥ ७९ ॥ सूत्रार्थग्रहणालसाः ॥ शिक्षिता मृदुवाणीभि-रपि तेऽन्तर्दधुः क्रुधम् ॥ ३॥ तथापि शिक्षयामासु- स्तानाचार्याः सुशिक्षया ॥ शुनो कुलवत्ते तु, तत्यजुर्वक्रतां न हि !॥४॥ ततस्ते सूरयः खिन्ना-श्वेतस्येवमचिन्तयन् ॥ स्मार
Page #159
--------------------------------------------------------------------------
________________
दाणादिभिरेतेषां, खाध्यायो मेऽवसीदति ॥ ५॥ गुणश्च कश्चिदप्येषां, मद्वाक्यैव जायते ॥ कर्मबन्धस्तु मे नित्यं,
भवत्येभिरनाश्रवैः ॥ ६॥ विहाय तदमून् क्वापि, गच्छामीति विचिन्त्य ते ॥ शय्यातरश्रावकाय, परमार्थ न्यवेदयन् ॥७॥ ऊचुश्चैवं मयि गते, चेत्स्युः सानुशया अमी ॥ तदा मदाश्रितामाशां, भृशं सन्तयं दर्शयेः !॥८॥ एवमुक्त्वा च मुक्त्वा च, सुप्तांस्तानखिलानपि ॥ निशावसाने सूरीन्द्रा, नगर्या निर्ययुस्ततः॥९॥स्वकीयशिष्यशिष्यस्य, बहुशिष्यस्य धीमतः॥ पार्थे सागरसूरेस्ते, वर्णभूमौ खयं ययुः ॥ १० ॥ अदृष्टपूर्वान् तान्नोपा-लक्षयत्सागरस्ततः ॥ नाऽभ्युत्तस्थौ न चानंसी-दज्ञानं हि रिपूयते!॥ ११॥ नाऽकुप्यन् सूरयो ज्ञाना-त्ते तेनाऽसत्कृता अपि ॥ तस्थुः किन्तु तदभ्यणे, तानच्छच सागरः ॥ १२ ॥ ब्रूहि वृद्धमुने ! कस्मात् , स्थानादत्र त्वमागमः ॥ अवन्त्या इति गाम्भीर्या-म्भोधयः सूरयोऽभ्यधुः!॥ १३॥ विनेयान् पाठयन् सोऽथ, सूरीन्द्रानिति पृष्टवान् ॥ ज्ञातार्थोऽयं श्रुतस्कन्धो, वृद्ध ! ते विद्यते न वा ? ॥ १४ ॥ ज्ञातार्थ इति तैरुक्ते, प्रज्ञाददुवा च सः॥ मया व्याख्यायमानं त्वं, श्रुतस्कन्धममुं शृणु ॥ १५॥ इत्युक्त्वा स विशेषात्तं, व्याख्यातुमुपचक्रमे ॥ प्रज्ञावन्तमसौ वृद्धो, मां जानात्विति चिन्तयन् ! ॥१६॥
इतश्च कालकार्याणां, शिष्यास्ते प्रातरुत्थिताः ॥ निजं गुरुमपश्यन्तो जज्ञिरे भृशमाकुलाः ॥१७॥ पप्रच्छुरिति सम्भ्रान्त-खान्ताः शय्यातरं च ते ॥ अस्मान् विमुच्य गुरवः, व गता इति शंस नः ॥ १८ ॥ सकोप इव सोप्यवं,
Page #160
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥८
॥
स्माह तेषां हितेच्छया ॥ अहो! प्रमादिनो यूयं, विनयादिगुणोज्झिताः! ॥१९॥ दीक्षिताः शिक्षिता नाना-हा-1 द्वितीयमध्यराद्यैः पोषिताश्च यैः ॥ गुरूंस्तानपि नो यूयं, कृतघ्ना वरिवस्यथ ! ॥ २०॥ प्रवर्तध्वं सदाचारे, नुन्ना अपि न
यनम् (२) सूरिभिः॥ तत्का युष्मादृशैः शिष्य-रर्थसिद्धिर्भवेद्गुरोः ? ॥ २१॥ किञ्च यूयं विनेया अ-प्यात्मीयं गुरुमप्यहो!॥ गतं क्वापि न चेद्वित्थ, जानामि तदहं कुतः ? ॥ २२ ॥ उक्ताः शय्यातरेणेति, लजितास्ते पुनर्जगुः ॥ अस्माभिर्या
दृशं चक्रे, फलमासादि तादृशम् ॥ २३ ॥ गुरोर्वियुक्ता हि वयं, निराधारा गतहियः ॥ शोभा नाश्चमहे मौले-भ्रष्टा || इव शिरोरुहाः ॥२४॥ न च तुभ्यमनुक्त्वा ते, व्रजेयुः क्वाऽपि सूरयः ! ॥ दुर्विनीता न च प्राग्य-द्भविष्यामः पुनर्व-13
यम् ॥ २५ ॥ तत्प्रसद्य त्वमस्माकं, ब्रूहि तत्पावितां दिशम् ॥ तानासाद्य यथात्मानं, सनाथं कुर्महे वयम् ! ॥२६॥ इति निर्बन्धपूर्व तैः, पृष्टः शय्यातरोऽपि तान् ॥ जगी गुरोर्विहाराशां, सर्वे तेऽप्यऽचलंस्ततः ॥ २७ ॥ सुवर्णभूमि प्रति तान् , प्रस्थितान् प्रेक्ष्य संयतान् ॥ इत्यपृच्छजनो मार्गे, कोऽसौ ब्रजति सूरिराट् ? ॥ २८ ॥ ते प्रोचुः काल
काचार्या, यान्त्येते गच्छसंयुताः ॥ तल्लोकोक्त्या सागरोऽपि, श्रुत्वा पप्रच्छ कालकान् ॥ २९ ॥ आयात्यवन्त्याः 8 है किमिह, वृद्धर्षे ! मत्पितामहः ? ॥ तेऽवदन् वेड्यदो नाहं, जनोक्त्या तु श्रुतं मया ॥ ३०॥ इतश्च कालकाचार्य
| |॥८ ॥ | शिष्यास्ते निखिला अपि ॥ गवेषयन्तः खगुरू-नाजग्मुः सागरान्तिकम् ॥ ३१॥ तान्वीक्ष्याभ्युत्थितं सन्ति, क पूज्या इति वादिनम् ॥ मुनयः सागराचार्य-मपृच्छन्निति तेऽखिलाः॥३२॥ आगताः सन्ति किमिह, केऽप्या
CAMERASALALACES
Page #161
--------------------------------------------------------------------------
________________
चार्यधुरन्धराः ? ॥ पृष्टस्तैरिति साशंकः, सागरोऽप्यब्रवीदिति ॥ ३३ ॥ आचार्यवर्यानायाता - नत्र नो वेद्मि कांचन ॥ एको वृद्धयतिः किन्तु ज्जयन्या अस्त्युपागतः ! ॥ ३४ ॥ तं वृद्धसाधुमस्माक - मिदानीं दर्शयेति तैः ॥ उदितः सागराचार्य - स्तान्मुनीन्द्रानदीदृशत् ॥ ३५ ॥ तेऽथ तान्प्रत्यभिज्ञाय, सम्प्राप्ताः परमां मुदम् ॥ जगुः सागरमेते हि, सूरीन्द्राः कालकाभिधाः ! ॥ ३६ ॥ शिष्यैरस्मादृशैर्दुष्टै - रविनीतैः प्रमादिभिः ॥ खिन्ना अमी विमुच्यास्मा - नत्रैका किन आययुः ॥ ३७ ॥ प्रमादेन यथास्माभि-रज्ञानेन तथा त्वया ॥ अवज्ञाताः सूरयस्त - त्सागर ! स्मो वयं समाः ! ॥ ३८ ॥ इत्युक्त्वा ते खापराधं, क्षमयाञ्चक्रिरे गुरोः ॥ सागरार्योऽपि सम्भ्रान्तः, सूरीन्नत्वैवमब्रवीत् ॥ ३९ ॥ युष्माकं विश्वपूज्यानां यदज्ञानवशान्मया || आशातना कृता तस्या, मिथ्यादुष्कृतमस्तु मे ! ॥ ४० ॥ वारंवारमुदीयैव- मित्यप्राक्षीच सागरः ॥ श्रुतं व्याख्यामि कीदृक्ष - महं ब्रूत पितामहाः ! ॥ ४१ ॥ सूरीन्द्राः प्रोचिरे वत्स !, भव्यं व्याख्यासि यद्यपि ॥ तथापि गर्व मा कार्षीः, सर्वज्ञो यस्ति कोऽधुना ? ॥ ४२ ॥ इत्युक्त्वा कालकाचार्याः, पलकं वालुकाभृतं ॥ नद्या आनाययं स्तस्य प्रतिधाय धीधनाः ॥ ४३ ॥ स्थाने क्वाऽप्यऽखिलां क्षित्वा, रेणुमुद्धृत्य तां पुनः ॥ द्वितीयस्थानके न्यास्थं - स्ततोऽपि च तृतीयके ॥ ४४ ॥ स्थानेषु बहुषु क्षेपं, क्षेपमेवं समुद्धृताः ॥ वालुका जज्ञिरे स्तोक - तरा भूम्यादिसङ्गतः ॥ ४५ ॥ प्रदर्श्य रेणुदृष्टान्त - मेवं ते सागरं जगुः ॥ वत्स ! नद्यां यथा सन्ति, भूयस्यो वालुकाः खतः ॥ ४६ ॥ विज्ञानमेवं सम्पूर्ण - मनन्तमविनश्वरम् ॥ अभूत्खतो जिनेन्द्रेषु, लोकालो
Page #162
--------------------------------------------------------------------------
________________
उत्तराध्ययन
द्वितीयमध्य| यनम् (२)
॥८१॥
कप्रकाशकम् ॥४७॥ पलकेन यथोपात्ताः, सरितः स्तोकवालुकाः॥ तथा गणधरैः स्तोकं, जिनेन्द्रादाददे श्रुतम्
॥४८॥ स्थाने स्थाने च निक्षिप्यो-त्क्षिप्ताः क्षित्यादिसङ्गतः ॥क्षीयमाणा यथाऽभूवन् , स्तोकाः पलकवालुकाः ४॥४९॥ तथा श्रुतं गणभृता-मप्यागतमनुक्रमात् ॥ कालादिदोषतः शिष्ये- प्वल्पाल्पतरबुद्धिषु ॥५०॥ विस्मृ-1 त्यादेः क्षीयमाण-मल्पमेवाऽथ वर्तते ॥ विवेकिना विमृश्येत्रि, न कार्यों धीमदः क्वचित् ॥५१॥ [ युग्मम् ] एवमेवार्द्रमृत्पिण्ड-दृष्टान्तमपि दर्शयन् ॥ उज्जगार गुरुः प्रज्ञा- मदं मा कुरु सागर ! ॥५२॥ यतः-" मा वहउ कोवि गवं, इत्थ जगे पंडिओ अहं चेव ॥ आसवणुमईओ, तरतमजोगेण मइ विहवा ॥५३॥” प्रतिबुद्धस्तदाकण्ये, सागरो धिषणामदं ॥जहाँ प्राक्तधीदर्प-दोषं चालोचयन्मुहुः॥५४॥सागरक्षपकवन्मुनीश्वरै-! विधेय इति धीमदः क्वचित् ॥ किन्तुकालकमुनीन्द्रवत्सदा, सह्य एव धिषणापरीपहः॥५५॥ इति प्रज्ञापरीषहे सागराचायकथा ॥२०॥ ___ इदश्च प्रज्ञाप्रकर्षमाश्रित्योदाहरणमुक्तं, तदभावे तु स्वयं ज्ञेयमिति, इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वाचाज्ञानस्याज्ञानपरीषहमाह, सोऽपि चाज्ञानभावाभावाभ्यां द्विधव स्यात्तत्र तत्सद्भावपक्षमधिकृस्येदं सूत्रद्वयमुच्यतेमूलम्-णिरहगंमि विरओ, मेहुणाओ सुसंवुडो।जो सक्खं नाभिजाणामि, धम्मं कल्लाणपावगं ॥४२॥ व्याख्या-' निरट्ठगंमित्ति' अर्थः प्रयोजनं, तदभावो निरर्थ, तदेव निरर्थक, तस्मिन् , प्रयोजनं विनेत्यर्थः,
॥८१॥
Page #163
--------------------------------------------------------------------------
________________
विरतो निवृत्तो, मैथुनादब्रह्मणः। सत्यामपि हिंसाद्याश्रवविरतौ यदस्योपादानं तदस्यैवाऽतिगृद्धिहेतुतया दुस्त्यजत्वात् , सुसंवृत इन्द्रियनोइन्द्रियसंवरणेन, योऽहं साक्षात् परिस्फुटं नाभिजानामि, धर्म वस्तुखभावं, 'कल्लाणत्ति लुप्तस्य बिंदोर्दर्शनात्कल्याणं शुभं, पापकं च तद्विपरीतं, चकारस्य गम्यत्वात् । अयं भावो, यदि विरतेः कश्चिदर्थः । सिध्येन्न तदा ममेत्थमज्ञानं सम्भवेदिति ॥४२॥ न च सामान्यचर्ययैव कुतो विशिष्टफलावाप्तिः स्यादिति वाच्यं ? यतः-14
मूलम्-तवोवहाणमादाय, पडिमं पडिवज्जओ। एवंपि विहरओ मे, च्छउमं न णिअदृइ ॥ ४३ ॥ | MT व्याख्या-तपो भद्रमहाभद्रादिः, उपधानमागमोपचाररूपमाचाम्लादि, आदाय आसेव्य, प्रतिमां मासिक्यादि
रूपां प्रतिपद्यमानस्यांगीकुर्वतः, एवमपि विशिष्टचर्ययापि विहरतो निःप्रतिबन्धत्वेनानियतं विचरतः, छद्म ज्ञानाव-12 रणादि कर्म न नैव निवर्त्तते नापति, तत्किमनेन ? कष्टानुष्ठानेनेति यतिर्न चिन्तयेदित्युत्तरसूत्रस्थेन सह सम्बन्ध नीयमिति सूत्रद्वयार्थः ॥४३॥ एवं ज्ञानाभावे व्याकुलत्वं न कार्य, उपलक्षणत्वाचास्य ज्ञानसद्भावे नोत्सेकोऽपि विधेय इत्यप्यवसेयं, यतः-"ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः?॥ अमृतं यस्य विषायते, तस्य
चिकित्सा कथं क्रियते ? ॥१॥ इति । उदाहरणश्चात्र, तथाहि& गंगाकूले स्थिते क्वापि, नगरे भ्रातरावुभौ ॥ श्रुत्वा धर्म गुरोः पार्थे, संविग्नौ भेजतुव्रतम् ॥ १॥ बहुश्रुतस्तयोरे
को-ऽन्यस्त्वभूदबहुश्रुतः ॥ बहुश्रुतो यः स प्रापा-ऽऽचार्यकं खगुरोः क्रमात् ॥ २॥ सूत्रार्थग्रहणाद्यर्थ-मुपसर्पद्भिर
Page #164
--------------------------------------------------------------------------
________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
॥८२॥
न्यहम् ॥ विनेयैः क्षणमप्येकं, स लेभे नाऽह्रि विश्रमम् ॥ ३॥ रात्रावपि च तैरेव, प्रतिपृच्छादिकारिभिः ॥ नैव निद्रासुखं किञ्चि-दपि सूरिर्वभाज सः ॥ ४ ॥ अल्पश्रुतो यस्तद्धाता, स तु भुक्त्वाऽशनादिकम् ॥ वासरे च रजन्यां | च, तिष्ठतिस्म यथासुखम् ॥ ५॥ ततः स सूरिः सततो-जागरेणाऽतिखेदितः॥ उद्विग्नचित्तो नितरा-मित्यन्येधुरचिन्तयत् ! ॥६॥ अहो! सपुण्यो मद्भाता, भुक्त्वा खपिति यः सुखम् ! ॥ अहं त्वधन्यो निद्रातुं, न शक्नोमि निशाखपि!॥७॥ अभ्यस्तं हि मया ज्ञानं, सौख्यायाऽभूत्तु दुःखदम् ! ॥ तन्मूर्खत्वं वरं नूनं, निद्राप्रभृतिसौख्यदम् ! ॥८॥ [ यदुक्तं केनचित् ]" मूर्खत्वं हि सखे ! ममाऽपि रुचितं तस्मिन् यदष्टौ गुणाः, निश्चिन्तो बहुभोजनोऽत्र|पमैना नक्तं दिवा शायकः॥ कार्याकार्यविचारणान्धबंधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुमूर्खः सुखं जीवति ! ॥९॥” दुर्व्यानेनामुना ज्ञाना-वरणीयमुपायं सः ॥ विपन्नस्तदनालोच्य, सुरोऽभृद्रतपालनात् ॥१०॥ ततश्च्युतश्च भरत-क्षेत्रेऽत्रैव स निर्जरः॥ आभीरपल्यामाभीर-खामिनस्तनयोऽभवत् ॥ ११॥ स क्रमाद्यौवनं प्राप्तो, रूपलावण्यशालिनीम् ॥ आभीरतनयामकां, पितृभ्यामुदवायत ॥ १२॥ तस्य साध तया सौख्यं, भुानस्य सुताउजनि ॥ भद्राभिधा वीयरूप-तृणीकृतसुराङ्गना !॥ १३॥ सा कन्यका क्रमान्नव्य-तारुण्येन विभूषिता ॥ जज्ञे समग्रतरुण-चेतोहरिणवागुराः !॥ १४ ॥ न वेषो नाप्युपस्कार-स्तादृशोऽभूत्तथापि सा ॥ खरूपेणैव सर्वेषा-माचकर्ष दृशो विशाम् ॥ १५॥ तस्याः पिताऽन्यदा सर्पि-विक्रेतुं तनयान्वितः ॥ घृतस्य शकटं भृत्वा, चचाल नगरं
॥८२॥
Page #165
--------------------------------------------------------------------------
________________
प्रति ॥ १६ ॥ अनांसि सर्पिःसम्पूर्णा-न्यादायान्येऽपि भूरयः ॥ गोदुहस्तरुणास्तेन, समं चेलुर्मदोत्कटाः ॥ १७॥ ६ तस्याभीरस्य शकटं, भद्रा खयमखेटयत् ॥ शकटानां खेटने सा, ह्यतीवनिपुणाऽभवत् ॥ १८ ॥ ततोऽन्ये गोदुह-8
स्त्यक्त-मार्गास्तस्या दिक्षया ॥ उत्पथे प्रेरयन् क्षिप्र-मनांसि खमनांसि च ॥ १९॥ स्मेरतद्वदनाम्भोज-भ्रमरीकृतदृष्टयः ॥ अखेटयन् खशकटां-स्तदीयशकटान्तिके ॥ २०॥ विश्वैककार्मणं तस्याः, पश्यन्तो रूपमद्भुतम् ॥ प्राप्नुवन्तः शरव्यत्वं, स्मरस्याकृष्टधन्वनः ! ॥ २१ ॥ यथातथा खेटयन्तः, शकटानऽखिलानऽपि ॥ सद्यस्तरुणगोपास्ते, भञ्जयामासुरुत्पथे ! ॥ २२॥ [युग्मम् ] ततः खिन्ना व्यधुस्तस्याः, संज्ञामशकटेति ते ॥ असावशकटातात, इति तजनकस्य च ॥ २३ ॥ तद्वीक्ष्य जातवैराग्य-स्तस्यास्तातो विवाह्य ताम् ॥ तस्यै दत्त्वा च सर्वखं, प्रात्राजीत्साधुसन्निधौ ॥ २४ ॥ स मुनि खगुरोः पार्थे, विधिपूर्वकमार्हतम् ॥ पठति स्म श्रुतं याव-दुत्तराध्ययनत्रयम् ॥ २५ ॥ चतुर्थाध्ययने तस्यो-द्दिष्टेऽसंखयसंज्ञके ॥ कर्मोदियाय तज्ज्ञाना-वरणं प्राग्भवार्जितम् ॥ २६ ॥ आचाम्लयुगलेन द्वौ, दिवसौ जग्मतुः परम् ॥ एकोऽप्याऽऽलापकस्तस्य, सोद्यमस्याऽपि नाऽगमत् ॥ २७ ॥ ततोऽवादीद्गुरुस्तं चेत् , प्रयत्नं कुर्वतोऽपि ते ॥ इदमध्ययनं नाया-त्यनुज्ञा क्रियते तदा ॥ २८ ॥ स प्रोचेऽध्ययनस्याऽस्य, खामिन् ! योगोस्ति कीदृशः? ॥ गुरुर्जगादाऽऽचाम्लानि, कार्याणि पठनावधि ॥ २९ ॥ ततः शिष्योऽभ्यधादस्या-नुज्ञया मेऽधुना कृतम् !॥ आचाम्लानि करिष्येऽहं, यावत्पठनमन्वहम् ! ॥ ३०॥ इत्युक्त्वा स प्रतिदिनं, कुर्वन्नाचाम्लसत्तपः॥
Page #166
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥८३॥
अभ्यस्यति स्माऽध्ययनं, तदनिर्विण्णमानसः!॥३१॥ जडो हि शास्त्रेऽनायाति, तन्निन्दातत्परो भवेत् ॥ स तु| द्वितीयमध्यखकीय कर्मैव, निनिन्द ज्ञानबाधकम् ॥ ३२ ॥ एवं द्वादशभिवर्षे-स्तेनाचाम्लविधायिना ॥ तत्पेठेऽध्ययनं तस्य, यनम् (२) तत्कर्माऽपि क्षयं ययौ ॥ ३३॥ ततोऽसौ द्रुतमेवान्य-दपि श्रुतमधीतवान् ॥क्रमाच केवलज्ञानं, प्राप्य निवृत्तिमासदत् ! ॥ ३४ ॥ इति साधुवरो विसोढ-वानयमज्ञानपरीपहं यथा ॥ अनगारपुरन्दरैः प-रैरपि सह्यः स तथा क्षमापरैः ॥ ३५॥ इत्यज्ञानपरीपहसहनेऽशकटापितृमुनिकथा ॥ ज्ञानसद्भावे तु श्रीस्थूलभद्रोदाहरणं, तथाहि
चतुर्दशानां पूर्वाणां, पारश्चा महामुनिः॥ कदाचित्स्थूलभद्रर्षिः, श्रावस्त्यां समवासरत् ॥१॥ तत्र चाभूत्प्रभोस्तस्य, प्राग्वयस्योऽतिवत्सलः॥ धनदेवाभिधस्तस्य, प्रिया चाऽऽसीद्धनेश्वरी॥२॥ तस्मिन्नन्तुमनायाते, स्थूलभद्रगुरुः स्वयम् ॥ जगाम सुहृदो धाम, तं चाऽपश्यद्धनेश्वरी ॥३॥ ततः सा द्रुतमुत्थाय, तं प्रणम्य च सादरम् ॥ ददावासनमत्युच्चं, तत्र चोपाविशत्प्रभुः॥४॥ धनदेवः कुत्र यातः?, इत्यप्राक्षीच तत्प्रियाम् ॥ सुदीर्घान्साऽपि निःश्वासान्मुञ्चन्तीत्यवदत्तदा ॥५॥स्वामिन्मम प्रियः सर्व, व्ययतेस्म बहिर्धनम् ॥ धनहीनश्चलेभेऽसौ, सर्वत्राप्यति लाघवम् ! ॥६॥ ततः सोऽन्वेषयामास, निधीन् पित्रादिसञ्चितान् ॥ विपर्ययादवस्थाया, न हि तानप्यविन्दत ॥७॥
IN॥८३॥ मम कान्तोऽथ वाणिज्य-हेतोर्देशान्तरे ययौ ॥ लक्ष्मीर्वसति वाणिज्ये, लोकोक्तिमिति भावयन् ॥ ८॥ तच्छ्रुत्वा तस्य गेहं च, वीक्ष्यावस्थान्तरं गतम् ॥ श्रुतोपयोगमकरोत् , स्थूलभद्रगुरुर्गुणी ॥९॥ स्तम्भस्याधः स्थितं दृष्ट्वा, महान्तं
Page #167
--------------------------------------------------------------------------
________________
सेवधिं ततः ॥ तस्य प्रियवयस्यस्यो-पकार कर्तुमुद्यतः॥१०॥ मित्रप्रियायै तं स्तम्भ, दर्शयन् करसंज्ञया ॥ धर्मोपदेशव्याजेने-त्युवाच मुनिपुङ्गवः ॥ ११॥ [युग्मम् ] इदमीक् तच्च तारक, पश्य जातं हि कीदृशम् ॥ इदं च वदतस्तस्या|ऽभिप्रायोऽयमभूगुरोः॥ १२ ॥ इदमीग् द्रव्यजातं, खवेश्मन्येव विद्यते ॥ तथाप्यज्ञानतोऽभूत्त-ड्रमणं तस्य ताहशम् ! ॥ १३ ॥ प्रेक्षख कीदृशं जातं, तदेतदसमञ्जसम् ॥ श्रावकास्तु सहायाता-स्तदाक!त्यचिन्तयन् ॥ १४ ॥ वेश्मेदं चारु वीक्ष्य प्राग्, जीर्णप्रायं च साम्प्रतम् ॥ अनित्यतादर्शनार्थ, भगवन्तो वदन्त्यदः ॥ १५ ॥ तस्यै पुनः पुनःप्रोच्य, स्थूलभद्रोऽपि तत्तथा ॥ पादाजैः पावयन्नुर्वी, विहरनन्यतो ययौ ॥ १६ ॥ आगानिर्धन एवाऽथ, धनदेवो निजं गृहम् ॥ स्थूलभद्रागमं तस्मै, स्माह हृष्टा धनेश्वरी ॥ १७ ॥ सोऽपृच्छत् स्थूलभद्रेण, किमुक्तमिति मे है वद ॥ साऽभ्यधात् स्थूलभद्रो न, किञ्चिदूचे विशेषतः ॥ १८॥ किंत्वेनं स्तम्भमसकृ-दर्शयन्नित्यभाषत ॥ इदमीटक् || तच तादृक्, पश्य जातं हि कीदृशम् ! ॥ १९ ॥ धनदेवस्तदाका -ऽध्यासीदेवं कुशामधीः ॥ नैव निर्हेतुकां चेष्टां, तादृशाः क्वापि कुर्वते !॥२०॥ तन्नूनमस्य स्तम्भस्या-ऽधस्ताद्भावी निधिः क्वचित् ॥ध्यात्वेत्युदखनत् स्तम्भ, निधिश्चावि-18 रभून्महान् ॥२१॥धनदेवो निधेस्तस्मा-नानाविधमणिब्रजम् ॥ आसाद्यापेतदारिद्यो, बभूव धनदोपमः॥२२॥ भगवान् शकटालनन्दनर्षि-न यथा ज्ञानपरीषहं विषेहे ॥ अपरैर्मुनिभिस्तथा न कार्य, भवितव्यं हि पयोधिवद्गभीरैः॥२३॥ इति ज्ञानपरीषहे स्थूलभद्राचार्यकथा ॥ २१॥ साम्प्रतमज्ञानाद्दर्शनेपि कस्यापि शङ्कास्यादिति दर्शनपरीषहमाह
Page #168
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥८४॥
**RESAUSARUSAASAASAASAS
मूलम्- णत्थि नूणं परे लोए, इडिवावि तवस्सिणो। अदुवा वंचिओ म्हित्ति,इइ भिक्खू न चिंतए॥४॥||द्वितीयमध्य
व्याख्या- नास्ति नूनं निश्चितं परलोको जन्मान्तरं, भूतचतुष्टयात्मकत्वाद्वपुषः, तस्य चात्रैव पातादात्मनश्चयनम् (२) प्रत्यक्षतयाऽनुपलभ्यमानत्वात् । ऋद्धिर्वा तपोमाहात्म्यरूपा आमोषध्यादिः, साऽपि नैव विद्यते, अपेर्भिन्नक्रमत्वात्तपखिनोऽपि सतो ममेति गम्यते, तस्या अप्यनुपलभ्यमानत्वादेवेति भावः । 'अदुवत्ति' अथवा वञ्चितोऽस्मि, भोगानामिति शेषः, इति अनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन इत्येतद्भिक्षुर्न चिन्तयेत्। यत आत्मीय आत्मा खप्रत्यक्ष एव, चैतन्यादितद्गुणानां मानसप्रत्यक्षेण खयमनुभवात् , केवलिनां तु सर्वेप्यात्मानः| प्रत्यक्षा एव, ततश्च भूतचतुष्टयात्मकस्याङ्गस्यात्रैव नाशेऽप्यात्मनो भवान्तरगामित्वादस्त्येव परलोक इति। ऋद्धयोडप्यत्र कालानुभावेन न सन्ति परं महाविदेहेषु सर्वदा सन्त्येव । आत्मनो वञ्चनाकल्पनमप्ययुक्तं, भोगानां दुःखात्मकत्वात् , उक्तञ्च-"आपातमात्रमधुरा, विपाककटवो विषोपमा विषयाः ॥ अविवेकिजनाचरिता, विवेकिजनवर्जिताः पापाः ॥ १॥” तपोपि न यातना, दुःखनिबन्धनं, कर्मक्षयहेतुत्वात् , यथाशक्तिविधानाच, यदुक्तं-" सो हु । तवो कायबो, जेण मणो मंगुलं न चिंतेई ॥ जेण न इंदिअहाणी, जेण य जोगा न हायति॥१॥ इति सूत्रार्थः ॥४४॥
॥८४॥ -तथामूलम्-अभूजिणा अस्थि जिणा, अदुवा वि भविस्सई। मुसं ते एवमाहंसु, इइ भिक्खून चिंतए ॥४५॥
Page #169
--------------------------------------------------------------------------
________________
हा व्याख्या-अभूवन्नासन् जिनाः केवलिनः, 'अत्थिति' निपातः ततश्च अस्ति विद्यन्ते जिना महाविदेहेषु,
अथवा भविष्यन्ति जिना इत्यपि मृषा अलीकं, ते जिनास्तत्त्ववादिनः, एवमनन्तरोक्तप्रकारेण आहुः कथयन्ति, इति भिक्षुर्न चिन्तयेत् , अनुमानप्रमाणादिसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ॥ ४५ ॥ निदर्शनं चात्र, तथाहि
वत्साभूमौ भूरिशिष्य-परिवारा बहुश्रुताः ॥ आर्यापाढाभिधाचार्या, बभूवुर्विश्ववत्सलाः ॥ १॥ यो यस्तेषां गणे भक्तं, प्रत्याख्याय व्यपद्यत ॥ तं तं निर्याम्य निर्ग्रन्थ-मित्थं ते सूरयोऽवदन् ॥ २॥ देवभावंगतेनाऽऽशु, देयं मे शर्दनं त्वया ॥ इत्युक्तेऽपि बहूनां तै-नागात्कोऽपि दिवं गतः ॥ ३ ॥ अथाऽन्यदा खशिष्यं ते, निर्याम्यातीव वल्ल-
क्षरम् ॥ ४ ॥ खर्गगतेन भवता, वत्स ! वत्सलचेतसा ॥ अवश्यं दर्शनं देयं.। त्वामिति प्रार्थये भृशम् ॥५॥ मया हि बहुसाधूना- मेवमुक्तमभूत्परम् ॥ नाऽऽगात्कोऽपि त्वं तु वत्सा-ऽऽगच्छेः स्नेहममुं| द स्मरन् ॥ ६ ॥ तत्प्रपद्य विपद्याशु, देवीभूतोऽपि स द्रुतम् ॥ नाययौ प्रथमोत्पन्न- सुरकाविलम्बितः॥ ७ ॥ तस्मि
ननागते सद्यो, विपर्यस्तमना गुरुः ॥ एवं व्यचिन्तयन्नं, परलोको न विद्यते ! ॥ ८ ॥ ज्ञानदर्शनचारित्रा-राधकाः शान्तचेतसः ॥ विहितानशनाः सम्य-ग्मया निर्यामिताः खयम् ॥९॥मद्वाचं प्रतिपन्नाश्च, विनया मम ये मृताः॥5 स्नेहलेष्वपि तेष्वको-ऽप्याऽऽगानो कथमन्यथा ? ॥१०॥[युग्मम् ] तदद्य यावच्चक्रेऽसौ, क्रिया कष्टप्रदा मुधा ॥|| भोगान् हित्वा मनोज्ञांश्च, मयात्मा वञ्चितो वृथा ! ॥ ११॥ भुक्त्वा भोगांस्तदद्यापि, करिष्ये सफलं जनुः ॥ पर
उ. १५
1
Page #170
--------------------------------------------------------------------------
________________
उत्तराध्ययन
CALCONCCCCCCCCCCCCCC
लोके ह्यसति कः, क्लिश्यते कुशलो मुधा! ॥१२॥ विमृश्यति खलिङ्गस्थ, एव मिथ्यात्वमाश्रितः॥ उत्प्रव्रजितुकामो- द्वितीयमध्यऽसी, मुक्त्वा गच्छं विनिर्ययौ ॥१३॥ अत्रान्तरेऽवधिज्ञाना-खरूपं स्वगुरोरिदम् ॥ ज्ञात्वा दिवं गतः शिष्यो, यनम् (२) विषण्णो ध्यातवानिति !॥ १४ ॥ अहो ! मद्रवो जैना-गमनेत्रान्विता अपि॥ विमुक्तिमार्ग मुञ्चन्ति, मोहान्धतम
साकुलाः!॥ १५ ॥ अहो ! मोहस्य महिमा, जगजैत्रो विजृम्भते । जात्यन्धा इव चेष्टन्ते, पश्यन्तोऽप्यखिला जनाः! ४॥ १६ ॥ कुलवानपि धीरोऽपि, गभीरोऽपि सुधीरपि ॥ मोहाजहाति मर्यादां, कल्पान्तादिव वारिधिः ॥ १७॥
तन्मोहप्रेरिता याव-नामी दुष्कर्म कुर्वते ॥ तावदेतान्विबोध्याहं, कुर्वे सन्मार्गमाश्रितान् !॥ १८ ॥ ध्यात्वेत्यागत्य स सुरः, खगुरोर्गमनाध्वनि ॥ ग्राममेकं विचक्रे तत्-पार्थे दिव्यं च नाटकम् ॥१९॥ ततः स सूरिस्तन्नाट्यं,प्रेक्ष्यमाणो| मनोहरम् ॥ ऊर्दू एव हि षण्मासी-मासीत्प्राज्यप्रमोदभाक् ॥ २०॥ शीतातपक्षुधातृष्णा-पण्मासातिक्रमश्रमान् ॥ दिव्यानुभावान्नाज्ञासी-तनाट्यं स विलोकयन् ॥२१॥ तस्मिन्नत्येऽथ देवेन, संहृते सोऽचलत्पुरः॥क्षणमेकं शुभं नाट्यं, दृष्टं दिष्टयेति भावयन् ॥ २२॥ स देवोऽथ तदाकृतं, परीक्षितमलङ्कतान् ॥ षट्र जीवकायसंज्ञान् पद , विदधे बाल
॥८५॥ कान वने ॥२३॥ दृष्ट्वाथ सूरिस्तेष्वाद्यं, भूरिभूषणभूषितम् ॥ इति दध्यौ शिशोरस्या-ऽलङ्कारानाच्छिनन्यहम् ॥२४॥ ४ एपां द्रव्येण भोगेच्छा, चिरं मे पूरयिष्यते ॥ मृगतृष्णाम्बुपानेच्छा-देश्या द्रव्यं विना हि सा ॥२५॥ विमृश्येति |
स तं क्षीर-कण्ठं सोत्कण्ठमब्रवीत् ॥रे ! मुञ्च मुञ्चालङ्कारान् , बालकः स तु नाऽमुचत् ॥ २६ ॥ ततो रुष्टः स तं ||
Page #171
--------------------------------------------------------------------------
________________
*शावं, जग्राह गलकन्दले ॥ सोऽर्भकोऽपि भयोद्धान्त-स्तमित्यूचे सगद्गदम् ॥ २७ ॥ अस्यामटव्यां भीमायां, विभ्य
चौराद्युपद्रवात् ॥ पृथ्वीकायिकसंज्ञोऽह-मस्मि त्वां शरणं श्रितः ॥ २८ ॥ अशाश्वता ह्यमी प्राणा, विश्वकीर्तिश्च | शाश्वती ॥ यशोर्थी प्राणनाशेऽपि, तद्रक्षेच्छरणागतम् ! ॥ २९ ॥ बालं मां दीनतां प्राप्त, पाहि पाहि प्रभो! ततः। तैरेव भूषिता भूर्ये, रक्षेयुः शरणागतम् ! ॥ ३०॥ यतः-" विहलं जो अवलंबइ, आवइपडिअंच जो समुद्धरइ ॥ सरणागयं च रक्खइ, तिसु तेसु अलंकिआ पुहवी ॥३१॥” इत्याधुक्तोऽपि लुब्धात्मा, स सूरिस्तस्य कन्धराम् ॥ यावन्मोटयितुं लग्न-स्तावच्छावः पुनर्जगौ ॥ ३२ ॥ भगवन्नेकमाख्यानं, श्रुत्वा कुर्या यथोचितम् ॥ सूरिजंगाद तद्रूहि, सोप्याख्यत् श्रूयतामिति ॥३३॥ | ग्रामे क्वापि कलालोऽभ-त्स चान्येद्यर्मदं खनन ॥ आक्रान्तः पतता खानि-तटेनेति वचोऽवदत ॥ ३४॥ यत्प्रसादाद्वलिं भिक्षां, ददे ज्ञातींश्च पोषये ॥ साऽप्याऽऽक्रामति भूमिर्मा, तजातं शरणाद्भयम् ! ॥३५॥ यथा ह्याजीविकामुख्य-सौख्यार्थी पृथिवीं श्रितः ॥ वराक कुम्भकारोऽयं, तयैवोपहृतो द्रुतम् ! ॥ ३६ ॥ भगवन्नहमप्येवं, भीतस्त्वां शरणं श्रितः ॥ त्वं च मुष्णासि मां तद्भी-र्ममापि शरणादभूत् ! ॥ ३७॥ तदाकातिदक्षोऽसि, रे ! बालेति वदन् गुरुः ॥ तद्भषणानि जग्राह, निजग्राह च तां शिशुम् ! ॥ ३८॥ तानशेषानलङ्कारा-नक्षिपत्वप्रतिग्रहे ॥ व्रताद्धष्टो हि दक्षोऽपि, निश्शूको जायते भृशम् !॥ ३९॥
Page #172
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥८६॥
ततः पुरो व्रजन् काञ्चि-दतिक्रान्तो वनीं गुरुः॥ बालकं प्राग्वदद्राक्षी-दप्कायाख्यं द्वितीयकम् ॥४०॥ तसिं-II द्वितीयमध्यस्तस्याऽप्यऽलङ्कारां-स्तथैवाऽऽदातुमुद्यते ॥ सोऽप्याऽऽख्याय निजामाख्या-माख्यानं ख्यातवानिति ॥४१॥"एक- यनम् (२) स्तालाचरश्चारु-कथाकथनकोविदः ॥ पाटलाह्वोऽभवद्भरि-सुभाषितरसहृदः॥४२॥ सोऽन्यदा प्रोत्तरन् गङ्गा, नीरपूरैः प्रवाहितः॥ तीरस्थैर्ददृशे लोकै-रित्यूचे च सविस्मयैः॥४३॥ बहुश्रुतं चित्रकथं, गंगा वहति पाटलम् ॥ वाह्यमानाऽस्तु भद्रं ते, ब्रूहि किञ्चित्सुभाषितम् ॥ ४४ ॥ समाकोभयाकर्णि-सकर्णस्तजनोदितम् ॥ श्लोकमेकमनश्लीलं, पाटलोऽप्येवमब्रवीत् ॥ ४५ ॥ येन रोहन्ति बीजानि, येन जीवन्ति कर्षकाः॥ तस्य मध्ये विपद्येत, 8 जातं मे शरणाद्भयम् ! ॥४६॥” कथां प्रोच्येति तद्भावं, चाविष्कृत्य स्थिते शिशौ ॥ कृपां हित्वाऽऽददे सूरि-स्तस्थाप्याभरणव्रजम् ॥ ४७॥ | ततोऽप्यग्रे व्रजस्तेज-स्कायिकाख्यं तृतीयकम् ॥ वीक्ष्यार्भकमभूत्सूरि- स्तद्भूषाग्रहणोद्यतः ॥ ४८ ॥ ततः सोऽपि शिशुः प्राग्व-प्रादुष्कृत्य निजाभिधाम् ॥ इत्थं कथां कथयितं, पटवाक्यैः प्रचक्रमे ॥४९॥ "क्वाप्याश्रमे तापसोऽ-18 भू-त्सर्वदा वह्निपूजकः ॥ तस्योटजेऽनले नैवा-ऽन्यदा दग्धे स इत्यवक् ॥५०॥ यमहं मधुसर्पिा , तर्पयामि दिवा-Ikneen निशम् ॥ दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् !॥५१॥ यद्वारण्यं गतः कश्चि-द्वहि व्याघभिया निशि ॥ अ-I ज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति ॥ ५२ ॥ मया हि व्याघ्रभीतेन, पावकः शरणीकृतः ॥ दग्धं तेन च
Page #173
--------------------------------------------------------------------------
________________
*
गात्रं मे, जातं शरणतो भयम् ! ॥ ५३॥” इत्युक्त्वाख्यानकं तस्यो-पनयं च प्रकाश्य सः॥ तस्थौ शिशुस्ततस्तस्य, भूषणान्याददे गुरुः ॥ ५४ ॥ । ततोऽप्यऽग्रेऽर्भकं वायु-कायाख्यं वीक्ष्य पूर्ववत् ॥ लातुं तस्याप्यलङ्कारान् , सूरिरुद्यमवानऽभूत् ॥५५॥ सोऽपि शावो निजं नाम, प्राग्वत्तस्मै प्रकाशयन् ॥ आख्यानं वक्तुमारेभे, वाग्मित्वं नाटयन्निजम् ॥ ५६॥ “एकः कोऽपि युवा भूरि-बलोऽभूत्पीनभूघनः॥ वातरोगगृहीतं तं, प्रेक्ष्य कोऽपीति पृष्टवान् ॥ ५७॥ लखनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् ॥ याति यष्टिमवष्टभ्य, कस्य व्याधेरुपद्रवात् ? ॥ ५८ ॥ सोऽवादीयो मरुज्येष्ठा-ऽऽषाढयोः सौख्यदो भवेत् ॥ स एव बाधतेऽहं मे, जातं हि शरणाद्भयम् ! ॥५९॥" आख्यानमित्युदित्वा त-द्भावयित्वा च पूर्व
वत् ॥ शिशोः स्थितस्य तथापि, भूषणान्यग्रहीद्गुरुः ॥६०॥ PI भूयोपि पुरतो बालं, प्राग्वदाभरणैर्भूतम् ॥ स वनस्पतिकायाख्यं, पञ्चमं सूरिरेक्षत ॥ ६१ ॥ तस्यापि भूषण
गणं, ग्रहीतुं सोद्यमे गुरौ ॥ सोऽपीत्याख्यानमाचख्यौं, खाभिख्याख्यानपूर्वकम् ॥ ६२॥ “द्रुमे पुष्पफलाकीर्णे, क्वापि केऽप्यऽवसन् खगाः॥ वृक्षो वयं नः शरण-मिति विश्रब्धचेतसः ॥ ६३॥ तेषां च वसतां तत्र, निराबाधमथा-15 न्यदा ॥ अपत्यानि बहून्यन्त-नींडं क्रीडन्ति जज्ञिरे ॥६४॥ इतश्च तस्य वृक्षस्य, पार्थात्काऽप्युद्गता लता॥ तं तरं परिवेष्ट्योचै-रारुरोह द्रुमोपरि ॥६५॥ तया च लतयाऽन्येद्यु-विलग्य भुजगो महान् ॥ आरुह्य तं द्रुमं तानि,
MORSORAS CASAS
*
*
*
*
*
*
Page #174
--------------------------------------------------------------------------
________________
उत्तराध्ययन
11 2011
खगापत्यान्यभक्षयत् ॥ ६६ ॥ ततस्ते विहगाः स्वीया - पत्यविध्वंसदुःखिताः ॥ कुर्वन्तस्तुमुलं प्रोच्चै - रित्थमाहुर्मुहु- ४२ द्वितीयमध्यमिथः ॥ ६७ ॥ अद्य यावत्सुखं वृक्षे, स्थितमन्त्रानुपद्रवे ॥ अस्मादेव लतायुक्ता - दद्याभूच्छरणाद्भयम् ॥ ६८ ॥ इत्युदीर्य कथां तस्या, भावं प्राग्वत् प्रकाश्य च ॥ तस्थुषस्तस्य शावस्या - ऽप्याददे भूषणानि सः ॥ ६९ ॥
यनम् (२)
ततोऽग्रे प्रस्थितः षष्ठं, त्रसकायाख्यमर्भकम् ॥ वीक्ष्य तस्याप्यलङ्कारान् सोऽभूदाच्छेत्तुमुत्सुकः ॥७०॥ निजामाख्यां समाख्याय, सोऽप्याऽऽख्यानचतुष्टयम् ॥ अवादीद्वीन्द्रियादीनां चतुर्णां तत्र सम्भवात् ॥ ७१ ॥ " तथा हि नगरे कापि, परीते परितोऽरिभिः ॥ भीता बहिस्था मातङ्गाः, पुरान्तः प्राविशन् द्रुतम् ॥ ७२ ॥ तांश्च मध्यस्थितै| लोकै- रन्नादिक्षयभीरुभिः ॥ निष्काश्यमानान्नगरा - द्विद्विषोऽपीडयन् भृशम् ॥ ७३ ॥ पुरं नः शरणं भावी - त्याशया विशतोऽपि तान् ॥ निरीक्ष्य दुर्दशां प्राप्तां स्तदा कोऽपीत्यभाषत ॥ ७४ ॥ भीताः पौराः कर्षयन्ति, युष्मान्निघ्नन्ति च द्विषः ॥ तत्वापि यात मातङ्गाः !, जातं शरणतो भयम् ॥ ७५ ॥ प्राग्वत् सोपनये तेन, प्रोक्तेऽप्येवं कथानके ॥ अमुञ्चति गुरौ बालो, द्वितीयामत्रवीत्कथाम् ॥ ७६ ॥ “ नगरे क्वाप्यभूद्भूपः, स च दुष्टो निजैर्नरैः ॥ स्वीय एव पुरे चौर्य, सर्वदाऽचीकरद्भृशम् ॥ ७७ ॥ राज्ञस्तस्य पुरोधास्तु, सर्व जनमभण्डयत् ॥ खिन्नास्ततोऽखिला लोकाः, परस्परमदोऽवदन् ॥ ७८ ॥ यत्र राजा खयं चौरो, भण्डकश्च पुरोहितः ॥ यात पौराः ! पुरात्तस्मा - जातं हि शरणाद्भयम् ॥ ७९ ॥ " कथां सोपनयां प्राग्व-दिमामूचानमप्यमुम् ॥ नाऽनूचानोऽमुचद्भस्तं जनं दुष्ट इव ग्रहः ! ॥ ८० ॥ तत
11 612 11
Page #175
--------------------------------------------------------------------------
________________
स्तृतीयमाख्यानं, वक्तुं प्राक्रस्त सोऽर्भकः॥"तथा हि क्वाप्यभूदामे, द्विजन्मा कोऽपि कामुकः॥८१॥ तस्य चासीत्सुता मध्य- वयोभूषितभूघना ॥ उदग्ररूपलावण्या, जगन्नेत्रसुधाञ्जनम् ॥ ८२॥ अन्यदा तां सुतां वीक्ष्य, रिरंसुः स द्विजोऽभवत् ॥ न हि प्रवलभोगेच्छः, स्थानास्थाने विचारयेत् ॥ ८३॥ तां च कामयमानोऽपि, न सिषेवे स लजया ॥ तत्कामस्थानिवृत्तेश्च, जज्ञे क्षीणतनुभृशम् ॥ ८४॥तं.चातिदुर्बलं प्रेक्ष्य, सनिबन्धं तदङ्गना ॥ अप्राक्षीरक्षामताहेतुं, सोऽप्याचख्यौ यथातथम् ॥ ८५॥ ततः सा व्यमृशद्दक्षा, यद्येनां नामुयादयम् ॥ तदावश्यं विपद्येत, द्राग् दशां दशमीं गतः ॥ ८६ ॥ विधायाकार्यमप्येत-त्तदेनं जीवयाम्यहम् ॥ निजो भर्ता हि पत्नीभि-जीवनीयो यथातथा ॥ ८७ ॥ सा विचिन्त्येति तं प्रोचे, मा कारिधृति प्रिय ! ॥ अहं केनाऽप्युपायन, करिष्यामि तवेहितम् ॥ ८८ ॥ तमित्याश्वास्य सा पुत्री-मिति प्रोवाच दम्भिनी ॥ पूर्व हि नः सुतां यक्षो, भुङ्क्ते पश्चाद्विवाह्यते ॥ ८९॥ कृष्णभूतेष्टानिशायां, तत्त्वं यक्षालयं ब्रजेः ॥ त्वां भोक्तुमुद्यतं तत्रा-ऽऽगतं यक्षं च मानयेः ॥ ९० ॥ हे पुत्रि ! तत्रो-| द्योतं च, मा कार्यक्षमीक्षितुम् ॥ उद्योते हि कृते यक्षः, सरोषमुपयास्यति ॥ ९१ ॥ तच्छ्रुत्वा मातृविस्रम्भा, खी|चक्रे साऽपि तद्वचः॥ विस्रब्धो हि जनोऽकार्य-मपि सद्यः प्रपद्यते ! ॥९२ ॥ रात्रौ च मातृप्रोक्तायां, सा यक्षेक्षणकौतुकात् ॥ शरावस्थगितं दीपं, लात्वा यक्षालयं ययौ ॥ ९३॥ तन्मात्रा प्रहितो भट्टो-ऽप्याऽऽगात्तद्यक्षमन्दिरम् ॥ तां चोपभुज्य निःशंकं, रतश्रान्तोऽखपीत्सुखम् ॥ ९४ ॥ शरावसम्पुटाहीप- माविष्कृत्याऽथ कौतुकात् ॥
Page #176
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ८८ ॥
पश्यन्ती तत्सुता तत्र, तातं दृष्ट्वेत्यचिन्तयत् ॥ ९५ ॥ अहो मया समं माया, मात्राऽपि महती कृता ॥ भर्त्ता तदयमेवास्तु मम किं लज्जयाऽधुना ? ॥ ९६ ॥ किञ्च स्वतातमप्येन-मपशंकं भजाम्यथ ॥ नर्त्तनोद्युक्तनर्त्तक्या, वदनावरणेन किम् ? ॥ ९७ ॥ सा विमृश्येति पित्राऽपि समं रेमे यथारुचि ॥ रतश्रान्तौ च तौ सुप्तौ प्राबुध्येतां प्रगेऽपि न ॥ ९८ ॥ माता तस्यास्ततः कान्त - वियोगोदग्रदुःखतः ॥ अलब्धनिद्रा यामिन्यां प्रातस्तावित्यभाषत ॥ ९९ ॥ उद्गतेऽपि खौ विश्वं, विश्वं स्पृशति चाऽऽतपे || प्रबुद्धेऽप्यऽखिले लोके, हले ! जागर्त्ति नो सुखी ॥ १०० ॥ तत्सवित्रीवचः पूर्व - प्रबुद्धा सा तदङ्गजा ॥ श्रुत्वा तदीयभावं चा - ऽवगम्येत्युत्तरं ददौ ॥ १०१ ॥ मातस्त्वयैव प्रोक्तं मे, यद्यक्षं बहु मानयेः ॥ यक्षेण चाहतस्तात - स्तदन्यं तातमेषय ! ॥ १०२ ॥ इमामाकर्ण्य तद्वाचं, ब्राह्मणीत्यत्रवीत्पुनः ॥ नव मासान् स्वीयकुक्षौ, कष्टेनाऽधारि या मया ॥ १०३ ॥ षिण्मूत्रे च चिरं यस्या, मर्दिते साऽपि नन्दना ॥ मत्कान्तमहरत्तन्मे, जातं शरणतो भयम् ॥ १०४ ॥” पूर्ववद्भावनापूर्व- मित्युक्तेपि कथानके ॥ तेनाऽमुक्तः शिशुस्तुर्यमाख्यानमिदमुक्तवान् ॥ १०५ ॥ “ तथा हि काप्यद्रामे, विप्रः कोऽपि महाधनः ॥ स च धर्मधिया मूढः, सरोवरमचीखनत् ॥ १०६ ॥ तस्य पाल्यां देवकुल-मारामं च विधाप्य सः ॥ प्रवर्त्य छागयज्ञं च, मुहुस्तत्र चकार सः ॥ १०७ ॥ अयं हि धर्मत्राणं मे, परलोके भविष्यति ॥ ध्यायन्निति स यज्ञेषु, छगलानवधीद्वहून् ॥ १०८ ॥ भूदेवः सोऽन्यदा मृत्वा, छागेष्वेवोदपद्यत । सोऽपि छागः क्रमादृद्धिं प्राप्तोऽभूत्पीनभूघनः ॥ १०९ ॥ यज्ञे हन्तुं नीय
द्वितीयमध्ययनम् (२)
11 66 11
Page #177
--------------------------------------------------------------------------
________________
Pमानः, वपुत्रैरेव सोऽन्यदा ॥ खोपज्ञं तत्तटाकादि, दृष्ट्वा खां जातिमस्मरत् ॥ ११० ॥ मयैव कारितमिदं, ममैवाभू
द्विपत्तये ॥ निन्दन्नेवं खकृत्यं स, 'बुबु' शब्दं व्यधान्मुहुः ॥ १११ ॥ तथाभृतं च तं वीक्ष्य, ज्ञानी कोऽपि महा-8 । मुनिः ॥ तत्पूर्वभववृत्तान्तं, विज्ञायैवमवोचत ॥ ११२ ॥ खानितं हि त्वयैवेदं, सरो वृक्षाश्च रोपिताः ॥ प्रवर्तिता | मखाश्चाऽथ, किं 'बुबू ' कुरुषे पशो ! ॥ ११३ ॥ इति साधुवचः श्रुत्वा, स छागो मौनमाश्रयत् ॥ खकर्मण्युदिते । | किं हि, पूत्कारैरिति चिन्तयन् ॥ ११४ ॥ तूष्णीकः साधुवाचाऽय-मजोऽभूदित्यवेत्य ते ॥ अथाऽपृच्छन् द्विजाः | | साधु-मित्याश्चर्यभराकुलाः ॥ ११५ ॥ किमेष मेषो भगव-नाकर्ण्य भवतां वचः ॥ तूष्णीकत्वं दधौ नाग, इव मत्रवशीकृतः?॥ ११६ ॥ मुनिर्जगौ भवत्तातो, मृत्वाऽसौ छगलोऽभवत् ॥ दृष्ट्वा चैतत्तटाकादि, जातिस्मरणमासदत् ॥ ११७ ॥ ततो दुःखाद्बुबुध्वान-मुचैः कुर्वन्मयोदितम् ॥ खकर्मणां दोषममुं, ज्ञात्वा मौनं दधौ द्रुतम् ॥ ११८ ॥ ततस्तदङ्गजाः प्रोचुः, कः प्रत्यय इह प्रभो! ॥ विना प्रत्ययमुक्तं हि, परोक्षं श्रद्दधीत कः ? ॥ ११९॥ साधुरूचे समक्षं वः, प्राग्भवे निहितं वयम् ॥ निधिं चेद्दर्शयत्येष, तदा ह्येतद्यथातथम् ॥ १२०॥ तदाकर्ण्य निधिस्थानं, दर्शये|त्युदितः सुतैः ॥ छागो गत्वा निधिस्थाने, पादाग्रेणाऽखनद्भुवम् ॥ १२१॥ ततस्तत्तनयैर्जात-प्रत्ययैर्यतिसन्निधौ ॥ स छागो मुमुचे जैन-धर्मश्च प्रत्यपद्यत ॥ १२२॥ धर्म श्रुत्वा मुनेस्तस्मा-न्मेषोऽपि प्रतिपद्य सः ॥ विहितानशनः सद्यो, देवभूयमविन्दत ॥ १२३ ॥ प्रेत्य मे शरणं भावी-त्याशया स द्विजो यथा ॥ तटाकादि व्यधात्तच, तस्या
Page #178
--------------------------------------------------------------------------
________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
॥८९॥
| शरणतामगात् ॥ १२४ ॥ एवं मयाऽपि भीतेन, भवन्तः शरणीकृताः॥ चेन्मुष्णन्ति तदा मेऽपि, त्राणमत्राणतां गतम् ॥ १२५ ॥” इत्थं चतुर्भिराख्यान-गुरोस्तेनोदितैरपि॥ न दुर्भावो न्यर्वतिष्टा-ऽसाध्योरोग इवौषधैः॥१२६॥ ततस्तस्याऽप्यलङ्कारान् , सूरिर्जग्राह पूर्ववत् ॥ लुब्धो जनो हि नो द्रव्यै-स्तृप्यत्यधिरिवाम्बुभिः ॥ १२७॥ एवं पण्णां कुमाराणा- मात्तैराभरणबजैः॥ प्रतिग्रहं दुर्विकल्पै-रात्मानं च बभार सः ॥ १२८॥ ततो द्रुतं द्रुतं सूरिः, पुरो गन्तुं प्रचक्रमे ॥ सम्बन्ध्येषां शिशूनां मां, माद्राक्षीदिति चिन्तयन् ॥ १२९ ॥ देवोऽप्येवं परीक्षाभि-स्तं प्रणटव्रताशयम् ॥ ज्ञात्वैकां व्यकरोत्साध्वीं, तत्सम्यक्त्वं परीक्षितुम् ॥ १३० ॥ तां च गुर्वीमलङ्कार-निकरैः परिमण्डिताम् ॥ वीक्ष्य सूरिः ससंरम्भा-रम्भमेवमुवाच सः॥ १३१॥ अजिताक्षी भूरिभूषा-भूपिता तिलकाङ्किता ॥शासनोड्डाहकृदुष्ट-साध्वि ! त्वं कुत आगता ? ॥ १३२ ॥ सूरेस्तस्येति वचनं, श्रुत्वा रोषभराकुला ॥ सा वतिन्यपि निःशङ्क, प्रत्युवाचेति तं द्रुतम् ॥ १३३ ॥रे सूरे ! सर्षपाभानि, परच्छिद्राणि पश्यसि ?॥ आत्मनो बिल्वमात्राणि, पश्यन्नपि न पश्यसि ॥ १३४ ॥ किञ्चैवं शिक्षयन्नन्यं, निर्दोषः खलु शोभते ॥ स्वयं सदोषस्तु परं, न शिक्षयितुसमर्हति ! ॥ १३५ ॥ यदि च त्वं मन्यसे खं, श्रमणं ब्रह्मचारिणम् ॥ समलेष्टुसुवर्ण स-क्रियमुग्रविहारिणम् ॥१३६॥ तदभ्येहि ममाभ्यर्ण-मुत्कर्णः किं प्रणश्यसि ? ॥ विलोकयामि ज्येष्ठार्य !, यथाहं ते प्रतिग्रहम् ॥ १३७ ॥ तयेत्युडाहितः साध्व्या, तूष्णीकः स ब्रजन् पुरः॥ ददर्श सैन्यमागच्छत् , कृतं तेनैव नाकिना॥१३८॥भयोद्धान्तस्ततः सूरिः,
CASSASURESUGASCUS
॥८९॥
Page #179
--------------------------------------------------------------------------
________________
सैन्याध्वानं विहाय सः ॥ नश्यन्नपि नृपस्यैव पुरोगाद्दैवयोगतः ॥ १३९ ॥ नृपोऽपि प्रेक्ष्य तं हस्ति-स्कन्धादुत्तीर्य चाऽनमत् ॥ आह स्म चाऽहो ! भाग्यं मे, यूयं यदिह वीक्षिताः ! ॥ १४० ॥ तत्कृत्वाऽनुग्रहं खामि- न्म - यीदं मोदकादिकम् ॥ एषणीयं प्रासुकं च गृह्यतां गृह्यतां द्रुतम् ॥ १४१ ॥ नाऽद्य भोक्ष्येऽहमित्युचै - वंदन् सूरिस्तु नाssददे || पात्रस्थो भूषणौघो मा, दृश्यतामिति चिन्तयन्। ॥ १४२ ॥ तं मुञ्च मुञ्चेत्यूचानं, भिया भूपस्तु नाऽमुचत् ॥ हिया न नेति जल्पन्तीं नवोढां रमणो यथा ! ॥ १४३ ॥ भूभुजा मुहुराकृष्ट-मपि सूरिः पतद्रहम् ॥ न मुमोच नवोढा स्त्री, भर्त्राकृष्टमिवांशुकम् ! ॥ १४४ ॥ ततः प्रसह्य तत्पाणे - स्तमाच्छिद्य पतद्ब्रहम् ॥ तत्र यावन्नृपः | क्षे-मारेभे मोदकादिकम् ॥ १४५ ॥ तावत्स तानलङ्कारा - न्निरीक्ष्य कुपितो भृशम् ! ॥ तमाचार्यमुवाचैवं, भ्रुकुटीविकटाननः ॥ १४६ ॥ अरे पाप ! त्वया नूनं, पुत्रा व्यापादिता मम ॥ नो चेत्कथममी तेषा - मलङ्कारास्तवान्तिके ॥ १४७ ॥ रे दुष्ट ! द्विष्ठ ! पापिष्ठ !, साधुवेषविडम्बक ! ॥ यास्यसि त्वं कथं जीवन् व्यापाद्य मम नन्दनान् ? ॥ १४८ ॥ श्रुत्वेति भूभृतो भाषां, साध्वसाकुलमानसः ॥ अधोमुखः सोऽनूचानो - ऽनूचानो ध्यातवानिति ॥ १४९ ॥ अहो ! विमूढचित्तेना- कार्यमेतत्कृतं मया ॥ यदेतदीयपुत्राणा - माददे भूषणत्रजः ! ॥ १५० ॥ मत्पातकं च सकलं, ज्ञातं भूखामिनाऽमुना ॥ तदसौ मां कुमारेण, मारयिष्यति केनचित् ! ॥ १५१ ॥ पाप्मनो निखिलस्यापि फलमे - तदुपस्थितम् ॥ इदानीमेव तत्कोऽत्र, शरणं मे भविष्यति ? ॥ १५२ ॥ अथवा पूर्वमेवेद- मविमृश्य व्यधामहम् ॥
Page #180
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥॥
तत्संयमसुखं त्यक्तं, यन्मया भोगकाम्यया ॥ १५३ ॥ तत्रैवं चिन्तयत्येव, मायां संहृत्य तां सुरः ॥ आविर्बभूव द्वितीयमध्यखतनु- द्युतिद्योतितदिङ्मुखः ॥ १५४ ॥ तमित्यूचे च भगवन् !, सोऽहं शिष्योऽस्मि वः प्रियः ॥ खयं निर्याम्य है|यनम् (२) यः पूज्यै- रागन्तुं प्रार्थितोऽभवत् ॥ १५५ ॥ अहं हि व्रतमाहात्म्या-त्सुरोऽभूवं महर्द्धिकः ॥ स्मृत्वा वाक्यं च पूज्यानां, स्ववाग्बद्ध इहाऽऽगमम् ॥ १५६ ॥ मदनागमने कश्चि-त्कालक्षेपो बभूव यः॥ स तु ज्ञेयो नवोत्पन्नदेवकार्याकुलत्वतः॥१५७॥ संयमभ्रष्टचित्तांश्च, युष्मान् बोधयितुं मया ॥ तन्नाट्यं विदधे पूज्यैर्यदृष्टमधुनाऽध्वनि ! ॥ १५८ ॥ मयैव युष्मदाकूत-परीक्षार्थं परिष्कृताः॥ षट्कायाह्वा दारकाः षट् , ससाध्वीका विकुर्विताः ॥१५९ ॥ ततोऽवबुध्य वः प्राज्यं, मोहोन्मादमुदित्वरम् ॥ मयोदपादि सैन्यादि-भयं तद्वंसनाषधम् ॥१६० ॥ शङ्कातङ्कममुं । तस्मा- त्यक्त्वा मोहसमन्वितम् ॥ उन्मार्गगं मनोऽवाप्त-सन्मार्ग कुरुताऽऽत्मनः॥१६१॥ किञ्च-"संकेतदिवपेमा, विसयपसत्तासमत्तकत्तबा ॥ अणहीणमणुअकज्जा, नरभवमसुई न इंति सुरा ॥ १६२ ॥ चत्तारि पंच जोअणसयाई गंधो उ मणुअलोगस्स ॥ उ8 वच्चइ जेणं, नहु देवा तेण आवंति ॥१६॥” इत्याद्यागमवाक्यानि, जानद्भिरपि सूरिभिः ॥ मदनागमनेप्येत-त्कारब्धं किमीदृशम् ? ॥ १६४ ॥ अन्यच दिव्यनाट्यादि-विलोकनकुतू-IPL हलात् ॥ कालं यान्तं बहुमपि, नैव जानन्ति निर्जराः!॥ १६५॥ युष्माभिरपि तद्दिव्य-नाटकाक्षिप्तमानसैः॥४ || ऊर्द्धस्थैरेव षण्मासी, निन्येऽश्रान्तैर्मुहूर्त्तवत् !॥ १६६ ॥ तद्भदन्ताः! विमोहोऽयं, कर्तुं वो नैव युज्यते ॥ कल्पान्तेऽपि
Page #181
--------------------------------------------------------------------------
________________
किमु क्षीरा-म्भोधिरुल्लङ्घतेऽवधिम् ? ॥१६७॥ भवादृशा अपि यदा, कुर्वन्त्येवमनीदृशम् ॥ दृढधर्मा जगति क-स्तदा बन्यो भविष्यति ॥ १६८ ॥ तदुराचरितं सर्व-मालोच्येदं महाधियः! ॥ समाचरत चारित्रं, कर्मकक्षहुताशनम् ॥ १६९ ॥ गीर्वाणवाणीं श्रुत्वेति, प्रतिबुद्धो महाशयः ॥ स सूरिः खदुराचार, भूयो भूयो निनिन्द तम् ॥ १७०॥ वारं वारं च तं देव-मार्याषाढोऽब्रवीदिति ॥ साधु साधु त्वया वत्स !, बोधितोहं महामते ! ॥ १७१॥ अहं हि नरकाध्वानं, प्रपन्नोऽपि खकर्मभिः॥ मोक्षमार्ग त्वयैवाऽथ, प्रापितो भावबन्धुना ॥१७२॥ धर्माद्भष्टस्य मे भूयो, धर्मदानविधायिनः ॥ तवाऽनृणोऽहं नैव स्यां, ब्रवीमि किमतः परम् ? ॥ १७३ ॥ तं देवमभिनन्येति, स्वस्थानमगमदुरुः ॥ आलोचितप्रतिक्रान्त-स्तपोत्युग्रं चकार च ॥ १७४ ॥ सुरोऽपि सूरिं नत्वा तं, प्रमोदभरमेदुरः ॥ क्षमयित्वा
खापराधं, सुरलोकमगात्पुनः ॥ १७५ ॥ नाषाढसूरिरिति दर्शनगोचरं प्राक्, सेहे परीषहममुं न तथा विधेयम् ॥ 16 सूरिः स एव सहते स्म यथा च पश्चा-त्सर्वैस्तथा व्रतिवरैः सततं स सद्यः ॥ १७६ ॥ इति सम्यक्त्वपरीषहे श्रीआपाढाचार्यकथा ॥ २२॥ इत्युक्ता द्वाविंशतिः परीषहाः॥
नन्वते कस्मिन् कस्मिन्कर्मण्यन्तर्भवन्तीति चेदुच्यते-“दंसणमोहे सण-परीसहो पण्ण १ नाण २ पढमंमि ॥ चरिमेलाभपरीसह, सत्तेव चरित्तमोहंमि ॥१॥' अत्र 'पढमंमित्ति' ज्ञानावरणे, 'चरिमेत्ति' अंतराये । अथ यदुक्तं सप्त चरित्रमोहे, इति तानाह-"अक्कोस १ अरइ २ इत्थी ३, निसीहिआ ४ अचेल ५ जायणा ६ चेव ॥ सकार
२०१६ ॥
Page #182
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥९१॥
पुरकारे ७, एक्कारस वेअणिजंमि ॥२॥” यदुक्तं एकादश वेदनीये इति तेऽमी-"पंचेव आणुपुबी ५, चरिआ ६ द्वितीयमध्य. सेजा ७ तहेव जल्ले ८ अ॥ वह ९ रोग १० तणप्फासा ११, सेसेसु नत्थि अवयारो ॥३॥” तथा उत्कर्षतः समकायनम् (२) विंशतिरेव परीषहा उदयन्ते, मिथो विरुद्धयोः शीतोष्णयोश्चर्यानषेधिक्योश्चैकतरस्यैव भावात् । तथाऽनिवृत्तिवादराख्यं नवमगुणस्थानकं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, उदयस्तु पूर्वोक्तहेतोविंशतरेव । सूक्ष्मसम्परायादित्रये तु चतुर्दश, सप्तानां चारित्रमोहप्रतिबद्धानां दर्शनपरीपहस्य च तत्राभावात् , उदयस्त्वेतेषु द्वादशानाम् । सयोगिकेवलिनि एकादश, वेद्यप्रतिबद्धानामेव तत्र सम्भवात् , उदयस्त्विह नवानामिति ॥ साम्प्रतमध्ययनोपसंहारार्थमाहमूलम्-एए परीसहा सवे, कासवेणं पवेइआ।जे भिक्खूण विहणणेजा, पुट्टो केणइ कण्हुइत्ति बेमि ॥४६॥
व्याख्या-एते अनन्तरोक्ताः परीषहाः सर्वे काश्यपेन श्रीमहावीरस्वामिना प्रवेदिताः प्ररूपिता यान् ज्ञात्वेति शेषः, भिक्षुर्न विहन्येत न पराजीयेत, स्पृष्टो बाधितः केनापि द्वाविंशतेरेकतरेणापि, 'कण्हुइत्ति' कस्मिंश्चिद्देशे काले वा इति सूत्रार्थः, 'इतिः' परिसमाप्तौ, ब्रवीमीति प्राग्वत् ॥४६॥ ജയരയരയരയരയരയറുക
ളു इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्याय-टि श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वितीयाध्ययनं सम्पूर्णम् ॥२॥
லைலலைலலை
RAHAS
Page #183
--------------------------------------------------------------------------
________________
“अथ तृतीयाध्ययनम्"
| ॥ अर्हन् ॥ उक्तं परीषहाध्ययनं सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने परीषहसहनमुक्तं, तच किमालम्बनमङ्गीकृत्य कर्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वमालम्बनमाश्रित्येत्युत्तरं, तचालम्बनमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम्
मूलम्-चत्तारि परमंगाणि, दुल्लहाणिह जंतुणो । माणुसत्तं सुई सझा, संजमम्मि अ वीरिअं ॥१॥ PI व्याख्या-चत्वारि चतुःसंख्यानि परमाङ्गानि प्रधानकारणानि, धर्मस्येति शेषः, दुर्लभानि दुःप्रापाणि, इह |
संसारे, जन्तोर्देहिनस्तान्येवाह-मानुषत्वं नरजन्म दुर्लभम् । यतः-“एगिंदिआइजाइसु, परिभममाणाण कम्मवसगाण ॥ जीवाणं संसारे, सुदुलहं माणुसं जम्मं ॥१॥" श्रुति श्रवणं, धर्मस्येति गम्यते, साऽपि दुरवापा । यतः| "आलस्स मोहेवण्णा, थंभा कोही पमाय किंवण्णत्ता ॥ भय सोगा अण्णाणा, वक्खेव कुऊहला रमणा ॥१॥ एएहिं कारणेहिं, लद्भूण सुदुलहंपि माणुस्सं ॥ न लहइ सुई हिअरिं, संसारुत्ताराणं जीवो ॥२॥ इति" तथा श्रद्धा श्रद्धानं, धर्मस्यैव, साऽपि दुर्लभैव । यतः-"कुबोहमिच्छाभिणिवेसजोगओ, कुसत्थपासंडविमोहिआ जणा ॥ न सद्दहंते जिणाणहदेसिअं, चयंति बोहिं पुण केइ पाविअं ॥१॥ इति” । संयमे विरतौ, चः समुच्चये, वीर्य सामर्थ्य,
Page #184
--------------------------------------------------------------------------
________________
उत्तराध्ययन तदपि दुर्लभम् । यतः-"सदहमाणोवि जओ, सम्मं जिणणाहदेसि धम्मं ॥न तरह समायरि, विसयाइपमाय- तृतीयमध्य
विवसमणो॥१॥ इति सूत्रार्थः ॥१॥मानुषत्वादीनां च दुर्लभत्वं कथयता चोलकादयो दश दृष्टान्ताः सूचिताः, ॥९२॥
यनम् (३) तांश्चैवमाविश्वकार नियुक्तिकारः। “चोलग १ पासग २ धण्णे ३, जूए ४ रयणे अ५ सुमिण ६ चक्के अ ७॥ चम्म ८ जुगे९परमाणू १०, दस दिखंता मणुअलंभे॥१॥” तत्र चोलको भोजनं, तदुपलक्षितमुदाहरणं चोलकस्तचैवं, तथा हिI अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामके ॥ ब्रह्माभिधोऽभवद्भप-थुलन्याह्वा च तत्प्रिया ॥ १॥ तयोः पुत्रो ब्रह्म-|| ६ दत्तो, ब्रह्मभूपे मृते सति ॥ चुलनीरतदीर्घाख्य-भूपभीतेः पलायितः!॥२॥ सुहृदा वरधनुना, समं पृथ्व्यां परि-14 है भ्रमन् ॥ सुन्दराकृतिरित्यग्र-जन्मनाऽसेवि केनचित् ! ॥ ३॥ [युग्मम् ] तं भूदेवं भूयसीषु, सहायं दुर्दशाखपि ॥
दिवानिशं सेवमानं, ब्रह्मदत्तोऽब्रवीदिति ॥ ४ ॥ ब्रह्मदत्ताभिधं लब्ध-राज्यमाकर्ण्य मां सखे ! ॥ मत्समीपे त्वयाऽऽगम्य- मनृणः स्यामहं यथा!॥५॥ ओमित्युक्त्वा द्विजः सोऽथ, खस्थानमगमन्मुदा ॥ क्रमेण ब्रह्मदत्तोऽपि, चक्रवर्त्तित्वमासदत् ॥ ६॥ तद्विज्ञाय स विप्रोऽपि, कॉम्पील्यपुरमागमत् ॥ अभिषेकस्तदा चाऽभू-चक्रिणो द्वादशाब्दिकः॥७॥ ततो रविमिवोलूको, ददर्शाऽपि नृपं न सः॥ नाप पाप इव स्वर्गे, प्रवेशमपि तद्गृहे ! ॥ ८॥ विना
IG ॥९२॥ हि गुणवैगुण्ये, दुष्प्रापो भूपसङ्गमः ॥सोऽथ ध्यात्वेति जीर्णानां, चक्रे ध्वजमुपानहाम् ! ॥९॥ अथ द्वादशभिर्वर्षेः, क्रीडायै निर्गते नृपे॥ द्विजस्तं ध्वजमुत्पाट्या-ऽब्रजजधरैः समम् ॥ १०॥ भूपोऽथ तं ध्वजं वीक्ष्य, सर्वध्वजवि
*CALOROSALSAGAURUSALMAUSA
Page #185
--------------------------------------------------------------------------
________________
लक्षणम् ॥ ईदृशोऽयं ध्वजः कस्ये- त्यपृच्छत्पारिपार्श्वकान् ! ॥ ११ ॥ न विद्म इति तैरुक्ते, पार्थिवस्तमजूहवत् ॥ अभ्यर्णमागतं तं च प्रेक्ष्योपालक्षयत्स्वयम् ॥ १२ ॥ दुर्दशासु सहायोऽसौ ममासीदिति चिन्तयन् ॥ गजादुत्तीर्य तं चक्री, सस्नेहं परिषखजे ! ॥ १३ ॥ तस्मै कौशलिकीं वार्ता - मापृच्छयेति नृपोऽवदत् ॥ याचस्व सन्मते ! सद्यो, यतुभ्यं रोचतेऽधुना ॥ १४ ॥ विप्रोऽजल्पत् प्रियां पृष्ट्वा, याचिष्ये त्वामहं विभो ! ॥ विहस्याऽथ नृपः प्रोचे, तां पृष्ट्वा द्रुतमापतेः ॥ १५ ॥ द्विजस्ततो निजग्रामं गत्वाऽप्राक्षीदिति प्रियाम् ॥ चत्री तुष्टो ददातीष्टं, तत्किमभ्यर्थये प्रिये ! ॥ १६ ॥ तन्निशम्येति सा दध्यौ, वृद्धिं प्राप्तो ह्ययं द्विजः ॥ मानयिष्यति मां नैव, सम्पदुत्कर्षगर्वितः ! ॥१७॥ यदुक्तं - " प्रवर्द्धमानः पुरुष-स्त्रयाणामुपघातकः ॥ पूर्वार्जितानां मित्राणां, दाराणां वेश्मनां तथा ॥ १८ ॥ तदस्मै तादृशं किञ्चित्, प्रार्थ्यमर्थं ब्रवीम्यहम् ॥ जीवामः ससुखं येन, न चोत्कर्षः प्रजायते ॥ १९ ॥ ध्यात्वेति साऽभ्यधाद्विप्रं खामिन् ! याचख भोजनम् ॥ दीनारदक्षिणायुक्तं, भरते सर्ववेश्मसु ! ॥ २० ॥ नगरग्रामदेशाद्यै - बहुभिः किं परिग्रहैः ॥ कचाकुलो भवेन्नित्यं तेषां सत्यापनदिना १ ॥ २१ ॥ तत्प्रपद्य ततः सद्यः, सोऽपि गत्वा नृपान्तिके ॥ अयाचत खजायोक्त - मित्यूचे च प्रमोदभाक् ॥ २२ ॥ अहं हि प्राक् भवनेहे, प्रभो ! भोक्ष्ये ततः परम् ॥ त्वदन्तःपुरभूमीशा - ऽमात्यलोकगृहेष्वऽपि ॥ २३ ॥ एवमस्मिन्पुरे भुक्त्वा, परेष्वपि पुरादिषु ॥ भोक्ष्येऽहं भरतक्षेत्रे, सकलेषु यथाक्रमम् ॥ २४ ॥ इत्थं सर्वत्र भुक्त्वा च भोक्ष्ये त्वत्सदने पुनः ॥ इत्यूचानं च तं विप्र-मित्यूचे मेदिनी
Page #186
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥९३॥
पतिः॥२५॥ तुष्टान्मत्तः किमेताव-द्याचसे ? त्वं महामते !॥ प्रत्यक्षात्कल्पवृक्षाकिं, करीरं कोऽपि याचते ? ॥२६॥ तृतीयमध्यत्वमेतद्याचमानो हि, याञाभ्यासान्न लज्जसे !॥ विडम्बनाप्रायमिदं-न त्वहं दातुमुत्सहे ! ॥ २७॥ तत्त्वं वृणुष्व यनम् (३) देशाद्यं, द्रविणं वा यथेप्सितम् ॥ संस्थितश्च ममाभ्यणे, मुंव वैषयिकं सुखम् ॥२८॥ विप्रः प्रोचे न देशाद्यैः, कार्य
मम महीपते! ॥ किन्तु पूर्वोक्तमेव त्वं, देहि चेहातुमीहसे २९ ॥ तदाकर्ण्य नृपोऽध्यासी-दहो! सत्यपि & दातरि ॥ नाऽऽदातुमीष्टे निर्भाग्य-स्तद्ददाम्येतदेव हि ॥ ३०॥ ध्यात्वेति चक्री तद्वाचं, प्रतिप्रद्य खसद्मनि ॥ तस्मै
|भोजनदीनारौ, ददौ दिव्ये च चीवरे ॥ ३१॥ ततः प्रतिगृहं विप्रो, भुआनोऽपि नृपाज्ञया ॥ पारं पुरस्य तस्याऽपि, ४ान प्रापापारसमनः ! ॥ ३२ ॥ तर्हि व भरतक्षेत्र-वेश्मनां प्रान्तमाप्य सः ॥ चक्रवर्तिगृहे भोक्तुं, भूयो वारकमान
यात् ! ॥ ३३ ॥ दिव्यानुभावाद्यदि वा स भूयो-प्युर्वीपतेर्भोजनमश्नुवीत ॥ भ्रष्टो नरत्वान्न तु धर्महीनः, पुनर्नरत्वं कालभते प्रमादी!॥ ३४ ॥ इति चोलकदृष्टान्तः प्रथमः॥१॥ अथ पाशकदृष्टान्तः
तथा हि गोल्लविषये, ग्रामे च चणकाभिधे ॥ चणेश्वरीप्रियो जैन-विनोऽभूचणकाह्वयः ॥१॥ अन्यदा तद्गृहे तस्थु-ज्ञानिनः केऽपि साधवः ॥ तदा च तस्य पुत्रोऽभू-दुद्गतैर्दशनैः समम् ॥ २॥ जातमात्रं च तं बालं, मुनि-
IIm९३ ॥ भ्योऽनमयहिजः॥ हे भदन्ताः! सदन्तोऽसौ, जातोऽस्तीति निवेदयन् ॥३॥ ततस्ते मुनयः प्रोचु-बालोऽयं भविता नृपः॥ तच्छुत्वा चणको भूरि-विषण्णो ध्यातवानिदम् ॥४॥ मत्सुतोऽप्येप मायासी-द्राज्यारम्भैरधोगतिम् ! ॥
Page #187
--------------------------------------------------------------------------
________________
ध्यात्वेति घृष्ट्वा तद्दन्तान् , स साधुभ्यस्तदप्यवक् ॥५॥ मुनयोऽप्यवदन्नव-मयं हि रदघर्षणात् ॥ भविता भूपतिबिम्बा-न्तरितो भरितो गुणैः ॥ ६ ॥ ततस्तस्याऽभिधां चक्रे, चाणक्य इति तत्पिता ॥ सोऽथ शुक्लद्वितीयेन्दु-रिव 2 वृद्धिं दधौ क्रमात् ॥ ७ ॥ कलिन्दिकाः कण्ठपीठे, स चकार खनामवत् ॥ जन्मान्तरानुगामीव, श्राद्धत्वञ्चादितो-४ श्रयत् ॥ ८॥ यौवने पर्यणैषीच, कुलीनां विप्रकन्यकाम् ॥ निर्धनोऽपि हि सन्तोषा-द्रव्यार्थ नोद्यम व्यधात् ! ॥९॥ अन्यदा तत्प्रिया भ्रातु-विवाहेऽगाद्गृहे पितुः ॥ निर्धनत्वेन सामान्य-वेषा भूषणवर्जिता!॥१०॥ महेभ्यब्राह्मणोदूढा-स्तद्भगिन्योऽपरा अपि ॥ तत्राऽऽययुर्महामूल्य-वस्त्रभूषणभूषिताः ! ॥ ११ ॥ तासां परिजनः सर्वश्चक्रे भूयांसमादरम् ॥ वाक्यैः पैजुषपीयूष-भूयः सम्भाषणादिकम् ! ॥ १२ ॥ चाणक्यस्याऽङ्गनां तां तु, न किञ्चि-18 कोऽप्यऽजल्पयत् ॥ आदरो हि भवेत्सर्वः, श्रीणां न तु वपुष्मताम् ॥ १३॥ तां च भूषणताम्बूल-गन्धमाल्यादिवर्जिताम् ॥ बन्धुवर्गो भगिन्यादि-रपि बाढमहीलयत् ॥ १४ ॥ भ्रातृजायादयोऽप्यऽस्याः, प्रतिपत्तिं न चक्रिरे ॥ पतिभेदश्च नियतं, भोजनादावपि व्यधुः!॥ १५॥ ततोऽतिलजितोद्विग्ना, दौःस्थ्यात्प्राप्ता पराभवम् ॥ कथञ्चिदपि वीवाह-मतिबाहयति स्म सा ॥ १६ ॥ विवाहोत्सवपूतौ तु, सा खीयैरेव चीवरैः ॥ आगात्पत्युहे शोकस्रवदश्रुजलाविला ॥ १७ ॥ चाणक्येनाऽथ तहुःख-दुःखिना दुःखकारणम् ॥ पृष्टाऽपि सा तत्कुस्थान-व्रणवन्न ह्रियाऽवदत् ॥ १८॥ ततो भा सनिर्बन्ध-मुक्ता मुक्तागणोपमम् ॥ मुञ्चन्त्यश्रुव्रज स्माह, कथञ्चित्तं पराभवम् ॥१९॥
Page #188
--------------------------------------------------------------------------
________________
उत्तराध्ययनातं निशम्याऽथ चाणक्य-श्वेतसीति व्यचिन्तयत् ॥ नूनं जगति दारिद्यं, सोच्छ्रासं मरणं नृणाम् ! ॥२०॥ परं तृतीयमध्य
पराभवस्थानं, विशां दारिद्यमेव हि ॥ येन मातु,हेप्येवं, प्रापदेषा पराभवम् ! ॥ २१॥ प्रकाशयन्ति धनिना-मस- यनम् (३) ॥ ९४॥
त्यामपि बन्धुताम् ॥ लजन्ते दुर्गतैर्लोका-स्तात्विकखजनैरपि ! ॥ २२॥ कलावान् कुलवान् दाता, यशवी रूपवानपि ॥ विना श्रियं भवेन्मयो, निस्तेजाः क्षीणचन्द्रवत् ॥२३॥ दौःस्थ्यनाशाय तत्किञ्चि-दातारं प्रार्थये स्वयम् ॥ द्विजन्मनां हि याचव, निधानं परमं मतम् ॥ २४ ॥ मम दौःस्थ्यापनोदस्तु, भावी राजैव केनचित् ॥ तापोपशान्तिः शैलस्य, न हि स्यान्मेघमन्तरा ॥ २५॥ ददाति नन्दभूपश्च, विप्राणां बहुलं धनम् ॥ विमृश्येति जगाम द्राक, चाणक्यः पाटलीपुरम् ॥ २६ ॥ सोऽथ कार्तिकराकायां, पूर्वन्यस्तासनव्रजाम् ॥ गत्वाऽऽस्थानसभां नन्द-नृपासनम|शिश्रियत् ॥२७॥ अथ राजसभा नन्द-महीपतिरुपागमत् ॥ एकेन सिद्धपुत्रेण, निमित्तज्ञेन संयुतः॥ २८॥ तत्रस्थं वीक्ष्य चाणक्यं, सिद्धपुत्रोऽब्रवीदिति ॥ विप्रोऽसौ नन्दवंशस्य, छायामाक्रम्य तिष्ठति ॥ २९ ॥ ततश्चाणक्यमुशिदास्युवाचेति सादरम् ॥ भगवन्निदमध्याख, द्वितीर्य सिंहविष्टरम् ॥ ३०॥ स्थास्यत्यस्मिन्नासने म-कमण्डलुरिति ब्रुवन् ॥ स तत्र कुण्डिकां न्यास्थ-नाऽत्याक्षीदाद्यमासनम् ॥ ३१ ॥ तृतीयमेवं दण्डेन, चतुर्थश्चाक्षमालया ॥ पञ्चमं |
॥ ९४॥ ब्रह्मसूत्रेण, सोऽरुन्धनमनाटयन् ॥ ३२॥ ततो दासी जगौ धार्य-महो! अस्य द्विजन्मनः॥ यदेवमुच्यमानोऽपि, न मुञ्चत्याद्यमासनम् ॥ ३३ ॥ तद्विप्रेणाऽपि धृष्टेन, किमनेनेति वादिनी ॥ सा निहत्याऽङ्गिणा वेगा-चाणक्यमुद
Page #189
--------------------------------------------------------------------------
________________
तिष्ठिपत् ॥ ३४ ॥ तया दास्येति चाणक्यो ऽधिक्षिप्तः प्रज्वलन् क्रुधा ॥ समक्षं सर्वलोकाना -ममुं चक्रे प्रतिश्रवम् ॥३५॥ "कोशैश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः ! ॥ ३६ ॥ प्रतिश्रुत्येति चाणक्यो, निरगान्नगराद्वहिः ॥ अनेन भिक्षुणा किं स्या - दिति राज्ञाप्युपेक्षितः ! ॥ ३७ ॥ पित्रा प्रोक्तं स्मरन् बिम्बा - न्तरितं राज्यमात्मनः ॥ बिम्बभूतं नरं सोऽथ प्रातुकामोऽभ्रमद्भुवि ॥ ३८ ॥ मयूरपोषकग्रामं, सोथागान्नन्दभूपतेः ॥ परित्राजकवेषेण, भिक्षार्थं तत्र चाऽभ्रमत् ॥ ३९ ॥ तत्रासीद्वामणीपुत्र्याः, शशभृत्पानदोहदः ॥ तं च पूरयितुं कोऽपि नाशकन्मतिमन्तरा ॥ ४० ॥ तस्याऽपूत्तौ च सा बाला, लतेव तनुतां दधौ ॥ स्त्रीणां हि दोहदापूर्ति - व्याधिमरणं स्मृतम् ! ॥ ४१ ॥ तदा च प्रेक्ष्य चाणक्यं, तस्याः पित्रादिबन्धवः ॥ इत्यपृच्छंश्चन्द्रपान - दोहदः पूर्यते कथम् १ ॥ ४२ ॥ चाणक्योऽथ जगादैवं, तत्सुतं दत्त चेन्मम ॥ तदाहं दोहदं तस्यास्त्वरितं पूरयाम्यमुम् ॥ ४३ ॥ अपूर्णदोहदा गर्भा - न्विता मा म्रियतामियम् ॥ तैर्विमृश्येति चाणक्य - वचनं प्रतिपेदिरे ॥ ४४ ॥ सच्छिद्रमथ चाणक्यो - ऽचीकरत्पटमण्डपम् ॥ तस्योर्द्धञ्चाऽमुचच्छन्नं नरं छिद्रपिधायकम् ॥ ४५ ॥ छिद्रस्य तस्य चाऽधस्ता - न्यधात्स्थालं पयोभृतम् ॥ निशीथे कार्त्तिकीचन्द्र - स्तत्र प्रतिमितिं दधौ ॥ ४६ ॥ प्रति| विम्बं च तच्चान्द्र-मन्तर्वत्याः प्रदर्श्य सः ॥ पिबेत्यूचे ततस्तुष्टा, तत्पातुं सा प्रचक्रमे ॥ ४७ ॥ चन्द्रपानधिया | स्थाल - पयः साऽपाद्यथायथा ॥ पिदधे मण्डपछिद्र - मुपरिस्थस्तथा तथा ॥ ४८ ॥ एवं दोहदमापूर्य, तस्याः पृथ्व्यां
++++6+6+%
Page #190
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥९५॥
ANSAR
परिभ्रमन् ॥ चाणक्यो धातुवादाद्यैः, प्रारेभे द्रविणार्जनम् ॥ ४९ ॥ सम्पूर्णदोहदा साऽपि, समये सुषुवे सुतम् ॥ तं ॥ तृतीयमध्यच पित्रादयश्चन्द्र-गुप्तनामानमूचिरे ॥ ५० ॥ ववृधे चन्द्रगुप्तोऽपि, खजनान् मोदयन् क्रमात् ॥ औदार्यधैर्यगाम्भीर्य- यनम् (३) | सौन्दर्यादिगुणैः समम् ॥ ५१॥ स बालकैः सह क्रीडां, कुर्वन्नुर्वीशवत्सदा ॥ ददौ ग्रामादिकं तेषां, हयीकृत्यारोह
तान् ॥५२॥ तं द्रष्टुकामश्चाणक्यो, भ्रमंस्तत्राऽन्यदा ययौ । अपश्यञ्चन्द्रगुप्तं च, क्रीडन्तं भूपलीलया ॥ ५३॥ |महाराज ! ममाऽपि त्वं, किञ्चिदेहीति चाऽब्रवीत् ॥ ततश्चन्द्रोऽवदद्विप्र!, गृहाण सुरभीरिमाः॥ ५४॥ चाणक्योऽथाऽब्रवीदेता, गावो गृह्णन् विभेम्यहम् ॥ बमाण चन्द्रो मा भैषी-वीरभोग्या हि भूरियम् ॥ ५५ ॥ ततः पप्रच्छ चाणक्यः, कस्यायमिति बालकान् ? ॥ शिशोरप्यस्य विज्ञानं, प्रकृष्टमिति चिन्तयन् ॥ ५६ ॥ जगुर्बालाः परिव्राजः, पुत्रोऽसौ विप्र ! वर्तते ॥ गर्भस्थोऽप्येष यत्तस्मै, दत्तो दोहदपूरणात् !॥ ५७ ॥ चाणक्योऽथ खकीयं तं, बालं | ज्ञात्वेत्यभाषत ॥ एहि वत्स ! ददे राज्यं, यस्मै दत्तोऽसि सोऽस्म्यहम् ॥५८॥ तच्छ्रुत्वा द्रुतमायातं, हृत्वा तं राज्य कांक्षिणं ॥ चाणक्यो द्राक् पलायिष्ट, सलोपत्र इव तस्करः॥ ५९॥ धातुवादार्जितद्रव्यैः, सेनां कृत्वाऽथ काञ्चन ॥ | रुरोध पाटलीपुत्रं, प्रतिज्ञापूरणाय सः॥६०॥ ततो नन्देन तत्सैन्ये, खल्पत्वाद्विद्रुते द्रुतम् ॥ चाणक्यश्चन्द्रगुप्तेन, समं ॥९५ ॥ सद्यः पलायत !॥६१॥ ततो नन्दश्चन्द्रगुप्त, ग्रहीतुं सादिनो बहन॥आदिश्य प्राविशत्तुष्टैः, पौरैः कृप्तोत्सवे पुरे ॥६२॥ तेषां नन्दाश्ववाराणां, मध्यादेकः समाययौ ॥ चन्द्रगुप्तमनुक्षिप्रं, वायुवेगेन वाजिना॥ ६३ ॥ दूराद्वीक्ष्य तमायान्तं,
Page #191
--------------------------------------------------------------------------
________________
चाणक्यश्चारुधीनिधिः ॥ प्रावीविशञ्चन्द्रगुप्तं, सवेशस्थे सरोवरे ॥ ६४ ॥ स्वयं तु निर्णेजकवत् प्रारेभे वस्त्रधावनम् ॥ तत्राऽऽयातोऽथ नन्दाश्व - वारस्तमिति पृष्टवान् ॥ ६५ ॥ चन्द्रगुप्तो ब्रजन्नत्र, दृष्टो रे ! रजक ! त्वया ॥ सोप्यूचेऽन्तःसरो नंष्ट्वा, प्रविष्टः स हि विद्यते ॥ ६६ ॥ ततः सादी तमात्रष्टुं, प्रविविक्षुः सरोन्तरे ॥ उत्तीर्य तुरगाच्छन- सन्नाहादि विहाय च ॥ ६७ ॥ कौपीनमात्रभृद्याव - जलोपान्तमुपाययौ ॥ तावत्तस्यैव खगेन, चाणक्यस्तच्छिरोऽच्छिनत् ॥ ६८ ॥ [ युग्मम् ] चन्द्रगुप्तमथाहूय, तस्मिन्नारोप्य वाजिनि ॥ चाणक्यः पुरतोऽचाली-त्प्रतिभाविभवोर्जितः ॥ ६९ ॥ कुमारं चेति पप्रच्छ, हे वत्स ! त्वामहं यदा ॥ सादिनेऽवादिषं चित्ते, किमचिन्ति त्वया तदा ॥ ७० ॥ चन्द्रः प्रोवाच हे पूज्याः !, ध्यातमेतन्मया तदा ॥ एतदेव विदन्त्यार्याः, सुन्दरं खलु न त्वहम् ! ॥ ७१ ॥ तदाकर्ण्यातिसन्तुष्ट - चाणक्यों ध्यातवानिति ॥ वशंवदः सदाप्येष, भावी मम सदश्ववत् ॥ ७२ ॥ ध्यायन्तमिति चाणक्यं, व्रजन्तं पुरतो द्रुतम् ॥ चन्द्रगुप्तोऽत्रवीदार्य ! क्षुधा मां बाधतेऽधिकम् ॥ ७३ ॥ ततश्चन्द्रं बहिर्मुक्त्वा, भक्तार्थ चणकात्मजः ॥ प्रति ग्रामं व्रजन्नेकं, भट्टं दृष्ट्वेति पृष्टवान् ॥ ७४ ॥ ग्रामेऽत्र लभ्यते भिक्षा, सोऽभ्यधाल्लभ्यते भृशम् ! ॥ मयाप्यत्राधुना लेमे, दधिकूरकरम्बकः ॥ ७५ ॥ चाणक्योऽचिन्तयद्भक्त - कृते ग्रामे ब्रजाम्यहम् ॥ एकाकी चन्द्रगुप्तस्तु, बहिस्तिछति साम्प्रतम् ॥ ७६ ॥ तदयं मयि दूरस्थे, निर्दयैर्नन्दसादिभिः ॥ हनिष्यते चेत्तद्भावि, राज्यं मे स्वप्न एव हि ! ॥ ७७ ॥ तस्मादस्यैव भट्टस्यो - दरात्कृष्ट्वा करम्बकम् ॥ ददे तस्मै दुर्दशा हि, तरणीया यथातथा! ॥ ७८ ॥ ध्या
Page #192
--------------------------------------------------------------------------
________________
उत्तराध्ययन त्वेति जठरं तस्य, चाणक्यो दारयत्खयम् ॥ खार्थसिद्धयै परद्रोह-करान् धिर धिग् नराधमान् ! ॥ ७९ ॥ ततो तृतीयमध्य
हृत्वा स तद्भोज्यं, चन्द्रगुप्तमभोजयत् ॥ सोप्यतिक्षुधितोऽज्ञासी-न तद्रसविपर्ययम् ! ॥८॥ मौर्ययुक्तोऽथ चाणक्यो, यनम् (३) ॥९६॥
ग्राममेकं दिनात्यये ॥ अगात्तत्र च भिक्षायै, भ्राम्यन् रोरगृहं ययौ ॥ ८१॥ तदा च तस्य गेहस्य, खामिन्या वृद्धयैकया ॥ बालानां भूयसामुष्ण-रब्बाऽभूत्परिवेषिता ॥८२॥ तखामेकः शिशु ढं, क्षुधितः प्रक्षिपन् करम् ॥ दग्धा
गुली रुरोदोच्चै-स्तं च वृद्धत्यभाषत ॥ ८३॥ वेत्सि चाणक्यवन्नव, किञ्चित्त्वमपि मूढरे!॥ तन्निशम्याऽथ चाणक्यदस्तां पप्रच्छेति सादरम् ॥ ८४ ॥ वृद्धे ! त्वया कुतश्चक्रे, चाणक्योऽत्र निदर्शनम् ! ॥ वृद्धबुद्धिस्ततो वृद्धा, चाणक्यमि- |दमभ्यधात् ॥८५॥ यथा हि पूर्व चाणक्यो, बाह्य देशमसाधयन् ॥ रुन्धानः पाटलीपुत्रं, मूढः प्राप विगोपनाम ॥ ८६ ॥ बालकोऽपि तथैवाय-मलिहन् परितः शनैः ॥ मध्य एव क्षिपन् पाणिं, दाहमत्युग्रमासदत् ॥ ८७॥ चाणक्यस्तत एवास्य, तुलामारोपितो मया ॥ महानपि हि निर्बुद्धिालादपि विशिष्यते ॥ ८८॥ तच्छृत्वा योषितोऽप्यस्याः, शस्या धीरिति चिन्तयन् ॥ चाणक्यो हिमवत्कूट-सन्निवेशं ततो ययौ ॥ ८९ ॥ तत्र राज्ञा पर्वतकाभिधेन सममुत्तमाम् ॥ चाणक्यो विदधे मैत्री, कांक्षन् साहायकं ततः॥९०॥ अन्येधुरिति चाणक्य-स्तं प्रोचे चेत्स-onean 3 मीहसे ॥ नन्दमुन्मूल्य तद्राज्यं, विभज्यादद्वहे तदा ॥९१॥ मम बुद्धिबलं सैन्य-बलं च भवतोऽतुलं ॥ कार्येस्मि-18 निर्मिते विश्व-श्लाघ्यतां लभतां सखे! ॥९२॥ तदङ्गीकृत्य चाणक्य-वाक्यं पर्वतको नृपः ॥ सचन्द्रगुप्तः प्रारेभे,
GALLERY
Page #193
--------------------------------------------------------------------------
________________
***
नन्ददेशस्य साधनम् ॥९३॥ पुरमेकं तु तेनैव, ग्रहीतुमशकन् बलात् ॥ विवेश तत्र चाणक्यो, भिक्षायै भिक्षुवेषभृत् ॥ ९४ ॥ तत्र वास्तूनि सम्प्रेक्ष-माणः सोथ त्रिदण्डिकः॥ सकलापाः सप्त देव्यो-ऽपश्यदिन्द्रकुमारिकाः ॥१५॥ अभङ्गं तत्पुरं तासां, प्रभावादवबुध्य सः ॥ मयैताः कथमुत्थाप्या, विममर्शेति यावता ॥९६ ॥ तावत्तं पुररोधार्ताः, पप्रच्छुरिति नागराः ॥ भगवन् ! पुररोधोऽयं, कदा खल्वपयास्यति ? ॥ ९७ ॥ ततः प्रोवाच चाणक्यो, यावदत्र भवन्त्यमूः ॥ देवीनां प्रतिमास्ताव-त्पुररोधक्षतिः कुतः ? ॥ ९८ ॥ पौरास्तेऽथ ततः स्थाना-त्ताः क्षिप्रमुदपाटयन् ॥ धूतैः प्रतारितानां हि, नाऽकार्य किञ्चिदङ्गिनाम् ! ॥ ९९ ॥ तदा चाणक्यसङ्केता-चन्द्रपर्वतकावपि ॥ पलायेतां द्वतं तचा-ऽऽकोचैर्मुमुदे जनः ॥ १०॥ भूयो व्याघुट्य तौ क्षिप्र-मग्रहीष्टां च तत्पुरम् ॥ नन्ददेशं च चाणक्य-धियाऽसाधयतां रयात् ॥ १०१॥ प्रवर्धमानसैन्यादि- संयुतास्ते त्रयोऽप्यऽथ ॥ अवेष्टयन्नन्दपुरं, निधानमिव | भोगिनः ॥ १०२ ॥ तदा च क्षीणपुण्यत्वात् , क्षीणबुद्धिपराक्रमः ॥ चाणक्यस्यान्तिके नन्दो, धर्मद्वारमयाचत ! ॥१०३ ॥ ततः प्रोवाच चाणक्य-स्त्वमेकेन रथेन यत् ॥ नेतुमीशस्तदादाय, पुरान्निर्याहि निर्भयः ॥१०४ ॥ नन्दोऽपि द्वे स्त्रियौ कन्या-मेकां सारधनानि च ॥ रथेऽधिरोप्य नगरा-निर्ययौ दीनतां गतः॥१०५॥ चाणक्यचन्द्रगुप्तौ च, स च पर्वतको नृपः ॥ पुरे प्रवेष्टुमाजग्मु-स्तदैवानन्दमेदुराः ॥ १०६ ॥ तदा च सा नन्दसुता, चन्द्रगुप्तं निरक्षत ॥ सद्यो जातानुरागा च, जज्ञे तत्सङ्गमोत्सुका ॥ १०७ ॥ चन्द्रगुप्तास्यचन्द्रैक-चकोरायितलोचनाम् ॥
S
****
*
र.१७
Page #194
--------------------------------------------------------------------------
________________
तृतीयमध्ययनम् (३)
उत्तराध्ययन वीक्ष्य स्खनन्दनां नन्दो, निरानन्दोऽब्रवीदिदम् ॥ १०८॥ हे पुत्रि ! यद्यसौ सौम्यो, रोचते ते युवा तदा ॥ आश्र
यामुं द्रुतं राज-पुत्र्यो हि स्युः खयंवराः ॥ १०९ ॥ याहि याहि त्वदुद्वाह-चिन्तया सह सत्वरम् ॥ तेनेत्युक्ता मृ-
गाक्षी सा, रथादुदतरत्ततः॥११०॥ चन्द्रस्य च रथे याव-त्साऽऽरोढुमुपचक्रमे ॥ दैवात्तावदभज्यन्त, द्रुतं तस्याभरका नव ॥ १११॥ अमङ्गलकरी तां च, ज्ञात्वा चन्द्रो न्यगरयत् ॥ चाणक्यस्तं ततोऽवादी-द्वत्सेमां मा निषे
धय ॥ ११२ ॥ यदनेन निमित्तेन, सुन्दरोदर्कवादिना ॥ पुरुषान्नव यावत्ते, वंशो भावी महर्द्धिकः ॥ ११३ ॥ मूतामिव श्रियं चन्द्र-स्तामथारोपयद्रथे ॥ नन्दसम्पदमादातुं, तद्गहे ते त्रयोऽप्यगुः ॥ ११४ ॥ तत्र चैकाऽभवत्कन्या, गरलीभूतभूघना ॥ आजन्माभोजयत्तां हि, नन्दराडू विषमं विषम् ॥ ११५ ॥ तां च पर्वतकः प्रेक्ष्य, जज्ञे गाढानु-13 रागभाक ॥ चाणक्योऽपि ततस्तस्मै, तां ददौ धिषणानिधिः ॥११६ ॥ तदैव तस्या विवाहं, प्रारेभे स महीपतिः॥ संक्रान्तगरलश्चाभू-त्सद्यस्तत्पाणिसङ्गमात् ॥ ११७॥ विषव्याप्तवपुः सोऽथ, चन्द्रगुप्तमिदं जगौ ॥ हे मित्र ! याम्यहं मूच्छों-मुरगग्रस्तवमृशम् ॥ ११८ ॥ तत्पाहि पाहि मां वत्स !, कुरु काञ्चित्प्रतिक्रियाम् ॥ अन्यथाहं मरिष्यामि, नियतं व्यथयानया ॥ ११९ ॥ ततो जाङ्गलिका मन्त्र-विज्ञाश्च क्वेति वादिनम् ॥ चाणक्योऽन्वशिषञ्चन्द्र-गुप्तमेवं तदा शनैः ॥ १२० ॥ पश्चान्मार्योऽप्यऽयं मौर्य !, म्रियते खयमेव चेत् ॥ तदोपेक्षख दक्षो हि, रक्षेत्को यान्तमा|मयम् ? ॥ १२१ ॥ ["अन्यच"-]तुल्यार्थं तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् ॥ अर्धराज्यहरं मित्रं, यो न हन्यात्स
446
Page #195
--------------------------------------------------------------------------
________________
हन्यते ! ॥ १२२ ॥ तत्साम्प्रतं साम्प्रतं ते, मौनमेवेति तेन सः ॥ अनुशिष्टो भ्रकुट्या च, निषिद्धो मौनमाश्रयत् MI॥ १२३॥ ततः पर्वतकोर्वीशः, प्रपेदे नामशेषताम् ॥ उद्यमो हि विना भाग्यं, प्रत्युतानर्थदो भवेत् ! ॥ १२४॥
तस्य राज्यमपुत्रस्य, राज्यं नन्दस्य चाखिलम् ॥ बभूव चन्द्रगुप्तस्या-धीनं भाग्यैकसेवधेः ॥ १२५ ॥ तदा च केऽपि, तद्राज्य, चौय नन्दनरा व्यधुः ॥ अन्यमारक्षकं कञ्चि-चाणक्योऽमार्गयत्ततः ॥ १२६ ॥ अगाच नलदामाह्व-कुवि-2 न्दस्य गृहं भ्रमन् ॥ मत्कोटकविलेष्वनि, क्षिपन्तं तं ददर्श च ॥ १२७ ॥ किं करोपीति चाणक्य-स्तमप्राक्षीच सादरम् ? ॥ उन्मुखीभूय सोत्कर्ष, कुविन्दोप्येवमब्रवीत् ॥ १२८ ॥ दुष्टान्मत्कोटकानेतान् , मत्सूनोदंशदायिनः ॥ सान्वयान् हन्तुमनलं, बिलेषु प्रक्षिपाम्यहम् ॥ १२९ ॥ इति तस्य गिरा ज्ञात्वा, कर्मठं सोद्यमं च तम् ॥ गत्वा च | चन्द्रगुप्तान्ते, चाणक्योऽजूहवन्मुदा ॥ १३०॥ तस्मै पुराध्यक्षतां च, चन्द्रगुप्ताददापयत् ॥ भोज्याद्यैः सोऽपि विश्वास्या-ऽखिलांश्चौरान जघान तान् ॥ १३१ ॥ एवं मौर्यस्य साम्राज्ये, जाते निष्कण्टकेऽन्यदा ॥ कोशार्जनाय चाणक्यः, पौरानाढ्यानजूहवत् ॥ १३२ ॥ भोजयित्वा च तान् सद्यो, मद्यं हृद्यमपाययत् ॥ हालाहलाहलेनास्त| विवेकास्ते ततोऽभवन् ॥१३३॥ तेषून्मत्तेषु नृत्यत्सू-त्पतत्सु प्रपतत्सु च ॥ चाणक्योऽपि क्षीवचेष्टा-मनुतिष्ठन्नदोऽवदत् ॥ १३४ ॥ त्रिदण्डं धातुरक्ते द्वे, चीवरे वर्णकुण्डिका ॥ वशंवदो मे भूमांश्च, तन्मे वादय होलकम् ! ॥ १३५ ॥ तनिशम्याऽपरः सीधु-पानान्धो मदमुद्वहन् ॥ कस्याप्यनुक्तां खां लक्ष्मी, प्रादुष्कुर्वन्निदं जगौ ॥ १३६ ॥ योजनानां
Page #196
--------------------------------------------------------------------------
________________
||*
उत्तराध्ययन
तृतीयमध्ययनम् (३)
॥९८॥
दशशतीं, व्रजतो मत्तदन्तिनः ॥ पदे पदे ददे लक्षं, तन्मे वादय होलकम् ! ॥ १३७ ॥ ततोऽहम्पूर्विकापूर्व-मन्यो- प्येवमवोचत ॥ उसे तिलाढके बाढ-मुद्गते फलितेऽपि च ॥१३८॥ निष्पद्यन्तेऽत्र यावन्त-स्तिलास्तावन्ति मद्हे ॥ सन्ति दीनारलक्षाणि, तन्मे वादय होलकम् ! ॥ १३९॥ [ युग्मम् ] अन्योप्यूचे नव्यवर्षा-पूर्णशैलापगारये ॥ एक वासरसञ्जात-नवनीतेन भूयसा ॥ १४० ॥ पालीमहं निबध्नामि, तन्मे वादय होलकम् ! ॥ तेनेत्युक्तेऽपरोऽवादीद्वादी चाक्षेपपूर्वकम् ॥ १४१॥ [युग्मम् ] एकाहजातजात्याश्व-किशोरस्कन्धकेसरैः ॥ वेष्टयेऽदः पुरं विष्वक्, तन्मे वादय होलकम् !॥ १४२ ॥ ततः परोऽवदच्छाली, विद्यते द्वे ममोत्तमे ॥ प्रसूतिकागर्दभिके, छिन्नछिन्नप्ररोहिके ॥ १४३ ॥ एतद्रनद्वयपते-स्तन्मे वादय होलकम् ! ॥ अन्यस्त्वेवं जगौ द्रव्य-सहस्रं मम विद्यते ॥ १४४ ॥ सदा चन्दनलिप्तोह-मप्रवासी ऋणोज्झितः ॥ अस्मि खवशभार्यश्च, तन्मे वादय होलकम् ! ॥ १४५॥ इत्थं ते मदि
प्रादुश्चक्रुमद्यपो हि, सद्भाव द्राक् प्रकाशयेत् ॥१४६॥ यतः-"कुविअस्स आउरस्स य, वसणप्पत्तस्स रागरत्तस्स ॥ मत्तस्स मरंतस्स य, सब्भावा पायडा होंति ॥ १४७ ॥” ततश्च तेषां चाणक्यः, श्रियं विज्ञाय धीनिधिः ॥ तेभ्यः स्वास्थ्यं प्रपन्नेभ्यो, यथा धनमग्रहीत् ॥ १४८॥[तथा हि-] सामयोनेः शुभगते| रेकयोजनयायिनः ॥ पदमेयानि दीनार-लक्षाण्याद्यादुपाददे ॥ १४९ ॥ प्ररूढेकतिलोत्पन्न-तिलमेयानि चापरात् ॥ | एकाहम्रक्षणाज्यं च, प्रतिमासं तृतीयतः॥ १५०॥ तुर्याच्चैकदिनोत्पन्नान, प्रतिमासं किशोरकान् ॥ शालींश्च पञ्च
KARAN
९८॥
Page #197
--------------------------------------------------------------------------
________________
मात्कोष्ठा-गारपूरणसंमितान् ॥ १५१ ॥ इत्यादाय श्रियं तेभ्यो-ऽपरादपि जनवजात् ॥ द्रव्यमादातुमकरो-चाणक्यो यत्रपाशकान् ॥ १५२ ॥ केप्याहुर्देवतादत्ता, देवनास्तस्य तेऽभवन् ॥ ततः स स्थालमापूर्य, दीनारैश्चत्वरे ययौ ॥ १५३ ॥ इत्यूचे च जनान् यो हि, छूते जयति मां जनः ॥ तस्मै ददामि नियतं, दीनारानखिलानमून् ॥ १५४ ॥ जेष्यामि यद्यहं तर्हि, ग्रहीप्ये निष्कमेककम् ॥ तच्छृत्वारेभिरे रन्तुं, लुब्धास्तेन समं जनाः ॥ १५५ ॥ द्यूतक्रीडासुद दक्षोऽपि, विजेतुं तं न कोपि हि ॥ अलंभूष्णुरभूत्तेषां, पाशकानां प्रभावतः ॥ १५६ ॥ पाशकैः सम्पदापाशै- स्तैर्नि
जेच्छानुवर्तिभिः ॥ विजित्य लोकांश्चाणक्यः, खणैः कोशमपूरयत् ॥ १५७ ॥ तं तु निर्जेतुमपरा-त्पुरादेरागता| दाअपि ॥ स्वर्णमेव ददुस्तस्मै, न तु कोऽपि जिगाय तम् ॥ १५८ ॥ दिव्यानुभावादिबलेन यद्वा. जीयेत के-IG
नाऽपि स धीसखोऽपि ॥ प्रमादतो हारितमर्त्यजन्म, जन्मी पुनर्नो लभते नरत्वम् ॥१५९॥ इति पाशकदृष्टान्तो | द्वितीयः ॥ २ ॥ अथ धान्यदृष्टान्तः| तथा हि भरतक्षेत्रे, विशाले शालिलक्ष्मीभिः ॥ द्वात्रिंशता सहस्रः स-द्विषयैः शोभितेऽभितः ॥ १॥ अनेकनगरग्राम-पत्तनादिविराजिते ॥ प्रशस्तायां मेघवृष्टी, संपन्नायां घनागमे ॥२॥ सर्वधान्येषु चोसेषु, कृषिदक्षैः कृषीवलैः॥ तन्निष्पत्तौ प्रकृष्टायां, जातायां निरुपद्रवम् ॥ ३॥ बहुभेदानि धान्यानि, प्रधानानि भवन्ति हि ॥ समग्रजन्तुजीवातु-कल्पानि सरसानि च ॥४॥[चतुर्भिः कलापकम् ] तथा हि-"शालिगोधूमचनक-मुद्रमापतिलाणुकाः ॥
Page #198
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ९९ ॥
राजमाषयवत्रीहि-कलायक्कंगुकोद्रवाः ॥ ५ ॥ मकुष्टकाढकीवल्ल - कुलत्थशणचीनकाः ॥ युगन्धरीमसूरौ चा - ऽतसीकलमपष्टिकाः ॥ ६ ॥ " इत्यादीन् सस्यराशींस्तान्, भरतक्षेत्रमध्यगान् ॥ संमील्य रचयेत्कोऽपि, पुअमभ्रलिहं सुरः ॥ ७ ॥ सर्षपप्रस्थमेकं च तत्र क्षिप्त्वा करम्बयेत् ॥ तान् सर्षपान् पृथक्कर्तु-मेकां वृद्धां समादिशेत् ॥ ८ ॥ जरती सा जराकम्प्र - करा शूर्पकधारिणी ॥ विगललोचना भूरि-विलोलवलिवल्लरी ॥ ९ ॥ विविच्य धान्यराशींस्तान्, पि| ण्डितानखिलानपि ॥ तैरेव सर्षपैः प्रस्थं, किं भूयोऽपि प्रपूरयेत् ? ॥ १० ॥ [ युग्मम् ] दिव्यप्रभावाद्यदि वा कदाचि - द्विवेचयेत्तानपि सर्षपान् सा ॥ च्युतो नरत्वान्न तु पापकर्मा, जनः पुनर्विन्दति मर्त्यजन्म ! ॥ १ ॥ इति धान्यदृष्टान्तः ॥ ३ ॥ अथ द्यूतदृष्टान्तः, तथा हि
अभूत्पुरे रत्नपुरे, नृपो नाम्ना शतायुधः ॥ तस्य चैको युवाऽवाप्त - यौवराज्यः सुतोऽभवत् ॥ १ ॥ स चेत्यालोचयामासा - ऽन्यदा मित्रादिभिः समम् ॥ अद्य तातं निहत्याहं, स्वयं राज्यमुपाददे ! ॥ २ ॥ आलोचन्तं च निपुणो, | ज्ञात्वाऽमात्यः कथञ्चन ॥ राज्ञे व्यज्ञपयत्सोऽपि तन्निशम्येत्यचिन्तयत् ॥ ३ ॥ असम्भाव्यमिदं तात - मपि यन्मा| रयेत्सुतः ! ॥ शशाङ्कः शोषयेद्वा-र्द्धिमिति हि श्रद्दधीत कः ? ॥ ४ ॥ लोभावेशाकुलो यद्वा, कुग्रहग्रस्तवज्जनः ॥ नैव कार्यमकार्य वा, निडो वेत्ति किञ्चन ! ॥ ५ ॥ यदुक्तं - "नोवेक्खइ कुलजाई, पेम्मं सुकयं च गणइ न य अयसं ॥ लुद्धो कुणइ अकजं, मारइ पहु बंधु मित्तंपि ! ॥ ६ ॥ " तदेष पुत्रो यावन्मां, लोभग्रस्तो न मारयेत् ॥
तृतीयमध्ययनम् (३)
॥ ९९ ॥
Page #199
--------------------------------------------------------------------------
________________
तावत्स्वरक्षणोपाय, सद्यः कश्चित्करोम्यहम् ॥ ७ ॥ विमृश्येति महाबुद्धिः, प्रणामायागतं सुतम् ॥ इति प्रोवाच तद्धाव-मविदन्निव भूधवः ॥ ८॥ राज्यभारपरिश्रान्तो, राज्यं ते दित्सुरप्यहम् ॥ खकीयकुलमर्यादां, नोलयि-1 तुमुत्सहे ॥ ९॥ अतिक्रामन् हि मर्यादा-माचीणां पूर्वपूरुषैः ॥ शलभोग्निमियोलच-मानो विपदमश्नुते ! ॥ १० ॥ कुप्येत्कुलाधिदेवी च, मर्यादोलङ्घकाय तत् ॥ समाकर्णय तां राज्य- सुखभूरुहसारणीम् ॥ ११ ॥ उलझ्यानुक्रम रा-18 ज्य-मभिकांक्षति यः सुतः ॥ जनको वा खयं यस्मै, राज्यं दातुं समीहते ॥ १२ ॥ स चेत्सुतो जयेत्तातं, छूते हैं। राज्यं तदाऽश्नुते ॥ तत्र द्यूते यया रीत्या, जेयं सा श्रूयतां त्वया ॥ १३ ॥ अस्यां सभायां स्तम्भानां, वर्त्ततेऽष्टोत्तरं शतम् ॥ अश्रयोऽपि प्रतिस्तंभ, वर्तन्तेऽष्टोत्तरं शतम् ॥ १४ ॥ तत्रैकेनैव दायेन, दीव्यन् यदि निरन्तरम् ॥ अष्टोत्तरशतं वारान् , छूते जयति मां भवान् ॥ १५॥ अश्रिरेका तदा स्तम्भ-स्यैकस्य विजिता भवेत् ॥ एवं साष्टशताश्रीणां, जये स्तम्भो भवेजितः ॥ १६ ॥ इत्थमनोत्तरशत-स्तम्भानां विजये कृते ॥ राज्यं तवार्पयिष्यामि,12 सत्वरं नात्र संशयः ॥ १७ ॥ किञ्चैकवारमप्यत्र, हारिते सकलं जितम् ॥ यात्येव सकृदप्यन्य-स्त्रीसङ्गे ब्रह्मचर्यवत् । ॥ १८ ॥ इत्याकर्ण्य पितुर्वाक्यं, भूपभूरित्यचिन्तयत् ॥ द्यूताचेल्लभ्यते राज्यं, को हन्याजनकं तदा ? ॥ १९ ॥ ध्यात्वेति स समं राज्ञा, द्यूतक्रीडां प्रचक्रमे ॥ विजिस निखिलान् स्तंभा-न तु राज्यमविन्दत ॥ २० ॥ सुरानु-11
ECCACANC
R
Page #200
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १०० ॥
भावादथवा स सर्वान् स्तम्भान् विजित्यापि लभेत राज्यम् ॥ प्रमादतो नष्टमनुष्यजन्मा, प्राप्नोति जन्तुर्न पुनर्न - रत्वम् ! ॥ २१ ॥ इति द्यूतदृष्टान्तश्चतुर्थः ॥ ४ ॥ अथ रत्नदृष्टान्तः, तथा हि
पुरे धनसमृद्धेऽभू-नदाह्रो वणिग् जरी ॥ प्रभूतरत्नकोटीनां प्रभुः प्रभुरिवाम्भसाम् ॥ १ ॥ उदारं व्यवहारं च, कारं कारं सदापि सः ॥ उपार्जितैरपि धनैर्यलाद्रत्नान्युपाददे ॥ २ ॥ धनदः खधनं तच्च नैव कस्याप्यवोचत | आयुर्वित्तं गृहच्छिद्रं, नो वाच्यमिति चिन्तयन् ॥ ३ ॥ विश्वास स्वीयपुत्राणा-मप्यकुर्वन् दिवानिशम् ॥ निधानमित्र भोगीन्द्र-स्तं रत्नौघं ररक्ष सः ! ॥ ४ ॥ अपरेऽपि पुरे तत्र, भूयांसो धनिनोऽभवन् ॥ अनेकधनकोटीनां, स्वामिनो धनदोपमाः ॥ ५ ॥ ते च स्वीयेषु सौधेषु, पताकाः कोटिसंमिताः ॥ खैरमुत्तम्भयामासु- र्नानावर्णविराजिताः ॥ ६ ॥ वेल्लद्भिस्तैर्ध्वजैस्तेषां सुधाशुद्धा वभुर्गृहाः ॥ हिमाद्रिशिखराणीव, सन्ध्याभ्रैः पवनेरितैः ॥ ७ ॥ धनदस्तु ध्वजं नैवो-तम्भयामास कर्हिचित् ॥ न श्रीणामनुसारेण, वेषादिकमपि व्यधात् ! ॥ ८ ॥ ततो महत्वमिच्छन्तः, | सुतास्तस्येत्यचिन्तयन् ॥ रोरवच्चेष्टते रत्न- व्रजे सत्यपि नः पिता ! ॥ ९ ॥ रत्नविक्रयणोत्पन्न-धनकोटीमितानसौ ॥ ध्वजानपि निजे गेहे, नैवोत्तम्भयति क्वचित् । ॥ १० ॥ तदयं जातयामश्चे - द्याति क्वापि तदा वयम् ॥ रत्नानि तानि विक्रीय, ध्वजानुत्तम्भयामहे ॥ ११ ॥ व्यापारार्थमथान्येद्यु- वृद्धे देशान्तरं गते । प्रारेभिरे ते रत्नानां, विक्रयं प्रीतचेतसः ॥ १२ ॥ तेभ्यो मूल्यानभिज्ञेभ्य-स्तानि देशान्तरागताः ॥ रत्नानि जगृहुर्यत्त- न्मूल्यं दत्वा वणिग्जनाः ॥
तृतीयमध्ययनम् (३)
॥ १०० ॥
Page #201
--------------------------------------------------------------------------
________________
+ASANASANCHAR
॥ १३॥ तेन रत्नौघलाभेन, हृष्टास्ते वणिजां व्रजाः॥ जग्मुः पारसकूलादी-निजदेशान् द्रुतं द्रुतम् ! ॥ १४ ॥ रत्नविक्रयसनात-वित्तकोटिमितान् ध्वजान् ॥ सोत्सवं तत्सुताः खीय-सौधेऽध्यारोपयंस्ततः॥१५॥ वृद्धोऽथ गेहमायातः, श्रुत्वा रत्नौघविक्रयम् ॥ पताकाश्च प्रेक्ष्य दुःखं, मानसेऽमानमानशे ॥ १६ ॥इत्यूचे च सुतान् कोप-कम्प्रकायोरुणेक्षणः ॥रे लक्ष्मीकन्दकुद्दालाः !, यूयं निर्यात मद्गृहात् ॥१७॥ तानि विक्रीतरत्नानि, समानीयाऽखिलान्यपि ॥ ममौकसि प्रवेष्टव्यं , युष्माभिर्नान्यथा पुनः! ॥१८॥ इति तेनोदितास्तस्य, तनया विनयान्विताः ॥
प्रत्याशमभ्रमन् रत्न-प्राप्तिं प्रत्याशयाकुलाः ॥ १९॥ अन्यान्यदेशवास्तव्य-वणिजां दत्तमुत्तमम् ॥ परं ते पर्यटन्तोऽपि. है|तं रनौपं न लेभिरे ॥२०॥ मरुन्महिम्ना यदि वाऽनुवीरं-स्तं रत्नराशिं धनदस्य पुत्राः॥च्युतो नरत्वात्कृतपापकर्मा, | नरोधिगच्छेन्न तु मानुषत्वम् ! ॥२१॥ इति रत्नदृष्टान्तः पञ्चमः ॥५॥ अथ खप्नदृष्टान्तः, तथा हि
अभृद्भूभामिनीभाले, क्षेत्रे भरतनामनि ॥ गौडदेशो जातरूप-तिलकश्रियमाश्रयन् ॥१॥ तत्रासीत्पाटलीपुत्रं, पुरं सुरपुरोपमम् ॥ मूलदेवो राजपुत्र-स्तत्राऽभूद्रपमन्मथः ॥२॥ उदारचित्तः सकल-कलाशाली प्रियंवदः ॥ कृतज्ञो नैकविज्ञान-विज्ञो विमलधीनिधिः ॥३॥ शूरः प्रतिज्ञानिर्वाही, धूर्तविद्यैकसेवधिः ॥ सोऽभूदुचितविहीनानाथबन्धुर्गुणप्रियः ॥ ४ ॥ [ युग्मम् ] तस्करबूतकारादिः, साधुप्राज्ञाधिकोऽथवा ॥ यो यो मिमेल ताद्रूप्यं, स| |भेजे स्फटिकाश्मवत् ॥५॥ कुतूहलैनवनवै-निवान् विस्मयं नयन् ॥ वृत्तो मित्रैः पुरे तत्रा-ऽचरत् खेचरवच
Page #202
--------------------------------------------------------------------------
________________
तृतीयमध्ययनम् (३)
उत्तराध्ययनसः ॥६॥ तत्राशेपगुणाढ्येऽपि, द्यूतव्यसनमुत्कटम् ॥ अभूत्सर्वकलापूर्ण, शशाङ्क इव लाञ्छनम् ॥ ७॥ पित्रादिभि-I
निषिद्धोऽपि, द्यूतासक्तिं स नामुचत् ॥ व्यसनं हि विशां प्रायो, दुस्त्यजं स्यात्खभाववत् ! ॥८॥ ततोऽसौ व्य॥१०१॥
सनासक्त, इति पित्रा तिरस्कृतः ॥ मानान्निजपुरं हित्वा, भ्रमन्नुजयनीं ययौ ॥९॥ गुलिकायाः प्रयोगाच, तत्र वामनरूपभृत् ॥ कलाभिबहुभिर्लोकान् , रजयन् विश्रुतोऽभवत् ॥ १०॥ रूपलावण्यविज्ञान-कलाकौशलशालिनी ॥ तत्रासीदेवदत्ताबा, वेश्या वर्ग इवोर्वशी ॥ ११ ॥ तां सर्वोत्कृष्टसकल- कलाकौशलगर्विताम् ॥ कलाभिर्विस्मयं नेतुं 3 न दक्षोऽपि क्षमोऽभवत् ॥ १२ ॥ लोकेभ्यस्तत्वरूपं त-न्मूलदेवो निशम्य ताम् ॥ दिदृक्षामास दक्षो हि, दक्षमन्यं । दिदृक्षते ॥ १३ ॥ ततो निशान्ते गत्वा स, तन्निशान्तस्य सन्निधौ ॥ वामनस्तन्मनो हर्तु, गीतं गातुं प्रचक्रमे ॥१४॥ तद्गीतं स्फीतमाको -दञ्चद्रोमाञ्चकञ्चका ॥ देवदत्ताऽभवद्भूरि-सुधापूरैरिवाड़िता ॥ १५॥ गीतेन तेन हृलोहाकर्षायस्कान्तबन्धुना ॥ कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ॥ १६ ॥ अहो ! अश्रुतपूर्यासौ, गीतिरस्यातिबन्धुरा ॥ तद्गातासौ न सामान्यो, नरः किन्तु नरोत्तमः !॥ १७॥ ध्यात्वेति चेटिकामेकां, सा प्रेषीतं समीक्षितुम् ॥ साऽपि तं वामनं वीक्ष्या-ऽऽगता तामित्यभाषत ॥१८॥ गन्धर्वो वामनाकारः, कोऽपि खामिनि ! गायति ॥ कुरङ्गमदवद्रूप-मन्तरापि मनोहरः ॥१९॥ तदाकर्ण्य तमाह्वातुं, प्रेषीन्माधविकाभिधाम् ॥ कुब्जां दासीं देवदत्ता, साऽपि गत्वेति तं जगौ ॥२०॥ अस्माकं स्वामिनी देव-दत्ता विज्ञपयत्यदः ॥ कलानिधे! प्रसीद त्व-मा
॥१०१॥
Page #203
--------------------------------------------------------------------------
________________
गच्छास्मन्निकेतनम् ॥२१॥ मूलदेवोऽवदत्कुब्जे!, नागमिष्यामि तद्गृहम् ॥ गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशा-| लिनाम् ॥ २२॥ यदुक्तं-“या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा ॥ कोमला वचसि चेतसि| |दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥ २३ ॥” तेनेत्युक्ताऽपि सा चाटु-शतैरावय॑ तं भृशम् ॥ सनिर्वन्धं करे धृत्वा-ऽचीचलन्निलयं प्रति ॥ २४ ॥ सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां रयात् ॥ कलायाः कौशलाविद्या-प्रयोगाच व्यधादृजुम् ॥ २५॥ ततस्सविस्मयानन्दा, सा तं प्रावीविशद्हे ॥ देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ॥ २६ ॥ वामनस्याऽपि सा तस्य, वीक्ष्य लावण्यमद्भुतम् ॥ विस्मिता विष्टरे तुङ्गे, गौरवात्तं न्य-2 वीविशत् ॥ २७ ॥ ततस्तया कुजिकया, दर्शयन्त्या निजं वपुः॥प्रोक्ते तचेष्टिते देव-दत्ता देवं विवेद तम् ॥२८॥ वैदग्ध्यगभैरालापैः, कुर्वन् गोष्टी तया समम् ॥ मूलदेवो मनस्तस्याः, खवशं विदधे द्रुतम् ॥ २९ ॥ यतः-"अणु-1 णयकुसलं परिहा-सपेसलं लडहवाणिदुललिअं॥ आलवणंपि हु.च्छेआ-ण कम्मणं किं च मूलीहिं ? ॥३०॥” अथैको । वैणिकस्तत्रा-ऽऽययौ वीणाविशारदः॥ आदेशाद्देवदत्तायाः, सोऽपि वीणामवीवदत् ॥ ३१ ॥ तामाकर्ण्य प्रमुदिता, देवदत्तवमब्रवीत् ॥ साधु साधु त्वया वीणा, वादिता वरवैणिक !॥ ३२॥ स्मित्वाऽथ वामनः प्रोचे-ऽवन्तीलोकोऽखिलोप्यहो ॥ शुभाशुभविभागं द्राग , वेत्ति कामं विचक्षणः ! ॥ ३३ ॥ देवदत्ता तदाकर्ण्य, साशङ्केति शशंस तम् ॥ महात्मन् ! किमिह क्षुण्णं, विद्यते यद्वदस्यदः ? ॥ ३४ ॥ सोऽवादीकिमपि न्यूनं, वर्तते न भवादृशाम् ॥
Page #204
--------------------------------------------------------------------------
________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
॥१०२॥
किन्तु वंशः सशल्योऽय-मस्ति तत्री च गर्भिणी ॥ ३५ ॥ विद्वन् ! कथमिदं ज्ञेय-मित्युक्ते देवदत्तया ॥ सोऽप्ये- तदर्शयामीति, वदन वीणामुपाददे ॥३६ ॥ तंत्र्याः केशं दृषत्खण्डं, वंशाचाकृष्य दत्तवान् ॥ तां चाशु प्रगुणीकृत्य, खयं वीणामवादयत् ॥ ३७॥ व्यक्तग्रामखरां ग्राम-रागसङ्गममञ्जलाम् ॥ अतुच्छमूर्च्छनां लोक-कर्णपान्थसुधाप्रपाम् ॥३८॥ मञ्जुघोषवती घोष-वतीमाकर्ण्य तां रयात् ॥ देवदत्ता सतत्रासी-त्परतत्रमना भृशम् ! ॥ ३९ ॥ [ युग्मम् ] करेणुरेका पूत्कार-शीलाऽभूत्तद्गृहान्तिके ॥ तद्वीणाक्वणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ ! ॥४॥ देवदत्ता ततः स्नेहो-दञ्चद्रोमोद्माऽवदत् ॥ अहो ! विदग्ध ! वैदग्ध्य-मिदं ते जगदुत्तमम् ॥४१॥ विपञ्चीवादने दक्षा, वाणीतुम्बुरुनारदाः॥ गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया ॥४२॥ वैणिकोऽपि तदा नत्वा, तस्य पादावदोऽवदत् ॥ विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ॥४३॥ धूर्त्ताधिपोऽभ्यधान्नाहं, सम्यग्जानामि वल्लकीम् ॥
अस्ति किन्तु दिशि प्राच्यां, पाटलीपुत्रपत्तनम् ॥४४॥ तत्र विक्रनसेनाहः, कलाचार्योऽस्ति धीनिधिः ॥ मूलहै देवोऽहञ्च किञ्चि-द्वीणां विद्वस्तदाश्रयात् ॥४५॥ विपञ्चीवादनाम्नायं, सम्पूर्ण तु त एव हि ॥ कलयन्ति कलाके
लि-निलयाः कुशलोत्तमाः!॥ १६ ॥ नाट्याचार्योऽथ तत्राऽऽगा-द्विश्वभूतिमहामतिः ॥ वामनायावदद्देव-दत्ता ४ तं भरतोपमम् ॥४७॥ मूलदेवोऽब्रवीदेत-च्छिक्षितायाः पुरस्तव ॥ अस्त्ययं भरतः किन्तु, विशेषो ज्ञास्यतेऽधुना
॥४८॥ विचारं भारतं तस्या-प्राक्षीद्धर्त्ताधिपस्ततः ॥ विश्वभूतिस्तु तं मूढो-ऽवमेने वामनत्वतः ॥ ४९ ॥
Page #205
--------------------------------------------------------------------------
________________
ततः स तस्य भरत-व्याख्यां खैरं वितन्वतः ॥ पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयत् ॥ ५० ॥ उवाचानुचितं किञ्चि-द्विश्वभूतिस्ततो रुपा ॥ सोपहासं शशंसैवं, मूलदेवोऽपि तं तदा ॥५१॥ रङ्गाचार्याङ्गनाखेव, त्वमेवं नाटयेः क्रुधम् ॥ न त्वन्यत्रेति तेनोक्ते, हीणो मौनं बभार सः ॥ ५२ ॥ देवदत्ताऽथ तं खर्व, पश्यन्ती स्निग्धया दृशा ॥ । विश्वभूतेर्विलक्षत्व-मपनेतुमदोऽवदत् ॥ ५३ ॥ भवन्तों नाधुना खस्थाः, सन्ति कार्याकुलत्वतः ॥ ततो विमृश्य
वक्तव्यः, प्रश्नस्यार्थः क्षणान्तरे ! ॥५४॥ जायते नाट्यवेला त-देवदत्ते ! ब्रजाम्यहम् ॥ एवं वदंस्ततो विश्व-भूतिस्तस्या गृहाद्ययौ ॥ ५५ ॥ देवदत्ताऽथ सम्मान्य, वैणिक विससर्ज तम् ॥ भोजनावसरे जाते, चेटिकां चैवमभ्यधात् ॥५६॥ आहूयतामङ्गमर्दः, कोऽपि सानार्थमावयोः ॥ उवाच खर्वः कुर्वेह-मभ्यङ्गं ते यदीच्छसि !॥ ६७ ॥ | देवदत्ताऽवदद्दक्ष !, त्वमेतदपि वेत्सि किम् ? ॥ सोवादीद्वेनि नो किन्तु, तज्ज्ञपार्थे स्थितोस्म्यहम् ॥ ५८ ॥ दास्यानीतं गृहीत्वाऽथ, पक्वतैलं स वामनः ॥ प्रारेभेऽभ्यअनं तेन, वशीचक्रे च तन्मनः ॥ ५९॥ अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो ! मृदुः ॥ तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ॥६०॥ प्रकृत्येशरूपस्य, न स्युरेतादृशा गुणाः ॥ प्रच्छन्नं रूपमेतस्य, तत्प्रादुष्कारयाम्यहम् ।। ६१ ॥ देवदत्तेति सञ्चिन्त्य, तत्पादाजे प्रणम्य च ॥ इत्युवाच गुणेरेव, ज्ञातं ते रूपमद्भुतम् ! ॥ ६२॥ दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः ॥ महाभागश्च मे ख्यातस्त्वं गुणरेव तादृशैः॥६३॥ तत्ते खाभाविक रूपं, द्रष्टमुत्कण्ठते मनः ॥ त्यक्त्वा मायामिमां कृत्वा, कृपों तन्म
उ०१८
Page #206
--------------------------------------------------------------------------
________________
तृतीयमध्ययनम् (३)
उत्तराध्ययन प्रदर्शय ॥ ६४ ॥ इत्थं तया सनिर्बन्ध-मुदितो मुदितोऽथ सः ॥ आकृष्य गुटिका रूप-विपर्ययकरी मुखांत् ॥६५॥
नवयौवनलावण्य-मञ्जलं स्मरजित्वरम् ॥ आविश्चक्रे निजं रूपं, जगजनमनोहरम् ॥६६॥ [ युग्मम् ] ततस्तं दृक्च॥१०३॥
कोरक-चन्द्रं लवणिमोदधिम् ॥ वीक्ष्य हर्षोल्लसद्रोम-होचैः सा विसिष्मिये ॥ ६७॥ प्रसादो मे महांश्चक्रे. युष्माभिरिति वादिनी ॥ देवदत्ता वितेनेऽथ, तदङ्गाभ्यंगमात्मना ॥ ६८ ॥ अथ द्वावपि तौ स्नात्वा, व्यधत्तां सह भोजनम् ॥ देवदूष्ये ततो देव-दत्तादत्ते स पर्यधात् ॥ ६९॥ ततो विदग्धगोष्ठी तौ, क्षणं रहसि चक्रतुः ॥ मूलदेवं तदा देव-दत्तैवमवदन्मुदा ॥ ७० ॥ परो लक्षा नरा दक्षा, महात्मन् ! वीक्षिता मया ॥ न तु त्वामन्तराऽन्येन, हृतं केनापि मे मनः !॥ ७१ ॥ यतः-"नयहिं को न दीसइ, केण समाणं न होंति उल्लावा ॥ हिअयाणंदं जं पुण, जणयइ तं माणुसं विरलं ॥ ७२ ॥" किञ्च-"भवन्ति सगुणाः केऽपि, कुरूपा मृगनाभिवत् ॥ इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि निर्गुणाः॥७३॥ ये तु मन्दारवद्रूप- वन्तः सारगुणान्विताः॥ ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः
स्युभवादृशाः !॥ ७४ ॥" नाथामि तदहं नाथ !, नाऽथ कार्या विचारणा ॥ यथा स्थितोऽसि मच्चित्ते, तथा स्थेयं | & ममालये ॥ ७५ ॥ सोऽथाऽवादीदयि ! द्रव्य-हीने वैदेशिके मयि ॥ प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके !
॥ ७६ ॥ सर्वेषामपि जन्तूनां, प्रेम स्यात्सधने जने ॥ अर्थमात्रैषिणां वेश्या-जनानां तु विशेषतः !॥ ७७॥ गुणानुरागागणिका, यदि स्यान्निर्धने रता ॥ तदा युपार्जनाभावा-सीदेत्तस्याः कुलं सदा ! ॥ ७८॥ वेश्या स्माह गुण
SASSES
॥१०३॥
Page #207
--------------------------------------------------------------------------
________________
जानां. प्रेम्णो मानसजन्मनः ॥ धनं निबन्धनं न स्या-गुणाः किन्तु निबन्धनम् ॥ ७९ ॥धनं हि बानिया हिरेव स्पृशन्ति नः ॥ चित्ते तु त्वादृशा एव, प्रविशन्ति कलाधनाः !॥ ८॥ यतः-"सजनानां वचो द्रव्यसहयादतिरिच्यते ॥ स्निग्धं चालोकितं लक्षा-सौहार्द कोटितस्तथा ॥ ८१॥ खदेशः परदेशश्चा-ऽन्येषां न त कलावताम् ॥ सकलो हि शशीव स्या-पूजनीयो जगत्रये ॥ ८२॥” तदन्वहं त्वयाऽवश्य-मागन्तव्यं ममौकसि। सनिर्बन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ॥ ८३॥ ततो मिथोऽनुरक्तौ तौ, तुल्यचातुर्यशालिनौ ॥ चिरं चिक्रीडतः खैर, करेणुकरिणाविव ॥ ८४ ॥ देवदत्ताऽथ नृत्यार्थ-माहूता राजवेत्रिणा ॥ मूलदेवं सहादाय, ययौ पार्थिवपर्षदि
८५॥ उद्दामकरणं तत्र, नाटकं निर्ममे च सा ॥ पटहं वादयंस्तां चा-ऽनर्तयद्भूतनायकः ॥ ८६ ॥ वीक्ष्य तं नाटक कान्तं, भूकान्तो विस्मितो भृशम् ॥ याचख वरमित्यूचे, न्यासीचक्रे तया तु सः॥८७॥ गाढप्रेमा ततो मूल-देवे देव इवाप्सराः॥ देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ॥ ८८ ॥ मूलदेवस्तु तत्रापि, न छूतव्यसनं जहौ ॥ ततस्तं देवदत्तैव-मूचे सानुनयं रहः॥८९॥ कलङ्कस्त्वादृशां द्यूतं, वैरस्थमिव वारिधेः॥ तदिदं व्यसनं श्रीणां, व्यसनं मुञ्च वल्लभ !॥९॥ तयेत्युक्तोऽपि नाऽत्याक्षी-मूलदेवस्तु देवनम् ॥ दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि !॥९१॥ तस्यां पुयों सार्थवाहो-ऽचलाहोऽभून्महाधनः ॥ स तु पूर्व मूलदेवा-देवदत्तारतोऽभवत् ॥९२॥ यद्यत्साऽमार्गयत्तत्त-त्सोऽदात्तस्यै धनादिकम् ॥ प्राणानपि जनो रागी, दत्ते वित्तस्य का कथा ! ॥९३॥ तत्राऽऽ
Page #208
--------------------------------------------------------------------------
________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
॥१०४॥
यान्तं मूलदेवं, ज्ञात्वा सोऽन्तः क्रुधं दधौ ॥ रोपः स्यात्प्राणिनां प्रायः, एकद्रव्याभिलाषिणाम् ! ॥ ९४॥ छिद्राणि मूलदेवस्या-ऽन्वेषयामास सोऽन्वहम् ॥ तद्भिया न ययौ तस्याः, सौधे धूतॊ विना छलम् ॥९५॥ अथोचे | देवदत्तां त-माता कैतवसेवधिम् ॥ कितवं मूलदेवाहूं, निद्रव्यं मुञ्च नन्दने !॥ ९६॥ भूरिवित्तप्रदे नित्य-मचले निश्चला भव ॥ एकत्र कोशे द्वौ खड्गौ, न हि मातः कदाचन !॥९७॥ देवदत्ताऽब्रवीन्मातः!, केवलं धनरागिणी ॥ नास्म्यहं किन्तु मे भूयान् , प्रतिवन्धो गुणोपरि ! ॥९८ ॥ क्रोधाध्माताऽवदन्माता, धूर्ते स्युस्तत्र के गुणाः ॥ देवदत्ता ततोऽवादी-तद्गुणाक्षिप्तमानसा ॥९९ ॥ दक्षो दाक्षिण्यवान् धीरः, कलावेदी प्रियंवदः ॥ दाता विशेषवि|चायं, तन्नवाऽमुं जहाम्यहम् ॥१०॥ ततः सा कुट्टिनी कोपा-विष्टा दुष्टा निजाङ्गजाम् ॥ प्रतिबोधयितुं नैकान्, दृष्टान्तानित्यदीदृशत् ॥१०१॥ सा यावकेऽर्थितेऽदात्तं, नीरसं दारु चन्दने ॥ माल्ये निर्माल्यमिक्षौ च, तत्प्रान्त नीरमासवे ॥१०२॥ किमेतदिति सा पुत्र्या, पृष्टा चैवमवोचत ॥ इदं याकप्रियस्तेऽसौ, ताक् तं मुञ्च तद्रुतम् ॥१.३॥ देवदत्ताऽभ्यधान्मातः !, परीक्षामविधाय किम् ॥ तमेतत्सममाख्यासि, मूखों मणिमिवोपलम् ? ॥१०४॥ | परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता ॥ इथून प्रार्थयितुं दासी, प्राहिणोदचलान्तिके ॥१०५॥ देवदत्ता याचते
त्वा-मिक्षुनिति तयोदितः ॥ इक्षभिः शकटं भृत्वा-ऽचलः प्रेषीत्प्रमोदतः॥१०६ ॥ तदृष्ट्वाऽक्काऽवदत्पश्या-ऽचल| स्यौदार्यमद्भुतम् ॥ प्रैषीन्मानातिगानिक्षून् , कल्पवृक्ष इवाशु यः ॥१०७ ॥ ततः सुता जगौ मात-यद्यहं स्यां करे
॥१०४॥
Page #209
--------------------------------------------------------------------------
________________
*BARA BARUSASUSAHA
णुका ॥ तदा ममोपयुज्यन्त, इक्षवोऽमी असंस्कृताः॥ १०८॥ अत्रैवार्थे मूलदेवो-ऽप्यादेष्टव्यो भुजिष्यया ॥ द्वयोरपि तयोर्मात-विशेषो ज्ञायते यथा ॥ १०९॥ इत्युक्त्वा मूलदेवान्ते, प्रेषीत्सा माधवीलताम् ॥ साप्यस्ति देवदत्ताया, इक्षुश्रद्धेति तं जगौ ॥ ११० ॥ ततस्स पंचषानिक्षू-नादायापास्य तत्त्वचम् ॥ मुक्त्वा मूलाग्रपाणि, व्यङ्गुला गण्डिका व्यधात् ॥ १११ ॥ कर्पूरवासितास्ताश्च, चातुर्जातकसंस्कृताः॥ शूलप्रोताः शरावान्तः, क्षिप्त्वा प्रेषीत्तदावृताः ॥ ११२ ॥ ताः प्रेक्ष्य मुदिता देव-दत्ताऽऽख्यजननीमिति ॥ अनयोरन्तरं पश्य, काचवैडूर्ययोरिव ! ॥ ११३॥ तदहं तद्गुणैरेव, तस्मिन् रक्तास्मि नान्यथा ॥ अक्का दध्यौ नैनमेषा, त्यजत्यत्यन्तमोहिता ॥ ११४ ॥ करोम्युपायं 5 तत्कञ्चि-येनायं कामुकः खयम् ॥ पुर्या निर्याति जाङ्गुल्याः, पाठेनेव गृहादहिः॥११५॥ ध्यात्वेति शम्भली माहा|ऽचलं कैतवकोविदा ॥ नामान्तरं गमिष्यामी-त्यलीकं ब्रूहि मे सुताम् ॥ ११६ ॥ तमावास्यति धूर्त सा, ज्ञात्वा । त्वामन्यतो गतम् ॥ तदा भटैर्वृतः सजै-मत्सङ्केतात्त्वमापतेः ॥ ११७ ॥ धूर्ततामृगधूर्त च, तं तथैवापमानयेः ॥ यथाभूयोऽत्र नागच्छे-त्सर्पधाम्नीव मूषकः ॥ ११८॥ तत्वीकृत्याऽचलो देव-दत्तायै खं वितीर्यच ॥ ग्रामं यामीत्युदित्वा च, निरगात्तनिकेतनात् ॥ ११९ ॥ निःशंका देवदत्ताऽथ, मूलदेवमवीविशत् ॥ अक्कावाचाऽचलोप्यागातत्र सत्रोद्भटैर्भटैः ॥ १२० ॥ तं चाऽऽयान्तं वीक्ष्य देव-दत्ता तस्मै न्यवेदयत् ॥ ततो भीतो मूलदेव-स्तल्पस्याधो न्यलीयत ॥ १२१॥ शय्याधःस्थं च तं ज्ञात्वा, शम्भलीसंज्ञयाचलः ॥ तत्रोपविश्य पल्यङ्के, देवदत्तामिदं जगौ
AUGAISRICHIERICIREAISHA
Page #210
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१०५॥
562-%%*****5454
M॥ १२२ ॥ नास्याम्यहं देवदत्ते !, नानीयं प्रगुणीकुरु ॥ साऽवादीदासने तर्हि, स्नानाऽत्रोपविश्यताम् ॥१२३॥ ततीयमध्य
स प्रोचेऽत्रैव पर्यङ्के-ऽभ्यक्तः स्नातश्च साम्बरः॥ खप्नेऽद्याऽहं स च खप्नो, भवेत्सत्यापितः श्रिये ॥ १२४ ॥ स्त्रास्या- यनम् (३)
म्यहं तदत्रैव, तेनेत्युक्ते जगाद सा ॥ खामिन्नेवमिदं हृद्यं, तूलिकादि विनंक्ष्यति ॥ १२५॥ अचलोऽप्यब्रवीत्तर्हि, ४ दास्ये सर्वमितः शुभम् ॥ अकाप्युवाच किं पुत्रि!, भर्तुरिष्टं करोषि न ॥ १२६ ॥ ततः परवशा देव-दत्ता दूनमना
अपि ॥ अभ्यज्योद्वर्तयामास, पर्यङ्कस्थितमेव तम् ॥ १२७ ॥ उष्णैः खलिजलायैस्तं, स्त्रपयामास सा ततः॥ तल्पा-3 धःस्थो मूलदेव-स्तैरभियत सर्वतः॥ १२८ ॥ सोऽथ दध्यौ ममाप्यद्या-ऽऽपतितं व्यसनं महत् ॥प्राणिनः प्राज्यरागस्य, किं वा दुःखं न सम्भवेत् ! ॥ १२९ ॥ यतः-"देशत्यागं वह्नितापं, कुट्टनं च मुहुर्मुहुः ॥रागातिरेकान्मजिष्ठा-ऽप्यनुते किं पुनः पुमान् ! ॥ १३० ॥" तदिदानीमुपायं कं, कुर्वे तिष्ठामि यामि वा ॥ दिग्मूढवदिति ध्यायंस्तत्रास्थाद्भूर्तराट् तदा ॥ १३१ ततोऽचलभटान् दृष्टि-संज्ञयाऽऽहूय कुट्टिनी ॥ तयैवाऽचलमादिक्ष-द्भूतॊ निष्काश्यतामिति ॥ १३२ ॥ ततस्तमचलो धृत्वा, केशपाशे समाकृषत् ॥ इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ॥ १३३ ॥ मया भूरितवित्तैः, खीकृतां गणिकामिमाम् ॥ रिरंसोस्तेऽधुना ब्रूहि, कुर्वेऽहं कश्च निग्रहम् ? ॥१३४ ॥
॥१०५॥ मूलदेवोऽथ परितः, प्रेक्ष्य शस्त्रोद्भटान् भटान् ॥ इति दध्यौ वलं कुर्वे, चेत्तदा जीवितं क्व मे ? ॥ १३५ ॥ निरायधोऽहं कर्तव्यं, वैरनिर्यातनं च मे ॥ तद्बलावसरो नाय-मिति ध्यात्वेत्युवाच सः॥ १३६ ॥ यत्तुभ्यं रोचते तत्त्वं,
मान दृष्टि-संज्ञयाऽ
चोवाच रे ! ब्रूहि,
म॥१३४॥
Page #211
--------------------------------------------------------------------------
________________
साम्प्रतं कुरु सत्वरम् ॥ तच्छ्रुत्वाऽचिन्तयत्सार्थ-पतिरित्थं महामतिः ॥ १३७ ॥ महापुरुष इत्येष, रूपेणैव निरू-18 प्यते ॥ सुलभानि च संसारे, व्यसनानि सतामपि ! ॥ १३८ ॥ यदुक्तं-“कस्य स्यान्न स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य ॥ कस्येह सुखं नित्यं, दैवेन न खण्डितः को वा ? ॥१३९॥” दैवादापदमापन्न-स्तन्नायं निग्रहोचितः॥ विमृश्येत्यचलः प्रोचे, मूलदेवं महामनाः!॥ १४०॥ इतोऽपराधान्मुक्तोऽसि, प्राप्तोप्येनां दशां मया ॥ तत्त्वयाप्युपकर्तव्य-मीदृशे समये मम ! ॥ १४१॥ तेनेत्युक्त्वा विमुक्तोसौ, सद्यो निर्गत्य तद्गृहात् ॥ पुरीबहिःस्थे सरसि, सात्वा वस्त्राणि धौतवान् ॥ १४२ ॥ दध्यौ चेत्युन्मना मायां, कृत्वाऽनेनाऽस्मि वञ्चितः॥ तदुपायं वैरशुद्धेः, क्वापि गत्वा करोम्यहम् ! ॥ १४३॥ ध्यायन्नित्यचलन्मूल-देवो वेण्णातटं प्रति ॥ तत्र मार्गेऽटवीं चैकां, प्राप द्वादशयोजनीम् ॥ १४४ ॥ विना सहायं दुष्प्राप-पारां तामवधारयन् ॥ सहायं मार्गयन्मार्ग-मुखेऽटव्याः स तस्थिवान् | ॥ १४५ ॥ तदा च सुन्दराकारः, शम्बलस्थगिकाधरः ॥ विप्रः कुतोऽपि टक्काह्व-जातिस्तत्र समाययौ ॥ १४६ ॥ तुष्टस्ततोऽवदन्मूल-देवस्तमिति सादरम् ॥ कियहरं क' च ग्रामे, गन्तव्यं ते द्विजोत्तम ! ॥ १४७ ॥ द्विजो जगाद यास्यामि, कान्तारात्परतः स्थितम् ॥ ग्रामं वीरनिधानाख्यं, ब्रूहि क्व त्वं गमिष्यसि ? ॥ १४८॥ धूर्तोऽभ्यधत्त गन्तव्यं, मम वेण्णातटे पुरे ॥ द्विजोऽवादीत्तदाऽऽगच्छा-तिगच्छावो यथाऽटवीम् ॥ १४९ ॥ तौ ब्रजन्ती बने | मध्यं-दिने पल्वलमामुताम् ॥क्षणं विश्रम्यतामत्रे-त्यूचे तत्राऽपरं द्विजः ॥१५०॥ ततः प्रक्षाल्य वदन-पाणिपादादि
Page #212
--------------------------------------------------------------------------
________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
॥१०६॥
ट् ॥ द्रुच्छायामाश्रयत् स्निग्ध-वधूवत्खेदहारिणीम् ॥ १५१॥ विप्रस्तु स्थगिकामध्या-सक्तूनाऽऽकृष्य वारिणा ॥ आर्द्रयामास तान् भोक्तुं, चैक एवोपचक्रमे ॥१५२॥ धूर्तों दध्यौ क्षुधार्तत्वा-भोज्यं नाऽऽदावऽदान्मम॥ भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्प्रदास्यति ! ॥ १५३ ॥ विप्रस्तु मार्गमित्राया-ऽप्यस्मै नो किञ्चिदप्यदात् ॥ याचको हि स्वयं प्रायो-ऽन्यस्मै दातुं न शक्नयात् ! ॥ १५४ ॥ विप्रेऽथ स्थगिकां बद्धा, पुरतः प्रस्थिते सति ॥ धूर्तेशोऽनुव्रजन् दध्या-चपराहे प्रदास्यति ! ॥ १५५ ॥ द्विजस्तथैव सायाह्ने-ऽप्यभुक्ताऽस्मै तु नो ददौ ॥ कल्ये, दास्यत्यसौ नून-मिति दध्यौ च धूर्तपः ॥१५६॥ पुरो यान्तौ च तौ रात्रौ, जातायां वटसन्निधौ ॥मार्ग मुक्त्वा सुषु|पतुः, प्रभाते च प्रचेलतुः॥ १५७ ॥ जाते मध्यंदिने प्राग्व-द्विप्रो भुङ्क्ते स्म नत्वदात् ॥ मूलस्त्वाशातन्तुबद्ध-जीवितः पुरतोऽचलत् ! ॥ १५८ ॥ तृतीये तु दिने मूल-देवो दध्यौ क्षुधातुरः ॥ तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ॥ १५९ ॥ तत्राप्यहि द्विजो नादा-त्तीर्णेऽरण्ये जगौ तु तम् ॥ वयस्य ! तव मार्गोयं, मम चायं ब्रजामि तत् ॥ १६० ॥ मूलदेवोऽभ्यधाद्भट्ट !, त्वत्साहाय्यादियं मया ॥तीर्णा महाटवी तुम्ब-महिम्नेव महानदी ॥ १६१॥ कार्योत्पत्ती ततो मूल-देवनाम्नो ममान्तिके ॥ वेण्णातटे त्वमागच्छे-माऽऽख्याहि निजं च मे ॥ १६२ ॥ अहं निघृण शर्मेति, जनैर्दत्तापराभिधः॥ द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोऽगमत्ततः ॥ १६३ ॥ प्रति वेण्णातटं गच्छन् , मूलदेवस्ततोऽन्तरा ॥ वसन्तं ग्राममैक्षिष्ट, भिक्षार्थ तत्र चागमत् ॥ १६४ ॥ भ्रामं भ्रामं तत्र लेभे, कुल्मा
SACACCURRICULGARLS
६
॥
Page #213
--------------------------------------------------------------------------
________________
पानेव केवलान् ॥ तानादाय प्रतस्थेऽथ, मूलः प्रति जलाशयम् ॥ १६५ ॥ अत्रान्तरे तपस्तेज-स्तरणिं शान्तचेतसम् ॥ मासोपवासिनं साधु-मायान्तं ग्रामसंमुखम् ॥ १६६ ॥ समीक्ष्य मुदितो मूल-देव एवमचिन्तयत् ॥ धन्योऽहं यन्मया दृष्टः, समयेऽस्मिन्नसौ मुनिः ॥ १६७ ॥ [युग्मम् ] यथा भवेन्मरुस्थल्यां, दुर्लभस्त्रिदशद्रुमः ॥ तथारनत्रयाधारः, स्थानेऽत्राऽसौ महामुनिः!॥ १६८ ॥ ग्रामेऽस्मिन्कृपणे किञ्चि-दप्यसौ न च लप्स्यते ॥ लप्स्येऽहं तु पुनर्भोज्य-मत्र वाऽन्यत्र वा भ्रमन् ॥ १६९ ॥ इमान् विशुद्धान् कुल्माषां-स्तद्दत्वाऽस्मै महात्मने ॥ विवेकशाखिन । कुर्वे-5चिरात्सफलमात्मनः ! ॥ १७॥ ध्यात्वेत्युद्गतरोमाञ्चः, प्रमोदाश्रुविमिश्ररक् ॥ भक्तिपूर्व मूलदेवो, मुनि नत्वैवमब्रवीत् ॥ १७१ ॥ व्यसनाम्भोधिपतिते, मयि कृत्वा कृपां प्रभो!॥ एतानादत्व कुल्माषा-माञ्च निस्तारय द्रुतम् ! ॥ १७२ ॥ द्रव्यादिशुद्धिं विज्ञाय, ततस्तानाददे यतिः॥ ततः प्रमुदितो मूल-देव एवमवोचत ॥ १७३ ॥1 धन्यानां हि नराणां स्युः, कुल्माषाः साधु पारणे ॥ तदा च वीक्ष्य तद्भक्तिं, हृष्टा काऽपि सुरीत्यवक् ॥ १७४ ॥ वत्स ! त्वया कृतं साधु, साधुभक्तिं वितन्वता ॥ ततः श्लोकोत्तरार्धेन, यत्तेऽभीष्टं वृणुष्व तत् ! ॥ १७५ ॥ मूलदेवोऽपि तां देवी-मवादीन्मुदितस्ततः ॥ देहि वेश्यां देवदत्तां, राज्यञ्चेभसहस्रयुक् ॥ १७६ ॥ देव्युवाचाऽचिरादेव, लप्स्यसे सर्वमप्यदः ॥ मूलदेवस्ततः साधु, नत्वा ग्रामेऽगमत्पुनः ॥ १७७ ॥ भिक्षां तत्राऽपरां प्राप्य, भुक्त्वा च स पुरो ब्रजन् ॥ प्राप वेण्णातटं पान्थ-शालायां तत्र चाखपीत् ॥ १७८ ॥ निशायाश्चान्तिमे यामे, पूर्णेन्दुं निर्मल
Page #214
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१०७॥
द्युतिम् ॥ खन्नेऽपश्यन्मूलदेवः, प्रविशन्तं निजानने ॥ १७९ ॥ तदा कार्पटिको-ऽप्येकोऽद्राक्षीत्स्वप्नं तमेव हि ॥ तृतीयमध्यविनिद्रः स तु पप्रच्छा-ऽन्येषां खप्नफलं ततः॥ १८०॥ खप्नार्थ तस्य तत्रैव-मेकः कार्पटिकोऽवदत् ॥ मण्डकं यनम् (३) साज्यमद्यत्वं, खण्डायुक्तं च लप्स्यसे ! ॥ १८१ ॥ स च कार्पटिकः प्राप, तावताऽपि परां मुदम् ॥ मूलदे-18 वस्तु मूढानां, नो तेषां स्वप्नमब्रवीत् ॥१८२॥ सोऽथ कार्पटिको लेभे, गेहाच्छादनकर्मणि ॥ यथोक्तं मण्डक तचा-ऽन्येषां खेषां न्यवेदयत् ॥ १८३ ॥ प्रत्यूषे मूलदेवस्तु, गत्वोद्याने धियां निधिः ॥ मालिकं प्रीणयामास, कुसु-8 मावचयादिना ॥१८४ ॥ तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् ॥ तान्यादायाऽगमत्स्वान-शास्त्रकोविदधाम्नि सः ॥ १८५ ॥ नत्वा दत्वा च पुष्पादि, पाठकाय न्यवेदयत्॥मूलदेवो निजं खप्नं, सोऽपि हृष्टोऽब्रवीदिति ॥१८६॥ वत्स ! वक्ष्याम्यहं स्वप्न-फलं तव शुभेक्षणे ॥ अद्यातिथी भवास्माकं, सोऽपि तत्प्रत्यपद्यत ॥ १८७ ॥ ततस्तं स्त्रपयित्वा च, भोजयित्वा च सादरम् ॥ उपाध्यायोऽभ्यधावत्स !, कन्येयं परिणीयताम् ॥ १८८ ॥ मूलोऽवादीन्ममाज्ञात-कुलस्यापि निजां सुताम् ॥ तात ! दत्से कथंकारं, ततः सोऽप्येवमालपत् ॥ १८९॥ कुलं गुणाश्च ते वत्स !, मूत्यैव विदिता मया ॥ तदिमां मे सुतां सद्यः, पाणौ कृत्य कृतार्थय ! ॥ १९० ॥ इत्युक्त्वाऽध्यापकस्तस्मै, कन्यां
॥१०७॥ दत्त्वैवमब्रवीत् ॥ ससरात्रान्तरे भावी, स्वप्नादस्मान्नृपो भवान् ! ॥ १९१ ॥ हृष्टस्ततो मूलदेव-स्तदावासे सुखं
१ मध्येसप्तदिनं भावी ॥ इति 'ग' संज्ञकपुस्तके ॥
Page #215
--------------------------------------------------------------------------
________________
वसन् ॥ गत्वोद्याने पञ्चमेह्नि, चम्पकद्रुतलेऽखपीत् ॥ १९२॥ तदा च तत्पुराधीशः, प्रापापुत्रः परासुताम् ॥ ततोऽधिवासयामासुः, पञ्च दिव्यानि धीसखाः॥ १९३॥ हस्त्यश्वछत्रभृङ्गार-चामरा मत्रवासिताः॥ पुरीमध्ये भ्रमन | राज्य-योग्यं मत्य तु नाऽऽनुवन् ! ॥ १९४ ॥ ततो बहिर्धेमन्तस्ते, मूलदेवं व्यलोकयन् ॥ प्रसुप्तमपरावृत्त-च्छायं |चम्पकसन्निधौ ॥ १९५ ॥ ततश्चक्रे हयो हेषां, गजो गुलगुलायितम् ॥ अभिषेकं च भृङ्गार-चामरौ वीजनं तथा ॥ १९६ ॥ पुण्डरीकं च तस्योद्धे, व्यकसत्पुण्डरीकवत् ॥ सुखामिप्राप्तिमुदितै-र्जनैश्चक्रे जयारवः ॥ १९७ ॥ ततस्तं सिन्धुरः सौव-स्कन्धेऽध्यारोपयत्वयम् ॥ प्रावीविशच्च नगरे, नागरीनिर्मितोत्सवे ॥ १९८॥राज्याभिषेकं तस्याऽथ, |चक्रुः सामन्तमत्रिणः ॥ तदा च देवता व्योम्नि, व्यक्तमेवमवोचत ॥ १९९ ॥ "देवतानां प्रभावेणा-वाप्सराज्यः कलानिधिः॥ एष विक्रमराजाहो, राजा मान्योऽखिलैर्जनैः ॥२००॥ यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मंस्यते ॥ तमहं निग्रहीष्यामि, विद्युत्पात इवाङिपम् ॥ २०१॥” तन्निशम्याऽखिलं राज-मण्डलं भीतविस्मितम् ॥ तस्या|ऽवश्यमभूदृश्य, सौख्यं धर्मवतो यथा ॥ २०२॥ सोऽथ भूपो व्यधात्प्रीति, प्राभृतप्रेषणादिना ॥ विचारधवलाख्येनो-जयनीखामिना समम् ॥ २०३ ॥
[इतश्च-] देवदत्ताऽपि तां प्रेक्ष्य, मूलदेवविडम्बनाम् ॥ इत्युवाचाऽचलं कोपा-वेशकम्पितविग्रहा ॥२०४॥ रेमूढ ! किं त्वया ज्ञाता, परिणीतवधूरहम् ॥ यन्ममापि गृहेऽकार्षी-रसमञ्जसमीदृशम् ॥ २०५॥ अतः परं समा
Page #216
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १०८ ॥
गम्यं नैवास्मद्वेश्मनि त्वया ॥ इत्युक्त्वा तं च निष्काश्य, गेहात्सागान्नृपान्तिकम् ॥ २०६ ॥ इत्यूचे च प्रभो ! दत्त, तं वरं मम साम्प्रतम् ॥ नृपः प्रोचे यदिष्टं ते, तदाख्याहि यथा ददे ॥ २०७ ॥ मूलदेवं विना नान्यः कोऽपि प्रेष्यो मदालये ॥ अचलश्चायमागच्छ - न्निवार्य इति साऽवदत् ॥ २०८ ॥ अस्त्वेवं किन्तु को हेतु - रिति पृष्टेऽथ भूभृता ॥ देवदत्ताज्ञयावार्ता, तामवोचत माधवी ॥ २०९ ॥ रुष्टोऽथ पार्थिवः सार्थ - वाहमाहूय तं जगौ ॥ रे ! किमत्राऽधिपोऽसि त्वं यदेवं कुरुषे बलम् ? ॥ २१० ॥ देवदत्तामूलदेवौ, रवभूतौ पुरे मम ॥ यत्त्वया धर्षितौ तत्त्वां मारयिष्यामि साम्प्रतम् ॥ २१९ ॥ क्षुद्रेणानेन भूजाने !, किं हतेनेति वादिनी ॥ देवदत्ताऽमोचयत्तं भूप| श्वेत्यवदत्तदा ॥ २१२ ॥ अस्या वाक्येन मुक्तस्त्वं यद्यप्यचल ! सम्प्रति ॥ तथापि मूलदेवेऽत्रा - ऽऽनीते शुद्धिर्भवेतव ॥ २१३ ॥ अचलोऽथ नृपं नत्वा - ऽन्वेषयामास सर्वतः ॥ मूलदेवं न तु प्राप, निर्भाग्य इव सेवधिम् ॥ २१४ ॥ तया न्यूनतया भूपा-झीतः सार्थपतिस्ततः ॥ अगात्पारसकूलं द्रागू, भाण्डान्यादाय वाहनैः ॥ २१५ ॥ इतश्च मूलदेवोऽपि तद्राज्यमपि नीरसं ॥ मन्यमानो विना देव - दत्तां निर्लवणान्नवत् ॥ २१६ ॥ प्राहिणोद्देवदत्तायै, लेख | सहूतपाणिना । साऽपि तं वाचयामासा - ऽऽनन्दापूर्णमना इति ॥ २१७ ॥ [ युग्मम् ] खस्ति वेण्णातटान्मूलदेवेनोज्जयनीस्थिता ॥ आलिंग्यालाप्यते देव - दत्ता चित्ताजहंसिका ॥ २९८ ॥ अस्तीह कुशलं देव - गुरुपादप्रसादतः ॥ त्वयाऽपि स्वाङ्गवार्तत्व - वार्ता ज्ञाप्या मुदे मम ॥ २१९ ॥ किञ्च साधोर्मया दत्तं दानं तद्वीक्ष्य मां सुरी ॥ ऊचे
तृतीयमध्ययनम् (३)
॥ १०८ ॥
Page #217
--------------------------------------------------------------------------
________________
वरं वृणुष्वेति, ततोऽहमिति तां जगौ ॥ २२० ॥ देवदत्तासहस्रभ-युक्तं राज्यं प्रदेहि मे ॥ ततो राज्यं मया लब्धं, तच व्यर्थ त्वया विना ! ॥ २२१॥ तत्सत्वरं त्वयाऽऽगम्य-मिहापृच्छय धराधरम् ॥ कालक्षेपश्च नात्रार्थे, कर्तव्य इति मङ्गलम् ॥ २२२ ॥ वाचयित्वेति सा तुष्टा, दूतमेवमभाषत ॥ अहं तदेकचित्तापि, कुर्वेऽपेक्षां पुरीपतेः॥२२३॥ हृष्टो दूतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् ॥ मूलदेवनृपो देव !, मन्मुखेनेति याचते ॥ २२४॥ स्वामिन्मे देवदत्तायां, निविडं प्रेम वर्तते ॥ तत्सा प्रेष्या यदा तस्या, युष्माकं च रुचिर्भवेत् ॥ २२५॥ ततःप्रोचे नृपो राज्य-15 मप्येतत्तस्य विद्यते ॥ तत् िविक्रमराजेन, राज्ञैतन्मात्रमर्थितम् ? २२६॥ इत्युदित्वा देवदत्तां, समाकार्य नृपोऽलपत् ॥ भद्रे ! चिरेण सम्पूर्ण, तव चेतःसमीहितम् ! २२७॥ देवतादत्तराज्यश्रीः,प्राहिणोन्मूलदेवराट् ॥ त्वामानेतुं निजं मर्त्य, | तत्त्वया तत्र गम्यताम् ॥२२८॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातट क्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं ।। पुरे ॥ २२९ ॥ सोऽथ वैषयिकं सौख्यं, भुआनो देवदत्तया ॥ धर्मकृत्यं व्यधान्नित्य-मर्हचैत्यार्चनादिकम् ॥ २३० ॥
इतश्चागण्यपण्यौघ, भृत्वा पारसकूलतः ॥ भागाद्वेण्णातटेऽन्येद्युः, सार्थवाहोऽचलाह्वयः ॥ २३१ ॥ किं नामात्र नृपोऽस्तीति, तत्र लोकान् स पृष्टवान् ॥ राजा विक्रमराजाख्यो, वर्ततेऽत्रेति ते जगुः ॥ २३२ ॥ ततः वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥ मापालं प्रेक्षितुं सोऽगा-द्भपोप्यासनमार्पयत् ॥ २३३ ॥18 तमुपालक्षयन्मंक्षु, भूपो भूपं तु नाऽचलः ॥ श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीनृपोऽथ तम् ॥ २३४ ॥
ESSAIRESCE
Page #218
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१०९॥
भा
प्रत्युवाचाऽचलः खामि-नागा पारसकूलतः ॥ ततस्तं वार्तयामास, प्रजानाथः सगौरवम् ॥ ३३५ ॥ भाण्डं दर्श- तृतीयमध्ययितुं पञ्च-कुले तेनाऽथ याचिते ॥ भूपोऽभ्यधात्समेष्यामः, कौतुकेन खयं वयम् ॥ २३६ ॥ महाप्रसाद इत्युक्ते- यनम् (३)
ऽथ नृपो ययौ ॥ तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः ॥ २३७ ॥ मजिष्ठाक्रमुकादीनि, सोऽपि डान्यदर्शयत् ॥ ततोऽवदन्नपो भाण्ड-मिदमेवास्ति किं तब ? ॥ २३८ ॥ भाण्डं ममेदमेवास्ती-त्युक्ते तेन नृपोऽवदत् ॥ सत्यं ब्रूया न चेच्छुल्क-चौर्या विग्रहनिग्रहः ॥ २३९ ॥ नान्यस्यापि पुरोलीकं, वचम्यहं किं पुनः प्रभो!॥ तेनेत्युक्ते नृपोऽवादी-दिति पञ्चकुलं प्रति ॥ २४०॥ अर्धदानं श्रेष्ठिनोऽस्य, क्रियतां सत्यवादिनः॥ किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे पुरः ॥ २४१॥ तेषां च तोलने भार-वैषम्यादङ्ग्रिघाततः ॥ वंशवेधाच मञ्जिष्ठा-द्यतर्मेने नृपोऽपरम् ॥ २४२ ॥ भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽभेदयत्ततः ॥ तेभ्यो मुक्तावर्णरूप्यविद्रुमादि विनिर्ययौ ॥२४३॥ तत्प्रेक्ष्योत्पन्नकोपेना-ऽचलोऽवध्यत भूभृता ॥ अरे प्रत्यक्षचौरोऽयं, बध्यतामिति | वादिना ! ॥ २४४ ॥ मुक्त्वा भटांश्च तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् ॥ आरक्षकोऽपि तं बद्ध-मनैषीपसन्निधौ ।
॥१०९॥ ॥ २४५ ॥ गाढबद्धं च तं दृष्ट्वा, छोटयित्वा च भूधवः ॥ सार्थवाह ! किमु त्वं मां, सानासीति पृष्टवान् ? ॥ २४६ ॥ सोऽवादीद्धवनोद्योत-करं वैरितमोहरम् ॥ त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः? ॥२४७॥ चाटुवाक्यैः कृतं सम्यक्, यदि वेत्सि तदा वद ॥ नृपेणेत्युदितः प्रोचे-ऽचलस्तर्हि न वेद्यहम् ॥ २४८ ॥ ततः ।
Page #219
--------------------------------------------------------------------------
________________
945455125ARA
पथ्वीपतिर्देव-दत्तामाहूय तं तथा ॥ अदर्शयत्तां च वीक्ष्या-ऽचलोऽभूद्याकुलो भृशम् ॥ २४९ ॥ ततो विलक्ष क्ष्मान्यस्ते-क्षणं हीणमधोमुखम् ॥ विस्मयस्मेरनयना, देवदत्तेति तं जगी ॥ २५० ॥ देवाद्विपदमाप्तस्य, कार्यमेवं त्वया|ऽपि मे ॥ तदेत्युक्तस्त्वया योऽभू-मूलदेवोऽयमस्ति सः ॥२५१॥ तदिदं व्यसनं वित्त-देहसन्देहसाधनम् ॥ प्राप्तोऽपि त्वं विमुक्तोऽसि, राज्ञा दीनदयालुना ॥ २५२॥ वीक्षापन्नोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् ॥ इत्युवाचा-8 खिलान्मन्तून् , सहध्वं मे तदाकृतान् ॥ २५३ ॥ आगसा कुपितस्तेन, विचारधवलोनृपः ॥ प्रवेशमप्यवन्त्यां मे,
युष्मद्वाचैव दास्यति ॥ २५४ ॥ नरदेवोऽवदद्देव-दत्तादेवी यदा त्वयि ॥ प्रसादमकरोन्मन्तु-मया सोढस्तदैव ते B॥२५५ ॥ ततोऽचलः प्रमुदितो, भूयोऽपि प्रणनाम तौ ॥ स्त्रपयित्वाऽभोजयत्तं, देवदत्ताऽपि सादरम् ॥ २५६ ॥
भूपोऽपि भूरिमूल्यानि, दत्वा वासांसि तस्य तत् ॥ शुल्कं मुमोच सन्तोहि, द्विपामप्युपकारिणः॥ २५७ ॥ दूतं
दत्वाऽऽत्मनो गन्तु-मवन्त्यां व्यसृजच तम् ॥ अवन्तीशोऽपि तद्वाचा, प्रवेशं तस्य दत्तवान् ॥ २५८ ॥ विप्रो निमाघृणशर्माऽपि, प्राप्तराज्यं निशम्य तम् ॥ अगाद्वेण्णात्तटं मूल-देवभूपं ननाम च ॥ २५९ ॥ प्रत्यभिज्ञाय भूपोऽपि, |तं कृतज्ञशिरोमणिः ॥ अदृष्टसेवया तस्मै, ददौ ग्राम तमेव हि ॥२६॥ | सोऽथ कार्पटिकोऽश्रौषी-द्यचन्द्रग्रासलक्षणात् ॥ स्वप्नादासीन्मूलदेवो, नृपः सम्यग्विचारितात् ॥ २६१ ॥ ततः सोऽचिन्तयद्धिमां, यत्खनस्तादृशस्तदा॥ आवेदनेन मन्दानां, नीतो निष्फलतां मया ! ॥ २६२ ॥ तदद्यापि हि
Page #220
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ११० ॥
चेत्पीत्वा, गोरसं सरसं शये ॥ तदाहमीदृशं स्वप्नं, भूयः पश्यामि राज्यदम् ! || २६३ ॥ इति ध्यायन् राज्यलक्ष्मीं, |कांक्षन् सोऽनिशमखपीत् ॥ न तु तं स्वप्नमैक्षिष्ट, गूढमर्थमिवाबुधः ! ॥ २६४ ॥ कदाप्यऽसौ कार्पटिकोऽपि पश्येत्स्वप्नं तमप्युत्कटभाग्ययोगात् ॥ न तु प्रमादाच्युतमर्त्यजन्मा, लभेत भूयोऽपि जनो नरत्वम् ! ॥ २६५ ॥ इति स्वप्नदृष्टान्तः षष्ठः ॥ ६ ॥ अथ ' चक्केत्ति' पदसूचितो राधावेधदृष्टान्तस्तथा हि
अभूदिन्द्रपुरं नाम, पुरमिन्द्रपुरोपमम् ॥ नृपस्तत्रेन्द्रदत्ताहो, बभूवेन्द्र इव श्रिया ॥ १ ॥ राज्ञस्तस्याऽभवन् बह्वथो, वल्लभाः प्राणवल्लभाः ॥ सुता द्वाविंशतिस्तासा - मासन् पृथ्वीपतिप्रियाः ॥ २ ॥ तांस्तु सर्वानपि नृपो, महोत्सवपुरसरम् ॥ कलाभ्यासार्थममुच - त्कलाचार्यस्य सन्निधौ ॥ ३ ॥ स च भूपोऽन्यदा प्रेक्ष्य, मन्त्रिपुत्रीं मनोरमाम् ॥ उपयेमे तां च मत्री, दीर्घदर्शीत्य शिक्षयत् ॥ ४ ॥ यदा गर्भसमुत्पत्ति - जयते तव हे सुते ! ॥ तदा दिनादिकं सर्व- मि ज्ञाप्यं त्वया मम ॥ ५ ॥ प्रतिपेदे पितुर्वाणीं, तथाऽमात्यसुताऽपि ताम् ॥ नोद्वाहमनु भूपस्तु, तां पस्पर्श ददर्श च ॥ ६ ॥ बहुप्रियो भूप्रियस्तां, सस्माराऽपि न कर्हिचित् ! ॥ भूरिभार्यस्य किं कार्य, तस्य न स्यात् विनापि ताम् ? ॥७॥ अन्यदा तामृतुखातां ददर्श पृथिवीपतिः ॥ वधूः कस्येयमित्यन्याः, पप्रच्छ च निजप्रियाः ॥ ८ ॥ प्रभो ! तवैव पत्नीय - मिति ताभिरुदीरिते । तयैव सह तां रात्रि - मुवासाऽवनिवासवः ॥ ९ ॥ तत्रैव रात्रौ सा गर्भ, बभार नृप - | सङ्गमात् ॥ खातिपाथोमुचः सङ्गा - च्छुक्तिर्मुक्तामणीमिव ॥ १० ॥ गर्भसम्भवकालं तं साऽथ पित्रे न्यवेदयत् ॥
तृतीयमध्ययनम् (३)
॥ ११० ॥
Page #221
--------------------------------------------------------------------------
________________
SAUSASUSESSAY
अभिज्ञानार्थमुशि-प्रोक्तानि वचनानि च ॥११॥ साभिज्ञानं धीसखोऽपि, तत्सर्वं पत्रके लिखत् ॥ नृपाज्ञयाऽऽनयत्तां च, खगेहे प्रसवोन्मुखीम् ॥ १२॥ गर्भकाले च सम्पूर्णे, साऽसूत सुतमुत्तमम् ॥ ततः प्रमुदितोऽमात्य-स्तस्य जन्मोत्सवं व्यधात् ॥ १३॥ सुरेन्द्रदत्त इत्याख्यां, तस्य चक्रे च सोत्सवम् ॥ सोऽप्यवर्धिष्ट तद्गहे, कल्पद्रुरिव नन्दने ॥ १४ ॥ अग्निकाख्यः पर्वतको, बहली सागराभिधः॥ दासेरा इति चत्वार-स्तस्याऽभूवन् सहोद्भवाः ॥१५॥ तैश्चतुर्भिः समं दासा-पत्यैः क्रीडां मनोरमाम् ॥ कुर्वाणः स कलाभ्यास-योग्यः समजनि क्रमात् ॥ १६ ॥ तं च मातामहोऽन्यधुः, कलाग्रहणहेतवे ॥ कलाचार्यस्य तस्यैवा-ऽभ्यासेऽमुञ्चन्महामहैः ॥ १७॥ मातामहकलाचार्यशिक्षाभिः सकला अपि ॥ क्रीडास्त्यक्त्वा कलाभ्यास-मेकचित्तो व्यधत्त सः ॥१८॥ दासेरास्ते कलाभ्यासा-वसरे पूर्वसंस्तवात् ॥ अन्तरायान् व्यधूस्तस्य, तुमुलाकर्षणादिना ॥ १९ ॥ तैरप्यस्खलितोत्साहः, कुर्वन् सोऽभ्यास-1 मन्वहम् ॥ स्वभाववत्सदभ्यस्ता-श्चक्रे द्वासप्ततिं कलाः ॥२०॥ विशेषाच धनुर्वेदा-भ्यासं स विदधे तथा ॥ असाधयद्यथाराधा-वेधमप्यनुवासरम् ॥ २१॥ ते तु वाविंशतिः सम्य-कलाभ्यासं न चक्रिरे ॥ कुर्वन्तो विविधां क्रीडा-मन्योन्यं वल्गनादिकाम् ॥ २२ ॥ पाठकेन प्रणुन्नास्तु, कलाग्रहणकर्मणि ॥ दुष्टवाक्यानि जल्पन्तो-ऽभूवं-18 स्तत्कुट्टनोद्यताः!॥ २३॥ तांश्च कम्बादिनाचार्य-स्ताडयद्यदि कर्हिचित् ॥ तदा रुदन्तस्ते गत्वा, खमातृणां न्यवेदयन् ॥ २४ ॥ ततस्तास्तं कलाचार्य-मित्युपालम्भयन् रुषा ॥ भवन्त्यस्मादृशां प्राय-स्तनयाः खलु दुर्लभाः!|
Page #222
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १११ ॥
॥ २५ ॥ तदस्माकं सुता एते, पाठनीया यथासुखम् ॥ ताडनीयास्तु युष्माभि-नैव निष्ठुरमानसैः ॥ २६ ॥ ततो दध्यावुपाध्यायो - ऽमीषामध्यापनान्मया || सम्प्राप्तं नैव सन्मान - मुपालम्भस्त्वलभ्यत ! ॥ २७ ॥ तदमीषां शूकलाश्व- देश्यानां दुष्टचेतसाम् ॥ अध्यापनप्रयासेन, ममातिबहुना कृतम् ! ॥ २८ ॥ तेनेत्युपेक्षिताः क्ष्माप - पुत्रास्ते सकलाः कलाः ॥ नाम्नैव जगृहुः सम्यक्, नत्वविन्दन्त काञ्चन ॥ २९ ॥ यतः -- “ नानुद्योगवता न च प्रवसता ना| त्मानमुत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा ॥ न भ्रूभङ्गविलासविस्मितमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतामभिमतो विद्यागुणः प्राप्यते ! ॥ ३० ॥" तादृशानपि भूपस्तान् विवेद विदुषोऽखिलान् ॥ आन्तरङ्गं गुणं वेत्ति, परीक्षामन्तरा हि कः ? ॥ ३१ ॥ सपुत्रां मन्त्रिपुत्रीं तु, पूर्ववद्यस्मरन्नृपः ॥ गताहर्भुक्तमप्यल्पबुद्धयो हि स्मरन्ति न ! ॥ ३२ ॥
इतश्च मथुरापुर्या, जितशत्रोर्महीपतेः ॥ भूर्भुवः स्वर्वधूजैत्रा, सुता निर्वृतिरित्यभूत् ॥ ३३ ॥ तामशेषकलादक्षां प्राप्ताभिनवयौवनाम् ॥ अन्येद्युः प्राहिणोन्माता, परिष्कृत्य नृपान्तिके ॥ ३४ ॥ साऽपि गत्वा सभामध्ये, प्रणनाम महीधवम् ॥ तां निवेश्य निजोत्सङ्गे, नृपोप्येवमचिन्तयत् ॥ ३५ ॥ पाणिग्रहणयोग्याऽसौ सुताऽभूत्प्राप्तयौवना ॥ प्रायो भवन्ति भूपानां, नन्दनाश्च खयंवराः ॥ ३६ ॥ तदभीष्टेन भर्त्राऽसौ विवाह्येति विमृश्य सः ॥ सुते ! कस्ते वराऽभीष्टः, सस्नेहमिति पृष्टवान् ? ॥ ३७ ॥ सा प्रोचे यः पुमान् राधा - वेधं साधयति स्फुटम् ॥ खामिन्नहं वरि
तृतीयमध्ययनम् (३)
॥ १११ ॥
Page #223
--------------------------------------------------------------------------
________________
प्यामि. तं वरं वसुधावरम् ॥ ३८ ॥ तत इन्द्रपुराधीश-स्येन्द्रदत्तस्य भूभुजः॥ कलाभ्यासपरान् भूय-स्तरानाकर्ण्य नन्दनान् ॥ ३९॥ जितशत्रुनृपस्तत्र, गन्तुं प्रातिष्ठिपत्सुताम् ॥ युक्तां वृद्धैः कुलामात्यै-श्चतुरङ्गचमूवृताम् ॥ ४०॥
युग्मम् ] क्रमादिन्द्रपुरे साऽगा-दिन्द्रदत्तनृपोऽपि ताम् ॥ पुरे प्रावीविशत्तुष्ट-चेता गुरुभिरुत्सवैः ॥४१॥ दध्यौ चाऽशेषभूपेभ्यः, कृतपुण्योऽस्मि नन्वहम् ॥ यत्कनीयं विहायान्या-न्मत्सुतं परिणेष्यति !॥ ४२ ॥ ध्यायन्निति प्रतिज्ञां च, तस्यास्तामवधारयन् ॥ अकारयन्नपो भव्यं, स्वयंवरणमण्डपम् ॥ ४३॥ काञ्चनस्तम्भसंलग्न-चञ्चन्मा|णिक्यतोरणे ॥ मौक्तिकखस्तिकश्रेणी-दन्तुरीभूतभूतले ॥४४॥ सुगन्धिपञ्चवर्णाढ्य-पुष्पप्रकरपूजिते ॥ विचित्रोलोचरचना-चित्रीयितजगत्रये ॥४५॥ अकाण्डोद्भूतसन्ध्याभ्र-पटलभ्रान्तिकारिभिः ॥ अभ्रंलिहः पञ्चवर्णेः, केतुलक्षैविभूषिते ॥ ४६ ॥ तस्मिंश्च मण्डपे शक्रा-स्थानमण्डपसन्निभे ॥ इन्द्रदत्तो नृपः स्तम्भ-मेकमुच्चैरतिष्ठिपत् ॥४७॥ [ चतुर्भिः कलापकम् ] चत्वारि सृष्ट्या चत्वारि, संहृत्या चातिवेगतः ॥ भ्राम्यन्ति लोहचक्राणि, स्तम्भोद्धच न्यवीविशत् ॥४८॥ तेषां चोपरि राधेति-प्रसिद्धां शालभञ्जिकाम् ॥ अस्थापयदधस्ताच, तैलसम्पूर्ण कुण्डिकाम् ॥४९॥ कुण्डीतैलस्थचक्रादि-प्रतिबिम्बानुसारतः॥ राधाया वामनयनं, वेध्यं तत्र च साधकैः ॥५०॥ ततः स भूपः। सानन्दं, द्वाविंशत्या सुतैः समम् ॥ पुराबहिःस्थे तत्रागा-मण्डपे सपरिच्छदः ॥५१॥ सुरेन्द्रदत्तसचिव-स्तत्रागासचिवोऽपि सः॥ पौराश्च कोटिशस्तत्रा-ऽऽययुः कौतुकमीक्षितुम् ॥ ५२ ॥ सर्वालङ्कारसुभगा, लक्ष्मीरिव वपुष्मती॥
Page #224
--------------------------------------------------------------------------
________________
तृतीयमध्य
18 यनम् (३)
उत्तराध्ययन खयंवरस्र काम-दोलाभां बिभ्रती करे ॥५३॥ दधाना श्वेतवस्त्राणि, व्यूतानीवेन्दुकान्तिभिः॥ हरन्ती खर्वधू
गर्व, नेत्ररेव सविभ्रमैः ॥५४॥ दर्शनादपि विश्वेषां, विशां नितिदायिनी ॥ तस्थौ निर्वृतिकन्यापि, तस्य स्तम्भस्य ॥११२॥
सन्निधौ ॥ ५५॥ [ त्रिभिर्विशेषकम् ] अथोचे भूपतिज्येष्ठ-सुतं श्रीमालिसंज्ञकम् ॥ राधावेधात्कनीमेनां, राज्यं | चामुहि वत्स हे !॥ ५६ ॥ स त्वनभ्यासतश्चापा-कर्षणेप्यक्षमोऽभवत् ॥ तथापि धाय॑मालम्ब्य, कथञ्चित्तदुपाददे ॥ ५७॥ यत्र वा तत्र वा यातु, मुक्तः श्रीमालिना शरः ॥ इत्युक्त्वा सोऽमुचद्वाणं, सद्यः पाञ्चालिकां प्रति ॥ ५८॥ विशिखः स तु चक्रेणा-स्फल्य भग्नोऽपतद्भुवि ॥ अहो! कलावानिति सो-ऽहासि लोकैस्ततो भृशम् ! ॥ ५९॥
वीक्षापन्नस्ततो वीक्षा-म्बभूव भुवमेव सः॥ विविक्षुरिव पातालं, तया निन्दोत्थया हिया॥ ६०॥ शरः कस्याप्येव-18 दामेक-मतिचक्राम चक्रकम् ॥ कस्यापि द्वे त्रीणि कस्या-प्यन्येषां चान्यतो ययौ ॥६१॥ न पुनः कोऽपि राट्पुत्रो,
राधावेधमसाधयत् ॥ मिथो नस्तुल्यता हानि-र्माऽभूदिति धिया किमु !॥ ६२॥ तद्विलोक्य सनिवेदं, दध्यावेवं धराधवः ॥ अमीभिस्तनयैर्लोक-समक्षं धर्षितोऽस्मि हा! ॥ ६३॥ भूतलव्यापिमत्कीर्ति-मूर्तिसंहारकारिणः॥ मम वैरिण एवामी, पुत्ररूपेण जज्ञिरे ! ॥ ६४ ॥ अमीभिः सत्कलाहीन-भूयोभिरपि कि सुतैः ? ॥ श्रेष्ठः कलावांस्त्वेको|ऽपि, क्षीराब्धेरिव चन्द्रमाः ! ॥ ६५ ॥ पुत्रो हि गुणवान् पित्रो-महानन्दाय जायते ॥ गुणहीनस्तु दुःखाय, वढेधूम इवाङ्गजः!॥ ६६ ॥ यदाहु:-"कामं श्यामवपुस्तथा मलिनयत्यावासवस्त्रादिकम् ॥ लोकं रोदयते भनक्ति
Page #225
--------------------------------------------------------------------------
________________
जनतागोष्ठीं क्षणेनापि यः ॥ मार्गेप्यङ्गुलिलग्न एव जनकस्याभ्येति न श्रयसे ॥ हा ! खाहाप्रिय ! धूममङ्गजमिमं सूत्वा न किं लज्जितः १ ॥ ६७ ॥" गतसर्वस्ववद्भूपे, ध्यायत्येवमधोमुखे । उवाच सचिवः खामिन् !, किमेवं दुर्मनायसे १ ॥ ६८ ॥ बभाषे भूपतिर्मत्रिन् !, पुत्रैरेभिरशिक्षितैः ॥ ध्वस्तो मे महिमा तेन दौर्मनस्यं श्रयाम्यहम् ! ॥ ६९ ॥ मन्यूचे दौर्मनस्येन कृतं यत्ते सुतोऽपरः ॥ सुरेन्द्रदत्तनामाऽस्ति, दौहित्रो मे कलानिधिः ॥ ७० ॥ राधावेधं विधातुं स प्रभूष्णुर्विद्यते प्रभो ! ॥ तदाकर्ण्याऽभ्यधाद्भूपो, मन्त्रिन्नाहं स्मरामि तम् ! ॥ ७१ ॥ राज्ञः पुरं ततो वृत्त - पत्रं तत्सचिवोऽमुचत् ॥ तद्वाचयित्वा स्मृत्वा च सर्व भूपोऽप्यमोदत ॥ ७२ ॥ काऽधुना स सुतोऽस्तीति, राज्ञोक्ते धीसखोऽपि तम् ॥ दर्शयामास भूपोऽपि तमालिङ्ग्येत्यवोचत ॥ ७३ ॥ राधावेधं साधयित्वा, वत्स ! केनाप्यसाधितम् ॥ राज्ययुक्तां कनीमेनां स्वीकुरु त्वं महामते ! ॥ ७४ ॥ ततः प्रमाणमादेशः पूज्याना - मित्युदीर्य सः ॥ स्तम्भस्य तस्य पार्श्वे च गत्वा चापमुपाददे ॥ ७५ ॥ अधिजीकृत्य तत्सत्य - सन्धः संधाय चाशुगम् ॥ ऊर्द्धमुष्टिरधोदृष्टि - स्तत्र तस्थौ च भूपभूः ॥ ७६ ॥ दध्यौ निर्वृत्तिकन्याऽपि वीक्ष्य तं रूपमन्मथम् ॥ अहो रूपमहो कान्ति रहो लावण्यमद्भुतम् ! ॥ ७७ ॥ ॥ एप विध्यति चेद्राधां तत्कृतार्था भवाम्यहम् ॥ ध्यायन्तीति | तदेकाग्र - चित्तासीद्योगिनीव सा ॥ ७८ ॥ तदा च तत्समीपस्था, दासेरास्ते चतुर्दिशम् ॥ चक्रुः कोलाहलं प्रोच्चै - स्तालिकास्फालनादिना ॥ ७९ ॥ तेऽपि द्वाविंशती राज- सुता उल्लण्ठभाषणैः ॥ असौ विध्यतु मा राधा - मित्य
Page #226
--------------------------------------------------------------------------
________________
उत्तराध्ययन
तृतीयमध्य यनम् (३)
॥११३॥
पायान् वितेनिरे ॥ ८० ॥ स्खलिते सति ते शीर्ष, छेत्स्याव इति वादिनौ ॥ पाईयोस्तस्थतुस्तस्य, खगव्यग्रकरौ नरौ ॥८१॥ समीपस्थः कलाचार्यो-ऽप्येवं स्माह मुहुर्मुहुः ॥ स्खलिते ते वधो भावी, तद्भूयास्त्वं समाहितः॥ ८२॥ दासेरांस्तान् कुमारांश्चा-ऽगणयन् सुभटौ च तौ ॥ कुण्डिकातैलसंक्रान्त-चक्रान्तय॑स्तलोचनः ॥८३॥ लक्ष्ये । |निरुद्धया दृष्ट्या, ज्ञात्वा चक्राष्टकान्तरम् ॥ तदेकाग्रमनाः सद्यः, कुमारो व्यमुचच्छरम् ॥ ८४ ॥ [ युग्मम् ] प्रविश्य तेषां चक्राणा-मन्तराले शरोऽपि सः॥ क्षणाद्विव्याध राधाया, वामनेत्रकनीनिकाम् ॥ ८५ ॥ ततो लोकैः प्रमुदितै-श्चके जयजयारवः ॥ तदैकायकरस्थैर्य-लघुहस्तत्वशंसिभिः ॥ ८६ ॥ तदा निर्वृत्तिकन्याऽपि, मुखे तस्य प्रमोदभाक् ॥ कटाक्षमालिकां न्यास्थ-त्कण्ठे तु कुसुमस्रजम् ॥ ८७ ॥ तमोभिरिव लोकस्य, सुतैरेभिरभून्मम ॥ यन्मा-1 लिन्यं तदा पूर्ण-विधुनेव त्वया हृतम् ॥ ८८ ॥ तत्त्वयैव सुतेनाह-मस्मि पुत्रीत्युदीरयन् ॥ तदेन्द्रदत्तराजेन्द्रः, प्रेम्णा तं परिषखजे ॥ ८९ ॥ [ युग्मम् ] ततः कुमारस्तां कन्या-मुपायंस्त महामहैः ॥ इन्द्रदत्तनरेन्द्रोऽपि, तस्मै राज्यं ददौ क्रमात् ॥ ९ ॥ ते तु द्वाविंशतिः पूर्व-मनभ्यासात्तदा कथम् ॥ राधावेधं साधयन्ति, श्रयन्ति च नृपश्रियम् ? ॥९१॥ दिव्यानुभावादथ तेऽपि राधा-वेधं कुमाराः किल साधयेयुः॥ प्रमत्तचित्तस्तु जनो नरत्वा-झ्युतः पुनस्तन्न लभेत सद्यः ॥ ९२ ॥ इति राधावेधदृष्टान्तः सप्तमः ॥ ७॥ अथ चर्मदृष्टान्तस्तथा हिहृद एकोऽभवत् क्वापि, योजनानि सहस्रशः ॥ विस्तीर्णोऽगाधपानीयो, भूरिनीरचरैभृतः ॥ १॥ तस्स चोपरि
॥११३॥
Page #227
--------------------------------------------------------------------------
________________
शेवाल-जालैरन्योन्यसङ्गतैः ॥ सर्वत्राच्छादनं चर्म-समानं समभूत्सदा ॥ २॥ तत्र चैकोऽवसत्कर्मः, पुत्रपौत्रादिसंयुतः ॥ ग्रीवां प्रसारयामास, स चान्दानां शते शते ॥ ३ ॥ अन्यदा तस्य सान्द्रस्य, मध्ये शेवालचर्मणः॥ छिद्रं बभूव प्रबल-समीरणसमीरणात् ॥ ४॥ दैवयोगात्स कूर्मोऽपि, ग्रीवां प्रासारयत्तदा ॥ रन्ध्रेण तेन ग्रीवाऽपि, | निरगाचर्मणो बहिः ॥ ५ ॥ ततः स पूर्णिमाचन्द्र-तारामण्डलमण्डितम् ॥ अदृष्टपूर्वमाकाशं, वीक्ष्यात्यन्तं विसिष्मिये ॥ ६ ॥ महाश्चर्यमिदं खीय-बन्धूनां दर्शयाम्यहम् ॥ ध्यात्वेत्याह्वातुमात्मीया-न्मध्ये हृदमगाच सः ॥७॥ तानाहूय समेतस्तु, न लेभे पर्यटन्नपि ॥ तच्छिद्रं पवनोद्भूतैः, शेवालैः स्थगितं क्षणात् ! ॥ ८॥ कूर्मः पुनस्तत्र लभेत रन्ध्र, पश्येच पूर्ण शशिनं कदाचित् ॥ परिच्युतो मर्त्यभवान्नरत्वं, लभेत जन्तुर्न तु धर्महीनः ! ॥ ९॥ इति चर्मड-3 ष्टान्तोऽष्टमः ॥ ८॥ अथ युगदृष्टान्तः तथा हि| अस्ति खयम्भुरमण-वारिधिर्वलयाकृतिः ॥ सहस्रयोजनोद्वेधो-ऽसंख्ययोजनविस्तृतः ॥१॥ विहाय वलयं सर्वा-3 कारैर्जलचरै ते ॥ सर्वेषामपि वार्डीना-मन्तिमे तत्र नीरधौ ॥२॥ देवः कोऽपि दिशि प्राच्यां, लीलया निक्षिपेद्युगम् ॥ युगस्य तस्य ककुभि, पश्चिमायां च कीलिकाम् ॥ ३॥ [ युग्मम् ] तस्मिन्नपारेऽकूपारे, भ्राम्यन्ती समिला|ऽथ सा ॥ खयमेव युगच्छिद्रे, प्रविशेत्किं कदाचन ? ॥ ४ ॥ प्रचण्डवातोत्थितवीचिनुन्ना, दैवात्खयं साऽपि युगस्य |
Page #228
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ११४ ॥
रन्ध्रे ॥ कुर्यात्प्रवेशं न तु पुण्यहीनः पुमान्पुनर्विन्दति मर्त्यभावम् ! ॥ ५ ॥ इति युगदृष्टान्तो नवमः ॥ ९ ॥ अथ परमाणुदृष्टान्तस्तथा हि
स्तम्भमेकं महामानं, माणिक्यमयमुत्तमम् ॥ खसामर्थ्यपरीक्षार्थी, गीर्वाणः कोप्यचूर्णयत् ॥ १ ॥ तच्च चूर्णमतिलक्ष्णं निर्माय परमाणुवत् ॥ नलिकान्तर्निचिक्षेप, क्षेपीयः स सुधाशनः ॥ २ ॥ आरुह्य मेरुचूलायां, सोऽथ फूत्कृतमारुतैः ॥ द्रुतमुल्लालयामास तचूर्ण परितोऽखिलम् ॥ ३ ॥ तेन देवेन विक्षिप्ता - स्ततस्ते परमाणवः ॥ प्रचण्डपवनोद्धूता, अभजन्त दिशोदिशम् ॥ ४ ॥ अथ विश्वत्रये कोऽपि शक्तिमान् विद्यते न सः ॥ यस्तं स्तम्भं पुनः | कुर्या - तैरेव परमाणुभिः ॥ ५ ॥ स्तम्भो यथाऽसौ परमाणुभिस्तैः, केनापि निष्पादयितुं न शक्यः ॥ प्रमादिना प्राणभृता तथैव, भूयोऽपि लभ्येत न मानवत्वम् ॥ ६ ॥ इति ॥ यद्वा काऽपि सभा भूरि-स्तम्भा दग्धा कृशानुना ॥ तैरेव पुद्गलैर्न स्या- तथा नृत्वेऽपि भावना ॥ ७ ॥ इति वा परमाणुदृष्टान्तो दशमः ॥ १० ॥ इत्थं जिनेन्द्रगदितानि मनुष्यजन्म - दौर्लभ्यसूचनचणानि निदर्शनानि ॥ आकर्ण्य भो भविजनाः ! भगवत्प्रणीते, धर्मे महो| दयकरे कुरुत प्रयत्नम् ॥ ६२६ इति दश दृष्टान्ताः सम्पूर्णाः । तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाहमूलम् -- समावण्णा ण संसारे, नाणागुत्तासु जाइसु ॥ कम्मा नाणाविहा कटु, पुढो विस्संभिआ पया ॥२॥ व्याख्या—समापन्नाः समन्तात्प्राप्ताः प्रजा इति योगः, मानुष्यमिति गम्यते, ' णेति ' वाक्यालंकारे, क्केत्याह
तृतीयमध्ययनम् (३)
॥ ११४ ॥
Page #229
--------------------------------------------------------------------------
________________
संसारे भवे, तत्रापि क्वेत्याह- नानागोत्रासु अनेकाभिधानासु जातिषु क्षत्रियादिषु, अत्र हेतुमाह-कर्माणि ज्ञानावरणीयादीनि नानाविधानि अनेकप्रकाराणि कृत्वा निवर्त्य तेषामधीनाः सन्तः 'पुढोत्ति' पृथक्भेदेन एकैकश इत्यर्थः,
विस्संभिअत्ति' प्राकृतत्वादनुखारलोपे विश्वभृतो जगत्पूरका वर्तन्ते इति शेषः, क्वचित्कदाचिदुत्पत्त्या सर्वजगद्याप|नादुक्तं च-"नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तोवि ॥ जम्मणमरणाबाहा,जत्थ जिएहिं न संपत्ता॥१ ततोऽवाप्याऽपि नरजन्म स्खकृतकर्मानुभावतोऽन्यान्यगतिभागिन्य एव प्रजा जनसमूहरूपा भवन्तीति दुर्लभमेव पुननरजन्मेति सूत्रार्थः ॥२॥ एतदेव स्पष्टयति
मूलम्-एगया देवलोएसु, नरएसुवि एगया ॥ एगया आसुरं कायं अहाकम्मेहिं गच्छइ ॥३॥15॥ || व्याख्या-एकदा शुभकर्मानुभवकाले देवलोकेषु सौधर्मादिषु, नरकेषु च रत्नप्रभादिषु, अपिशब्दश्चकारार्थे, ए-14
कदा दुष्कर्मोदयकाले, एकदा 'आसुरं' असुरसम्बन्धिनं कायं निकायं, 'अहाकम्मेहिति' यथाकर्मभिस्तत्तद्गत्यनुरूपचेष्टितैर्यथायोगं सरागसंयममहारम्भबालतपःप्रभृतिभिः, 'गच्छइत्ति' वचनव्यत्ययाद्गच्छन्ति प्राणिन इत्युत्तरेण योग इति सूत्रार्थः ॥३॥ मूलम्-एगया खत्तिओ होई, तओ चंडालबोक्कसो ॥ तओकीडपयंगो अ, तओ कुंथुपिवीलिआ ॥४॥ व्याख्या-एकदा क्षत्रियो राजा भवति,जन्तुरिति गम्यं,सूत्रवैचित्र्याबहुवचनप्रक्रमप्येकवचनं,ततस्तदनन्तरं चण्डालो।
उ०२०
Page #230
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥११५॥
मातङ्गः, यद्वा शूद्रेण ब्राह्मण्या जातश्चण्डालः, बोकसो वर्णान्तरसङ्करजन्मा, तथाहि-ब्राह्मणेन शयां जातो निषादः.| तृतीयमध्यब्राह्मणेनैव वैश्यस्त्रियां जातश्चांबष्ठ इत्युच्यते । तत्र निषादेनाम्बष्ठ्यां जातस्तु बोकसो भण्यत इति वृद्धवादः । इह|8| यनम् (३) च क्षत्रियचाण्डालबोक्कसग्रहणाद्यथाक्रमं सर्वा उच्चनीचसङ्कीर्णजातय उपलक्षिताः। ततः कीटः प्रसिद्धः, पतङ्गः शलभः, चः समुच्चये, कुंथुः, पिपीलिका च, भवतीति योज्यं, अशेषतिर्यग्भेदोपलक्षणञ्चेदमिति सूत्रार्थः ॥४॥ इत्थं सर्वत्र पर्यटन्तोऽपि गुरुकर्मत्वेन ते न निर्विद्यन्ते इत्याहमूलम्-एवमावजोणीसु, पाणिणो कम्मकिविसा ॥ न निविनंति संसारे, सबसु व खत्तिआ॥५॥ | व्याख्या-एवमनेन न्यायेन आवर्तः पुनः पुनर्भमणरूपः परिवर्तस्तत्प्रधाना योनयश्चतुरशीतिलक्षप्रमाणानि जीवोत्पत्तिस्थानानि आवर्तयोनयस्तासु, प्राणिनो जीवाः, कर्मणा क्लिष्टेन किल्विषा अधमाः कर्मकिल्विषाः, न निर्विद्यन्ते, कदैतस्मात्पर्यटनान्मोक्षो भावीति नोद्विजन्ते, संसारे भवे, केष्विव के ? सर्वे च ते अर्थाश्च धनकनकादयः सर्वार्थाः | तेष्विव क्षत्रिया राजानः, अयं भावः-यथा मनोज्ञान् शब्दादीन् भुजानानां तेषां तृष्णा वर्धते एवं तासु तासु योनिषु पुनः पुनरुत्पत्तिमनुभवतामपि संसारिणां, कथमन्यथा ते तत्प्रतिघातार्थ नोद्यमं कुर्युः ? इति सूत्रार्थः ॥५॥ ततश्च-1
॥११५॥ मूलम्-कम्मसंगेहिं संमूढा, दुक्खिआ बहुवेअणा॥अमाणुसासु जोणीसु,विणिहम्मति पाणिणो॥६॥ व्याख्या-कर्मसंगैानावरणीयादिकर्मसम्बन्धैः संमूढाः अत्यर्थं मूढाः दुःखिता असातयुक्ताः, कदाचित्तन्मानस
Page #231
--------------------------------------------------------------------------
________________
| मेवैकं स्यादित्याह-बहुवेदना भूरिशारीरपीडाः, अमानुषीषु नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु योनिषु विनिहन्यन्ते, विशेषेण निपात्यन्ते, अर्थात्कर्मभिः न तु ताभ्य उत्तारं लभन्ते प्राणिनो जीवास्ततो दुर्लभमेव मानवत्वमिति सूत्रार्थः ॥६॥ कथं तर्हि तदवाप्तिरित्याहमूलम्-कम्माणं तु पहाणाए, आणुपुत्री कयाइ उ॥जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥७॥
व्याख्या-कर्मणां तु पुनर्नरकगतिप्रतिवन्धकानामनन्तानुबन्ध्यादीनां ‘पहाणाएत्ति' प्रहाण्या अपगमेन, कथं प्रहाणिरित्याह-आनुपूर्व्या क्रमेण, न तु झगित्येव, अत एवाह-'कयाइउत्ति' 'तु' शब्द एवकारार्थे, ततः कदाचि| देव न सर्वदा जीवाः प्राणिनः शुद्धिं क्लिष्टकर्मापगमात्मिकां, अनुप्राप्ताः सम्प्राप्ताः आददते खीकुर्वन्ति मनुष्यतां मनुजजन्म, विशिष्टशुद्धिनिबन्धनैस्तनुकषायत्वादिभिरेव तदायुर्वन्धादिति सूत्रार्थः ॥ ७॥ एवं कथञ्चिन्मानुष्ये प्राप्तेऽपि श्रुतिदुर्लभेत्याहमूलम्-माणुस्सं विग्गहं लड़े, सुइ धम्मस्स दुल्लहा ॥ जं सुच्चा पडिवजंति, तवं खंतिमहिंसयं ॥८॥
व्याख्या-'माणुस्संति' सूत्रत्वान्मानुष्यकं मनुष्यभवसम्बन्धिनं विग्रहं देहं, 'लढुंति' लब्ध्वाऽपि, अपेर्गम्यत्वात् , श्रुतिः श्रवणं, धर्मस्य दुर्लभा दुष्प्रापा पूर्वोक्तालस्यादिहेतुभिः, स च धर्मः "मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराहे ॥ द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥१॥” इत्यादिवौद्धा.
Page #232
--------------------------------------------------------------------------
________________
क्षा
उत्तराध्ययन
तृतीयमध्ययनम् (३)
॥११६॥
दिकल्पितोऽपि स्यादतस्तदपोहार्थमाह-यं धर्म श्रुत्वा प्रतिपद्यन्ते भव्या इति शेषः, तपोऽनशनादि द्वादशविधं, सन्ति क्रोधजयलक्षणां, मानादिजयोपलक्षणश्चैषा, अहिंस्रतां हिंसनशीलत्वाभावं, अनेन प्रथमव्रतमुक्तं, शेषव्रतोपलक्षणचैतत्, एतद्वृत्तितुल्यानि हि शेषव्रतानि, एवञ्च तपसः क्षान्तिप्रभृतिचतुष्टयस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधोऽपि धर्मोऽभ्यधायीति सूत्रार्थः ॥ ८॥ श्रुतिप्राप्तावपि श्रद्धा दुर्लभेत्याह
मूलम्-आहच सवणं लद्धं, सद्धा परमदुल्लहा ॥ सोच्चा नेआउअं मग्गं, बहवे परिभस्सई ॥२॥ ४ व्याख्या-'आहच' कदाचित् श्रवणं प्रक्रमाद्धर्मस्याकर्णनं,उपलक्षणत्वान्मानुष्यं च, लति' अपिशब्दस्य गम्यमानत्वात्
लब्ध्वाप्यवाप्यापि श्रद्धा धर्मरुचिरूपा परमदुर्लभातीवदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-श्रुत्वाकण्ये | नैयायिकं न्यायोपपन्नं मार्ग सम्यग्दर्शनादिरूपं मुक्तिपथं बहवोऽनेके 'परिभस्सइत्ति' परिभ्रश्यन्ति च्यवन्ते, प्रकमान्नैयायिकमागादेव । यथा जमालिप्रभृतयः, यच्च प्राप्तमप्यपैति तचिन्तामणिवत्परमदुर्लभमेवेतिभावः । अथ के ते जमालिप्रभृतय इति तद्वक्तव्यता लिख्यते, तद्यथा-"बहुरय जमालि पभवा १, जीवपएसा यतीसगुत्ताओ २॥अवतासाढाओ ३, सामुच्छेआसमित्ताओ४॥१॥ गंगाओ दो किरिआ ५, छलुआ तेरासिआण उप्पत्ती ६॥ थेराय गोट्टमाहिल-पुट्ठमबद्धं परूवंति ७॥२॥" अनयोरर्थः-बहुभिः समयैर्वस्तु निष्पद्यते न त्वेकसमयेनेतिमन्वाना बहुरता जमालिप्रभवा जमालेरुत्पन्नाः १ प्रदेशोऽन्त्यप्रदेशः, स एव जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच व्यत्यये
१
Page #233
--------------------------------------------------------------------------
________________
SASAASAASASUSASTRA
जीवप्रदेशास्ते तिष्यगुप्तादुद्भूताः २।अव्यक्ताः संयतादिज्ञाने सन्देहवादिन आषाढाचार्याजाताः३।सामुच्छेदा उत्पादानन्तरमेव वस्तुसमुच्छेदवादिनोऽश्वमित्राजाताः ४॥१॥ द्विक्रिया एकत्र समये क्रियाद्वयानुभववादिनो गंगाचार्याजाताः ५ । त्रैराशिकानां जीवाजीवनोजीवरूपराशित्रयवादिनां 'छलुअत्ति' वैशेषिकाभिमतषट्पदार्थनिरूपकत्वादुलूकगोत्रत्वाच षडुलूको रोहगुप्तस्तस्मादुत्पत्तिः ६ । स्थविराश्च गोष्ठामाहिलाः, स्पृष्टं कञ्चुकवत्, अबद्धञ्चा:संबद्धं, न तु क्षीरनीरवदन्योन्यानुगतमात्मप्रदेशैः समं कर्मेतिशेषः, प्ररूपयन्ति, अनेन च गोष्ठामाहिलादेवाबद्धिकानामुत्पत्तिरिति सूचितमिति गाथाद्वयाक्षरार्थः ॥२॥ भावार्थस्त्वनयोः सम्प्रदायादवसेयः, स चायं-"श्रीवीरज्ञानतो वर्षे-श्चतुर्दशभिरुत्थितं ॥ तेष्वादिनिह्नवस्यादौ, वृत्तान्तं वच्मि तद्यथा ॥१॥"
पुरे क्षत्रियकुण्डाख्ये, श्रीमद्वीरजिनखसुः ॥ सुदर्शनायास्तनयो, जमालिः क्षत्रियोऽभवत् ॥२॥जगत्रयमनोहारिदर्शना प्रियदर्शना ॥ श्रीवीरखामिदुहिता, प्रिया तस्याऽभवत् प्रिया॥३॥ अन्येास्तत्र भगवान् , श्रीवीरः समवासरत् ॥ जमालिर्जायया साकं, सार्वं नन्तुमगात्तदा ॥४॥खामिदेशनया जात-संवेगः संयमोत्सुकः॥गृहं गत्वाग्रहीत्पित्रो-नुज्ञां स कथञ्चन ॥५॥ महोत्सवैस्ततो विश्व-श्लाघ्यैर्गत्वाऽर्हतोऽन्तिके ॥ जमालिः प्राव्रजत्पञ्च-शतक्षत्रियसंयुतः ॥६॥ तदा च स्वामिनः पुत्री, तत्प्रिया प्रियदर्शना ॥ प्रात्राजीत्वामिनोऽभ्यर्णे, स्त्रीसहस्रेण संयुता ॥ ७॥ जमालिश्रमणः सोऽथ, विहरन् खामिना समम् ॥ पपाठैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥८॥ ततः साध्वीसहस्रं त-त्साधु
FRISSANESSANSAREA
Page #234
--------------------------------------------------------------------------
________________
उत्तराध्ययन
तृतीयमध्ययनम् (२)
॥११७॥
पञ्चशती च ताम् ॥ प्रभुस्तस्मै ददौ शिष्य-तयामुख्यं विधाय तम् ॥९॥ सोऽन्यदा खामिनं नत्वा, पप्रच्छेति कृताञ्जलिः ॥ सतन्त्रोऽहं विभोऽन्यत्र, विहरामि त्वदाज्ञया ॥१०॥ लाभाभावात्प्रभुस्तस्मै, न ददौ किञ्चिदुत्तरम् ॥ अनिषिद्धं बनुमत-मिति मेने तदा स तु ॥ ११ ॥ निरगाच्च प्रभोः पार्था-द्विहर्तुं सपरिच्छदंः ॥ क्रमाच पुर्या श्रावस्त्यां, विहरन्नन्यदाऽगमत् ॥ १२ ॥ तत्रोद्याने कोष्टुकाख्ये, तस्थुषस्तस्य कर्हिचित् ॥ अन्तप्रान्ताशनैर्दाघ-ज्वरः प्रादुरभून्महान् ॥१३॥ उपविष्टतया स्थातु-मक्षमः स ततो यतीन् ॥ इत्यूचे संस्तारको मे, क्रियतां क्रियतां द्रुतम् ! |॥१४॥ ततः संस्तारकं कर्तु, प्रवृतान् जतिनो निजान् ॥ संस्तारकः कृतो नो वे-त्यपृच्छत्स मुहुर्मुहुः॥१५॥ संस्तारकः कृतो नास्ति, किन्त्वद्यापि विधीयते ॥ तैरित्युक्ते परिभ्रष्ट-सम्यक्त्वः स व्यचिन्तयत् ॥ १६ ॥'क्रियमाणं कृतमिति', जिनोक्तं सूनृतं कथम् ? ॥ संस्तारको यत्संस्तीर्य-माणोऽप्येष न संस्तृतः!॥ १७ ॥ तदध्यक्षविरुद्धत्वा-त्तन्न सङ्गतिमङ्गति ॥ विमृश्येत्यखिलान्साधू-नाहूयैवमभाषत ॥ १८ ॥ 'क्रियमाणैः कृतमिति', श्रीमहावीरभाषितम् ॥ मिथ्याध्यक्षविरुद्धत्वा-च्छैत्यं हुतभुजो यथा ! ॥ १९॥ न चाध्यक्षविरुद्धत्वं, तस्यासिद्धं भवेत्वचित् ॥ संस्तारको यत्संस्तीर्य-माणोऽप्येष न संस्तृतः ॥२०॥ निष्पद्यते क्षणव्यूहैर्यत्कार्यमपरापरैः ॥ तत्कथं कृतमित्याद्य-समयेऽपि निगद्यते ॥ २१॥ प्रारम्भेऽपि कृतं चेत्स्या-त्तदाऽन्यत्र क्षणबजे ॥ कृतस्यैव विधानेना-नवस्था स्थादनाहता! २२ ॥ सत्यप्येवं मन्यते चे-क्रियमाणं कृतं तदा ॥ घटादेरुपलम्भोऽस्तु, प्रारम्भक्षण एव हि ॥ २३॥ 'कृत
॥११७॥
Page #235
--------------------------------------------------------------------------
________________
मेव कृतं तस्माद्यौक्तिकं भो महर्षयः ! ॥ तदमुं मामकं पक्षं, कक्षीकुरुत सूनृतम् ! ॥ २४ ॥ न च वाच्यं स सर्वज्ञः, कथं मिथ्यावदेदिति ? ॥ यद्रूयात्सोऽपि तज्जातु, महान्तोऽपि स्खलन्ति हि ॥ २५ ॥ एवं विप्रवदन्तं तं जमालिं मार्गविच्युतम् ॥ स्थविराः प्रोचुरार्य ! त्वं, विरुद्धं किं वदस्यदः १ ॥ २६ ॥ रागद्वेषविनिर्मुक्ता, न भाषन्ते | सृषा जिनाः ॥ वचनेऽपि च नो तेषां दोषलेशोऽपि सम्भवेत् ॥ २७ ॥ [तथाहि - ] आद्यक्षणे चेत्कार्यस्यो- त्पत्तिर्न | स्यात्तदा कथम् || क्षणान्तरे तदुत्पत्तिः स्यात्क्षणत्वाविशेषतः १ ॥ २८ ॥ उक्तञ्च - " आद्यतन्तुप्रवेशे च, नोतं किञ्चिद्यदा पटे || अन्त्यतन्तुप्रवेशेऽपि, नोतं स्यान्न पटोदयः ॥ २९ ॥ " न चाऽध्यक्षविरोधोऽपि सम्भवेदिह कर्हि - चित् ॥ संस्तीर्यते यद्वस्त्रादि, तद्धि संस्कृतमेव यत् ॥ ३० ॥ यावत् प्राक् संस्तृतं तावत् पुनः संस्तीर्यते न यत् ॥ ततः कृतस्याऽकरणा- न्नाऽनवस्थापि विद्यते ॥ ३१ ॥ यच्चारम्भक्षणे कुम्भो - पलम्भोऽस्त्विति भाषितम् ॥ तदप्यसद्यदन्यस्या - रम्भेऽन्यद् दृश्यतां कथम् ? ॥ ३२ ॥ तदा हि शिवकादीना - मेवावान्तरकर्मणाम् ॥ वर्त्तते क्रियमाणत्वं, ते च दृश्यन्त एव हि ॥ ३३ ॥ कुम्भः पुनरनारब्ध स्वदानीं दृश्यते कथम् ? ॥ घटं करोतीत्युक्तिस्तु, प्रारम्भे स्थूलबुद्धितः ॥ ३४ ॥ क्रियमाणं कृतमिति, सर्वज्ञस्य वचस्ततः ॥ प्रमाणमेव न पुन - श्छद्मस्थानां भवादृशाम् ! ॥ ३५ ॥ सर्वज्ञोऽप्यनृतं ब्रूया - दिति त्वद्वचनं पुनः ॥ सतां न श्रोतुमप्यर्ह, मत्तोन्मत्तप्रलापवत् ! ॥ ३६ ॥ तज्जैनेन्द्रं वचस्तभ्यं मा दूषय महामते ! || दुष्कर्मणाऽमुना मास्म - भ्राम्यस्संसारसागरे ! ॥ ३७ ॥ एकस्यापि जिनोक्तस्य, पद
Page #236
--------------------------------------------------------------------------
________________
उत्तराध्ययन
तृतीयमध्य. यनम् (३)
॥११८॥
स्योत्थापने जनः ॥मिथ्यात्वं लभते तस्मा-दिदमालोचय द्रुतम् ॥ ३८ ॥ तैरित्युक्तोऽपि नात्याक्षी-जमालिः खाग्रहं यदा ॥ तदा विहाय तं केचि-न्मुनयो जिनमाश्रयन् ॥ ३९॥ केचित्तु श्रद्दधानास्त-मतं तस्थुस्तदन्तिके ॥ अथाययौ पुरीमध्या-तं नन्तुं प्रियदर्शना ॥४०॥ तदग्रेऽपि जमालिस्त-मतं प्राग्वन्यरूपयत् ॥ पूर्वस्नेहात्साऽपि सर्व, प्रत्यपद्यत तत्तथा ॥४१॥ गत्वा चोपाश्रये टण्क-कुम्भकारस्य वेश्मनि ॥ प्राकाशयत्पुरः सर्व-साध्वीनां खपतेर्मतम् ॥ ४२॥ शय्यातरस्य टण्कस्या-ऽप्यग्रे सा तदवोचत । स तु श्राद्धस्तदाकर्ण्य, दध्यावेवं विशुद्धधीः॥४३॥|| उत्थापयत्यसौ जैन, वचस्तथ्यं तदाग्रहात् ॥ तदिमां बोधयिष्यामि, समये क्वापि युक्तिभिः ॥४४॥ ध्यात्वेति सोऽब्रवीदायें !, विशेषमहमीदृशम् ॥ सम्यग्जानामि नो किन्तु, यूयं जानीथ तद्विदः ॥ ४५ ॥ कुलालः सोऽन्यदा पक्क-भाण्डान्युद्वर्तयन्वयम् ॥ खाध्यायकरणैकाग्र-श्रीवीरदुहितुः पटे ॥४६॥ चिक्षेप ज्वलदङ्गारं, धीमान्केनाप्यलक्षितम् ॥ ततः पटं दह्यमानं, वीक्ष्य सा व्रतिनी जगौ॥४७॥ [युग्मम् ] संघाटी मम दग्धेयं, भी टण्क! त्वत्प्रमादतः॥ टण्कोऽवादीद्दह्यमाना, दग्धेति प्रोच्यते कथम् ? ॥४८॥ भवन्मते हि सम्पूर्ण-संघाटीदहने खलु ॥ दग्धा संघाटीति वक्तुं, युक्तं न पुनरन्यथा !॥४९॥ अथ चेद्भगवद्वाक्यं, खीक्रियेत तदा ह्यदः ॥ वक्तुं युज्येत | तद्विश्व-मान्यं तत्प्रतिपद्यताम् ॥ ५० ॥ तन्निशम्य गलन्मिथ्या-दर्शना प्रियदर्शना ॥ इत्यवादीदहो आर्य !, साध्वहं |बोधिता त्वया ! ॥५१॥ अतः परं जैनवचः, प्रमाणं मे जगद्धितम् ॥ यत्तु तद्दूषितं तस्य, मिथ्यादुष्कृतमस्तु
॥१५
Page #237
--------------------------------------------------------------------------
________________
मे! ॥ ५२ ॥ इत्युक्त्वा सा ययौ पार्थे, जमालेः सपरिच्छदा ॥ तस्याग्रे चावदन्नका, युक्तीर्जिनमतानुगाः॥५३॥ तस्या वचोभिरपि स, नामुचत्तं कदाग्रहम् ॥ रसोन इव दुर्गन्धं, सुगन्धिद्रव्यवासनैः॥५४॥ ततः सा सपरीवारा, गतशेषाश्च साधवः ॥ हित्वा दुर्मतमग्नं तं, श्रीमहावीरमाश्रयत् ॥ ५५॥ तदा च भगवांश्चम्पानगरी पावयन्नभूत् ॥ जमालिरपि नीरोग-श्चम्पायामगमत्ततः ॥५६॥ तत्र चैत्ये पूर्णभद्रा-ऽभिधाने तस्थुषोऽर्हतः ॥ पार्थे गत्वा नातिदूरे, स्थित्वा चैवमुवाच सः ॥ ५७ ॥ भगवन् ! भवतः शिष्या-च्छद्मस्था बहवो यथा ॥ परलोकं गता नाह, विज्ञेयः किल तादृशः! ॥ ५८ ॥ यतोऽहमस्मि सम्प्राप्त-केवलज्ञानदर्शनः॥ जिनोऽहंश्चेति तेनोक्ते, गौतमस्तमदोऽवदत् ॥ ५९॥ जमाले ! केवली जात-स्त्वं चेदेतत्तदा वद ॥ लोको जीवश्च किमसौ, शाश्वतोऽशाश्वतोऽथवा ? ॥६०॥ सोऽथ तस्योत्तरं दातु-मशक्तो मौनमाश्रयत् ॥ ततो जगाद भगवान् , जमाले ! शृणु मद्वचः॥६१॥ प्रश्नस्यास्योत्तरे मद-च्छक्ताः शिष्याः सहस्रशः॥ छद्मस्थाः सन्ति मे किन्तु, त्वद्वन्नैवं वदन्ति ते ॥६२॥ अत्र प्रत्युत्तरं चेदं, जानीहि त्वं यथातथम् ॥ लोकजीवौ हि विद्येते, शाश्वताशाश्वतौ सदा ॥ ६३॥ तथा हि द्रव्यरूपेण, लोकः शाश्वत उच्यते ॥ अशाश्वतस्तु पर्याय-परावृत्तेः प्रतिक्षणम् ॥ ६४ ॥ द्रव्यरूपेण जीवोऽपि, कथ्यते किल शाश्वतः ॥ नृदेवत्वादिपर्याय-परावृत्तेस्त्वऽशाश्वतः ॥ ६५ ॥ इति खामिवचो नैव, श्रद्दधौ स कदाग्रहात् ॥ प्रभुपार्थाच निर्गत्य, खैरं पर्याट भूतले ॥ ६६ ॥ निह्नवत्वाच संघेना-ऽखिलेनापि बहिष्कृतः ॥ स व्युदग्राहयल्लोकान् , बहुभिः कुम
Page #238
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ११९ ॥
तोक्तिभिः ॥ ६७ ॥ एवं जमालिः श्रामण्यं प्रपाल्य बहुवत्सरान् ॥ प्रान्ते संलेखनामर्ध - मासिकीं प्रविधाय च ॥ ६८ ॥ तत्पातकमनालोच्य, मृतः षष्ठे सुरालये ॥ त्रयोदश समुद्रायुः, सुरः किल्विपिकोऽभवत् ॥ ६९ ॥ [ युग्मम् ] विपन्नं तं समाकर्ण्य, प्रभुं पप्रच्छ गौतमः ॥ जमालिरत्युग्रतपाः, कां गतिं गतवानिति ? ॥ ७० ॥ जिनो जगौ षष्ठकल्पे, सोऽभूत्किल्विषिकः सुरः ॥ गणी स्माह कुतो घोर तपसोऽप्यऽस्य सा गतिः १ ॥ ७१ ॥ जिनोऽप्यधाद्धर्मगुरू- पाध्यायादेर्विरोधतः ॥ जमालिस्तां गतिं लेभे, कृतभृरितपा अपि ! ॥ ७२ ॥ ततश्युत्वा क्व स खामिन् ! यास्यतीति पुनर्जिनम् ? ॥ पप्रच्छ गौतमखामी, ततोऽवादीददो विभुः ॥ ७३ ॥ तिर्यङ्नृनाकिषु भवान् कतिचि - मित्वा, सिद्धिं गमिष्यति चिरेण ततश्युतोऽसौ ॥ प्राप्याऽपि बोधमिति केचन हारयन्ति, तद्देवरलमिव दुर्लभ एव बोधिः ॥ ७४ ॥ इति प्रथमनिह्नवकथा ॥ १॥
"अथ वीरविभोर्ज्ञानात्, पोडशाच्या बभूवुषः ॥ निवस्य द्वितीयस्य, वृत्तान्तं वच्मि तद्यथा ॥ १ ॥” पुरा पुरे राजगृहे, चैत्ये गुणशिलाभिधे ॥ वसुसंज्ञा महाप्रज्ञाः, सूरयः समवासरन् ॥ २ ॥ तेषामशेषपूर्वाब्धि- पारगाणां मन| खिनाम् || शिष्योऽभूत्तिष्यगुप्ताख्यः, पूर्वाध्ययनतत्परः ॥ ३ ॥ पूर्वमात्मप्रवादाख्यं, सप्तमं पठतोऽन्यदा ॥ जीवप्र| देशविषय- स्तस्यार्थोऽयमुपागमत् ॥ ४ ॥ एकः प्रदेशो जीवस्य, न जीव इति कथ्यते ॥ एवं द्वित्रिचतुष्पञ्च - संख्यातासंख्यका अपि ॥ ५ ॥ यावत्प्रदेशेनाऽप्यूनो, जीवो जीवो न भण्यते ॥ ऊने वस्तुनि यत्पूर्ण - व्यपदेशो न वा
तृतीयमध्ययनम् (३)
॥ ११९ ॥
Page #239
--------------------------------------------------------------------------
________________
25555
स्तवः॥६॥ लोकाकाशप्रदेशौघ-तुल्याशेषप्रदेशवान् ॥ जीवः पुनर्जीव इति, वक्तव्यो व्यक्तबुद्धिभिः ॥७॥ एनमर्थमधीयानो-ऽधमकर्मोदयेन सः ॥ तदा विप्रतिपेदानः, स्थविरानित्यभाषत ॥ ८॥ एकेनापि प्रदेशेन, विहीनाः सकला अपि ॥ जीवप्रदेशा नो जीव-व्यपदेशं लभन्ति चेत् ? ॥९॥ तदा स एव वक्तव्यः, प्रदेशो जीवसंज्ञया । तद्भाव एव जीवत्वं, भवतीति विनिश्चयात् ॥१०॥ ततस्तं प्रोचुराचार्या, वत्साऽयुक्तं ब्रवीषि किम् ? ॥ नोकस्य प्रदेशस्य, जीवत्वं युज्यते क्वचित् ॥ ११॥ अंशा निरंशा जीवस्य, प्रदेशा इत्युदीरिताः॥ घटस्येवाणवस्ते च, तुल्याः
सर्वे परस्परम् ॥ १२॥ तद्विशेषात्कुतस्तस्यै-कस्य जीवत्वमिष्यते ? ॥ पूरणादिति चेत्तन्न, युक्तं युक्तिविरोधतः P॥ १३॥ यथायं पूरकस्तद्व-त्सन्ति सर्वेऽपि पूरकाः ॥ तेषामन्यतमेनापि, विना स्याजीवता न यत् ॥ १४ ॥ अथान्तिमत्वादिति चेत् , तदपि स्यान्न यौक्तिकम् ॥ अन्तिमत्वं यतस्तस्या-ऽऽपेक्षिकं न तु तात्विकम् ॥ १५॥ आपेक्षिकञ्च नैकत्र, नियतं स्यात्कदाचन ॥ अपेक्षावशतस्तस्य, सर्वत्रापि प्रवर्तनात् ॥ १६ ॥ तदेकेन विना तेन, जीवत्वं न यथाऽपरे ॥ लभन्ते न तथा सोऽपि, तैर्विनाप्नोति जीवताम् ॥ १७॥ ["ततश्च"] अणावेकत्र नो कुम्भ-व्यपदेशो भवेद्यथा॥तथैकस्मिन्प्रदेशे स्या-निर्देशोनात्मनोपि हि ॥१८॥ भवेत्प्रदेशादेकस्मा-त्पूर्णस्यार्थक्रियापि न॥ पटकार्य हि नोतन्तो-रेकस्मादुपलभ्यते ॥१९॥ तत्कृत्वात्मप्रदेशेषु, जीवत्वमिति निश्चितम् ॥श्रद्धेहि भगवद्वाक्यं, विधेहि सफलं जनुः ॥ २०॥ एवं प्रज्ञाप्यमानोऽपि, गुरुभिः करुणापरैः ॥ कदाग्रहगृहीतः स, न तत्कुमतमत्यजत् ! ॥ २१॥
56055555151515
Page #240
--------------------------------------------------------------------------
________________
उत्तराध्ययन
ततः कायोत्सर्गपूर्व, सूरीन्द्रः स बहिष्कृतः ॥ पर्याट पृथव्यां कुमतै-र्जनान् व्युव्राहयन् घनान् ॥ २२॥ पुर्यामाम- तृतीयमध्य
दलकल्पायां, सोऽन्यदा पर्यटन् ययौ ॥ आम्रसालवने चास्था-त्स परिच्छदसंयुतः ॥ २३॥ तस्यां पुर्यां च मित्रश्री-1 यनम् (३) ॥१२॥
संज्ञोऽभूत् श्रावकाग्रणीः॥ जिनेन्द्रचरणाम्भोज-भजनैकमधुव्रतः॥ २४ ॥ स तं सतनमायातं, श्रुत्वाऽन्यश्रावकैः समम् ॥ तत्रोद्यानेऽगमत्तं च, प्रणनाम यथोचितम् ॥ २५॥ तद्देशनां च शुश्राव, निहवं तं विदन्नपि ॥ तदने
तिष्यगुप्तोऽपि, निजं प्राकाशयन्मतम् ॥ २६ ॥ समये बोधयिष्यामि, दृष्टान्तेनेति चिन्तयन् ॥ मित्रश्रीन समं तेन, है विवादं विदधे तदा ॥ २७ ॥ किन्तु स प्रत्यहं तत्र, तं नन्तुं मायया ययौ ॥ समयज्ञा हि कुर्वन्ति, शुभोदर्काय है।
तामपि ॥ २८ ॥ अथ जेमनवाराऽभू-दरिष्ठा तद्गृहेऽन्यदा ॥ तदोद्याने तमाहातुं, मित्रश्रीश्रावको ययौ ॥ २९ ॥ अद्य यूयं खपादाभ्यां, पावित्रयत मद्गृहम् । इत्युक्त्वा सपरीवारं, खसौधे च निनाय तम् ॥ ३० ॥ सोऽथ हृद्यैः । खण्डखाद्यै-मोदकाद्यैश्च भूरिभिः ॥ भृतानि बहु पात्राणि, ढोकयामास तत्पुरः ॥३१॥ खाद्यस्यैकस्यैकमशं, तिलमात्रं च तस्य सः ॥ ददावेवं मोदकादे-रपि सर्वस्य वस्तुनः॥ ३२॥ इत्थं कूरस्य सूपस्या-प्येकैकं सिक्थमापंयत् ॥ घृतस्य बिन्दु शाकस्सा-प्यंशं तन्तुं पटस्य च ॥ ३३ ॥ स तु शिष्ययुतो दध्यौ, नूनं केनापि हेतुना ॥
॥१२०॥ पूर्वमेवं ददात्येष, पश्चात्पूर्ण प्रदास्यति ॥ ३४ ॥ मित्रश्रीस्तु तदा प्रोचे, बन्धनवं वयं नमन् ॥ द्रुतं नमत भो! यूर्य, निग्रन्थान् प्रतिलम्भितान् !॥ ३५ ॥ ततः सशिष्यः सोऽवादी-किं वयं धर्षिता इति ? ॥ मित्रश्रीरब्रवीयं, मयका
SAMSUSMSMSUSA
Page #241
--------------------------------------------------------------------------
________________
धर्षिताः कथम् ? ॥ ३६ ॥ अन्त्या ह्यवयवा देय-वस्तूनामर्पिता मया ॥ अन्त्यावयवमात्रश्च, मते वोऽवयवी भवेत् ! ॥३७॥ तच्चेत्सत्यं तदा का हि, धर्षणा विहिता मया ? ॥ एभिरेव हि पूर्णानां, कार्य भावि भवन्मते ! ॥ ३८ ॥ अथ चेदर्हतां वाणी, सूनृताभ्युपगम्यते ॥ तदा तेषां मतेनाहं, भवन्तं प्रतिलम्भये ॥ ३९ ॥ तया गिरा तिष्यगुप्तः, संबुद्धः सपरिच्छदः ॥ इत्यभ्यधान्महाश्राद्ध !, सत्येयं प्रेरणा कृता !॥४०॥ अथ वीर विभोर्वाक्यं, प्रमाणं मम सर्वदा ॥ तदुत्थापनसञ्जातं, मिथ्या॑दुष्कृतमस्तु मे ॥४१॥ ततः प्रमुदितखान्तो, मित्रश्रीभक्तिपूर्वकम् ॥ वस्त्राहारादिभिः सम्यक, प्रतिलम्भयति स्म तम् ॥४२॥ आलोच्य तत्पापमवाप तिष्य-गुप्तोऽपि शुद्धिं परिवारयुक्तः॥ गतोऽपि बोधिर्यदनेन लब्ध-स्तदस्य भाग्यं विषयो न वाचाम् ॥४३॥ इति द्वितीयनिह्नवकथा ॥ २॥ __ "चतुर्दशोत्तरे वीर-मोक्षाद्वर्षशतद्वये॥जातस्याऽथ तृतीयस्य, निह्नवस्योच्यते कथा ॥१॥" "तद्यथा"- पुर्या श्वेतम्बि-18|| कानाम्यां, वने पोलाशसंज्ञके ॥ सगच्छाः समवासाघु-रार्याषाढाख्यसूरयः ॥२॥ आगाढयोगवहनं, प्रतिपन्नाः क्रियारताः॥ बभूवुर्बहवः शिष्या-स्तेषामागमपाठिनः ॥३॥ अन्यदा निशि सूरीणां, तेषामासीद्विसूचिका ॥ न त्वजागरयन् कञ्चि-द्विनेयं ते महाधियः !॥४॥तया रुजा विपन्नाश्च, कल्पे सौधर्मसंज्ञके ॥ विमाने नलिनीगुल्मे, सुध्यानाद्देवतां ययुः॥५॥ सोऽथ देवोवधिज्ञानो-पयोगात्तं निजं वपुः ॥ ददर्शागाढयोगान्तः-प्रविष्टांस्तांश्च संयतान् ॥६॥ ततस्तत्कृपया खाङ्गे, प्रविश्य स सुरो मुनीन् ॥ वैरात्रिकस्य वेलाऽभू-दित्युदित्वोदतिष्ठपत् ॥७॥
उ. २१
Page #242
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १२१ ॥
प्राग्वद्योगक्रियां सर्वा, कारयंस्तांश्च पाठयन् ॥ दिव्यानुभावात्सकलं, द्रुतमेव समापयत् ॥ ८ ॥ निर्व्यूढयोगकार्यास्ता-नथेत्यूचे स निर्जरः ॥ देवभूयं गतोऽभूव-ममुकस्मिन् दिने ह्यहम् ॥ ९ ॥ खाङ्गे च प्राविशं भूयो, युष्मद्योगसमासये ॥ अथ त्वहं गमिष्यामि, कृतकृत्यो निजास्पदम् ॥ १० ॥ तदसंयतभावेऽपि, युष्माभिः संयतैर्मया ॥ कारितं यद्वन्दनादि, तत्क्षमध्वं क्षमाधनाः ! ॥ ११ ॥ क्षमयित्वेति तान् देवो, देहं हित्वाऽगमद्दिवम् ॥ तदङ्गं तेऽपि मुनयः, परिष्ठाप्येत्यचिन्तयन् ॥ १२ ॥ अज्ञानाद्वन्दितोऽस्माभि - रियत् कालमसंयतः ॥ तदन्योऽपि मुनिर्देवः, संयतो वेति वेत्ति कः ? ॥ १३ ॥ यथाऽहं नाऽपरं वेद्मि तथा सोऽपि न मामिति । एवं सुरी वा साध्वी वे - त्यार्यिकामपि वेत्ति कः ? ॥ १४ ॥ ततः सकलमव्यक्तं वक्तव्यं तत्त्ववेदिभिः ॥ यथा न स्यान्मृषावादो, न चासंयतवन्दनम् ॥ १५ ॥ ध्यायन्त इति ते जाताः, शङ्कामिध्यात्वमाश्रिताः ॥ अव्यक्तभावखीकारा - नावन्दन्त परस्प रम् ॥ १६ ॥ अव्यक्तभावं ते सर्वे ऽन्येषामपि पुरस्तथा ॥ प्ररूपयन्तो व्यहरन्, सममेव यथारुचि ! ॥ १७ ॥ ज्ञात्वा विप्रतिपन्नांस्तान्, स्थविराः केचिदूचिरे ॥ अव्यक्तभावाङ्गीकारे, भावो हि भवतामयम् ॥ १८ ॥ निर्णेतुं शक्यते किञ्चिदपि ज्ञानेन नैव यत् ॥ अव्यक्ताः प्रतिपत्तव्या - स्तद्भावाः सकला अपि ! ॥ १९ ॥ न चेदं सङ्गतं युष्म- न्मतं युक्तिविरोधतः ॥ यद्वस्तुनिर्णयकरं ज्ञानमेवोपलभ्यते ! ॥ २० ॥ चेद् ज्ञानस्याखिलस्यापि न स्यान्निश्चयकारिता | ज्ञानोपदर्शिता तर्हि, क्रियेयं क्रियते कथम् ? ॥ २१ ॥ किञ्च चेत्सर्वथा ज्ञानं नैव निश्चयकार -
तृतीयमध्ययनम् (३)
॥ १२१ ॥
Page #243
--------------------------------------------------------------------------
________________
*
*
*
*
क तत्कथं प्रत्यहं भक्त-पानादेरपि निश्चयः ? ॥२२॥ यतः-"इदं शुद्धमुताशुद्धं, निर्जीवमुत जीवयुक् ॥ इत्या
पिज्ञानं. विना निश्चीयते न हि ॥ २३॥” अथ चेद्बहुशो दृष्ट-संवादं व्यवहारतः ॥ उच्यते भक्तपानादे-ज्ञान निर्णयकारकम् ॥ २४ ॥ व्यवहारादेव तर्हि, साध्वादेरपि वस्तुनः ॥ ज्ञानं निर्णयकारीति, कुतो न प्रतिपद्यते ? ॥ २५॥ छद्मस्थानां हि सर्वा स्या-त्प्रवृत्तिर्व्यवहारतः ॥ तदुच्छेदे तु तीर्थस्या-ऽप्युच्छेदो यत्प्रसज्यते ॥ २६ ॥ यदाहुः-"जइ जिणमयं पवजह, ता मा ववहार निच्छए मुअह ॥ ववहार नओच्छेए, तित्थुच्छेओ जओ वस्सं ॥ २७॥" व्यवहारं प्रपद्यध्वं, तब्यमपि साधवः! ॥ इत्युक्ता अपि तैव, तत्यजुस्ते तमाग्रहम् ॥ २८ ॥ ततः कायोत्सर्गपूर्व, स्थविरैस्ते बहिष्कृताः ॥ पर्यटन्तोऽन्यदा जग्मुः, पुरं राजगृहाभिधम् ॥ २९ ॥ मौर्यवंश्यो नृपस्तत्र, बलभद्राभिधोऽभवत् ॥ आगतान् स्वपुरेऽश्रीपी-यक्तः सोऽव्यक्तनिवान् ॥ ३०॥ सुश्रावकः स राजा तान्, प्रतिबोधयितुं निजैः ॥ भटैरानाययबद्धां-श्चैत्याद्गुणशिलाह्वयात् ॥ ३१ ॥ कटमर्दैन सर्वान-प्यमून्मर्दयतेति च ॥ सेवका
नादिशद्भूमान् , दर्शयन् कृत्रिमा रुषम् ॥ ३२ ॥ कटमर्दे हि मद्यन्ते, कटाधःस्था जना द्विपैः ॥ इति द्विपान् कटांप्राश्चैवा-निन्यिरे राजपूरुषाः ॥ ३३॥ तान्वीक्ष्य मुनयो भीता, इति भूपतिमूचिरे ॥ श्राद्धोऽपि त्वं कथं साधू-नस्मान् हंसि महीपते ! ॥३४॥ तस्करा हेरिका वेति, को वो वेत्तीति भूभुजा ॥प्रोक्ते ते प्रोचिरे राज-नूनं साधूनवेहि नः ॥३५॥ भूपोऽवादीद्वस्तु सर्व-मप्यव्यक्तं भवन्मते ॥ तन्नः साधूनवेहीति, युष्माभिः कथ्यते कथम् ? ॥३६॥ युष्म
*
*
Page #244
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१२२॥
*SOSASSASSICURAMOS
न्मते चाहमपि, श्राद्धोऽन्यो वाऽस्मि तत्कथम् ॥ यूयं मां श्रावकं ब्रूत, खयमव्यक्तवादिनः? ॥३७॥ अथ चेत्प्रतिपद्येत, तृतीयमध्यव्यवहारनयस्तदा ॥ निर्ग्रन्थश्रमणान् युष्मान्, श्रद्दधाम्यहमुत्तमान् ॥३८॥ ततस्ते लजिता बाढं, संबुद्धा भूभुजो
यनम् (३) गिरा ॥ श्रमणाः स्मो वयमिति, निश्शङ्कं प्रतिपेदिरे ॥३९॥ ऊचुश्चैवं चिरभ्रान्ताः, साधु राजंस्त्वया वयम् ॥ सन्मार्ग प्रापिता मार्ग-दर्शिनेव विलोचनाः॥४०॥ ततोऽवादीनपो युष्मान् , प्रतिबोधयितुं मया ॥ अयुक्तं विदधे यत्त-मर्षणीयं महर्षिभिः॥४१॥ इत्युदीर्य बहुमानपूर्वकं, तेन भूपतिवरेण वन्दिताः ॥ साधवः पुनरवाप्तबोधयः,
पूर्ववजगति ते विजहिरे ॥४२॥ इति तृतीयनिह्नवकथा ॥३॥ है। "खामिमोक्षाद्गते विंश-त्यधिकेऽब्दशतद्वये ॥ उत्पन्नस्याऽथ तुर्यस्य, निह्नवस्य कथां ब्रुवे ॥१॥" "तथाहि"
नगयाँ मिथिलाख्यायां, चैसे लक्ष्मीगृहाभिधे ॥ समवासार्पराचार्याः, श्रीमहागिरिसंज्ञकाः ॥२॥ तेषां शिष्यस्य कोडिन्ना-ख्यस्य शिष्योऽभवत्सुधीः॥ अश्वमित्राभिधः पूर्व-पठनोद्यतमानसः ॥३॥ पूर्व विद्यानुप्रवादा-भिधाने दशमेऽन्यदा ॥ तस्य नैपुणिकं वस्तु, पठतोऽर्थोऽयमागमत् ॥ ४॥ वर्तमानक्षणगता, जीवा नैरयिकादयः ॥ वैमा-3 निकान्ताः सर्वेऽपि, व्युच्छेत्स्यन्ति क्षणान्तरे ॥ ५॥ इह विप्रतिपन्नः स, प्रत्यपद्यत सर्वथा ॥ जीवादीनां पदार्थानां, ॥१२२॥ समुच्छेदं प्रतिक्षणम् ॥ ६॥ ऊचे च सर्वथा सर्व, वस्तूत्पन्नमनुक्षणम् ॥ याति नाशं यथा शक्र-चापविद्युद्घनादयः ॥ ७॥ इत्यूचानं तमाचार्याः, स्माहुरेवं महाधियः ॥ सर्वथा वस्तुनो नाशं, मा स्वीकार्षीः प्रतिक्षणम् ॥ ८॥
Page #245
--------------------------------------------------------------------------
________________
यतः-"अपरापरपर्यायो-त्पत्तिनाशाद्यपेक्षया ॥ कथञ्चिदेव वस्तूनां, नाशोऽनुक्षणमिष्यते ॥९॥" सर्वथा ह्यर्थविध्वंस-खीकारे तु क्षणान्तरे ॥ प्रत्यक्षेण तथारूपः, पदार्थो दृश्यते कथम् ? ॥ १० ॥ “किञ्च"-प्रतिक्षणं वस्तुनाशे, सर्वथा स्वीकृते कथम् ॥ ऐहिकः पारत्रिकश्च, व्यवहारोऽपि सिध्यति ? ॥ ११ ॥ तथाहि-"भुक्तिप्रारम्भकोऽन्यः स्या-तृप्तिरन्यस्य जायते ॥ अन्यो गच्छति पन्थान-मन्योऽनुभवति श्रमम् ॥ १२ ॥” “पश्यत्यन्यो घटाद्यर्थान् , ज्ञानमन्यस्य जायते ॥ अन्यः प्रारभते कार्य, कर्ता चान्यो भवेजनः ॥ १३॥” “अन्यः करोति दुष्कर्म, नरके याति चापरः ॥ चारित्रं पालयत्यन्यो, मुक्तिमन्योऽधिगच्छति ॥ १४ ॥” इति सर्व वैपरीत्यं, भवेत्क्षणिकवादतः॥ न चैतदृष्टमिष्टं वा, केनापि क्वचिदप्यहो!॥ १५॥ तत्सर्वथा वस्तुनाशो-ऽनुक्षणं नैव यौक्तिकः॥ ज्ञेयोऽसौ | किन्तु पर्याय-परावृत्त्या विचक्षणैः ॥ १६ ॥ सूत्रेऽपि नारकादीना-मुच्छेदो यः प्रकीर्तितः ॥ पर्यायान्तरसम्प्रा. प्ति-रूपः सोऽप्यवबुध्यताम् ॥ १७ ॥ जैनानां बखिलं वस्तु, द्रव्यतः शाश्वतं भवेत् ॥ अपरापरपर्याय-परावृत्ते-2 स्त्वशाश्वतम् ॥ १८॥ इति सूरिभिरुक्तोपि, न मेने स मुनिर्यदा ॥ बहिश्चक्रे तदोत्सर्ग-पूर्व निह्नव इत्ययम् ॥ १९॥ ततो व्युद्ाहितैः सार्ध, साधुभिर्भूतलेऽश्रमत् ॥ स समुच्छेदवादोक्त्या, लोकान् व्युद्धाहयन् भृशम् ॥२०॥ सोऽन्यदा पर्यटन राज-गृहेगात्सपरिच्छदः ॥ शुल्काध्यक्षास्तत्र राज्ञो, बभूवुः श्रावकोत्तमाः! ॥ २१॥ ते च तानागतान् ज्ञात्वा, सामुच्छेदिकनिहवान् ॥ दध्युरेतान् बोधयामः, कर्कशेनापि कर्मणा ॥ २२ ॥ यतः-"यः कर्कशो
CASADA SESERLER
Page #246
--------------------------------------------------------------------------
________________
उत्तराध्ययन
&ाप्युपायः प्राग, विपाके सुन्दरो भवेत् ॥ सोप्यङ्गिनां हितस्तीव्रः, प्रतिकार इवापटोः ॥२३॥ध्यात्वेत्यारेभिरे तेषांततीयमध्य
ताडनं ते कशादिभिः॥ ततस्ते मुनयः प्रोचु-भयवेपितभूघनाः॥ २४ ॥ अस्माभिः श्रावका यूयं, जनश्रुत्या श्रुताःयनम् (३) ॥१२३॥
पुरा ॥ तत्किं विधत्त विध्वंस-मस्माकं वतिनामपि ? ॥ २५॥ श्राद्धाः प्रोचुरभूदात्तं, व्रतं यैस्ते भवन्मते ॥ व्यु|च्छिन्नाः सर्वथा यूयं, चोत्पन्नाः केचनाऽपरे ! ॥ २६ ॥ किञ्च प्रतिक्षणं युष्मान् , खयमेव विनश्वरान् ॥ विनाशयत्यन्य इति, प्रतिपद्येत कः सुधीः ॥ २७ ॥ युष्मन्मते च वयम-प्यपरे श्रावका न तु ॥ अथ चेत्स्वामिसिद्धान्तं, प्रमाणीकुरुतोत्तमम् ॥ २८ ॥ तदा तु युष्मांस्तानेव, श्रद्दध्मः श्रमणोत्तमान् ॥ न च युष्मान्नाशयाम-स्त एव श्रावकार वयम् ॥ २९ ॥ यतः-“तदेव वस्तु कालादि-सामग्र्या खामिनो मते ॥ एकसामयिकत्वेन, व्युच्छिनत्ति क्षणान्तरे ॥ ३०॥ द्विसामयिकभावेनो-त्पद्यते चापरे पुनः॥ द्विसामयिकतां त्यक्त्वा, तत्रिसामयिकं भवेत् ॥३१॥ एवं पुनः पुनर्वाच्यं, चतुरादिक्षणेष्वपि ॥ नारकाद्या अप्यनेना-ऽऽशयेन क्षणिका मताः ॥ ३२ ॥ श्रुत्वेति प्रतिबुद्धास्ते, क्षणक्षयकदाग्रहम् ॥ हित्वा वीरविभोर्वाणी, तथेति प्रतिपेदिरे ॥३३॥ अथ तैर्मुदितैरुपासकैः, क्षमयित्वा परिवन्दिता मुदा ॥ व्यहरन् भुवि ते महर्षयः, पुनरासादितश्रुतबोधयः ॥ ३४ ॥ इति चतुर्थनिह्नवकथा ॥४॥
॥१२३॥ "प्रभोर्मोक्षादतेऽन्दाना-मष्टाविंशे शतद्वये ॥ जातस्य निह्नवस्याथ, पञ्चमस्योच्यते कथा ॥१॥" "तद्यथा"तटिन्या उल्लकाबायाः, पूर्वस्मिन्पुलिने पुरं ॥ आसीदुल्लुकतीराख्यं, परमर्द्धि मनोरमम् ॥ २॥ तस्या एव सरखत्याः,
Page #247
--------------------------------------------------------------------------
________________
द्वितीयपलिने पुनः ॥ बभूव भूरिलक्ष्मीकं, खेटस्थामाभिधं पुरम् ॥ ३॥ महागिरिगुरोः शिष्यः, खेटस्थामपरेऽन्यदा ॥ धनगुप्ताभिधः सूरि-श्चतुर्मासीमवास्थितः ॥ ४ ॥ तस्य शिष्यो गङ्गदेवा-चार्यस्तु सपरिच्छदः ॥ तस्थावुल्लुकतीराख्ये, पुरे प्राच्यतटस्थिते ॥५॥ स चान्येयुः शरत्काले, गुरुवन्दनहेतवे ॥ खेटस्थामपुरे गच्छन् , प्रविवेशोल्लुकानदीम् ॥ ६॥ खल्वाटस्य तदा तस्य, शीर्षे सूर्यांशुसङ्गमात् ॥ बभूव तापः पानीय-सङ्गाच्छैत्यं च पादयोः ॥७॥ गङ्गदेवस्ततो दध्या-वेकत्र समये क्रिया ॥ एकैव वेद्यत इति, सूत्रोक्तिर्घटते कथम् ? ॥८॥ शीतमुष्णं च युगप-द्यदहं वेदयेऽधुना ॥ क्रियाद्वयोपयोगः स्या-त्तदैकसमयेऽपि हि ॥९॥ ध्यात्वेति खगुरून्नत्वा, सोऽवादीत्तं निजं मतम् ॥ ततस्ते प्रोचिरे मास्म-वादीतिदयौक्तिकम् ॥१०॥ उपयोगयुगं वत्स!, युगपन्नोपपद्यते ॥ छायातपवदन्योन्यं, विरुद्धं तद्भवेद्यतः॥ ११॥ यदा स्यात्प्राणिनां शीतो-पयोगव्यापृतं मनः ॥ तदा नोष्णोपयोगे त-द्याप्रियेत विरोधतः॥ १२॥ योगपद्याभिमानस्तू-पयोगयुगलस्य यः॥ स तु मानससञ्चार-क्रमस्याऽनुपलक्षणात् ॥ १३॥ मनो हि मौलिपादादा-वुपयुक्तीभवन हि ॥ ज्ञायते सूक्ष्मतात्यन्ता-स्थिरताशीघ्रतादिभिः ॥ १४ ॥ "ततश्च" यथा पाथोरुहदल-शतस्य व्यतिभेदने ॥ प्रतीयमानमप्यस्ति, योगपद्यं न वास्तवम् ॥ १५॥ तथोपयोगयुग्मस्य, योगपद्यं भवाशाम् ॥ प्रतीयमानमपि नो, वास्तवं किं बहूक्तिभिः? ॥१६॥ इति सूरिभिरुक्तः स, तदा तूष्णीकतां दधौ ॥ न त्वहासीद्वासनां तां, श्वपुच्छमिव वक्रताम् ॥ १७॥ असन्मतेन तेनान्यान् , स व्युदना
Page #248
--------------------------------------------------------------------------
________________
तृतीयमध्ययनम् (३)
उत्तराध्ययन हयन्मुनीन् ॥ आग्रही हि स्ववत्कर्तु-मिच्छत्यन्यमलर्कवत् ॥ १८ ॥ तं च श्रुत्वा जनश्रुत्या, जनव्युद्राहणोद्यतम् ॥
सूरयोऽवारयन्नेष, संसारे मा भ्रमीदिति !॥ १९॥ तथापि तं तथावस्थ-मत्यजन्तं तमाग्रहम् ॥ उत्सर्गपूर्वमा॥१२४॥
चार्याः, शासनान्निरकाशयन् ॥ २०॥ ततो व्युद्राहयन् लोका-नसद्भावनया तया ॥ पुरे राजगृहेऽन्येधु-र्ययौ
खैरं परिभ्रमन् ॥ २१॥ सुखं तत्रावतस्थे च, मणिनागाख्यभोगिनः ॥ चैत्ये महातपस्तीर-प्रभावहदपार्श्वगे P॥ २२॥ तत्र चोपादिशदिदं, श्रोतृसन्दोहसंसदि ॥ वेद्यते युगपजीवैः, क्रियायुगलमप्यहो! ॥ २३॥ इति प्ररू
पयन्तं तं, पर्षन्मध्यस्थमेव सः॥ उद्यम्य मुद्गरमिति, प्रोचे, चैत्याधिपः फणी ॥ २४ ॥श्रीवीरेणाऽत्र समव-सृतेनेति प्ररूपितम् ॥ एकैव वेद्यते जीव-रेकस्मिन् समये क्रिया ॥ २५ ॥ तत्किं त्वमधिकज्ञानो, जातो ? वीरप्रभोरपि ॥ यदन्यथा वचस्तस्य, कुरुषे दुष्ट शिष्य रे ! ॥ २६ ॥ मुञ्च दुर्वासनामेना-मङ्गीकुरु विभोर्वचः ॥ नो चेत्त्वां शिक्ष
यिष्यामि, मुद्रेणाऽमुनाऽधुना ॥ २७ ॥ प्रत्यक्षीभूय तेनैवं, शिक्षितो नागनाकिना ॥ तत्सोऽङ्गीकृतवान् मिथ्या8|दुष्कृतं मेऽस्त्विति ब्रुवन् ॥ २८ ॥ गङ्गदेव इति तेन भोगिना, बोधितः पुनरवाप्तबोधिकः ॥ गाङ्गवारिविमलं दध
द्वतं, भूतले विहरति स्म पूर्ववत् ॥ २९ ॥ इति पञ्चमनिह्नवकथा ॥ ५॥ है "चतुश्चत्वारिंशदाढ्यै-वर्षाणां पञ्चभिः शतैः ॥ श्रीवीरमुक्तेर्जातस्य, पष्ठस्याथोच्यते कथा ॥ १॥ “तद्यथा
श्री अन्तरञ्जिकापुर्या, बलश्रीरभवन्नपः॥ तिरस्कारी रिपुबल-श्रियां खीयबलश्रिया ॥२॥ तस्यां नगर्याम
॥१२४॥
Page #249
--------------------------------------------------------------------------
________________
न्येद्यु- ये भूतगुहाभिधे ॥ सगच्छाः समवासार्षुः श्रीगुप्तायसूरयः ॥ ३ ॥ इतश्चैको भूरिविद्या - बलाढ्यो र्गव - पर्वतः ॥ परिव्राडाययौ तस्यां पुर्यामखिलशास्त्रवित् ॥ ४ ॥ लोहपट्टावद्ध तुन्दो, जम्बूशाखां दधत् करे ॥ पुरे तत्राभ्रमलोकैः, पृष्टश्चैवमुवाच सः ॥ ५ ॥ इदं तुन्दं महाविद्या- सम्भारेणातिभूयसा ॥ स्फुटतीति मया लोह -पकेन निबध्यते ! ॥ ६ ॥ जम्बूद्वीपे च मे कोपि, प्रतिवादी न विद्यते ॥ इति सूचयितुं जम्बू - शाखासौ प्रियते मया ! ॥ ७ ॥ ततो लोकाः 'पोहसाल', इति नाम्ना तमूचिरे ॥ सोऽपि राजसभां गत्वा, बलश्रीनृपमित्यवक् ॥ ८ ॥ तव पुर्या भवेत्कोऽपि, यदि वादी तदा मया ॥ वादं कारय नो चेन्मे, जयढक्कां समर्पय ! ॥ ९ ॥ तादृशो वादिनोऽन्यस्या - ऽभावाद्भूमिविभुस्ततः ॥ विमनस्कोऽप्यदात्तस्मै, पटहं जयसुचकम् ॥ १० ॥ परप्रवादाः सर्वेऽपि, शून्या इतकि सोऽप्यथ ॥ उद्घोषयितुमारेभे, डिण्डिमाघातपूर्वकम् ॥ ११ ॥ इतश्च तेषां श्रीगुप्त- सूरीणां भगिनीसुतः ॥ शिष्यश्च रोहगुप्ताख्य- स्तत्रागच्छन् पुरान्तरात् ॥ १२ ॥ परित्राकारितां श्रुत्वोद्घोषणां तामदोवदत् ॥ करिष्ये वादममुना, तन्मावादय तानकम् ! ॥ १३ ॥ उद्घोषणां निषिध्येति गत्वा च गुरुसन्निधौ ॥ परित्राद पटहापोह - वार्ता तेषां जगाद सः ॥ १४ ॥ ततस्तं प्रोचुराचार्या, वत्स ! दुष्ट्टु कृतं त्वया ॥ स हि त्रिदण्डिको भूरि-विद्याढ्यो विद्यते यतः ॥ १५ ॥ स च वादे पराभूतो, विद्याभिः प्रतिवादिनः ॥ करोत्युपद्रवं नाना- विधा| भिर्दाम्भिकाग्रणीः ॥ १६ ॥ वृश्चिकान्पन्नगानाखू - न्मृगशूकरवायसान् ॥ शकुन्तिकाश्च कुरुते स हि विद्याभिरु
54644444
Page #250
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१२५॥
ड्रटान् ॥१७॥ ततोऽवादीद्रोहगुप्तः, कृतं चिन्तनयाऽनया ॥ न हि वादंप्रतिज्ञाया-ऽन्तर्वातुं शक्यतेऽधुना॥१८॥ तृतीयमध्य. मया हि शासनं जैन-मपि मा धर्षयत्वयम्॥ इति वादोऽङ्गीकृतस्त-द्यद्भाव्यं तद्भवत्विह ! ॥ १९॥ ततस्तं वादकरणै- यनम् (३) काग्रं निर्णीय सूरयः॥ परिबाडूजित्वरीः पाठ-सिद्धा विद्या इमा ददुः ॥ २० ॥ केकिनो नकुला ओतु-व्याघ्रसिंहाच कौशिकाः ॥ श्येनाश्च याभिर्जायन्ते, तद्विद्यावाधकाः क्रमात् ॥२१॥ अथ चेदपरं किञ्चि-दुपद्रवकरं भवेत् ॥ रजोहरणमेतत्त्वं, भ्रमयः परितस्तदा ॥ २२ ॥ अनेनैव निहन्याश्च, तदुपद्रवकारकम् ॥ अस्यानुभावाच्छक्रस्या-ऽप्यजय्यस्त्वं भविष्यसि ! ॥२३॥ इत्युक्त्वा मन्त्रयित्वा च, ते रजोहरणं वरम् ॥ ददुस्तस्मै तदादाय, सोप्यगाद्भूपपर्षदि ॥ २४ ॥ किं वेत्ति दुर्विदग्धोऽसौ, परिव्राजकदर्दुरः ॥ पूर्वपक्षस्तदस्यैव, भवत्विति जगाद च ॥ २५॥ एते हि जैना दक्षाः स्यु- दादौ युक्तिपाटवात् ॥ तदेषामेव सिद्धान्तं, गृह्णामीति विचिन्तयन् ॥ ततस्बिदण्डिकोऽवादीत् , द्वौ राशी मम सम्मतौ॥जीवराशिरजीवानां, राशिश्चेति क्रमेण तौ॥२७॥[युग्मम् ] तदाकर्ण्य तदा रोह-21 गुप्त एवं व्यचिन्तयत् ॥ अयं हि मम सिद्धान्ते, प्रविष्टो धूर्तधूर्वहः ॥ २८॥ अहमप्येवमेवाथ, चेद्वक्ष्ये तदयं जनः॥ ज्ञास्यत्यसौ परिव्राजो, मतं स्वीकृतवानिति ॥ २९ ॥ तद्वचः सत्यमप्यस्यो-स्थापनीयं मयाऽधुना ॥ वादे हि तथ्य
ध्य- ॥१२५॥ मप्यन्य-बचो हन्येत युक्तिभिः ॥ ३० ॥ ध्यात्वेति सोऽवदद्वादि-न्मावादीरीदृशं वचः ॥ यजीवाजीवनोजीव-रूपं 3 राशित्रयं भवेत् ॥ ३१॥ तत्र जीवा भवस्थाद्या, अजीवाश्च घटादयः ॥ नो जीवास्तु छिन्नगृह-गोधापुच्छादयो
*
*
*
Page #251
--------------------------------------------------------------------------
________________
मताः ॥ ३२ ॥ वाच्यं न चेदं त्रैविध्य-मयुक्तं युक्तिवेदिभिः ॥ दण्डादावादिमध्यान्त-रूपत्रैविध्यदर्शनात् ॥ ३३॥ भावेष्वेवं जगत्काल-मुख्येषु सकलेष्वपि ॥ त्रैविध्यं दृश्यते तन्न, द्वैविध्यं स्यादिहोचितम् ॥ ३४ ॥ तेनेति राशित्रितयं, व्यवस्थाप्य पराजितः ॥ परिव्राट् तज्जयायाऽथ, वृश्चिकान् विदधे बहून् ॥ ३५॥ ऊर्तीकृतोरुपुच्छांस्तानायातो वीक्ष्य दुर्धरान् ॥ रोहगुप्तो व्यधाद्भूरि-बर्हिणस्तन्निबर्हणान् ॥ ३६ ॥ वृश्चिकेषु मयूरैस्तै-निहतेषु त्रिदण्डिकः॥ भोगाभोगेन कीनाश-दण्डाभान् भोगिनोऽतनोत् ॥३७॥ दृष्ट्वोत्कटस्फुटाटोप-विकटांस्तानथो मुनिः॥ चकार नकुलांस्तैश्च, ते व्याला जन्निरे द्रुतम् ॥ ३८ ॥ ततः परिबाडू विदधे, मूपकान् दशनोद्यतान् ॥ रोहगुप्तविमुक्तस्ते-ऽप्योतुभिाग् निजक्षिरे ॥ ३९॥ तीक्ष्णशृङ्गांस्ततोऽमुञ्च-त्स परिव्राजको मृगान् ॥ तेऽपि व्याप्रैः साधुमुक्तै-निहता विलयं ययुः ॥ ४० ॥ चकार शूकरान् सोऽथ, त्रिदण्डी चण्डदंष्ट्रिकान् ॥ रोहगुप्तोऽपि तान् । रुद्रैः, पारीन्द्राक न्यवारयत् ॥४१॥ मुमोचाऽथ द्विकव्यूहान् , वज्रतुण्डांस्त्रिदण्डिकः ॥ तांश्च न्यषेधयद्विद्याविहितैः कौशिकैर्बती ॥४२॥ अतिदुष्टाः शकुनिका-स्ततः सांन्यासिकोऽमुचत् ॥ श्येनैर्निरुत्तरीचक्रे, तांश्च साधुमहाबलैः ॥४३॥ विद्याभिराभिस्तं जेतुं, परिवाङ्नाऽशकद्यदा ॥ तदा स मुमुचे विद्या-निर्मितां रासभी रुषा ॥४४॥ तां चायान्तीं रोहगुप्तो, निरीक्ष्य परितस्तनुम् ॥ तद्रजोहरणं भ्राम, भ्रामं तेन जघान ताम् ॥४५॥ तन्महिम्ना निष्प्रभावा, निवृत्ता साऽपि रासभी॥ तस्योपरि परिव्राज-छर्दयित्वा तिरोदधे ॥४६॥ क्षीणविद्या
Page #252
--------------------------------------------------------------------------
________________
उत्तराध्ययन
SAMROSAROSAROS
| यनम् (३)
॥१२६॥
बलः सोऽथ, त्रिदण्डी तेन निर्जितः॥ अहील्यताऽखिलैर्लोक-निर्दष्ट्र इव पन्नगः ॥ ४७॥ ततः स लजितोऽत्यर्थ, तृतीयमध्यनिरगाद्राजसंसदः ॥ रोहगुप्तस्त्वगालोकैः, स्तूयमानोऽन्तिके गुरोः ॥४८॥ यथा जातमवादीच, वादव्यतिकरं | गुरोः ॥ तदाकाऽवदत्सूरि-दूरीकृतकदाग्रहः ॥४९॥ विजेतुं वादिनं राशि-त्रितयं स्थापितं मया ॥ राशिद्वितयमेवास्ति, वास्तवं तु जगत्रये ॥५०॥ एवमुत्तिष्ठता वत्स, ! नोक्तं चेत्पर्षदि त्वया ॥ इदानीमपि तत्तत्र,
गत्वाख्याहि यथातथम् ॥.५१ ॥ [ युग्मम् ] श्रीगुप्तसूरिभिरिति, प्रोक्तोऽपि स पुनः पुनः॥ ममापभ्राजना माऽभू-| दादिति नैपीद्रोर्गिरम् ॥ ५२ ॥ एवमूचे च नन्वत्र, दोषः को नाम विद्यते ? ॥ अस्त्येव राशित्रितयं, वास्तवं यज-15
गत्रये ॥ ५३॥ गुरुजगावसद्भाव-मेनं माख्याहि सन्मते! ॥ आशातना जिनानां स्या-दसतो हि प्ररूपणे ॥ ५४॥ एवं निवार्यमाणोऽपि, सूरिभिः स तमाग्रहम् ॥ नात्याक्षीकिन्तु तैः साक-मारेभे वादमुन्मदः ॥ ५५ ॥ ततस्तेन सहाचार्या, गत्वा पार्थिवपर्षदि ॥ इत्यूचुर्मम शिष्येणा-ऽमुनाऽयुक्तं तदोदितम् ॥ ५६ ॥ द्वावेव राशी विद्यते, मते नः18 कथितो जिनैः ॥ असौ तु वादिनं जेतं, जगौ राशित्रयं तदा ॥ ५७॥ अथ चाऽयं मदाध्मातः, सत्यं न प्रतिपद्यते ॥ मया प्रज्ञाप्यमानस्तु, विवादायोपतिष्ठते ॥५८ ॥ आकर्णयोभयाकर्णि, राजस्तद्वादमावयोः ॥ सत्यास- ॥१२६॥ त्यविवेको हि, न स्यायुष्मादृशैविना ॥ ५९॥ ततो राज्ञाभ्यनुज्ञाता-स्तत्र श्रीगुप्तसूरयः ॥ उपविश्याऽवदन् रोहगुप्तं ब्रूहि निजं मतम् ॥ ६॥रोहगुप्तो जगौ जीवा-दजीवो भिद्यते यथा ॥ विलक्षणत्वानोजीवो-ऽप्येवं तस्मा
A NSARLAL
Page #253
--------------------------------------------------------------------------
________________
3***
ASA C
ASCO ARTEOSTESSO
द्विभिद्यते ॥ ६१ ॥ तज्जीवाजीवनोजीव-रूपं राशित्रयं स्फुटम् ॥ मतं ममेति तेनोक्ते, जजल्पुरिति सूरयः ॥६२ ॥ जीवाद्विलक्षणत्वं य-नोजीवस्योदितं त्वया ॥ तन्न सङ्गच्छते जीव-धर्माणां तत्र दर्शनात् ॥ ६३ ॥ नोजीवो हि छिन्नपल्ली-पुच्छादिस्तव संमतः ॥ तत्र तु प्रेक्ष्यते जीव-लक्षणं स्फुरणादिकम् ॥ ६४ ॥ अथ चेजीवदेशत्वा-नोजीवः स त्वयोच्यते ॥ तत्किं स देशः स्याजीवा-द्भिन्नस्तदितरोऽथवा ?॥६५॥ भिन्नश्चेत्तेन जीवेन, पुनस्तत्सङ्गमः कथम् ? ॥ भिन्नो हि देशोऽन्यत्रापि, संमिलेत्परमाणुवत् ॥६६॥ तस्य देशस्य चान्येन, जीवेन सह सङ्गमे ॥ सुखदुःखादि साङ्कय, स्थात्तयोः कर्मसङ्करात् ॥ ६७ ॥ अथ जीवस्य कर्मेव, देशे संक्रामतीति चेत् ॥ तदा तु दोषौ जायेतां, कृतनाशाकृतागमौ ॥ ६८॥ कृतनाशो हि जायेत, नाशाद्देशस्थकर्मणः ॥ जीवस्थकर्मणो देशे, सञ्चाराचाकृतागमः ॥ ६९ ॥ किञ्चामूर्तस्य जीवस्य, गगनस्येव कर्हिचित् ॥ नैव देशो भवेद्भिन्नः, खतोऽपि परतोऽपि च ४ ॥ ७० ॥ अभिन्नश्चेत्तदा तु स्या-जीवान्तर्गत एव सः ॥ तदा च राशिद्वितय-मेवासीन तु तत्रयम् ॥ ७१॥ अथाऽभिन्नोऽप्ययं देशः, स्थानभेदविवक्षया ॥ नो जीवः कथ्यते कुम्भ-गृहाद्याकाशवद्यदि ॥ ७२ ॥ तर्हि राशि!अजीव-नामाऽपि प्रतिपद्यताम् ॥ व्योमादीनामजीवाना-मप्येवं देशसम्भवात् ॥७३॥ तथात्वे च भवेद्राशिचतुष्कं भवतो मते ॥ तद्राशित्रयमेवात्र, कुतस्त्वं प्रतिपद्यसे ? ॥ ७४ ॥ अथाऽजीवानोअजीवो, लक्षणैक्यान्न भिद्यते ॥ नो जीवोऽपि तदा जीवा-लक्षणैक्यान्न भिद्यते ॥ ७५ ॥ तद्राशिद्वयमेवास्ति, वास्तवं न तु तत्रयम् ॥
२२
Page #254
--------------------------------------------------------------------------
________________
उत्तराध्ययन एवं तयोरभूद्वादः, षण्मासी यावदन्वहम् ॥ ७६ ॥ अथ भूपो गुरुं प्रोचे, खामिन् ! वादः समाप्यताम् ॥ नित्यं तृतीयमध्य
लसीदति मे राज-कार्य व्यग्रतयाऽनया ॥ ७७ ॥ ऊचे सूरिरियत्कालं, धृतोऽयं लीलया मया ॥ अथाऽस्य निग्रहंयनम् (३) ॥१२७॥
प्रातः, करिष्ये नात्र संशयः॥ ७८ ॥ ततः प्रभाते गुरवः, सभां गत्वेति तं जगुः ॥ एहि सत्यपरीक्षार्थ, गच्छामः
कुत्रिकापणम् ॥ ७९ ॥ हट्टो हि देवसम्बन्धी, 'कुत्रिकापण'. उच्यते ॥ सद्भावानखिलांस्तत्र, प्रदत्ते प्रार्थितः सुरः ४॥८॥ इत्युक्त्वा ते सहादाय, रोहगुप्तं नृपान्विताः ॥ सुधियामापणा जग्मु-गुरवः कुत्रिकापणम् ॥ ८१ ॥ तत्र
जीवानजीवांश्च, नोजीवांश्च प्रदेहि नः ॥ तैरित्युक्तः सुरो जीवा-नजीवांश्च ददौ द्रुतम् ॥८२॥ नोजीवास्तु जगत्यत्र, नो सन्तीति शशंस च ॥ नोजीवे याचिते भूयो-ऽप्यजीवं वा ददौ सुरः॥८३ ॥ रोहगुप्तं ततः सूरि-रूचे मुञ्च कदाग्रहम् ॥ नोजीवश्चेदस्ति विश्वे, तर्हि नादात्कथं सुरः ॥ ८४ ॥ प्रश्नैरित्यादिभिः सूरि-स्तं द्रुतं नृपसाक्षिकम् ॥ निजग्राह चतुश्चत्वारिंशंद्यतशतोन्मितः ॥८५॥ तथापि रोहगुप्तस्या-ऽत्यजतस्तं कदाग्रहम् ॥ खेल-| मल्लकभस्म द्राक्, शिरसि न्यक्षिपद्गुरुः ॥ ८६ ॥ ततस्तं निह्नव इति, सूरिराजैर्बहिष्कृतम् ॥ चक्रे निर्विषयं भूपः, क्रुद्धस्तच्छाठ्यदर्शनात् ॥ ८७ ॥ जयति श्रीमहावीर-जिन इत्यखिले पुरे ॥ उद्घोषणां धराधीश-श्चकार गुरुशा
॥१२७॥ सनात् ॥८८॥ गुरुदत्तेयमित्यङ्गे, वहन् भूति ततः परम् ॥ निर्लज्जो रोहगुप्तोऽपि, खैरं बभ्राम भूतले ॥८९॥ स वैशेषिकसूत्राणि, कल्पयामास च खयम् ॥ पदार्थान्नियतं द्रव्य-गुणादीन् षट् प्ररूपयन् ॥९०॥पूर्वोदिताः प्रश्नगणास्त्वि-||
Page #255
--------------------------------------------------------------------------
________________
SE5%A5
हजै-ज्ञेया बृहदृत्तिविलोकनेन ॥आसादितोऽप्येवमपैति बोधि-यनादयं तन्ननु रक्षणीयः॥९१॥इति षष्ठनिह्नवकथा॥६॥ | "अथो चतुरशीत्याढ्यै-वर्षाणां पञ्चभिः शतैः ॥ श्रीवीरमुक्तेर्जातस्य, सप्तमस्योच्यते कथा ॥१॥" "तथा हि"देवेन्द्रवन्दिताः पूर्वो-दिताःश्रीआयरक्षिताः॥ पुरं दशपुरं जग्मु-रन्यदा गच्छसंयुताः ॥२॥ तेषां शिष्यास्त्रयोऽभूवन्, विशेषेण विचक्षणाः॥ तेषु दुर्बलिकापुष्प-मित्रनामादिमो मतः॥३॥ द्वैतीयिकस्तु सूरीणां, सोदरः फल्गुरक्षितः॥ तृतीयस्त्वभवद्गोष्ठा-माहिलः सूरिमातुलः ॥४॥ तदा च मथुरापुर्या-माययौ कोऽपि नास्तिकः॥ नास्त्यात्मत्यादिभिर्वाक्य-लोकान् व्युद्धाहयन् बहून् ॥५॥ तत्र चाऽभूत्साधुसङ्घो, न पुनः कोऽपि वादकृत् ॥ नास्तिकस्तु स निग्राह्यः, कथञ्चिल्लोकवञ्चकः ॥६॥ इति वादिनमानेतुं, सङ्घः स मथुरास्थितः॥ श्रमणान् प्राहिणोत् श्रीमदार्यरक्षितसन्निधौ ॥७॥ इति व्यज्ञपयंस्तेऽपि, गत्वा श्रीआयरक्षितान् ॥ लोकान् व्युद्धाहयत्युच्चै-मथुरापुरि नास्तिकः॥८॥ तत्तं जेतुं खयं पूज्या, नगरी पावयन्तु ताम् ॥प्रेषयन्त्वथवा कञ्चि-द्विनेयं वादिजित्वरम् ॥९॥ ततस्ते सूरयस्तत्र, वृद्धत्वाद्गन्तुमक्षमाः ॥ वादलब्धिधरं गोष्ठा-माहिलं प्रेषयंस्तदा ॥ १० ॥ सोऽपि तत्रागमत्सत्रा-ऽऽह्यातुमागतसाधुभिः ॥ वादे निरुत्तरीचक्रे, तञ्च चार्वाकमुग्रधीः ॥ ११॥ जितकाशी सूरिपार्थे, यियासुरपि स व्रती ॥ सङ्घाग्रहवशात्तत्र, चतुर्मासीमवास्थितः॥ १२ ॥
इतश्च विश्ववन्द्याः श्री-आर्यरक्षितसूरयः॥निजायुःप्रान्तमासन्नं-विज्ञायैवमचिन्तयन् ॥१३॥ योग्यस्यैव विने
Page #256
--------------------------------------------------------------------------
________________
उत्तराध्ययन में यस्य, प्रदेया गणधारिता ॥ अयोग्यस्य तु तद्दाने, दातुर्दोषो भवेन्महान् ॥ १४ ॥ यदाहुः-“बूढो गणहरसद्दो, तृतीयमध्य
गोअमाईहिं धीरपुरिसेहिं ॥ जो तं ठवेइ अपत्ते, जाणतो सो महापावो! ॥१५॥” तदाचार्यपदं देयं, योग्य- यनम् (३) ॥१२८॥
स्यैव विवेकिना ॥ अयोग्यस्तु न तस्याहः, पायसस्येव वायसः!॥ १६ ॥ योग्यस्तु मम शिष्येषु, गुणरत्नमहोदधिः ॥ अस्ति दुर्बलिकापुष्प-मित्रनामा महाशयः ॥ १७ ॥ सर्वेषामात्तदीक्षाणां, मद्वन्धूनां तु सर्वथा ॥ श्रीफल्गुरक्षितो गोष्ठा-माहिलो वाऽस्ति सम्मतः॥ १८॥ कांक्षन्ति गणधारित्वं, खजनत्वाद्धि ते तयोः ॥ सम्यग्जानन्ति
न त्वेषां, त्रयाणां गौणमन्तरम् ॥ १९॥ ततस्तदन्तरं प्रोच्य, सर्वर्षीणां निजे पदे ॥ शिष्यं दुर्बलिकापुष्प-मित्राख्यं द्र स्थापयाम्यहम् ॥ २०॥ विमृश्येत्यखिलान् साधून् , समाहूय मुनीश्वरः ॥ वल्लतैलाज्यकुम्भानां, दृष्टान्तानित्यवो-15
चत ॥ २१॥ वल्लकुम्भाद्यथा रिक्ती-कर्तुं नीचैर्मुखीकृतात् ॥ निष्पावा निखिला मध्य-गता निर्यान्ति सत्वरम् ॥ २२ ॥ एवं दुर्बलिकापुष्प-मित्रनाम्नो महामतेः ॥ जातोऽस्मि श्रुतसूत्रार्थ-दाने वल्लघटोपमः ॥ २३ ॥ | अधोमुखीकृतात्तैल-घटात्तैलं यथा द्रुतम् ॥ निर्याति भूरि किञ्चित्तु, तिष्ठत्यपि घटाश्रितम् ।। २४ ॥ फल्गुरक्षितसंज्ञस्य, श्रुताम्नायार्पणे तथा ॥ जातोऽस्म्यहं तैलकुम्भ-सन्निभो भो महर्षयः ! ॥ २५ ॥ अवाङ्मुखीकृतादाज्य-knen कुम्भात्तु स्तोकमेव हि ॥ घृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे ॥ २६ ॥ एवं जातोऽस्म्यहं गोष्ठा-माहिलाभिधसन्मुनेः॥ श्रीमत्सिद्धान्तसूत्रार्थ-दाने घृतघटोपमः॥ २७ ॥ तदयं श्रुतपाथोधि-पारश्वा गुणोदधिः ॥ अस्तु
Page #257
--------------------------------------------------------------------------
________________
दुर्बलिकापुष्प - मित्रर्षिर्वो गणाधिपः ॥ २८ ॥ इयत्कालं मदादेशो, युष्माभिर्मानितो यथा ॥ अतः परं तथा मान्यं, वचोऽमुष्य गणेशितुः ॥ २९ ॥ अकृतेऽपि मदादेशे, जातु कोपो न मे भवेत् ॥ अयं तु स्तोकमप्यागो, न कस्यापि सहिष्यते ॥ ३० ॥ इत्युक्ते सूरिभिः सर्वे, प्रत्यपद्यन्त तत्तथा ॥ ततो दुर्बलिकापुष्प - मित्रमित्थं जगौ गुरुः ॥ ३१ ॥ गुणित्वाद्वत्स ! गच्छोऽयं, त्वदङ्के स्थाप्यते मया ॥ तदसौ भवता मद्व - पालनीयो महामते ! ॥ ३२ ॥ श्रीफल्गुरक्षिते गोष्ठा - माहिले च यथा मया ॥ प्रवृत्तं भवताऽप्येवं वर्त्तितव्यं, विशेषतः ॥ ३३ ॥ इत्युक्त्वा स्थापयित्वा च तं मुनीन्द्रं निजे पदे ॥ विहितानशनाः स्वर्ग, जग्मुः श्री आर्यरक्षिताः ॥ ३४ ॥ श्रीआर्यरक्षिताचार्यान् स| माकर्ण्य दिवङ्गतान् ॥ गोष्ठामाहिलनामापि, ययौ दशपुरे द्रुतम् ॥ ३५ ॥ न्यधीयत निजे पट्टे, शिष्यः को नाम सूरिभिः ? ॥ इति चागतमात्रोऽपि, सोऽप्राक्षीदखिलान् मुनीन् ॥ ३६ ॥ ततोऽभ्युत्थाय ते कुम्भ - दृष्टान्तांस्तानुदीर्य च ॥ श्रीमद्दुर्वलिकापुष्प - मित्राख्यं सूरिमूचिरे ॥ ३७ ॥ तन्निशम्योद्गतामर्षो, माहिलः सर्वसाधुभिः ॥ इहैव | तिष्ठतेत्युक्तो - ऽप्यनिच्छन्निर्ययौ वहिः ॥ ३८ ॥ पूर्वोपाश्रयपार्श्वस्थे, स्थित्वा सोपाश्रये पृथक् ॥ प्रावर्तिष्ठान्यसाध्वादीन् व्युग्राहयितुमुच्चकैः ॥ ३९ ॥ व्युद्वाहयितुमैशिष्ट, न पुनः कञ्चनापि सः ॥ ततः सोऽन्वेषयामास, सूरीणां छिद्रमन्वहम् ॥ ४० ॥ इतश्च पुष्पमित्राख्य- सूरयोप्यर्थपौरुषीम् ॥ सर्वर्षीणां पुरश्चक्रुः, श्रुतार्थकथनात्मिकाम् ॥ ४१ ॥ सूरीणां सन्निधानेऽर्थ, शृणुतेति महर्षिभिः ॥ तदा प्रोक्तो माहिलर्षि - ईर्पाविष्टोऽब्रवीदिति ॥ ४२ ॥
Page #258
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१२९॥
निष्पावकुम्भकल्पस्य, तस्याभ्यणे महाधियः ! ॥ यूयमेव श्रुताम्नायान् , गृह्णीत निखिलानपि ॥ ४३॥ पूर्व कर्म तृतीयमध्यप्रवादाख्य-मष्टमं सूरयस्तु ते ॥ अध्यापयन्तो वन्ध्यादि-साधूनामभवंस्तदा ॥ ४४ ॥ तत्रावन्ध्यमतिर्वन्ध्यो-ऽन्ययनम् (३) दाधीयानुचिन्तयन् ॥ त्रैविध्यं कर्मवन्धस्य, व्याचख्याविति तद्यथा ॥ ४५ ॥ जीवैर्हि बध्यते कर्म, बद्धं स्पृष्टं निकाचितम् ॥ तत्र बद्धं यथा सूची-कलापस्तन्तुवेष्टितः॥४६॥ स्पृष्टं यथा सूचिकास्ताः, किटेनैकत्वमाश्रिताः ॥ निकाचितं यथा ताप-कुट्टनैरेकतां गताः ॥४७॥ बन्नात्येवं पूर्वमात्मा, रागादिपरिणामतः ॥ प्रदेशैः सकलैः कर्म, विज्ञानावरणादिकम् ॥ १८॥ तदेव कुरुते स्पृष्टं, तत्परीणामवृद्धितः ॥ संक्लिष्टात्तु परीणामा-त्तत्करोति निकाचितम् ॥ ४९ ॥ तत्र बद्धं याति नाश-मुपायैर्निन्दनादिभिः ॥ प्रायश्चित्तायुपायैस्तु, स्पृष्टं कर्म निवर्तते ॥५०॥ निकाचितं तु यत्कर्म, जीवैः सुदृढबन्धनात् ॥ उदयेनैव तत्प्रायो, वेद्यते नान्यथा पुनः॥५१ ॥ इत्यनुप्रेक्ष तं, गोष्ठामाहिल इत्यवक् ॥ मैवं वादीर्यदस्माभि-गुरुभ्यो नेशं श्रुतम् ॥ ५२ ॥ यदि स्यादात्मना कर्म, बद्धं |निकाचितम् ॥तदा तदपृथग्भावा-मोक्षस्तस्य कथं भवेत् ? ॥५३॥ वन्ध्योऽभ्यधात्कथं तर्हि, सम्बन्धो जीवकर्मणोः॥ तत इत्यलपद्गोष्ठा-माहिलः कल्पनापटुः ॥५४॥ यथा कञ्चुकिनो देहं, बहिः स्पृशति कञ्चकः ॥ वपुषा सह सम्बद्धो, न वसौ जातु जायते॥५५॥ एवं कर्मापि जीवेन, स्पृष्टं बद्धं पुनर्न तत् ॥ यस्तु तन्मन्यते बद्धं, तस्य न स्याद्भवक्षयः ॥५६॥एतावदेव गुरुभिः, प्रोक्तं नः पाठनक्षणे॥एप सूरिस्तु तत्तत्त्वं, नैव जानाति किञ्चन ॥५७॥ जाताशङ्कस्ततो गत्वा,
Page #259
--------------------------------------------------------------------------
________________
वन्ध्यः सूरीन्द्रसन्निधौ ॥ निवेद्य माहिलवचः, किं तथ्यमिति पृष्टवान् ? ॥ ५८॥ सूरयः प्रोचुरुक्तं हि, प्राग्मया
ते ॥ माहिलस्य तु गीनैव, युक्ता युक्तिविरोधतः॥ ५९॥ जीवो हि खावगाहाभि-व्याप्त एवाम्बरे स्थि-17 तम् ॥ गृह्णाति कर्मदलिकं, जातु न त्वन्यदेशगम् ॥ ६०॥ तथा च वह्नययःपिण्ड-बदैक्यं जीवकर्मणोः ॥ स्यान्न तु स्पृष्टमात्रत्वं, देहकशुकवत्तयोः॥६१॥ अथात्मान्यप्रदेशस्थं, कर्मादायानुवेष्टयेत् ॥ यद्यात्मानं तदा तस्य, घटते कञ्चकोपमा ॥६२॥ किन्तु स्यादपसिद्धान्त-स्तदा सुत्रविरोधतः॥ सूत्रे ह्यन्यप्रदेशस्थ-कर्मादानं निषिध्यते ॥६३॥ |किञ्च कञ्चकवत्कर्म, चेद्वहिःस्थितमात्मनि ॥ वेदनापि तदा कर्म-निमित्तान्तः कथं भवेत् ? ॥ ६४ ॥ अथ संचारिभावात्स्या-त्कर्म मध्येपि संस्थितम् ॥ इत्यन्तर्वेदनापि स्या-दिति चेत्तेन मन्यते ॥ ६५ ॥ तर्हि कक्षुककल्पत्वं, | कर्मणो व्याहतं स्फुटम् ॥ कक्षुको हि बहिः स्पृष्ट, एव स्यान्न तु मध्यगः ॥ ६६ ॥ तदा च युगपन्न स्था-द्वहिर्मध्ये | च वेदना ॥ कर्मणो बहिरन्तर्वा, सम्बन्धाद्वेदना कुतः ॥ ६७ ॥ संचारित्वाच तत्कर्म, न गच्छति भवान्तरे ॥ जीवेन सह देहस्थ-निःश्वासादिसमीरवत् ॥ ६८ ॥ सर्वैर्जीवप्रदेशैस्त-निबद्धं कर्म मन्यताम् ॥ रागादिबन्धहेतूनां, सद्भावात्सकलात्मनि ॥ ६९॥ न चाविभागसम्बन्धा-त्पार्थक्यं जीवकर्मणोः ॥ नैव भावीति विज्ञेयं, तद्वाक्याकर्णनात्त्वया ॥ ७० ॥ यतोऽविभागसम्बन्ध-बतोरप्यश्महेमयोः ॥ पृथग्भावो जायमानः, प्रत्यक्षेण निरीक्ष्यते ॥ ७१ ॥ इत्यादिभिः सूरिवाक्यै-बन्ध्यो निःशङ्कतां गतः ॥ माहिलायाऽवदत्तानि, द्रुतं गत्वा तदन्तिके ॥७२॥
Page #260
--------------------------------------------------------------------------
________________
ॐ
तृतीयमध्ययनम् (३)
उत्तराध्ययन ततथापि स शठश्चित्ता-नात्याक्षीतं कदाग्रहम् ॥ क्षोभनां पुनरन्यत्र, करिष्यामीति चिन्तयन् ॥ ७३ ॥ अन्यदा |
नवमं पूर्व, प्रत्याख्यानाभिधं पठन् ॥ वन्ध्यसाधुर्मुनेः प्रत्या-ख्यानमेवमवर्णयत् ॥ ७४ ॥ यावजीवं सर्वमेव, प्राणि॥१३॥
प्राणातिपातनम् ॥ त्रिविधं त्रिविधेनाङ्गी, प्रत्याख्याति व्रतीभवन् ॥ ७५ ॥ इत्याद्याकर्ण्य तं गोष्ठा-माहिलः प्रोचिवानिति ॥ परिमाणयुतं प्रत्या-ख्यानं साधोने युज्यते ॥ ७६ ॥ यावजीवमिति प्रोक्ते, कालमानमुरीकृतम् ॥ तथा चाग्रे हनिष्यामी-त्याशंसादूषणं भवेत् ॥ ७७ ॥ तस्मादपरिमाणेन, प्रत्याख्याम्यखिलं बधम् ॥ त्रिविधं त्रिविधेनेति. वाच्यं स्वीकुर्वता व्रतम् ॥ ७८ ॥ एवं वदन्तं तं वन्ध्यो-भ्यधादिति महामतिः ॥ आशंसा कि कालमाना-जायते वाञ्छयाऽथवा ? ॥ ७९ ॥ आये पक्षे मुनेरद्धा-प्रत्याख्यानं वितन्वतः ॥ पौरुष्यादिपदोचारे-ऽप्याशंसा स्यादना|हता ! ॥ ८॥ पौरुष्यादिपदेनाद्धा-प्रत्याख्यानेऽपि निश्चितम् ॥ यामादिक कालमान-मेव यस्मादुदीर्यते ॥ ८१॥ अथ तत्रापि पदं त-नो वाच्यमिति चेत्तदा ॥ भवेदनशनापत्तिः, प्रव्रज्यादिन एव हि ! ॥ ८२॥ न च साधोर्भवेन्नाद्धा-प्रत्याख्यानमिति त्वया ॥ वक्तव्यमपसिद्धान्त-दोषापत्तिर्यतो भवेत् ॥ ८३॥ सिद्धान्ते हि जिनैरद्धा-प्र| त्याख्यानं तपखिनाम् ॥ कर्तव्यत्वेन कथितं, दशधाऽनागतादिकम् ॥८४ ॥ वाञ्छारूपो द्वितीयोऽपि, पक्षो नो युज्यते क्वचित् ॥ मुनेरन्यभवेऽवद्य-सेवाशा यन्न विद्यते ॥ ८५॥ अन्यच्चापरिमाणत्वं, प्रत्याख्यानस्य यत्पुरा ॥ त्वया प्रोक्तं तदपि नो, युक्तं युक्तिविरोधतः॥८६॥ क्रियमाणेऽपरिमाण-प्रत्याख्याने हि जायते ॥ अनागताद्धा
Page #261
--------------------------------------------------------------------------
________________
OL
सर्वापि, प्रत्याख्यानस्य गोचरः ॥ ८७॥ तदा चायुःक्षयाद्देव-भवं गतवतो यतेः ॥ सावद्यसेवनेऽवश्यं, व्रतभङ्गः प्रसज्यते ! ॥ ८८॥ अथ यावच्छक्ति यस्मात् , प्रत्याख्यानं विधीयते ॥ तस्मादपरिमाणत्व-मिति चेदभिधीयते | ॥ ८९ ॥ तर्हि शक्तिमितं प्रत्या-ख्यानमङ्गीकृतं खयम् ॥ तथा चापरिमाणत्व-खीकारस्तस्य नोचितः ॥९॥ किञ्चाशंसावशान्नैव, यावजीवेति पठ्यते ॥ व्रतभङ्गभयात्किन्तु, यावजीवेति पठ्यते ॥९१॥ आशंसारहितत्वेन, तत्सावधिकमप्यहो ॥ प्रत्याख्यानं न दोषाय, कायोत्सर्गनिदर्शनात् ॥ ९२ ॥ इत्यादिवन्ध्यवचनं, न यदा खीचकार
सः॥ तदा सर्वेऽपि मुनय-स्तमेवं प्रोचिरे मुहुः ॥ ९३॥ महात्मनित्थमेवेदं, वन्ध्यवाक्यमुरीकुरु ॥ एवमेवैतदुक्तं | तश्री-आर्यरक्षितसूरिभिः ॥ ९४ ॥ अन्येऽपि स्थविरा अन्य-गच्छीया ये बहुश्रुताः ॥ तेऽपि पृष्टा जगुः प्रत्या-ख्यानं ,
सावधिकं ध्रुवम् ॥९५॥ तथाऽपि माहिलो नैव, तं कदाग्रहमत्यजत् ॥ आग्रहो ह्यङ्गिनां प्रायो-ऽसाध्यः स्यात्क्ष
यरोगवत् ॥ ९६ ॥ तानित्यूचे च नो यूयं, तत्त्वं जानीथ किञ्चन ॥ तीर्थङ्करैर्हि भावोऽयं, कथितोऽस्ति मदुक्तवत् ६॥ ९७ ॥ ततः साध्वादिकः सर्व-सङ्घः प्रष्टुं जिनेश्वरम् ॥ उद्दिश्य शासनसुरी, कायोत्सर्ग विनिर्ममे ॥९८ ॥ सुरी
साऽप्याऽऽययौ ब्रूत, किं करोमीति वादिनी ? ॥ सङ्घः स्माहेति पृच्छ त्वं, गत्वा सीमन्धराधिपम् ॥ ९९ ॥ किं| गोष्ठामाहिलमुनि-रुदीरयति सूनृतम् ॥ सबो दुर्बलिकापुष्प-मित्रादिः सकलोऽथवा ? ॥ १०॥ ततो देव्यवदद्दत्त, कायोत्सर्गबलं मम ॥ यथाऽनेकसुराकीर्णे, मार्गे स्यां गन्तुमीश्वरी ॥१॥ सडेनाऽथ कृते कायोत्सर्गे शासनदेवता ॥
ALKARNASANCHARACRECAR
Page #262
--------------------------------------------------------------------------
________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
॥१३॥
गत्वा विदेहे सङ्घोक्त-युक्त्याऽप्राक्षीजगत्प्रभुम् ॥ २॥ शशंस शम्भुशकोऽथ, सङ्घोऽसौ वक्ति सूनृतम् ॥ माहिल- स्त्वनृतं ब्रूते, निह्नवो ह्येष सप्तमः॥३॥ तदाकयोऽऽगता देवी, सङ्घमेवमवोचत ॥ कायोत्सर्ग पारयित्वा, भाषितं
शृणुताऽर्हतः॥४॥ सङ्घः सत्यो माहिलस्तु, निह्नवोऽनृतभाषकः ॥ तयेत्युक्तेऽबदद्गोष्ठा-माहिलोऽतिकदाग्रही ! ४॥ ५ असौ वराकी खल्पी -स्तत्र गन्तुं कं शक्नुयात् ? ॥ तत्कल्पितमियं वक्ति, न पुनर्जिनभाषितम् ! ॥६॥
ततस्तं पुष्पमित्राख्य-सूरयोऽप्येवमूचिरे ॥ सम्यक श्रद्धेहि नोचेत्त्वं, सङ्घबाह्यः करिष्यसे !॥७॥ तथापि तत्तन्ममातमत्यजन्तं, चकार सोऽखिलसङ्घबाह्यं ॥ व्युद्धाहयन् सोऽपि जनाननेकान् , बभ्राम भूमौ गतबोधिरत्नः ! ॥१०८॥ इति सप्तमनिह्नवकथा ॥७॥
"इति खल्पजिनप्रोक्त-वचनोत्थापका अमी ॥ सप्तोक्ता निह्नवाः पूर्व, प्रोक्ता गाथाद्वयेन ये ॥१॥""अथ भूरिविसंवादी, प्रसङ्गात् प्रोच्यतेऽष्टमः ॥ श्रीवीरमुक्तेर्जातोऽन्द-शतैः पडिनवोत्तरैः ॥२॥" "तथाहि"-रथवीरपुराभिख्ये, पुरेऽभूद्दीपकाभिधम् ॥ वनं तत्रार्यकृष्णाख्याः, सूरयः समवासरन् ॥३॥ इतश्च शिवभूत्याख्यः, क्षत्रियः 3 सात्विकाग्रणीः ॥ सहस्रयोधी तत्रत्यं, नृपं सेवितुमाश्रयत् ॥४॥ नृपो दध्यौ परीक्षेऽह-मस्य धैर्यादिकान् गुणान् ॥ निर्गुणो ह्यनुजीवी स्या-त्खामिनो नो सुखाकरः॥५॥ परीक्षापूर्वमेवास्मै, प्रदास्ये वृत्तिमप्यहम् ॥ निर्गुणे हि जने दत्तं, स्याद्भस्मनि हुतोपमम् ! ॥६॥ ध्यात्वेति भूपतिः श्याम-चतुर्दश्यां निशामुखे ॥ पशुमेकं वारुणी च,
॥१३१॥
Page #263
--------------------------------------------------------------------------
________________
तस्य दत्वैवमब्रवीत् ॥ ७॥ श्मशानस्थे मातृदेवी-गृहे गत्वा त्वमेककः ॥ पशुमद्यबलिं देहि, कृत्यमेतद्विधेहि नः ॥८॥ शिवभूतिस्तदादाय, धीरः प्रेतवने ययौ । निहत्य छगलं मातृ-देवीनां च बलिं ददौ ॥९॥ क्षुधितोऽस्मीति तत्रैवा-ऽऽरेभे तन्मांसभक्षणम् ॥ श्मशानमातृदेवीभ्यो, विभयामास न त्वसौ ॥१०॥ तदा च तद्भा| पनाय, भूपेन प्रहिता नराः ॥ तत्रागत्य शिवाशब्दान् , भैरवान् परितो व्यधुः ॥ ११॥ बभाज तैरपि क्षोभ, तन्मनो |
न मनागपि ॥ न चाङ्गेऽप्यभवत्तस्य, रोमोझेदो भयोद्भवः ॥ १२ ॥ तत्वरूपं ततो राज्ञे, प्रोचुस्ते राजपूरुषाः ॥ | सोऽपि खस्थतया भुक्त्वा, जगाम मापसन्निधौ ॥१३॥ ततोऽवबुध्य तं शूरं, बहीं वृत्तिं ददौ नृपः ॥ शिवभूति
स्ततो भूपं, सिषेवे तमहर्निशम् ॥ १४ ॥ अन्यदा स नृपः सेना-पत्यादीनखिलान् भटान् ॥ इत्यादिदेश मथुराकानगरी गृह्यतां द्रुतम् ॥ १५॥ ततः सोभिसारेण, चेलुस्ते मथुरां प्रति ॥ पुरादहिश्च गत्वेति, परस्परमचिन्तयन् । |॥ १६ ॥ वयं हि मथुरां जेतुं, प्रस्थिताः पार्थिवाज्ञया ॥ द्वे चात्र मथुरापुर्यो, विद्यते दक्षिणोत्तरे ॥ १७ ॥ तद्गोचरो विशेषश्च, नोक्तः कोऽपि महीभृता ॥ चण्डखभावो भृपश्च, न प्रष्टुं शक्यते पुनः ! ॥ १८ ॥ तदस्माभिः क गन्तव्यं, ध्यायन्त इति तेऽखिलाः ॥ स्थातुं गन्तुं चासमर्था, यावन्मार्गेऽवतस्थिरे ॥ १९॥ शिवभूतिस्तावदागा-तत्र | तांश्चैवमत्रवीत् ॥ किं स्थिता यूयमशुभ-निमित्तस्खलिता इव ॥ २० ॥ यथास्थितेऽथ तैरुक्ते, सोऽवादीचिन्तया कृतम् ॥ सममेव ग्रहीष्यामो, वयं तन्नगरीद्वयम् ॥ २१॥ ते प्रोचुरस्याः सेनायाः, विभागयुगले कृते ॥ नाऽऽदातुं
Page #264
--------------------------------------------------------------------------
________________
उत्तराध्ययन
शक्यतेऽस्माभि-रेकापि नगरी सखे ! ॥ २२ ॥ भावी भूयस्तरः काल, एकस्या अपि निर्जये ॥ एकां जित्वा तद- ततीयमध्य
धन्यस्या, निर्जयोऽप्यति दुष्करः ॥ २३॥ शिवभूतिस्ततोऽवादी-द्यद्येवं तर्हि भो भटाः !॥ तयोर्मध्ये दुर्जया या, यनम् (३) ॥१३२॥
|सा सद्यो मम दीयताम् ॥ २४ ॥ द्वयोर्मध्ये दविष्ठा या, तां व्रजेत्युदितेऽथ तैः ॥ सोऽपाच्य मथुरादेशं, ययौ बुद्धिबलोर्जितः ॥ २५ ॥ तस्य देशस्य च प्रान्त्यान् , ग्रामादीन् साधयन् स्वयम् ॥ दुर्गान् जग्राह निखिलान् , क्रमाच नगरीमपि ॥ २६॥वशीकृत्याथ तद्राज्यं, शिवभूतिर्महामतिः ॥ गत्वा च भूभुजोऽभ्यर्णे, सर्व व्यतिकरं जगौ ॥२७॥18 ततः प्रीतोऽवदद्भूपः, कामितं ते ददामि किम् ? ॥ किञ्चिद्विमृश्य सोऽप्यूचे, खातव्यं देहि मे प्रभो! ॥ २८॥ यथा हि मां मनोभीष्टां, क्रीडां कुर्वन्तमुच्चकैः ॥ यत्तद्वा वस्तु गृह्णन्तं, न कोऽपि प्रतिषेधयेत् ! ॥ २९ ॥ एवम-| स्त्विति भूपोऽपि, सत्यसन्धोऽभ्यधात्ततः ॥ सोऽपि नानाविधाः क्रीडाः, कुर्वस्तत्राऽभ्रमत्पुरे ॥ ३०॥ द्यूतकारैः 8|समं रेमे, स कदाचिदिवानिशम् ॥ कदाचित्तु सुरां पीत्वा, क्षीवः क्षीवैः सहारमत् ॥ ३१॥ कदाचित्तु सिषेवेऽसौ, दिसुन्दरं गणिकागणम् ॥ कदाचित्तु जलक्रीडां, चकार जलहस्तिवत् ॥ ३२ ॥ विजहार कदाचित्तु, कानने नन्दनोपमे ॥ कुर्वन् पुष्पोचयक्रीडां, वृतो विटजनैर्घनैः ॥ ३३ ॥ भ्रमन्नेवं स खसौधे, निशीथेऽप्याऽऽययौ न वा ॥ उल्ल
॥१३२॥ छते हि मर्यादां, प्रायो वीतभयो जनः !॥ ३४ ॥ यावच स गृहे नागा-त्तावत्तस्य वशा खयम् ॥ नानातिस्म न चाशेत, पालयन्ती सतीव्रतम् ॥३५॥ नित्यं क्षुधाजागराभ्यां, साऽथ खिन्ना मनखिनी॥ अन्यदा तस्य जननी-मिति
SSCREENSNAGAROO
SACASSASAMSUSCLOSUALLY
Page #265
--------------------------------------------------------------------------
________________
RELESEARCHA R
स्माह सगद्गदम् ॥ ३६॥ पुत्रो युष्माकमायाति, निशीथे प्रत्यहं गृहे ॥ यावदागमनं चाहं, न भुजे न शयेऽन्वहम् ॥ ३७॥ नित्यं क्षुजागराभ्यां तत्पीडा मे जायते भृशम् ॥ तकिङ्करोम्यहं मात-स्त्वदादेशवशंवदा ॥ ३८ ॥ श्वश्रूः
शशंस सुभगे!, खपिहि त्वं यथासुखम् ॥ अद्याहमेव जागर्मि, तयेत्युक्ताऽखपीद्वधूः ॥ ३९ ॥ गृहद्वारं पिधायास्थाबत्तस्य माता तु जाग्रती ॥ सोऽथाऽऽगतोऽवदत्सद्यो, द्वारमुद्घाट्यतामिति ॥ ४० ॥ माता प्रोचेऽधुना यत्र, द्वारमु
द्घाटितं भवेत् ॥ तत्र प्रयाहि न पत्र, द्वारमुद्घाट्यतेऽधुना !॥४१॥ तदाकाऽखर्वगर्वः, शिवभूतिरचिन्तयत् ॥ मात्राऽपमानितोऽद्याऽहं, तद्याम्यन्यत्र कुत्रचित् ! ॥ ४२ ॥ यतः-"स्थानस्थादपमानेऽपि, देहिनस्तद्वरं रजः॥ पादाहतं यदुत्थाय, मूर्द्धानमधिरोहति ! ॥ ४३॥" विमृश्येति निजाद्नेहा-द्याघुट्य नगरे भ्रमन् ॥ दैवादुद्घटितद्वारं, साधूपाश्रयमैक्षत !॥४४॥ ततस्तत्र प्रविश्यार्य-कृष्णाचार्यान् प्रणम्य तान् ॥ मां प्रव्राजयतेत्यूचे, ते तु प्रात्राजयन्न तम् ॥४५॥ स्वयमेव ततस्तेन, लुञ्चिते, स्वीयमस्तके ॥ गुरवो ददिरे तस्मै, लिङ्गं धर्मध्वजादिकम् ॥४६ ॥ तमुपात्तव्रतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृपः॥ मामनापृच्छय किमिदं, त्वया कृतमिति त्रुवन् ? ॥४७॥ स प्रोचे पृष्टमेवैत-त्खातंत्र्यप्रार्थिना मया ॥ ततो नृपस्तं नत्वाऽगा-द्विमनास्तद्वियोगतः ॥४८॥ बहिर्विहृत्य तत्राऽऽगुः,
सूरयोऽप्यऽन्यदा पुनः॥ तदा शिवं नृपःस्नेहा-दाहूय खगृहेऽनयत् ॥ ४९ ॥ अनिच्छतोऽपि तस्याऽदा-द्भधवो रत्नटू कम्बलम् ॥ तमादायागतं सूरिः, शिवभूतिं तदेत्यवक ॥५०॥ किमयं भवता वत्स!, जगृहे रखकम्बलः ॥न हि
Page #266
--------------------------------------------------------------------------
________________
तृतीयमध्ययनम्(३)
उत्तराध्ययना नो बहुमूल्यस्य, वस्त्राग्रहणं मतम् ! ॥५१॥ इत्युक्तोऽपि स सूरीन्द्र-तं न तत्याज मूर्च्छया ॥ किन्तूपधौ गोप
यित्वा, ररक्ष छन्नमन्वहम् ॥५२॥ अस्य मूछानिदानेन, किमननेति सूरयः ॥ तस्मिन् क्वापि गते रत्न-कम्बलं तम११३३॥
कर्षयन् ॥ ५३॥ विधाय तस्य शकला-निषद्यायै तपखिनाम् ॥ आर्पयंस्तथ विज्ञाय, शिवभूतिरदूयत ॥ ५४ ॥ कृतावहित्थस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् ॥ अन्यदा वर्णयश्चैवं, सूरयो जिनकल्पिकान् ॥५५॥ भवन्ति द्विविधास्ताव-जिनकल्पिकसाधवः ॥ तत्रैके भुअते पाणा-वन्ये त्वश्नन्ति पात्रके ॥५६॥ तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवैः ॥ तत्र वस्त्रधरा एके-ऽन्ये तु चीवरवर्जिताः ॥५७॥ श्रुत्वेत्यादि शिवोऽवोच-जिनकल्पोऽधुना कुतः॥ विधीयते न निर्ग्रन्थै-निष्परिग्रहतार्थिभिः ॥५८॥ सूरिजंगाद व्युछिन्नो, जिनकल्पो हि भारते ॥ श्रीवीरखा. मिपांत्रेण, श्रीजम्बूखामिना समम् ॥ ५९ ॥ सोऽवादीदल्पसत्त्वानां, व्युछिन्नोऽसौ न मादृशाम् ॥ मादृशो हि महासत्वः, कर्तुमीष्टेऽधुनाप्यमुम् ! ॥ ६०॥ मोक्षार्थिना हि सकल-स्त्याज्य एव परिग्रहः ॥ वस्त्रपात्रादिकमपि, तत्त्यक्ष्यामि परिग्रहम् !॥ ६१॥ सूरयःप्रोचिरे वत्स !, वस्त्रपात्रादिकं ह्यदः ॥ धर्मोपकरणं तेन, न परिग्रह उच्यते !
॥ ६२॥ तद्रक्षणे च नो कश्चि-होपो मोक्षार्थिना भवेत ॥ लोभादेव हि मोक्षस्य, विघ्नः स्थान्न तु चीवरात् ! M॥ ६३ ॥ प्रयोगश्चात्र वस्त्रादि, न दोषाय तपखिनाम् ॥ धर्मोपष्टम्भदायित्वात् , शुद्धाहारादिवत्स्फुटम् ! ॥ ६४ ॥
न च हेतुरसिद्धोऽय-मिति वाच्यं त्वया यतः॥ धर्मोपष्टम्भदायित्वं, तस्याऽध्यक्षेण दृश्यते! ॥६५॥ तथा हि
१३३॥
Page #267
--------------------------------------------------------------------------
________________
53456
नोवेशनाखाप-निक्षेपग्रहणादिषु ॥ जन्तुप्रमार्जनार्थ हि, रजोहरणमिष्यते ॥६६॥ सम्पातिमादिसत्वानां. रक्षायै मुखवस्त्रिकाम् ॥ भक्तपानस्थजन्तूनां, परीक्षायै च पात्रकम् ॥ ६७॥ सम्यक्त्वज्ञानचारित्र-तपःसाधनहेतवे॥
चीवराणि च कल्पादी-न्यङ्गीकुर्वन्ति साधवः ॥ ६८ ॥ [ युग्मम् ] वस्वैर्विना तु शीतोष्ण-दंशादिभिरुपद्रुतः ॥ र अपध्यानान्मुनिजोंतु, सम्यक्त्वादेः स्खलेदपि !॥ ६९॥ धर्मोपकरणस्यैवं, धर्मोपष्टम्भदायिता ॥ सुनिश्चितेति|
बतिनां, तदादानं न दुष्यति ॥ ७० ॥ विनोपकरणं यस्तु, जीवादीस्त्रातुमीश्वरः ॥ जिनेन्द्रवत्तस्य दोषः, स्यात्तदग्रहणेऽपि न ॥ ७१ ॥ स चाद्यसंहननवा-नेवस्थानाऽपरः पुनः ॥ तच्च संहननं कस्या-ऽप्यधुना नास्ति भारते ॥७२॥ युक्त्येत्यादिकयोक्तोऽपि, शिवोऽत्यक्तकदाग्रहः ॥ हित्वा वस्त्रादिकं नग्नो, निरगानगराबहिः ॥७३॥ तञ्चोद्यानस्थितं नन्तं, तद्भगिन्युत्तराभिधा ॥ ययौ नग्नं च तं वीक्ष्य, साऽपि नग्नाऽभवद्रुतम् ! ॥ ७४॥ भिक्षार्थ नगरीमध्ये, प्रविष्टां तां तु नग्निकाम् ॥ ददर्श गणिका काचि-दध्यौ चैवं स्वचेतसि ॥ ७५ ॥ अङ्गान्याच्छादितान्येवा-ऽस्माकं गौरवमिग्रति ॥ प्रकाश्यानि तु तानि स्यु-र्जुगुप्स्यानि खभावतः॥ ७६ ॥ तदेनां नग्निकां वीक्ष्याऽस्मासु लोको विरक्ष्यते ॥ ध्यात्वेति तस्यै वस्त्राणि, सा बलात्पर्यधापयत् ॥ ७७॥ तथापि तामनिच्छन्ती, शिव-17 भूतिरदोऽवदत् ॥ साध्वीनां वसनादाने, नूनं दोषो न विद्यते ॥ ७८ ॥ अत एव च देवीयं, प्रदत्ते चीवराणि ते ॥ तत्त्वयामूनि धार्याणी-त्युक्ता सा तेन तान्यधात् ॥ ७९ ॥ शिवभूतेश्च शिष्यो द्वा-वभूतां बुद्धिशालिनौ ॥ कोडि
*
Page #268
--------------------------------------------------------------------------
________________
उत्तराध्ययन में नकोट्टवीराख्यौ, ताभ्यामासीत्परम्परा ॥ ८॥ इत्यष्टमो दिक्पटसंज्ञनिह्नवः, प्रकाशितो हारितशुद्धबोधिकः ॥ तृतीयमध्य
लब्धोऽपि बोधिव्रजतीति कस्यचित् , तद्रक्षणं तत्कुरुत प्रयत्नतः!॥ ८१॥ इत्यष्टमनिह्नवकथा ॥ इति समाप्ता ॥१३४॥
यनम् (३) निह्नववक्तव्यतेति सूत्रार्थः ॥९॥ अथ मानुषत्वादित्रयावाप्तावपि संयमे वीर्य दुर्लभमित्याहदमूलम्-सुईच लद्धं सद्धं च.वीरिअं पुण दल्लंहं ॥ बहवे रोअमाणावि. नोयणं पडिवज्जए॥१०॥
व्याख्या-श्रुतिं, चशब्दात्मानुषत्वं च, लब्ध्वा प्राप्य, श्रद्धां च, वीर्य, प्रक्रमात्संयमविषयं पुनःशब्दस्य विशेष- 2 कत्वात् विशेषेण दुर्लभं, यतो बहवो रोचमाना अपि श्रद्दधाना अपि 'नोयणंति' सूत्रत्वान्नो एनं संयमं प्रतिपद्यन्ते
चारित्रमोहनीयकोदयतः सत्यकिश्रेणिकादिवत्कतु नाङ्गीकुर्वन्तीति सूत्रार्थः ॥ १०॥ अथास्य चतुरङ्गस्य फलमाह है मूलम्-माणुसत्तंमि आयाओ, जो धम्म सुच्च सदहे ॥ तवस्सी वीरिअं लड़े, संवुडे निद्भुणे रयं ॥११॥ | व्याख्या-मानुषत्वे आयातो यो धर्म श्रुत्वा 'सइहेत्ति' श्रद्धत्ते स तपखी निदानादिरहिततया प्रशस्यतपोन्वितः वीय संयमोद्योगं लब्ध्वा संवृतः स्थगिताश्रवो निर्धनोति नितरामपनयति, रजो बध्यमानकर्मरूपं, तदपनयनाच मुक्तिमेवाप्नोतीति भाव इति सूत्रार्थः ॥ ११॥ इत्यामुष्मिकं फलमुक्तमिदानीमैहिकं फलमाह
॥१३४॥ मूलम्-सोही उजुअभूअस्स, धम्मो सुद्धस्स चिट्टइ ॥ णिव्वाणं परमं जाइ,घयसित्तिव पावए ॥ १२॥ व्याख्या-शुद्धिः कषायकालुप्यापगमः, स्यादिति गम्यते, ऋजुभूतस्य चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य
Antonnonton
Page #269
--------------------------------------------------------------------------
________________
BESARKARKARSAASA
तथा च धमःक्षान्त्यादिः शुद्धस्य तिष्ठत्यविचलतया आस्ते, अशुद्धस्य तु कदाचित्कषायोदयादसौ विचलत्यपि, धर्मायस्थितौ च निर्वाणं जीवन्मुक्तिरूपं परमं प्रकृष्टं याति गच्छति, उक्तं हि-"निर्जितमदमदनानां, वाकायमनोविकाररहितानाम् ॥ विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम् ॥ १ ॥ इति" कथम्भूतः सन् ? घृतसिक्तः पावक इव ज्वलन इव, तपस्तेजोज्वलितत्वेन घृततर्पितानलसमानः सन्निति सूत्रार्थः ॥ १२ ॥ इत्थं फलमुपदय शिष्योपदेशमाहमूलम्-विगिंच कम्मुणो हेडं, जसं संविणु खंतिए ॥ पाढवं सरीरं हिच्चा, उड्ढे पक्कमई दिसिं ॥ १३॥ | व्याख्या-'विगिंचत्ति' विवेचय पृथक्कुरु कर्मणः प्रस्तावान्मानुषत्वादिप्रतिबन्धकस्य हेतुमुपादानकारणं मिथ्यात्वाविर-3 त्यादिकं, तथा यशोहेतुत्वात् यशः संयमो, विनयो वा, तत्सञ्चिनु पुष्टं कुरु, कया ? क्षान्त्या, उपलक्षणत्वान्मादेवा |भिश्च, एवं च कृते किं स्यादित्याह-'पाढवंति' पार्थिवं, परप्रसिद्ध्या पृथिवीविकारं, शरीरं वपुर्हित्वा त्यक्त्वा, उद्धं दिशमिति सम्बन्धः, प्रक्रामति प्रकर्षेण पुनर्भवाऽभावरूपेण गच्छतीति सूत्रार्थः ॥१३॥ एवं तद्भव एव मुक्तिया
यिनां फलमुक्त्वा सम्प्रति तदितरेषां तदाह* मूलम्-विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा ॥ महासुकाव दिपंता, मण्णंता अपुणच्चयं ॥१४॥
अप्पिा देवकामाणं, कामरूवविउविणो ॥ उर्ल्ड कप्पेसु चिट्ठति, पुवावाससया बहू ॥ १५
SOSIALISASI SAUSAS
Page #270
--------------------------------------------------------------------------
________________
उत्तराध्ययन व्याख्या-विसालिसेहिति' मगधदेशीभाषया विसदृशैः स्वखचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नः शीलै-| तृतीयमध्य
व्रतपालनात्मकैरनुष्ठानविशेषेर्यक्षा देवा ऊर्दू कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । कीदृशा यक्षा इत्याह-उत्तरो- | यनम् (३) ॥१३५॥
त्तरा यथोत्तरं प्रधानाः, महाशुक्ला अतिशयोज्वलतया चन्द्रादित्यादयः ते इव दीप्यमानाः प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह-मन्यमाना मनस्यवधारयन्तो विशिष्टकामादिप्राप्तिसमुत्थरतिसागरावगाढतया दीर्घस्थितिमत्तया च अपुनश्च्यवं अपुनश्च्यवनं तिर्यगादिपूत्पत्तेरभावम् ॥१४॥ तथा 'अप्पि अत्ति' अर्पिता इवार्पिता ढौकिताः प्रक्रमात्प्राकृतसुकृतेन, केषामित्याह-देवकामानां दिव्याङ्गनास्पर्शादीनां, कामेन इच्छया रूपविकरणं येषां ते कामरूपविकरणा यथेष्टरूपादिकरणशक्तियुक्ता इत्यर्थः । ऊर्द्धमुपरिकल्पषु सौधर्मादिषु, उपलक्षणत्वात् ग्रैवेयकानुत्तरेषु च, तिष्ठन्ति आयुःस्थितिमनुभवन्ति, पूर्वाणि सप्ततिकोटिलक्षषट्पंचाशत्कोटिसहस्रवर्षपरिमितानि, वर्षशतानि प्रतीतानि, बहून्यसंख्येयानि, जघन्यतोऽपि तत्र पल्योपमस्थितित्वात्, पल्योपमे च तेषामसंख्ययानामेव भावात् , पूर्ववर्षशतग्रहणं त्विह पूर्ववर्षशतायुषामेव चरणयोग्यतया विशेषाद्देशनायोग्यत्वमिति सूचनार्थमिति सूत्रद्वयार्थः॥१४॥ १५ ॥ अथ तेषामेतावदेव फलमुतान्यदपीत्याह
॥१३५॥ I मूलम्-तत्थ हिच्चा जहाठाणं,जक्खा आउक्खए चुआ॥उवेन्ति माणुसं जोणिं,से दसंगेभिजायइ ॥१६॥
व्याख्या-तत्र तेषु देवलोकेषु सौधर्मादिषु स्थित्वा यथास्थानं यद्यस्य खानुष्ठानानुरूपमिन्द्रादिपदं तस्मिन् ।
ASHISHERSONA
Page #271
--------------------------------------------------------------------------
________________
यक्षा आयुःक्षये खस्खजीवितावसाने च्युता भ्रष्टा उपयान्ति गच्छन्ति मानुषी योनि, तत्र च 'सइति' सावशेषश. भकर्मा जन्तुर्दश अङ्गानि भोगोपकरणानि यस्यासौ दशाङ्गोऽभिजायते, एकवचननिर्देशस्त्विह विसदृशशीलतया कश्चिदृशाङ्गः कश्चिन्नवाङ्गादिरपि जायते इति वैचित्र्य सूचनार्थ इति सूत्रार्थः ॥ १६ ॥ अथ दशाङ्गान्येवाहमूलम्-खित्तं वत्थु हिरणं च, पसवो दास पोरुसं ॥ चत्तारि कामखंधाणि, तत्थ से उववजई ॥१७॥
व्याख्या-क्षेत्रं ग्रामारामादि, सेतुकेतूभयात्मकं वा, वास्तु खातोच्छ्रितोभयात्मकं, हिरण्यं सुवर्ण, उपलक्षणत्वात् रूप्यादि च, पशवो गोमहिष्यादयाः, दासाश्च प्रेष्यरूपाः, 'पोरुसंति' प्राकृतत्वात् पौरुषेयं च पदातिसमूहो दासपौरुषेयमिति, चत्वारश्चतुःसंख्या, अत्र हि क्षेत्रं वास्तु चेत्येकः, हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दास
पौरुषेयमिति चतुर्थः, एते कामा मनोज्ञाः शब्दादयः तद्धेतवः स्कन्धास्तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र भवमन्तीति गम्यते, प्राकृतत्वाच नपुंसकनिर्देशः, तत्र तेषु कुलेषु स उपपद्यते ॥ १७ ॥ अनेन चैकमङ्गमुक्तमथ
शेषाणि नवाङ्गान्याहमूलम्-मित्तवं नाइवं होइ, उच्चागोए अवण्णवं ॥ अप्यायंके महापण्णे, अभिजाए जसो बले॥ १८॥
(१) तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिञ्यते ॥ १॥ केतुक्षेत्रमाकाशोदकनिष्पाद्यसस्यम् ॥ २॥ उभयक्षेत्रं तु उभयजलनिष्पाद्यसस्यमिति ॥ ३ ॥ (२) तत्र खातं भूमिगृहादि ॥ १॥ उच्छ्रितं प्रासादादि ॥ २ ॥ तदुभयं भूमिगृहोपरिस्थप्रासादम् ॥३॥
Page #272
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १३६ ॥
14
ब्याख्या — मित्रवान्वयस्यवान् भवतीति योगः १ । ज्ञातिमान् खजनवान् भवति २ । उच्चैर्गोत्र उत्तमकुलः ३ । चः समुच्चये, वर्णवान् प्रशस्तशरीरच्छविः ४ । अल्पातङ्क आतङ्कविरहितो नीरोग इत्यर्थः ५ । महाप्राज्ञः पण्डितः ६ । अभिजातो विनीतः स हि सर्वजनाभिगम्यो भवति, दुर्विनीतस्तु शेषगुणयुक्तोपि न तथेति ७ । अत एव च 'जसोत्ति' यशस्वी शुभख्यातिमान् ८ । 'बलेति' बली कार्यकरणम्प्रति सामर्थ्यवान् ९ । उभयत्र सूत्रत्वान्मत्वर्थीयलोप इति सूत्रद्वयार्थः ॥ १८ ॥ ननु यथोक्तगुणयुक्तं मानुष्यमेव तत्फलमुतान्यदपीत्याह -
मूलम् - भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउअं ॥ पुवं विसुद्धसद्धम्मे, केवलं बोहि बुज्झिआ ॥ १९ ॥
व्याख्या - भुक्त्वा मानुष्यकान् मनुष्यसम्बन्धिनो भोगान् मनोज्ञशब्दादीन् अप्रतिरूपान् अनन्यतुल्यान्, यथायुरायुषोऽनतिक्रमेण, पूर्व पूर्वजन्मनि विशुद्धो निदानादिरहितः सद्धर्मः शोभनधर्मोऽस्येति विशुद्धसद्धर्मः, | केवलमकलङ्कं बोधिं जिनोक्तधर्मावातिलक्षणं बुद्धा अनुभूय प्राप्येति यावत् ॥ १९ ॥ ततः किमित्याह - मूलम् - चउरंगं दुल्लहं मच्चा, संजमं पडिवज्झिआ ॥ तवसा धुअकम्मंसे, सिद्धे हवइ सासएत्ति बेमि ॥ २० ॥ ॥ इइ तइयमज्झयणं सम्मत्तं ॥
तृतीयमव्ययनम् (३)
| ॥ १३६ ॥
Page #273
--------------------------------------------------------------------------
________________
व्याख्या – चतुरङ्गमुक्तखरूपं दुर्लभं दुष्प्रापं मत्वा ज्ञात्वा संयमं सर्वसावद्यविरतिरूपं प्रतिपद्यासेव्य तपसा बाह्येनान्तरेण च धुतकर्माशो विध्वस्ताशेषकर्मभागः सिद्धो भवति, स चान्यतीर्थिककल्पितसिद्धवन्न पुनरिहायातीत्याह-शाश्वतः शश्वद्भवनात् शश्वद्भवनञ्च पुनर्भवनिबन्धनकर्मबीजात्यन्तिकोच्छेदात्तथा चाह - "दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः ॥ कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥ १ ॥” इति सूत्रद्वयार्थः इति ब्रवीमीति प्राग्वत् ॥ २०॥
vegves
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलद्दर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ तृतीयाध्ययनं सम्पूर्णम् ॥ ३ ॥ उफल फल फल फल फल
memem
Page #274
--------------------------------------------------------------------------
________________
"सूरिं श्रीविजयानन्द, विजयानन्दकारकम् । “आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥"
॥ इति तृतीयाध्ययनं सम्पूर्णम् ॥
" वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥"
Page #275
--------------------------------------------------------------------------
________________
॥ अथ चतुर्थाध्ययनम् ॥ ॥ अर्हन् ॥ उक्तं तृतीयमध्ययनमथ चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने चतुरङ्गी दुर्लभेत्युक्तमिह तु तत् प्राप्तावपि महते दोषाय प्रमादो, महते गुणाय चाप्रमाद इति प्रमादाप्रमादौ हेयोपादेयतया वक्तुं प्रमादाप्रमादाभिधं चतुर्थाध्ययनमाह, तस्य चेदमादिसूत्रम्
मूलम्-असंखयं जीविअ मा पमायए, जरोवणीअस्स हु नत्थि ताणं ॥
___ एअंविआणाहि जणे पमत्ते, कं नु विहिंसा अजया गहिति ॥ १॥ हा व्याख्या-असंस्कृतं असंस्करणीयं, जीवितं प्राणधारणं, यत्नशतैरपि सतो वर्धयितुं त्रुटितस्य वा तस्य कर्णपाश
वत्सन्धातुमशक्यत्वात् , यदुक्तं-"वासाई दोण्णि तिण्णि व, वाहिजइ जइ घरं पि सीडेइ ॥ सा का वि नत्थि नीई, सीडिजइ जीविअं जीए!॥ १॥” तथा-"मङ्गलैः कौतुकर्योगै-विद्यामंत्रैस्तथौषधैः ॥ न शक्ता मरणात्रातुं, सेन्द्रा देवगणा अपि !॥१॥” ततः किं कार्यमित्याह-मा प्रमादीः, अयं भावः- यद्यायुः कथञ्चित्संस्कर्तुं शक्यं स्यात्तदा चतुरङ्गीप्राप्तावपि न प्रमादो दोषाय, यदा तु नैवं तदा चतुरङ्गी प्रमादिनां भूयो दुर्लभेति मा प्रमादं कृथाः। ननु ? वार्धक एव धर्म करिष्यामीति कोऽपि वक्ति इत्याशंक्याह-जरामुपनीतः प्रापितो गम्यमानत्वात्ख
Page #276
--------------------------------------------------------------------------
________________
उत्तराध्ययन
चतुर्थमव्ययनम्(४)
॥१३८॥
कर्मभिर्जरोपनीतस्तस्य 'हु' इति निश्चये नास्ति त्राणं शरणं, येन जराऽपनीयते न तच्छरणमस्ति, यदुक्तं-"रसायणं| निसेवति, मजं मंसं रसं तहा ॥ भुंजंति सरसाहारं, जरा तहवि न नस्सए ॥१॥" जराजर्जरवपुषश्च नैव तादृशी 8 धर्मकरणशक्तिः स्यात्ततो यावदसौ न व्याप्नोति तावद्धर्मे मा प्रमादीः। उक्तं च-"तद्यावदिन्द्रियबलं, जरया रोगैन बाध्यते प्रसभम् ॥ तावच्छरीरमूच्छी, त्यक्त्वा धर्म कुरुष्व मतिम् ॥ १॥" जरोपनीतस्य च त्राणं नास्तीत्यत्राट्टनमलो दृष्टान्तस्तत्र चायं सम्प्रदायः, तथाहि| उजयन्यां नगर्या श्री-जितशत्रुनूपोऽभवत् ॥ तत्र चाप्रतिमल्लोभून्मल्लराजोऽट्टनाभिधः ॥ १॥ स च गत्वान्य-14 राज्यस्थै-रपि मल्लैरयुध्यत ॥ तस्य दोर्दण्डकण्डूस्तु, व्यपनिन्ये न केनचित् ॥ २॥ तदा चाम्भोधितीरस्थे, पुरे सोपारकाभिधे ॥ मल्लयुद्धप्रियः सिंह-गिरिसंज्ञोऽभवन्नपः॥३॥यो मलेष्वजयत्तस्मै, भूपः सोऽदाद्धनं घनम् ॥ इति तत्राऽट्टनो गत्वा, प्रत्यब्दमजयत्परान् ॥४॥ ततः सिंहगिरिदध्यौ, यदागत्यान्यराज्यतः ॥ अयं जयति मन्मल्लान्ममापभाजना हि सा ॥ ५॥ ततोऽहमपरं कञ्चि-कुर्वे मलं बलोत्कटम् ॥ ध्यात्वेति मार्गयन्मलं, वार्द्धितीरे ययौ नृपः ॥ ६॥ वसां पिबन्तं मीनानां, तत्राद्राक्षीच धीवरम् ॥ ततस्तं बलिनं ज्ञात्वा, पोषयामास पार्थिवः ॥७॥ अशिक्षयन्नियुद्धं च, भूपस्तस्य तरखिनः ॥ ततः सोऽभून्महामलो-ऽजय्योन्यैहस्तिमल्लवत् ॥ ८॥ अथानो नियु-12 द्धाहे, समासन्ने निजात्पुरात् ॥ शम्बलेन बलीवर्द, भृत्वा सोपारकं ययौ ॥९॥ स च मात्स्यिकमल्लेन, नियुद्धे |
॥१३८॥
Page #277
--------------------------------------------------------------------------
________________
IMAGARIKAACAR
निर्जितो द्रुतम् ॥ विषादमाससादोच्चै-भग्नो हस्तीव हस्तिना ॥ १० ॥ स्वीयावासे ततो गत्या-ऽट्टन एवं व्यचि-16 दन्तयत् ॥ केनाप्यजितपूर्वोहं, मल्लेनानेन निर्जितः॥ ११ ॥ तारुण्योपचयाञ्चायं, चीयमानबलः कथम् ? ॥ पुनर्जय्यो|
मया क्षीणो-जसा यौवनहानितः!॥ १२॥ कर्तव्या वैरशुद्धिश्च, मयोपायेन केनचित् ॥ शल्यवत् खाट्करोत्यन्तनिम्लानिर्हि मानिनाम् ॥ १३ ॥ ध्यात्वेति तजैत्रबलं, सोऽन्यं मलं गवेषयन् ॥ सौराष्ट्र बहवो मलाः, श्रुत्वेति तमभित्रजन् ॥ १४ ॥ भृगुकच्छसमीपस्थ-हरणीग्रामसीमनि ॥ एकं कर्षकमद्राक्षी-कर्पासवपनोद्यतम् ॥ १५ ॥ [ युग्मम् ] हलमेकेन हस्तेन, वाहयन्तं द्रुतं द्रुतम् ॥ द्वितीयेनोत्पाटयन्तं, फलहीस्तृणलीलया ॥ १६ ॥ तञ्च प्रेक्ष्य पुमानेष, बलिष्ठ इति चिन्तयन् ॥ तदीयाहारवीक्षायै, तत्रास्थाद्यावदट्टनः ॥ १७॥ [युग्मम् ] प्रातराशकृते तावलात्वा कूरभृतं घटम् ॥ तत्रागात्तत्प्रिया सोऽपि, सीरमच्छोटयत्ततः॥१८॥ कूरञ्च सद्यः कुम्भस्थं, जनसे ग्रासलीलया ॥ गत्वा क्वापि पुरीपस्यो-त्सर्ग चक्रे च कर्षकः ॥ १९ ॥ अट्टनोऽपि ततो गत्वा, तत्पुरीषं व्यलोकत ॥ तचाद्राक्षीदतिखल्पं, शुष्कं छागपुरीषवत् ॥ २० ॥ जाठराग्निं ततस्तस्य, ज्ञात्वा प्रबलमट्टनः ॥ वैरशुद्धिसमर्थोयं, भावीत्यन्तरभावयत् ॥ २१ ॥ तस्यैव सौधे सन्ध्यायां, ययाचे वसतिं च सः ॥ सोऽपि तामार्पयत्तत्र, मल्लोप्यस्था-| द्यथासुखम् ॥ २२॥ का युष्माकं जीविकेति, तं च पप्रच्छ वार्तयन् ॥ प्रोचे कृषीवलोप्येव-मस्म्यहं ननु निर्धनः ॥ २३ ॥ तत्प्राज्येन प्रयत्नेन, कृषि कुर्वे तथा पि हि ॥ अन्नमप्युदरापूर्ति-करं सम्पद्यते न मे ! ॥ २४ ॥ मल्लो-|
R
१४
I
Page #278
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१३९॥
वादीदमुं मुक्त्वो-द्यममेहि समं मया ॥ अतिस्तोकेन कालेन, कुर्वे त्वामीश्वरं यथा ! ॥ २५॥ सोप्यूचेऽहं तदा- चतर्थमध्यगच्छा-म्यादिशेद्यदि मां वशा ॥ पृष्टा मलेन तत्रार्थे, ततः साप्येवमब्रवीत् ॥ २६ ॥ उप्तोस्त्यनेन कर्पासो-ऽधुना|| यनम् (४) स च विनाऽमुना ॥ विनश्यति तदा च स्या-त्कथमाजीविका मम ? ॥ २७॥ मल्लोब्रवीदत्र यावान् , कर्पासश्चि|न्तितो भवेत् ॥ गृहाण तावतो मूल्य-मधुनैवार्पयामि ते ॥ २८ ॥ इत्युदीर्य तया प्रोक्त-मानं मलो ददौ धनम् ॥ ततोनुमेने सा कान्तं, किं हि वित्तान्न जायते ? ॥ २९ ॥ अट्टनोथ तमादाय, ययावुज्जयनी जवात् ॥ पोषयामास तं प्रोच्चै-रुपायैश्च परश्शतैः॥३०॥ अशिक्षयच तस्योग्रं, मलयुद्धं महौजसः ॥ फलहीमल इत्यस्या-ऽभिधानं च विनिर्ममे ॥ ३१॥ द्वितीयाब्दे च सम्प्राप्ते, मलयुद्धमहोत्सवे ॥ अट्टनोगात्समं तेन, पुनः सोपारके पुरे ॥३२॥ अथ सिंहगिरौ राज्ञि, मल्लयुद्धदिदृक्षया ॥ समं पौरैः परोल?-रङ्गमण्डपमाश्रिते ॥ ३३ ॥ योधं योधमनेकेषु, मल्लेखूपरतेषु च ॥ नियुद्धार्थमढौकेतां, फलहीमात्स्यिको मिथः ॥ ३४ ॥ [युग्मम् ] क्षोभयन्तौ भुजास्फोट-रवैर्वीर
स्यपि ॥ कम्पयन्तौ धरापीठं, दुर्धरैः पाददर्दुरैः ॥ ३५॥ मुष्टामुष्टिप्रकुर्वन्तौ, दन्तादन्तीव कुञ्जरौ ॥ प्रबलैः। पादविन्यास-नमयन्ताविव क्षमाम् ॥ ३६ ॥ भूतले निपतन्तौ च, छिन्नमूलमहाद्रुवत् ॥ मातलाचावधूयाङ्ग-मुत्ति- ॥१३९॥ ठन्तौ विनिद्रवत् ॥ ३७॥ विलगन्तौ मिथो बाढं, चिरान्मिलितबन्धुवत् ॥ कृतप्रहारहुडुव-द्वियुञ्जानौ च सत्व-| रम् ॥ ३८॥ उत्पतन्तौ पतङ्गवत् , प्लवमानौ प्लवङ्गवत् ॥ तो चिरं चक्रतुर्मल्ल-युद्धं मल्लशिरोमणी ॥३९॥
Page #279
--------------------------------------------------------------------------
________________
Fr पञ्चभिः कुलकम् ] किन्तु तुल्यबलौ वीक्ष्य, तौ जयश्रीः खयंवरा ॥ ध्यायन्ती कं वृणोमीति, नैकमप्यवृणोत्तदा|
४० ॥ पूर्ण भावि द्वितीयेह्नि, नियुद्धमनयोर्ननु ॥ इत्युत्तस्थौ नृपस्ताव-त्तावपि खाश्रयं गतौ ॥४१॥ ततोट्टनेन फलही, प्रोचे पुत्र ! तदुच्यताम् ॥ तेन मल्लेन यद्वाढं, त्वदङ्गं बाधितं भवेत् ॥ ४२ ॥ अट्टनाय ततः सर्वे, फलही सत्यमब्रवीत् ॥ प्रायश्चित्तग्रहीतेव, गुरवे शुद्धमानसः !॥४३॥ ततोऽटनः पक्वतैल-मर्दनैर्वह्नितापनैः ॥ तदर्भ-४ पजैश्च दाग , विदधे तं पुनर्नवम् ॥ ४४ ॥ मात्स्यिकस्यापि पार्थेऽङ्ग-मर्दकान्प्राहिणोन्नृपः ॥ स तु श्रमादिताङ्गोऽपि, गर्वान्नामर्दयद्वपुः ॥ ४५ ॥ प्रोचे च क्वनु रङ्कोयं, स्थातुं शक्ष्यति मे पुरः ॥ अहं यमुष्य जनक-मप्यजैषं पुरा जवात् ! . ॥४६॥ समयुद्धावजायतां, द्वितीयदिवसेऽपि तौ ॥ पार्थिवे चोत्थिते प्राग्व-त्तमसजयदद्दनः ॥४७॥ मात्स्यिकस्तु मदाविष्टो-ऽचीकरनाङ्गनमर्दनम् ॥ नियुद्धमारभेतां तौ, तृतीयेप्यहि पूर्ववत् ॥ ४८ ॥ तदा च मात्स्यिक वीक्ष्य, नियुद्धश्रान्तविग्रहम् ॥ निरोजस्कप्रहारञ्च, वैशाखस्थानसंस्थितम् ॥४९॥ फलहीति वदंस्तस्य, भ्रूसंज्ञामट्टनो व्यधात् ॥ जग्राह फलहीग्राहं, पाणिना सोऽपि मात्स्यिकम् ॥५०॥ [ युग्मम् ] तं कमण्डलुवन्मौलिं, परितोऽभ्रमयच सः ॥ ततस्तुष्टो बहुद्रव्य-मट्टनायार्पयन्नृपः ॥५१॥ तच्च दत्वा हालिकाया-ऽदनोऽपि विससर्ज तम् ॥ खयं त्ववन्तीमगमत् , कृतार्थो वैरशुद्धितः ॥ ५२ ॥ विमुक्तयुद्धव्यापारो, गृहे तिष्ठन् सुतादिभिः ॥ वृद्धोऽयमऽसमर्थोय-मिति सोऽहील्यतान्यहम् ! ॥ ५३॥ ततो मानादनापृच्छय, तान् कौशाम्बी जगाम सः ॥ आव
Page #280
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥ १४० ॥
त्सरं सिषेवे च, स्थित्वा क्वापि रसायनम् ॥ ५४ ॥ बलिष्ठतां ततः प्राप्तः, प्राप्ते युद्धोत्सवेऽनः ॥ कुर्वन्नियुद्धमवधीद्राज्ञो मलं निरङ्गणम् ॥ ५५ ॥ आगन्तुकेन मलो मे व्यापादित इति क्रुधा ॥ प्रशशंस न तं भूप-स्तेन लोकोऽपि नाऽस्तीत् ! ॥ ५६ ॥ ततो माभूच्छ्रमो व्यर्थो, ममेयानिति चिन्तयन् ॥ इत्येकामब्रवीदार्या, स्वं ज्ञापयितुमट्टनः ॥ ५७ ॥ सा चेयं - " कथयति वनशकुनानां कथयत हे शकुनका ! शकुनकानाम् ॥ यदिहाट्टनेन निहतो, निरङ्गणः शस्त्ररहितेन ! ॥ ५८ ॥ श्रुत्वेति श्रुतपूर्वी तं महामलं महीपतिः ॥ यावज्जीवं जीविका, तुष्टस्तस्मै ददौ धनम् ॥ ५९ ॥ लोकोऽपि द्रविणं तस्मै, यथाशक्ति ददौ तदा ॥ तत्रस्थं प्राप्तवित्तं च श्रुश्रुवुर्वन्धवोऽपि तम् ॥ ६०॥ ततस्तेऽभ्येत्य तत्पार्थे, तं पादपतनादिभिः ॥ विश्वास्यौपयिकैः प्राग्व-दश्रयन् वित्तलोभतः ॥ ६१ ॥ अध्यासी| दट्टनो वित्त - लुब्धा होते श्रयन्ति माम् || निर्धनस्य तु मे भूयः करिष्यन्ति पराभवम् ॥ ६२ ॥ वित्रसापि शरीरं मे, स्वीकरोति शनैः शनैः ॥ तया व्याप्तस्तु नैवाहं, भविष्याम्यौषधैर्युवा ॥ ६३ ॥ अधीनं मानवानां त-द्वेषजं न हि विद्यते ॥ पुनर्नवं भवेद्येन, जराजर्जरमङ्गगकम् ॥ ६४ ॥ न च वार्धकदिव्यास्त्रं प्रयुक्तं कालविद्विषा ॥ पतत्काये स्खलयितुं शक्यं खजनकङ्कटैः ! ॥ ६५ ॥ तज्जराया न हि त्राणं, भेषजं बन्धवोऽपि च । त्राणं तु धर्म एव स्यात्सर्वावस्थासु तत्वतः ॥ ६६ ॥ तत्सामर्थ्यं किञ्चिदस्तीह देहे, यावत्तावद्धर्ममाराधयामि ॥ ध्यात्वेत्यन्तं सद्गु रूणामुपान्ते, प्रव्रज्याऽभूदट्ठनः सौख्यपात्रम् ॥ ६७ ॥ इत्यट्टुनमलकथा ॥
चतुर्थमध्ययनम् (४)
॥ १४० ॥
Page #281
--------------------------------------------------------------------------
________________
S
ARALCALCALENDAR
एवं जराभिभूतस्यादृनस्येव भेषजैः खजनैर्वा त्राणं न भवति । ततश्च 'एअमित्यादि' एतमनन्तरोक्तमर्थ विजानीहि विशेषेणावबुध्यख, तथा एतच वक्ष्यमाणं जानीहि, जना लोकाः प्रमत्ताः प्रमादपराः 'उभयत्र सूत्रत्वादेकवचनं' कं ? अर्थ, प्रक्रमात् त्राणं, 'नु' इति वितर्के, विहिंस्रा विविधहिंसनशीलाः, तथा अयताः पापस्थानेभ्योऽनुपरताः, 'गहितित्ति' ग्रहीष्यन्ति स्वीकरिष्यन्ति, अयं भावः-एते प्रमत्तादिविशेषणान्विताः खकृतदुष्कर्मभिर्नरकादिकमेव यातनास्थानं यास्यन्ति, परं नास्ति त्राणमिति सूत्रार्थः ॥१॥ इह चासंस्कृतं जीवितं, जरोपनीतस्य च न त्राणमतो मा प्रमादीरित्युक्ते, अर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिवन्धनतया च तदुपार्जनं प्रति प्रमादो न कार्य इति केषाञ्चित्कदाशयो भवतीति तन्मतमपाकर्तुमाह
मूलम्-जे पावकम्मेहिं धणं मणूसा, समाययंती अमई गहाय ॥
पहाय ते पासपयहिए नरे, वेराणुबद्धा नरयं उविंति ॥ २॥ | व्याख्या-ये केचन पापकर्मभिः कृषिवाणिज्यादिभिरनुष्ठानैर्धनं द्रव्यं मनुष्या मानवास्तेषामेव प्रायो द्रव्योपार्जनोपायप्रवृत्तेरित्थमुक्त, समाददते स्वीकुर्वते, अमतिं कुमतिं, “धनैर्दुःकुलीनाः कुलीना भवन्ति, धनैरेव पापात्पुननिस्तरन्ते ॥ धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि-द्धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥१॥" इत्यादिकां गृहीत्वा सम्प्रधार्य, प्रहाय प्रकर्षेण हित्वा धनमेव ते धनकरसिकाः, 'पासपयट्टिअत्ति' पाशा इव पाशा बन्धननिबन्धन
Page #282
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥१४१॥
चतुर्थमध्ययनम् (४)
त्वास्त्रियः, उक्तं च-"वारी गयाण जालं, तिमीण हरिणाण वग्गुरा चेव ॥ पासा य सउणयाणं, नराण बंधत्थमित्थीओ ॥१॥” इति, तेषु 'पयट्टिअत्ति' आपत्वात् प्रवृत्ताः पाशप्रवृत्ता नराः पुरुषाः, पुनर्नरोपादानमादरख्यापनार्थ, वैरेण वैरहेतुना पापकर्मणानुबद्धाः सततमनुगता वैरानुबद्धा नरकं रत्नप्रभादिकं उपयान्ति गच्छन्ति, ते हि द्रव्यमुपायं रामाखभिरमन्ते, तदभिरत्या च नरकगतिभाज एव स्युरिति भावः, तस्मादिहैव वधबन्धादिहेतुतया 8 परत्र च नरकादि दुर्गतिदायित्वेन तत्त्वतः पुरुषार्थ एव न भवत्यर्थ इति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति । द्रव्यलुब्धानां चात्रैवापायदर्शकोऽयमुदाहरणसम्प्रदायः| तथा हि नगरे क्वापि, बभूवैको मलिम्लुचः॥ स चैकमखनत्कूपं, महान्तं खगृहान्तरे ॥१॥ दत्त्वा क्षात्रं तम|खिन्यां, सलक्ष्मीकगृहेषु सः ॥ बहुलं द्रव्यमादाय, कूपे तत्राक्षिपत्सदा ॥२॥ धनं दत्त्वा च कस्यापि, परिणिन्ये स कन्यकाम् ॥ निर्गुणोऽपि जनो जाया-मवाप्नोति धनेन हि !॥३॥ प्रजातायां तु जायाया-मिति दध्यौ स तस्करः॥ वृद्धिङ्गतान्यपत्यानि, वक्ष्यन्त्यन्यस्य मे रमाम् ! ॥४॥ अपत्यमपि हन्तव्यं, तल्लक्ष्मीक्षयकृन्मया ॥ तजनन्यां तु जीवन्त्यां, तन्निहन्तुं न शक्ष्यते !॥५॥सापत्यापि वधूर्वध्या, तन्मयेति विमृश्य सः॥ तत्रैव कूपे चिक्षेप, निहत्य ससुतां स्त्रियम् ॥६॥ द्रव्येणान्यां पुनः पाणौ, कृत्य प्राग्वजघान सः ॥ एवं पुनः पुनर्लोभ-ग्रहग्रस्तो विनिममे !॥७॥ अन्यदा स कनीमेका-मुपयेमे मनोरमाम् ॥ जातापत्यामपि न ता-मवधीपमोहितः ॥८॥
॥१४१॥
Page #283
--------------------------------------------------------------------------
________________
पूर्णाष्टवर्षे सआते, तज्जाते चेत्यचिन्तयत् ॥ मया भूयस्तरं काल-मियं मोहेन रक्षिता ॥ ९ ॥ एनां निहत्य तत्पश्चात्, मारयिष्यामि दारकम् ॥ ध्यात्वेति मारयित्वा तां कूपे तत्राक्षिपद्रुतम् ! ॥ १० ॥ मार्यमाणां च तां वीक्ष्य, भयभ्रान्तस्तदङ्गजः ॥ गृहान्निर्गत्य पूञ्चक्रे, निर्बलानां हृदो बलम् ! ॥ ११ ॥ ततः किं पूत्करोषीति, लोकैः पृष्टो जगाद सः ॥ निहत्य जनयित्री मे, कूपे क्षिप्ताधुनामुना ॥ १२ ॥ तच्छ्रुत्वा तस्य सौधान्तः प्रविश्योर्वीशपूरुषाः ॥ तं चौरं जगृहुर्जीव - ग्राहं ग्राहा इव द्विपम् ॥ १३ ॥ कूपं च ददृशुर्द्रव्या - पूर्णम स्थिभिराकुलम् ॥ ततोऽवबुध्य तं दस्युं, बद्धा निन्युर्नृपान्तिकम् ॥ १४ ॥ भूपोप्युपायैर्भूयोभि-स्तं प्रपीड्याखिलं धनम् ॥ लोकेभ्यो दापयत्तं च, विडम्बया - मारयद्भुतम् ॥ १५ ॥ इत्यर्थलोभेन कुकर्म कुर्वन्निहापि पीडामधियाति जन्तुः ॥ अमुत्र चाधोगतिमेति तेन, त्यक्त्वार्थलोभं कुरु धर्मयत्नम् ॥ १६ ॥ इति द्रव्यलोभे चोरकथा ॥ तदेवं धनमत्र परत्र चानर्थकारीति सूत्रार्थः ॥ २ ॥ अथ कर्मणोऽवन्ध्यतां कथयन् प्रस्तुतमेवार्थे द्रढयितुमाह
मूलम् — तेणे जहा संधिमुहे गहीए, स कम्मुणा किच्च पावकारी ॥
एवं पया पेच इदं च लोए, कडाण कम्माण न मुक्खु अस्थि ॥ ३ ॥ व्याख्या - स्तेनचौरो यथा सन्धिमुखे क्षात्रद्वारे गृहीत आत्तः स्वकर्मणा स्वीयानुष्ठानेन कृत्यते छिद्यते पापकारी पापकरणशीलः, कथं पुनरयं कृत्यते ? इत्यत्र सम्प्रदायस्तथा हि
Page #284
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १४२ ॥
नगरे काप्यभूत्कोपि, चौरचौर्यविशारदः ॥ स चानेकप्रकारेषु, क्षात्रेषु निपुणोभवत् ॥ १ ॥ नन्द्यावर्तघटा|म्भोधि - कपिशीर्षादिसंस्थितम् ॥ क्षात्रं दत्वान्वहं चक्रे, तास्कर्य स हि तस्करः ॥ २ ॥ सर्वतो दत्तफलके - ऽन्यदापवरके क्वचित् ॥ स क्षात्रमखनच्चारु, कपिशीर्षकसंस्थितम् ॥ ३ ॥ तत्र क्षात्रं खनन्तं तं ज्ञात्वा जाग्रगृहाधिपः ॥ उत्थाय तं प्रदेशं द्राक् वभाज निभृतक्रमः ॥ ४ ॥ गृहे प्रविष्टः शस्त्रेण, प्रहरिष्यति मामसौ ॥ इति सोऽर्धप्रविष्टं तं द्रुतं जग्राह पादयोः ॥ ५ ॥ ततो गृहीतोहमिति, स प्रोचे बाह्यदस्यवे ॥ सोऽपि तं हस्तयोर्धृत्वा बहिः ऋष्टुं समाकृषत् ॥ ६ ॥ सोऽन्तःस्थेन गृहेशेन, वहिःस्थेन च दस्युना ॥ आकृष्यमाणो नैवाभू - त्वाङ्गसङ्गोपने क्षमः ॥ ७ ॥ अतीव सङ्कटे क्षात्रे, तदा तत्र स्वनिर्मिते ॥ सोऽकृत्यत भृशं तीक्ष्णैः कपिशीर्षकदन्तकैः ॥ ८ ॥ ततः स चौरः सपराक्रमाभ्यां ताभ्यामुभाभ्यामपि कृष्यमाणः ॥ क्षात्रेण तेन खकृतेन कृत्तः, पीडां प्रपेदे मरणावसानाम् ! ॥ ९ ॥ इति स्वकृतकर्मभोगे चोरकथा ॥ एवमनेनोदाहरणदर्शितन्यायेन प्रजा प्राणिसमूहरूपा, प्रेत्य परलोके, 'इहं च लोएत्ति' इह लोके च, स्वकृतकर्मनिर्मितविविधवाधाभिः कृत्यते, कुतश्चैवमुच्यत इत्याह- यतः कृतानां कर्मणां न मोक्षोऽस्ति, यदुक्तं - "यदिह क्रियते कर्म, तत् परत्रोपभुज्यते ॥ मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ॥ १ ॥ ततः पापकर्म न विधेयं, आस्तां वा पापकर्म, तत्प्रशंसाऽऽशंसाऽपि न कार्या, तस्या अध्यनर्थहेतुत्वात्तथा च वृद्धाः
चतुर्थमध्ययनम् (४)
॥ १४२ ॥
Page #285
--------------------------------------------------------------------------
________________
दस्युरेकः पुरे क्वापि, दुरारोहेपि मन्दिरे ॥ आरुह्य क्षात्रमखन- द्वनं चादाय निर्ययौ ॥ १ ॥ ततः प्रातबहुद्रव्य - विनाशोत्पन्नदुःखतः ॥ प्रबुद्धेन गृहेशेन, तुमुले बहुले कृते ॥ २ ॥ लोके च मिलिते भूरि-तरे तत्र स तस्क रः ॥ कः किं वक्तीति निर्णेतु-मागान्मञ्जलवेषभृत् ॥ ३ ॥ [ युग्मम् ] लोकाश्चैवं तदा प्रोचु- र्दुरारोहेऽत्र वेश्मनि ॥ आरुह्य दस्युना तेन, क्षात्रमेतत्कथं कृतम् ? ॥ ४ ॥ क्षात्रेणानेन लघुना, परास्कन्दी कथं च स । प्रविष्टो वित्तमादाय, निर्गतो वा भविष्यति ? ॥ ५ ॥ तदस्य खेचरस्येव, पाटच्चरशिरोमणेः ॥ वाचामगोचरां शक्तिं दृष्ट्वा चित्रीयते मनः ॥ ६ ॥ इति लोकोक्तिमाकर्ण्य, तुष्टश्चौरोऽप्यचिन्तयत् ॥ सत्यमेतत्कथमहं प्रविष्टो निर्गतोऽमुना ? ॥७॥ इति स्वीयं वीक्षमाणो, वक्षः कुक्षी कटीतटम् ॥ मुहुर्मुहुः क्षात्रमुखं, प्रेक्षाञ्चक्रे जडाशयः ! ॥ ८ ॥ तत्रागता राजनरास्ततस्तं, निश्चित्य चौरं जगृहुः सुदक्षाः ॥ निन्युश्च सद्यो नृपतेरुपान्ते, नृपोपि तं शिक्षयति स्म सम्यक् ! ॥ ९ ॥ इति पापप्रशंसाभिलाषे चौरकथा || एवं पापकर्मप्रशंसाभिलाषोपि सदोष इति न कार्य इति सूत्रार्थः ॥ ३ ॥ इह च कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचिद्वन्धुभ्य एव तन्मुक्तिर्भाविनी, अमुक्तौ वा धनादिवत्तद्विभज्यैवामी भोक्ष्यन्तइत्यपि कश्चिन्मन्येताऽत आह
मूलम् - संसारमावण्ण परस्स अट्टा, साहारणं जं च करेइ कम्मं ॥ कम्मस्स ते तस्स उ वेअकाले, न बंधवा बंधवयं उविंति ॥ ४ ॥
xxxy
* % % % % % %
Page #286
--------------------------------------------------------------------------
________________
चतुर्थमध्य| यनम् (४)
SHREE
उत्तराध्ययन | व्याख्या- संसरणं तेषु तेषूचावचकुलेषु पर्यटनं संसारस्तमापन्नः प्राप्तः परस्यात्मव्यतिरिक्तस्य पुत्रकलत्रादेः 'अठ्ठ-
त्ति' अर्थात् प्रयोजनमाश्रित्य साधारणं 'जंचत्ति' चस्य वा शब्दार्थत्वाद्भिन्नक्रमत्वाच साधारणं वा यदात्मनोन्ये॥१४३॥
पाञ्चैतद्भविष्यतीति बुद्धिपूर्वकं करोति कर्म कृष्याद्यनुष्ठानं, भवानिति गम्यं, कर्मणस्तस्यैव कृष्यादेः ते तव कर्मकर्तुः |'तस्सउत्ति' तु शब्दस्यापिशब्दार्थत्वात्तस्यापि परार्थस्य साधारणस्य वा आस्तामात्मनिमित्तस्येति भावः, वेदकाले विपाककाले न नैव बान्धवाः खजना यदर्थ कर्म कृतवान् ते बान्धवतां तद्विभजनस्फेटनादिना 'उवितित्ति' उप
यान्ति, तेन खजनोपरि मोहं हित्वा धर्म एवावहितेन भाव्यं। उक्तञ्चRT "रोगाघातो दुःखार्दितस्तथा स्वजनपरिवृतो जीवः ॥ क्वणति करुणं सबाष्पं, रुजं निहन्तुं न शक्तोसौ ॥१॥
माता भ्राता भगिनी, भार्या पुत्रस्तथा च मित्राणि ॥ न नन्ति ते यदि रुज, खजनबलं किं वृथा वहसि ? ॥२॥ रोगहरणेप्यशक्ताः, प्रत्युत धर्मस्य ते तु विघ्नकराः ॥ मरणाच न रक्षन्ति, खजनपराभ्यां किमभ्यधिकम् ? ॥३॥ तस्मात्खजनस्यार्थे, यदिहाकार्य करोषि निर्लज ! ॥ भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ॥४॥ तस्मात्खजनस्योपरि, विहाय रागं च निर्वृतो भूत्वा ॥ धर्म कुरुष्व यत्ना-दिहपरलोकस्य पथ्यदनम् !॥ ५॥" अत्रोदाहरणमाभीरीवञ्चकवणिजस्तत्र चायं सम्प्रदायःतथा हि नगरे क्वापि, वणिगेकोऽभवत्पुरा ॥ स च हट्टस्थितश्चक्रे, व्यापार प्रतिवासरम् ॥ १ ॥ अन्यदा सर
ALESSAISISSEASTUST
॥१४३॥
Page #287
--------------------------------------------------------------------------
________________
|| लायर्थ-माभीर्यका तदापणे ॥ रूपकद्वयमादाय, कर्पासार्थमुपागमत् ॥ २ ॥ कर्पासश्च समोऽभू-त्तदा तस्मात्स | नगमः ॥ एकरूपककर्पासं, तोलयित्वा ददौ द्विशः ॥३॥ द्वयो रूपकयोर्दत्तः, कर्पासो मे द्विरर्पणात् ॥ सा तु
ज्ञात्वेति तावन्तं, तमादाय ययौ द्रुतम् ॥ ४॥ वणिक् स तु तदा दध्यौ, रूपकोऽयं मया मुधा ॥ लेभे भाग्यात्तदद्यैन-मुपभुजेऽहमात्मना ! ॥ ५॥ इति ध्यात्वा रूपकस्य, तस्याज्यसमितागुडान् ॥ गृहे प्रैषीद्धार्यया च, घृत-15 पूरानचीकरत् ! ॥६॥ तयाऽथ घृतपूरेषु, कृतेष्वागात्पुरान्तरात् ॥ तजामाता तत्र मित्र-युक्तः कार्येण केनचित् ! ॥७॥ ततः सा घृतपूरैस्तै-स्तं सतंत्रमभोजयत् ॥ जामाता हि भवेत्प्रायः, श्वश्रूणामतिवल्लभः !॥ ८॥ तस्मिन् गते च स वणिगू , भोजनाय गृहं गतः ॥ वीक्ष्य खाभाविकं भक्त-मेवं पप्रच्छ कामिनीम् !॥९॥ मनखिनि ! कुतो नाद्य, घृतपूराः कृतास्त्वया ? ॥ जगाद रमणी खामि-निर्मितास्तेऽभवन्मया ॥१०॥ किन्तु हेतोः कुतोप्यत्रायातोऽस्मद्दुहितुः पतिः॥ समित्रो घृतपूरैस्तै-भौजितो गमनोत्सुकः !॥११॥ तन्निशम्य समुत्पन्न-विषादः स व्यचि&ान्तयत् ॥ मया परार्थमाभीरी-वराकी वञ्चिता वृथा-! ॥ १२॥ तद्विप्रतारणोत्पन्नं, पापमेव मम स्थितम् ॥ घृत| पूरास्तु ते जग्धाः , परैरेत्य कुतश्चन ॥ १३ ॥ पापं हि क्रियते मूढैः, स्त्रीपुत्रादिकृते भृशम् ॥ विपाकस्य तु काले त-त्खयमेवोपभुज्यते ! ॥ १४ ॥ इति ध्यायन् बहिर्गत्वा, देहचिन्तां विधाय सः ॥ ग्रीष्ममध्याह्नार्कतप्तो, विशश्राम तरोस्तले ॥१५॥ साधुमेकं च भिक्षायै, यान्तं वीक्ष्यवमत्रवीत् ॥ भगवन्नेहि विश्राम्य, वार्तयन्मामिह
SANSASSASAR+5
Page #288
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १४४ ॥
क्षणम् ॥ १६ ॥ मुनिर्ज्ञानी जगौ गम्यं, खकार्येण मया द्रुतम् ॥ विश्रामाय ततो नाहं, स्थास्यामीह महामते ! ॥ १७ ॥ वणिक प्रोन्यकार्येणा - ऽप्यार्य ! किं कोपि गच्छति ? ॥ यद्भवद्भिः खकार्येण, मया गम्यमितीरितम् ! ॥ १८ ॥ उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः ॥ भार्याद्यर्थं क्लिश्यमान - स्त्वमेवात्र निदर्शनम् ॥ १९ ॥ इत्येकेनैव वाक्येन, प्रतिबोधमवाप सः ॥ समयार्ह वचः खल्पमपि हि स्यान्महाफलम् ! ॥ २० ॥ ततः पूज्याः क तिष्ठन्तीत्यपृच्छत्तं मुनिं वणिक् ॥ जगाद यतिरुद्याने, तिष्ठाम्यहमितः स्थिते ॥ २१ ॥ निर्ग्रन्थोऽथ पुरे गत्वा, प्राप्तप्रासुकभोजनः ॥ उद्यानेगात्कृताहारः, स्वाध्यायं च व्यधात्सुधीः ॥ २२ ॥ वेलानुसारतो ज्ञात्वा कृताहारं | तपोधनम् ॥ गत्वा तदन्तिके श्रौषी - जैनं धर्म स नैगमः ॥ २३ ॥ बन्धूनापृच्छय दीक्षायै, यावदायाम्यहं विभो ! ॥ तावत्पूज्यैरिह स्थेय- मित्यूचे च विरक्तधीः ॥ २४ ॥ गृहे च गत्वा खजनान् जायां चेति जगाद सः ॥ हट्टव्यापारतो लाभः, खल्प एव प्रजायते ॥ २५ ॥ करिष्ये देशवाणिज्यं, प्राज्यलाभकृते ततः ॥ तच्च स्यात्सार्थवाहेन, विद्येते द्वौ च ताविह ॥ २६ ॥ तत्रैकः स्वधनं दत्त्वा नयते पुरमीहितम् ॥ तत्र चोपार्जिते वित्ते, भागं गृह्णाति न स्वयम् ॥ २७ ॥ द्वितीयस्तु निजं वित्तं प्रदत्ते नैव किञ्चन ॥ पूर्वार्जितं च सकलं, सेवितः सन् विलुम्पति ॥ २८ ॥ तद्भूत - सार्थनाथेन, केन साकं ब्रजाम्यहम् ? | खजनाः प्रोचिरे यातु, प्रथमेन समं भवान् ॥ २९ ॥ ततः स बन्धुभिस्सत्रा, तत्रोद्याने द्रुतं ययौ ॥ क सार्थवाह इति तैः, पृष्टश्चैवमवोचत ॥ ३० ॥ स्थितः किङ्केलिवृक्षाधः, साधुरेष गुणो
ब्
चतुर्थमध्ययनम् (४)
॥ १४४ ॥
Page #289
--------------------------------------------------------------------------
________________
ACCESCRACCORRECTECENERA
दधिः ॥ सिद्धिपुर्याः सार्थवाहो, दत्वा धर्मधनं निजम् ॥ ३१॥ व्यापारं कारयत्यंशं, न च गृह्णात्युपार्जिते ॥ तद नेन समं मुक्ति-पुरी यास्यामि कामिताम् ॥ ३२॥ [युग्मम् ] सार्थेशोऽन्यस्तु विज्ञेयो, जायादिखजनात्मकः॥ स हि धर्मधनं प्राच्यं, हन्ति दत्ते न च खतः ॥ ३३॥ किञ्च युष्माभिरेवोक्तं, यदायेन समं ब्रज ॥ तन्मुक्त्वा बन्धुसम्बन्धं, साधुमेनं श्रयाम्यहम् ॥ ३४ ॥ इत्युदीर्य स वणिग्मुनिपार्थे, बन्धुमोहमपहाय महात्मा ॥खीचकार मुनिधर्म-18 मुदारं, सौख्यमत्र च परत्र च लेभे ॥ ३५ ॥ इति बन्धुमोहापोहे वणिकथा ॥ यथा चायं वणिक् खजनवरूपं भावयन् धर्म प्रतिपन्नस्तथान्यैरपि दक्षैर्यतितव्यमिति सूत्रार्थः ॥ ४॥ इत्थं तावत्खकृतकर्मणां बन्धुभ्यो न मुक्ति-|| रित्युक्तं, अधुना तु द्रव्यमेव तन्मुक्तये भावीति कस्याप्याशयः स्यादत आह
मूलम्-वित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा परत्था ॥
दीवप्पणठेव अणंतमोहे, नेआउअंदटुमदछमेव ॥ ५॥ | व्याख्या-वित्तेन द्रव्येण त्राणं खकृतकर्मभ्यो रक्षणं न लभते न प्राप्नोति, प्रमत्तो मद्यादिप्रमादवशं गतः, केसाह-'इमम्मित्ति' अस्मिन्ननुभूयमाने लोके जन्मनि, 'अदुवत्ति' अथवा परत्रेति परभवे । यचोक्तमिह लोके इति, तत्र पुरोहितपुत्रोदाहरणम्, तत्र चायं सम्प्रदायः- तथा हि नगरे क्वापि, भूपः कुत्रचिदुत्सवे ॥ बहिनियोति शुद्धान्ते, प्रोचैरित्युदघोषयत् ॥ १॥ सर्वैरपि नरैः सद्यो, निर्गन्तव्यं बहिः पुरात् ॥ न निर्यासति यस्तं तु, निग्रहीष्यति
Page #290
--------------------------------------------------------------------------
________________
2-40-
5
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
॥१४५॥
भूपतिः ॥ २ ॥ तदाकर्ण्य नराः सर्वे, निर्ययुस्त्वरितं पुरात् ॥ राज्ञामाज्ञामनुलंध्या, सुधीरुलंघते हि कः ? ॥ ३॥ तदाचैको राजमित्रं, पुरोहितसुतो युवा ॥ न निर्ययौ पुराद्वार-वधूधामनि संस्थितः ॥ ४॥ कथञ्चित्तं च विज्ञाय, जगृहुर्नुपपूरुषाः ॥ तेभ्यः किञ्चिद्वितीर्यात्मा, न तु तेन व्यमोच्यत ॥५॥ किन्तु राज्ञो वयस्योह-मिति दर्यात्स तैः समम् ॥ चके विवादं दो हि, स्यादन्धकरणो नृणाम् ! ॥ ६॥ ततस्तं पार्थिवोपान्ते, निन्यिरे नृपपूरुषाः ॥ राज्ञा| प्याज्ञाभङ्गकारी-त्यादिष्टो वध्य एव सः !॥७॥ पुरोहितस्तदाको -पेत्योर्वीशमदोवदत्॥खामिन् ! ददामि सर्वखं, तद्विमुञ्चत मे सुतम् ॥ ८॥ पुरोहितेनेति धनेन भूपो, निमंत्र्यमाणोऽपि न तं मुमोच ॥ ततः सशूलामधिरोपितोऽन्तं, जगाम दीनः शरणेन हीनः !॥९॥ धनं न त्राणायेत्यर्थे पुरोहितसुतकथा॥ एवमन्येपि वित्तेन त्राणमत्रैव तावन्न लभन्ते आस्तामन्यजन्मनि, तन्मूर्छावतः पुनरधिकं दोषमाह-'दीवेत्यादि' तत्र 'दीवप्पणदृत्ति' प्राकृतत्वात्प्रनष्टदीप इव, विगतप्रकाशदीप इव, अनन्तस्तद्भव एव प्रायस्तस्यानुपरमात् मोहो मिथ्याज्ञानमोहरूपो द्रव्यादिमोहात्मको वाऽस्सेत्यनन्तमोहः, 'नेआउअंति' निश्चित आयो लाभो न्यायो मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्तं, सम्यग्दर्शनादिरूपं मुक्तिमार्ग, 'दटुंति' अपेर्गम्यत्वाद् दृष्ट्वापि उपलभ्यापि, 'अदछमेवत्ति' प्राकृतत्वादद्रष्टैव भवति, अत्र चायं सम्प्रदायः- न तथा हि महति क्वापि, भूधरे भूरिकन्दरे ॥ तिग्मांशुकिरणाभेद्य-नीरन्ध्रवनगहरे ॥१॥ वह्निमेधांसि चादाय, गृहीतगुरुदीपिकाः ॥ विलेन विविशुः केपि, धातुवादपरा नराः॥२॥ [युग्मम् ] तत्र तेषां प्रमादेन, विध्यातौ
54545%
॥१४५॥
%
Page #291
--------------------------------------------------------------------------
________________
बहिनीको सर्वेषामपि जन्तूनां, प्रमादो हि रिपूयते ! ॥३॥ ततो गुहातमोजात-मोहास्ते परितोऽभ्रमन ॥ Wष्टपर्व बिलाध्वानं, न पुनर्लेभिरे तदा ॥ ४ ॥ तत्र भ्रमन्तश्च महाविपस्ते, दष्टा भुजङ्गैर्विषघूर्णिताङ्गाः ॥ कुत्रापि
गर्ने पतिताश्च निम्ने, जग्मुः कृतान्तातिथितां वराकाः!॥५॥ इति धातुवादिकथा ॥ यथा चैते प्रदीपदृष्टबिलाध्वानोपि प्रमादप्रनष्टप्रदीपास्तमोविमूढाः सर्पदष्टा गर्ने पतिताश्च तं मार्ग दृष्ट्वाप्यद्रष्टार एव जाताः, एवमन्योऽपि प्राणी कथञ्चित्कर्मक्षयोपशमादेः प्राप्तात् श्रुतज्ञानदीपान्मुक्तिमार्ग दृष्ट्वापि वित्ताद्यासक्तिप्रमादनष्टश्रुतज्ञानदीपो मिथ्याज्ञानतमोविमूढो लोभाहिदष्टः कुगतिगर्ते पतितश्च तस्याऽद्रष्टैव भवति, तथा च न केवलं खतस्त्राणाय वित्तं न भवति किन्तु कथञ्चिल्लब्धं त्राणहेतु सम्यग्दर्शनादिकमप्युपहन्तीति सूत्रार्थः ॥ ५॥ एवं वित्तादि न त्राणायेत्युपदर्य यत्कर्तव्यं तदाह
मूलम्-सुत्तेसु आवी पडिबुद्धजीवी, न वीससे पंडिअ आसुपण्णे।
घोरा मुहुत्ता अवलं सरीरं, भारंडपक्खीव चरप्पमत्तो ॥६॥ व्याख्या-सुप्तेषु द्रव्यतः शयानेषु, भावतस्तु धर्म प्रत्यजाग्रत्सु, 'चः' पादपूरणे, 'अपिः' सम्भावने, ततोऽयमर्थः, सुप्तेष्वप्यास्तां जाग्रत्सु, प्रतिबुद्धो द्रव्यतो निद्रारहितो, भावतस्तु यथावस्थितवस्तुज्ञानवान् , जीवतीत्येवं शीलः प्रति-12 बुद्धजीवी, अयं भावः-द्विधा सुप्तेष्वपि निर्विवेकजनेषु विवेकी न गतानुगतिकतया खपिति, किन्तु द्विधापि प्रति
Page #292
--------------------------------------------------------------------------
________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
॥१४६॥
बुद्ध एव यावजीवमास्ते, अत्र च द्विधाप्यप्रमत्ततायां 'अगडदत्त' उदाहरणं, तत्र चायं सम्प्रदायः । तथा हि- ___ अत्रैव भरते पुण्य-पीयूषकमलाकरे ॥ पद्माश्रितं पद्ममिवा-ऽभवच्छङ्खपुरं पुरम् ॥१॥ न्यायान्यायक्षी-18 रनीर-विवेचनविचक्षणः ॥ राजहंसोऽभवत्तत्र, गुणैर्नाम्ना च सुन्दरः॥२॥ शक्रस्येव शची तस्य, सुलसाख्या महिष्यभूत् ॥ सर्वाङ्गसुभगालोक-नेत्राध्वगसुधाप्रपा ॥३॥ यथामनोरथं भोगा-नुपभुआनयोस्तयोः ॥ बभूवागडदत्ताहो, नन्दनः सुन्दराकृतिः ॥ ४ ॥ पित्रोमनोरथैः सार्ध, वर्धमानः क्रमेण सः॥ प्राप तारुण्यमवर्ण-रत्नं सर्वागभूषणम् ॥ ५॥ लोकंपृणस्य तस्योर्वी-दयितस्य सुतोऽपि सः ॥ जनोद्वेगकरो जज्ञे, भानोः पुत्र इवान्तकः॥६॥ स हि हिंसाप्रियोऽलीक-वादी धर्मार्थवर्जितः ॥ रममाणोऽन्यरामाभि-निःशङ्ख गर्वपर्वतः ॥ ७ ॥ मांसाशी मद्यपो द्यूत-रतिव्यूतो वृतो विटैः ॥ वेश्यावृन्दैरनुगतो-ऽन्वहं तत्राभ्रमत्पुरे ॥ ८॥ [ युग्मम् ] ततो विमुक्तमर्यादं, महोन्मादमुदीक्ष्य तम् ॥ व्याकुलाः सकलाः पौरा, भूपायेति व्यजिज्ञपन् ॥९॥ खामिंस्त्वदीयपुत्रेण, षण्ढवत्खैरचारिणा ॥ उद्वेजिता वयं भूरि-भुजगेनेव मूषकाः!॥१०॥ न च वाच्यं मत्सुतो वः, कथमुद्वेजयेदिति ?॥क्षीरोदादपि सम्भूतः, कालकूटो न हन्ति किम् ? ॥ ११ ॥ अनाचारा न ये स्वग्ने-ऽप्यभवन् भवतां पुरे ॥ ते सर्वेपि तदाचार्ये-णेवानेन प्रवर्तिताः !॥ १२॥ न चैवं चेष्टमानस्य, तस्योपेक्षा वरीयसी ॥ दाहाय जायते वह्नि-रिवान्यायो ह्युपेक्षितः !॥ १३ ॥ इत्यादिभिर्लोकवाक्य-राकर्ण्य सुतचेष्टितम् ॥ मर्यादाजलधिर्भूपः, कोपाटोपाददोव
॥१४६॥
Page #293
--------------------------------------------------------------------------
________________
HERLALIGARREARRANCC
दत् ॥ १४ ॥ अरे ! कुमारं वदत, यन्मे देशाद्वज द्रुतम् ! ॥ अतः परं तवान्यायं, सहिष्ये न हि सर्वथा ! ॥१५॥ पुत्रोप्यन्यायकृन्याय-तत्परैः परिहीयते ॥ न हि कर्णापहं वर्ण, केनापि परिधीयते ! ॥ १६ ॥ इदश्च वचनं राज्ञो, जनश्रुत्या निशम्य सः ॥ खड्गपाणिरहङ्कारा-त्कुमारो निरगावहिः ॥ १७ ॥ उलंघ्याद्रिसरिद्राम-पुरारण्यानि भूरिशः ॥ गङ्गाजलाप्लुताभ्या , पुरीं वाराणसी ययौ ॥ १८॥ स चापरिचितत्वेन, केनाप्यविहितादरः ॥ बभ्राम विमनास्तत्र, यूथभ्रष्ट इवैणकः ॥ १९ ॥ भ्रमंश्चैवं महात्मानं, शास्त्राकूपारपारगम् ॥ कृपावन्तं पापभीरु, गम्भीरमुपकारिणम् ॥ २० ॥ रथाश्वगजशिक्षाश्च, शिक्षयन्तं नृपाङ्गजान् ॥ क्वचित्पवनचण्डाख्यं, कलाचार्य स दृष्टवान् ॥ २१ ॥3
[ युग्मम् ] तं च प्रेक्ष्य कुमारोन्त-रविन्दत परां मुदम् ॥ निर्वापयन्ति सन्तो हि, दर्शनेनापि चन्द्रवत् ॥ २२॥ है अमुं कलाचार्यरविं, प्रतिभाभानुभासुरम् ॥ श्रये तमोपनोदार्थ-मिति चान्तरचिन्तयत् ॥ २३॥ तत्पादकमले
नत्वो-पाविशच तदन्तिके ॥ कुतस्त्वमागा इति तं, कलाचार्योऽपि पृष्टवान् ॥ २४ ॥ एकान्तेऽथ तमाहूय, कुमा-1 हारश्चरितं निजम् ॥ जगाद सकलं सत्य-मित्यूचे च कृताञ्जलिः॥२५॥खामिन् ! दुर्मतिना क्रीडा-रतिना मयका पुरा॥
कलाभ्यासः कृतो नास्ति, नास्तिकेन दमो यथा!॥२६॥चिकीर्षामि कलाभ्यासं, पूज्यानामन्तिके ततः॥निष्कलो हि पुमान् विश्वे, पशोरप्यतिरिच्यते॥२७॥ततोऽलपत्कलाचार्यः, परोपकृतिकर्मठः ॥ वत्स ! मत्सदने स्थित्वा, कलाभ्यासं कुरुष्व हे ! ॥ २८ ॥ किन्तु त्वया खवंशादि-प्रकाश्यं नैव कस्यचित् ॥ इहत्यभूपत्वत्पित्रो-नास्ति तुष्टिर्मियो
Page #294
--------------------------------------------------------------------------
________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
॥१४७॥
यतः !॥२९॥ कुमारोऽपि वचस्तस्य, तत्तथा प्रत्यपद्यत ॥ ततस्तं सार्धमादाय, निजं धाम जगाम सः॥३०॥ भ्रातृव्योऽयं ममायात, इति पत्न्यै जगाद च ॥ जननीमिव तां भक्त्या, कुमारोप्यनमत्ततः॥३१॥ ततः सा नपयित्वा तं, भोजयामास सादरम् ॥ कलाचार्योप्यदात्तस्मै, वस्त्राण्याभरणानि च ॥ ३२॥ इदं मदीयं तुरग-सदनस्यन्दनादिकम् ॥ खकीयं भवता ज्ञेयं, स्थेयं चात्रेत्युवाच च ॥ ३३॥ ततः कुमारः सन्तुष्ट-चेतास्तस्य गृहे वसन् ॥ प्राच्या विमुच्य दुश्चेष्टाः, कलाभ्यासपरोभवत् ॥ ३४ ॥ विनयामृतवान् लोक-कैरवाणि प्रमोदयन् ॥ सोग्रहीदल्पकालेन, चन्द्रवत्सकलाः कलाः ॥ ३५॥ मा विस्मरन्त्विमा भूरि-भाग्यैर्लब्धा ममेति सः॥ कलापरिश्रमं चक्रे, गृहोद्यानगतोन्वहम् ! ॥ ३६॥ तस्योद्यानस्य पार्थे च, चारुवातायनाञ्चितम् ॥ अभूद्विशालमुत्तुङ्ग, श्रेष्ठस्य श्रेष्ठिनो गृहम् ॥ ३७ ॥ तत्र चासीत्सुता तस्य, नाम्ना मदनमंजरी ॥ सर्वधूगर्वसर्वख-सर्वकषवपुलता ॥ ३८ ॥ सा च नित्यं | गवाक्षस्था, तं ददर्श नृपाङ्गजम् ॥ प्राक्षिपत्तं प्रतिप्रेम्णा, पत्रपुष्पफलादि च ॥ ३९ ॥राजाङ्गजस्तु नो सम्यक, तां मृगाक्षीमुदक्षत ॥ विद्याग्रहणलोभेन, गुरोराशङ्कया तथा ॥४०॥ अन्यदा मदनोन्माद-विवशा सा वशा द्रुतम् ॥ जघानाशोकगुच्छेन, तं कलाभ्यासतत्परम् ॥४१॥ तदा त्वगडदत्तस्तां, सविशेषं निरीक्षत ॥ नित्यं नितम्बिनीसङ्गे, कस्य वा स्यान्मनो दृढम् ? ॥ ४२ ॥ सम्पूर्णचन्द्रवदनां, विनिद्राम्भोजलोचनाम् ॥ वर्णकुम्भाभवक्षोजा, पल्लवाताम्रपाणिकाम् ॥ ४३ ॥ प्रादुर्भूतैर्वहिर्मूर्ते-रनुरागलवैरिव ॥ किङ्केल्लिपल्लवैश्छन्नां, मूर्तामिव वनश्रियम् ॥ ४४ ॥ लिप्तां
॥१४७॥
Page #295
--------------------------------------------------------------------------
________________
॥
*
**
वटवेणेव, पीयूषेणेव निर्मिताम् ॥ तां वीक्ष्य विस्मितश्चित्ते, कुमारो ध्यातवानिति ॥ ४५ ॥ [त्रिभिर्विशेषकम् किमियं कमला नाग-कनी देवागनाऽथवा ॥ विद्याधरी वा मत्पुण्यैः, प्रत्यक्षा वा सरखती ? ॥ ४६ ॥ ध्यात्वेत्यूचे च तां सुभ्र !, काऽसि त्वं कस्य वा सुता ? ॥ मां कलाभ्यासरक्तञ्च, परिमोहयसे कुतः ? ॥४७॥ सानन्दा सा ततःप्रोचे, नाम्ना मदनमंजरी ॥ बन्धुदत्ताभिधश्रेष्ठि-मुख्यस्य तनयाऽस्म्यहम् ॥ ४८ ॥ इहैव हि पुरे यूना, केनाप्यस्मि विवाहिता ॥ इदं तु मन्दिरं विद्धि, मपितुगुणमन्दिरम् ॥ ४९॥ त्वां च दृष्ट्वा जगजैत्र-रूपं चित्ताजभास्करम् ॥ जातास्म्येषा महाभाग !, त्वदेकायत्तजीविता ॥ ५० ॥ मारधिकारिरूपस्त्वं, यतःप्रभृति वीक्षितः॥ ततः प्रभृति मामुच्चै-बोधते घस्मरः स्मरः ! ॥५१॥ कामदाघज्वरोच्छित्यै, नित्यं त्वदर्शनामृतम् ॥ पिबामि स तु तेनापि, वृद्धिमेव प्रयात्यहो!॥५२॥ अमृतस्यापि तन्नून-मसाध्योऽसौ महाज्वरः ॥ नो चेत्तद्भोजनादेवाः, सन्ताप्यन्तेऽमुना कथम् ? ॥ ५३॥ त्वत्सङ्गमैकगोशीर्ष-साध्योऽयमथवा ज्वरः ॥ परःशतैरपि परै-हीयते भेषजैः कथम् ? ॥ ५४॥ तद्दोषज्ञोपचारं मे, न करिष्यति चेद्भवाम् ॥ तदावश्यमयं जन्तुः, परलोकं गमिष्यति !॥ ५५॥ यथा निर्वापिते नेत्रे, दर्शनेन श्रुती गिरा ॥ तथा निर्वापय खाङ्ग-सङ्गमेनाङ्गमप्यदः ॥५६॥ इति तद्वाक्यमाकर्ण्य, कुमारोन्तरचिन्तयत् ॥ नूनं कामानलप्लुष्टा, प्राप्नुयात्प्रान्तमप्यसौ ॥ ५७॥ "प्राणिनां हि सकामानां, शास्त्रे प्रोक्ता दशा दश ॥ तत्राद्यायां भवेचिन्ता-ऽपरस्यां सङ्गमस्पृहा ॥ ५८॥ तृतीयायां तु निःश्वास-श्चतुथ्यों तु स्मरज्वरः॥
-
-
Page #296
--------------------------------------------------------------------------
________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
॥१४८॥
देहे दाहश्च पञ्चम्यां, षष्ठ्यां स्याद्भोजनारुचिः॥ ५९॥ सप्तम्या तु भवेन्मूर्छा-ऽष्टम्यामुन्माद उल्वणः ॥ नवम्यां प्राणसन्देहो, दशम्यां प्राणविच्युतिः॥ ६०॥" तदसौ सुन्दरी मास्म, म्रियतां मद्वियोगतः॥ ध्यात्वेत्यूचे कुमारस्तां, गिरा पीयूषकल्पया ॥ ६१॥ मृगाक्षि ! सुन्दराख्यस्य, राज्ञः शङ्खपुरेशितुः॥प्रथमं नन्दनं नाम्ना-ऽगडदत्तमवेहि माम् ॥ ६२॥ कलाचार्यान्तिके कर्तु, कलाभ्यासमिहागमम् ॥ त्वत्सेवने तु नायान्ति, कला रुष्टा इवाङ्गनाः॥६३॥ तदुत्सुकोऽपि नेदानी, त्वया सङ्गन्तुमुत्सहे ॥ इतो ब्रजंस्तु हृत्वा त्वां, गमिष्यामि न संशयः॥ ६४ ॥ इत्याद्युक्त्वा कथञ्चित्तां, खस्थीकृत्य नृपाङ्गजः ॥ जगाम गेहमुद्याना-त्तद्रूपाक्षिप्तमानसः॥६५॥ अन्यदा भूपभूरश्वा-रूढो राजपथे व्रजन् ॥ तुमुलं रोदसीकुक्षि-म्भरिं श्रुत्वेत्यचिन्तयत् ॥६६॥ किंचुक्षोभ पयोराशी- ज्वाल ज्वलनोऽथवाः॥ वैरिसैन्यमुतायातं, तडिद्वा पतिता क्वचित् ! ॥६७॥ ध्यायन्नेवं ददशैंक, कुमारो मत्तदन्तिनम् ॥ मूलादुन्मूलितालानं, पर्यटन्तमितस्ततः ॥६८॥ निषादिना परित्यक्तः, कुशिष्य इव सूरिणा ॥ महाबलैः पादपातै-य॑श्चयन्निव मेदिनीम् ॥ ६९ ॥ मारयन् पशुमादीन् , गृहहट्टादि पातयन् ॥ सोऽपि ब्यालः क्षणात्काल, इवाभ्यागान्नृपागजम् ॥ ७० ॥ [ युग्मम् ] तदा च लोकाः प्राकारा-गारादेरुपरि स्थिताः ॥ मुञ्च मुञ्च व्यालमार्ग-मिति राजागजं जगुः ॥ ७१ ॥ कुमारस्तु हयं हित्वा, तूर्णमाहास्त हस्तिनम् ॥ ततस्तं प्रति मत्तेभो, दधावे क्रोधविह्वलः ॥ ७२ ॥ उत्तरीय पुरस्तस्य, कुमारः प्राक्षिपत्ततः॥ दन्तप्रहारांस्तत्रादा-द्रोषान्धः सिन्धुरस्तु सः ॥७३॥ पृष्ठे गत्वा
॥१४८॥
Page #297
--------------------------------------------------------------------------
________________
कुमारोऽथ, गाढमुष्ट्या जघान तम् ॥ अवलिष्ट ततस्तूर्ण, कुमारमभिकुअरः ॥ ७४ ॥ तत्पृष्ठस्थः खयं भ्राम्यन् , प्रह-18 रंस्तं च मुष्टिभिः॥ चक्रभ्रमेणाभ्रमयत् , कुमारस्तु द्विपं चिरम् ॥ ७५ ॥ भ्रामं भ्रामं च निर्विण्णं, तं गजं सुलसागजः ॥ आरुरोह महासत्वः, पारीन्द्र इव पर्वतम् ॥ ७६ ॥ वशीकृतद्विपं तं च, वीक्ष्य सौधोपरि स्थितः ॥ भूपो में भुवनपालाख्यः, प्राज्यं विस्मयमानशे ॥ ७७ ॥ सूर्याचन्द्रमसौ तेजः-सौम्यत्वाभ्यां जयन्निव ॥ कुमारः कोयमित्युर्वी-नाथोऽपृच्छच वेत्रिणम् ॥ ७८ ॥ वेत्री प्रोचे प्रभोऽमुष्य, वेनि नाहं कुलादिकम् ॥ पठन् किन्तु कलाचार्यपार्थे दृष्टोस्त्ययं मया ॥ ७९ ॥ ततः पृष्टः कलाचार्यः, समाकार्य महीभृता ॥समभ्याभयं तस्य, वृत्तान्तं सर्वमब्रवीत् ॥ ८० ॥ ततस्तुष्टस्तमाह्वातुं, वेत्रिणं प्राहिणोन्नृपः ॥ रिपोरपि गुणान् दृष्ट्वा, गुणरागी हि मोदते ! ॥ ८१ ॥ तेनाहूतः कुमारोऽपि, बवालाने मतङ्गजम् ॥ साशङ्कः मापतेः पार्थे, ययौ लोकैः कृतस्तुतिः ॥ ८२ ॥ यावन्ननाम पञ्चाङ्ग-प्रणामेन स पार्थिवम् ॥ तावदालिङ्ग्यभूपस्त-मुपावेशयदासने॥८३॥ तं च पश्यन्नपो दध्यौ.8 ६ पुरुषो ह्ययमुत्तमः ॥ एतादृशो भवेदस्मि-न्विनयः कथमन्यथा ? ॥ ८४ ॥ यथा नमन्ति पाथोभिः, पाथोदाः फलदाः । है फलैः ॥ नमन्ति विनयेनैव, तद्वदुत्तमपूरुषाः ॥ ८५ ॥ ध्यात्वेत्यादि नृपः प्रेम्णा, ताम्बूलादि समर्प्य च ॥ तमित्य
पृच्छद्दक्षत्व-मस्ति कासु कलासु ते ? ॥ ८६ ॥ ततो ब्रीडावशात्किञ्चि-दजल्पति नृपाङ्गजे ॥ गुरुः प्रोचेऽस्ति दक्षोऽसौ, कलासु सकलाखपि ॥ ८७ ॥ किन्तु सन्तो न भाषन्ते, सतोपि खगुणान् हिया ॥ इत्यसौ मौनमाधत्ते,
LOSAROLOCALGAOROSOCIALOREOG
Page #298
--------------------------------------------------------------------------
________________
उत्तराध्ययन कुमारो गुणसेवधिः ॥८८॥ इति श्रुत्वा गुणास्तस्य, राज्ञि रोमाञ्चमञ्चति ॥ उपदापाणयः पौरा-स्तत्राजग्मुः सह
चतुर्थेमध्यतेस्रशः॥ ८९ ॥ ते मुक्त्वा प्राभृतं नत्वा, नृपं चोपाविशन् पुरः॥ प्राभृतं तत्तु भूजानिः, कुमाराय ददौ मुदा॥९०॥ यनम् (४) ॥१४९॥
अथ ते नागरा इत्थं, नरनाथं व्यजिज्ञपन् ॥ स्वामिन्नियं पूरी पूर्व-मासीत्वर्गपुरीसमा ॥९१॥ सा तस्करेण केना|पि, मुष्यमाणा प्रतिक्षणम् ॥ जातास्ति रोरसदन-प्राया तद्रक्ष रक्ष ताम् ॥९२ ॥ ततोत्रवीत्पुरारक्ष- मेवं क्रुद्धो
नराधिपः ॥ रे ! सत्यपि त्वयि कथं, मुष्यते दस्युना पुरी ? ॥ ९३॥ पुरारक्षोऽवदद्देव !, भूयांसो दिवसा गताः॥ |ममान्वेषयतश्चौरं, न तु प्रापं करोमि किम् ? ॥ ९४ ॥ अत्रान्तरे नृपं नत्वा-ऽगडदत्तो व्यजिज्ञपत् ॥ समादिशत | |मां खामिन् !, यथा गृह्णामि तस्करम् ॥ ९५ ॥ सप्तभिर्वासरैश्चौरा-लामे त्वनौ विशाम्यहम् ॥ ततोतिविस्मितः सूक्ष्मापः, स्माह साधय कामितम् ! ॥ ९६ ॥ ततोभिनम्य भूजानि-मनुद्विग्नमनाः स्वयम् ॥ बभ्राम भूपभूश्चौर-वीलक्षायै परितः पुरीम् ॥ ९॥ मठप्रपादेवकुल-वेश्याशौण्डिकवेश्मसु ॥ मालिकबूतकारादि-स्थानेषु विपिनेषु च MI॥९८॥ प्रत्यहं कुर्वतस्तस्य, परिमोषिगवेषणम् ॥षड् दिनानि ययुः किन्तु, नाससाद स तं क्वचित् ॥९९॥ [युग्मम्]
सप्तमेऽह्नि कुमारोऽथ, चिन्ता चान्तो व्यचिन्तयत् ॥ मुधा सन्धां व्यधामेना-महं जीवितनाशिनीम् ! ॥१०॥ तत्तामादाय वामाक्षी, क्वचिदन्यत्र याम्यहम् ॥ यद्वा वयं प्रतिश्रुत्य, करोमि कथमन्यथा ? ॥१.१॥ प्रतिज्ञापालनं
&॥१४९॥ १ मध्येसप्तदिनं चौरा-लाभे त्वग्नौ विशाम्यहम् ॥ इति 'ग' संज्ञकपुस्तके ।
NROERCIRCLERS
955-65454596555
Page #299
--------------------------------------------------------------------------
________________
"
वीर - नराणां हि महाव्रतम् || शिरश्छेदेऽपि तद्वीरः, खांप्रतिज्ञां न मुञ्चति ! ॥ १०२ ॥ ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना ॥ ध्यात्वेत्यादि कुमारोगा - दपराह्ने पुराद्वहिः ! ॥ १०३ ॥ अधो रसालसालस्य, कस्यचित्संस्थितोऽथ सः ॥ विद्याभ्रष्टः खेचरेन्द्र इवापश्यद्दिशोखिलाः ॥ १०४ ॥ अत्रान्तरे च तत्रैकः, परिव्राजक आययौ ॥ त्रिदण्डकुण्डि - कामाली, मुण्डमौलिर्महाबलः ॥ १०५ ॥ रक्ताक्षं हस्तिहस्ताभ - हस्तं कर्कशकुन्तलम् ॥ रौद्राकारं दीर्घजङ्घ - मजिनोद्वपिण्डिकम् ॥ १०६ ॥ तं वीक्ष्य क्ष्मापभूर्नून - ममीभिर्देहलक्षणैः ॥ तस्करोयमिति ध्यायन् परित्राजेत्यभाषत ॥ १०७ ॥ [[ युग्मम् ] कोसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे ? ॥ ततः कुमारो धिषणा - धिषणस्तमदोवदत् ॥ १०८ ॥ दारिद्र्यविद्रुतः शून्य - खान्तः स्वामिन् ! भ्रमाम्यहम् ॥ परं पराभवस्थानं, विशां दारिद्र्यमेव हि ! ॥ १०९ ॥ अद्य छिनि ते दौःस्थ्य - मित्यूचेऽथ त्रिदण्डिकः ॥ सोप्यूचे सर्वमिष्टं मे, भावि युष्मत्प्रसादतः ! ॥ ११० ॥ तदा चोरुनभोमार्गो - लंघनोत्थश्रमादिव || पश्चिमाम्भोनिधौ तूर्ण, मज्जति स्म नभोमणिः ॥ १११ ॥ ततोऽर्ककान्तविश्लेषो-त्पन्नशोकभरैरिव ॥ दिगङ्गनासु मालिन्य - मुपेतासु तमोभरैः ॥ ११२ ॥ कोशात्कृपाणमाकृष्य, बद्ध्वा परिकरं च सः ॥ प्रोचे कुमारमेयेहि, यथा कुर्वे तवेहितम् ! ॥ ११३ ॥ [ युग्मम् ] इत्युदीर्य समं तेन, गत्वा पुर्या स तस्करः ॥ क्वचिदिभ्यगृहेऽकार्षीक्षात्रं श्रीवत्ससंस्थितम् ॥ ११४ ॥ तेन क्षात्रेण गेहान्तः प्रविश्य निभृतक्रमम् ॥ पेटाः पाटचरो बह्वी, वित्तापूर्णाः समाकृषत् ॥ ११५ ॥ द्रक्षायै कुमारं च तत्र संस्थाप्य तस्करः ॥ प्रलोभ्य दुःस्थानानिन्ये, सुप्तान्देव कुलादिषु
Page #300
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१५॥
Gotovary
॥ ११६ ॥ पेटाश्चोत्पाट्य तैः शेषं, कुमारेणात्मना तथा ॥ नगर्या निर्ययौ केना-ऽप्यदृष्टः स पिशाचवत् ॥ ११७॥18 चतुर्थमध्य
तदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना ॥ यद्वा मम कुलीनस्य छलं कर्तुं न युज्यते ! ॥ ११८॥ किञ्च नित्यं यनम् (४) है कृते कस्य, मुष्णाति नगरीमयम् ॥ गेहे चास्य कियद्वित्त-मिति च ज्ञेयमस्ति मे ॥ ११९ ॥ तन्नायमधुना मार्य, इति
ध्यायनपाङ्गजः ॥ तमन्वयासीद्दक्षो हि, नौत्सुक्यं कुरुते क्वचित् ॥ १२०॥ सर्वेष्वथ पुरोद्यान-मागतेषु मलिम्लुचः॥ ऊचे कुमारमद्यापि, बहुका विद्यते निशा ॥ १२१ ॥ क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां ततः॥ विनीयते यथा सर्वै-वविधोद्वहनश्रमः ॥१२२ ॥ आमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् ॥ मूलाद्दक्षिणतस्तस्थौ, परि-|| | मोपी तु वामतः ॥ १२३ ॥ अन्योन्यं हन्तुमिच्छन्ती, विजेतुं वादिनाविव ॥ अलीकनिद्रया धूर्त-प्रष्ठौ सुषुपतुश्च तौ ! ॥ १२४ ॥ भारवाहास्तु ते श्रान्त-सुप्ता विश्रब्धचेतसः॥ तीत्रां तन्द्रामविन्दन्त, तादृशां सुलभा हि सा! ॥ १२५ ॥ उत्थाय स्रस्तरादक्षः, कुमारस्तु शनैः शनैः ॥ कृपाणपाणिरन्यस्य, तरोर्मूलमशिश्रियत् ॥ १२६ ॥ अप्रमत्ते श्रमणवत्, कुमारे तत्र संस्थिते ॥ निस्त्रिंशपाणिनिस्त्रिंशः, समुत्तस्थौ स तस्करः ॥ १२७ ॥ निहत्य भारिकांतांश्च, कुमारं यावदैक्षत ॥ आकृष्टासिः पुरोभूय, तावत्सोप्येवमब्रवीत् ॥ १२८ ॥ पुरलुण्टाक रे ! पाप 1, विश्वस्त-10
॥१५०॥ तक!॥ चिर कृतस्य पापस्य, फलमानहि साम्प्रतम् !॥१२९ ॥ इत्युक्त्वा गच्छतस्तस्य, पादो खङ्गेन सोऽ-18 च्छिनत् ॥ छिन्नमूलस्तरुरिवा-पतचौरस्ततो भुवि ॥ १३०॥ प्रोचे चैवं परित्यक्त-जीविताशो नृपाङ्गजम् ॥ अहं
Page #301
--------------------------------------------------------------------------
________________
उ० २६
भुजङ्गमाह्वान - श्रीरोऽभूवं महाबलः ॥ १३१ ॥ इह श्मशाने भूम्यन्तः सदनं मम विद्यते ॥ तत्रास्ति मे वसा, 'वीरमती' संज्ञा कुमारिका ॥ १३२ ॥ अभिज्ञानाय तदासं, ममादाय महामते ! ॥ गत्वामुष्य वटस्याधः, शब्दयेस्तां सुलोचनाम् ॥ १३३ ॥ मद्भूमिवेश्मनो द्वारे, तया चोद्घाटिते सति ॥ तामुदुह्याखिलं द्रव्य - माददीथा मदर्जितम् ॥ १३४ ॥ पश्चात्तु ससुखं तत्र तिष्ठेरन्यत्र वा प्रजेः ॥ तेनेत्युक्तः कुमारस्तं, वाक्यैराश्वासयच्छुभैः ॥ १३५ ॥ तस्मिन्मृते तु तत्खङ्गं, लात्वा गत्वा वटान्तिके ॥ शब्दिता तेन सम्भ्रांता, सा द्वारमुदघाटयत् ॥ १३६ ॥ तां च दृष्ट्वा जगन्नेत्र - कैरवाकरकौमुदीम् ॥ इयं हि स्मरसर्वस्व - मिति दध्यौ नृपात्मजः ॥ १३७ ॥ सौम्य ! कस्त्वं किमर्थ वा - ऽऽ यासीरिति तया च सः ॥ पृष्टोऽवादीद्यथा वृत्तं ततः सान्तरदूयत ॥ ॥ १३८ ॥ कृतावहित्था प्रोचे च खामिन्नेहि गृहान्तरे ॥ वीरः सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ॥ १३९ ॥ अथ नाथस्त्वमेवास्य, भूघनस्य धनस्य च ॥ इत्युदी - र्याथ धूर्ता सा, वासवेश्मोदघाटयत् ॥ १४० ॥ तल्पं च प्रगुणीकृत्य, स्माह विश्रम्यतामिह ॥ अहं तु त्वत्कृते कान्त !, गोशीद्रवमानये ॥ १४१ ॥ तयेत्युक्तः कुमारोपि, भेजे तल्पमनल्पधीः ॥ तस्यां बहिर्गतायां च चेतसीति व्यचि - न्तयत् ॥ १४२ ॥ न्यायशास्त्रे हि विश्वासः, सर्वस्यापि निषिध्यते ॥ विशेषतस्तु नारीणा - मरीणां च विचक्षणैः ॥ १४३ ॥ स्त्रीणां द्विषां वा विश्वासो, विश्वासं जनयेज्जनम् ॥ इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ॥ १४४ ॥ ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् ॥ ततो दूरे तिरोधाय तस्थौ सुन्दरनन्दनः ॥ १४५ ॥ बहिर्हन्तुमशक्यो यः,
Page #302
--------------------------------------------------------------------------
________________
IS
चतुर्थमध्ययनम् (४)
उत्तराध्ययन सोऽत्र सुप्तो हनिष्यते ॥ इत्यूई तस्य तल्पस्य, न्यस्ता यंत्रशिलाभवत् ॥ १४६ ॥ तदा च सा शिला दस्यु-खस्रा ॥१५१॥
यंत्रप्रयोगतः ॥ पातिताऽचूर्णयत्तूर्णं, तां शय्यां शरकाण्डवत् ॥१४७॥ ततो मया हतः सुष्टु, भ्रातृघातीति वादिनीम् ॥ धृत्वा केशेषु तामेव-मवादीत्पार्थिवाङ्गजः॥ १४८ ॥ कपटैरपि-मां हन्तु-माः ! पापे ! कः प्रभुर्भवेत् ? ॥ शाम्येत्ति वडवावह्नि-घनैरपि घनाघनैः १ ॥ १४९॥ इत्युक्त्वा तां सहादाय, भूगेहान्निर्जगाम सः॥ रूपं निरूप्य रक्तोऽपि, | विरक्तस्तत्कुकर्मणा ॥ १५०॥ अथ धैर्यनिधेस्तस्य, मुखाजमिव वीक्षितुम् ॥ पूर्वाचलशिरोदेश-मारुरोह नभोमणिः |॥ १५१॥ भूपाभ्यर्ण ततो गत्वा, निशावृत्तं निवेदयन् ॥ हतो दस्युः खसा तस्या-ऽऽनीतेयमिति सोऽब्रवीत् &॥ १५२॥ मेदिनीमन्दिरं तच्चा-दीदृशन्मेदिनीपतेः ॥ नृपोपि वित्तं तत्रस्थं, सर्व तत्स्वामिनामदात् ॥ १५३॥ निजाङ्गजाश्च कमल-सेनाख्यां कमलेक्षणाम् ॥ ददौ भूपभुवे भूप-स्तचरित्रैश्चमत्कृतः॥ १५४ ॥ शतं गजेन्द्रान् ग्रामांश्च, सहस्रमयुतं हयान् ॥ लक्षं पदातीनिष्काश्च, तस्मै प्रयुतमार्पयत् ॥ १५५ ॥ पौरा अपि पुरीदस्यु-हन्तारं तमपूजयन् ॥ गुणवान् राजमान्यश्च, यद्वा केन न पूज्यते ? ॥ १५६ ॥ ततो भूमीभुजादत्ते, प्रासादे सप्तभूमिके ॥ तस्थौ नृपात्मजश्चित्ते, बिभ्रन्मदनमंजरीम् ॥ १५७ ॥ प्राप्तोऽपि भूपतेः पुत्री, लक्ष्मी कीर्तिञ्च भूयसीम् ॥ ता नोदतारयश्चित्ता-दहोमोहोऽति दुस्त्यजः !॥१५८॥ अथान्यदा कुमारस्य,खसौधे तस्थुषोऽन्तिके ॥ आगात्काचिद्वशा दत्ताऽऽसना चोपविशत्पुरः ॥ १५९॥ किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ? ॥ अहं मदनमंजर्या, प्रेषितास्मि
ACCORR
३१५१॥
Page #303
--------------------------------------------------------------------------
________________
तवान्तिक॥ १६०॥ तयेत्युक्तं च हे कान्त !, मां वियोगाग्नितापिताम् ॥ निजसङ्गमगोशीर्ष-द्रवैर्निर्वापय द्रतम ॥ १६१॥ अन्यच्च मत्तमातङ्ग-बन्धं तस्करमारणम् ॥ दुष्टस्त्रीदम्भवेदित्वं, नृपनिर्मितपूजनम् ॥ १६२ ॥ लोके च विश्रुतां कीर्ति, तवाकर्ष्याति विस्मिता ॥ त्वत्सङ्गमोत्सुका प्राणा-नपि कृच्छ्राद्दधाति सा ॥ १६३॥ [ युग्मम् । ४ श्रुत्वेति दत्त्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् ॥ भद्रे ! तां ब्रूहि यन्नैव, विधेयोत्सुकता त्वया !॥१६४॥ यथा
मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोचने!॥ तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि बाधते ! ॥ १६५ ॥ प्रस्तावमन्तरा किन्तु, न किञ्चिक्रियते बुधैः ॥ ततः समयमासाद्य, करिष्यामि समीहितम् ! ॥ १६६ ॥ इत्युक्त्वा सुलसासूनु९तिकां विससर्ज ताम् ॥ सापि प्रामुमुदत्तस्य, वाक्यैर्मदनमंजरीम् ॥ १६७ ॥ अन्येधुः करभारूढौ, तत्पितुः सेवकावुभौ ॥ आयातौ तद्गुहे तो च, दृष्ट्वाऽमोदत भूपभूः ॥ १६८ ॥ तौ चालिङ्गय दृढं बाष्प-जलाप्लावितलोचनः ॥ सोप्राक्षीत्कुशलं ? पित्रो-स्ततस्तावित्यवोचताम् ॥ १६९ ॥ पित्रोः श्रेयोस्ति किन्तु त्व-द्विरहाकुलयोस्तयोः ॥ न चेत्त्वदर्शनं भावि, तदा तूर्णं मरिष्यतः !॥ १७० ॥ सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ ॥ मामाह्वातुमिहायातौ, तत्र तद्गन्तुमुत्सहे ॥ १७१ स्माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया ॥ त्वदर्शनेन तृप्ताः स्मः, पीयूषेणेव
नो वयम् ॥ १७२ ॥ इत्युदित्वा नृपस्तस्मै, दत्त्वा चाभरणादिकम् ॥ समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छदाम् AI१७३ ॥ ततः पुर्या बहिः सेना, निवेश्य सकलां निजाम् ॥ एकेन स्यन्दनेनास्था-त्पूर्मध्ये भूपभूः खयम् ॥१७॥
Page #304
--------------------------------------------------------------------------
________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
यामिन्याः प्रथमे यामे, रहस्तां दूतिकां प्रति ॥ प्राहिणोत्सेवकं चैकं, सोपि गत्वेति तां जगौ ॥ १७५ ॥ सेनां 18 प्रस्थाप्य नृपभू- रथेनैकेन तिष्ठति ॥ कृते मदनमंजर्या-स्तत्तामानय सत्वरम् ॥ १७६ ॥ ततो गत्वा तया क्षिप्रं, ॥१५२॥
प्रोक्ता मदनमंजरी ॥ पार्थे भूपभुवो हर्षो-त्फुल्लाङ्गाऽऽगात्सलीयुता ॥ १७७ ॥ सोपि रागामयक्षीण-दाक्ष्यमन्दाक्षलोचनः ॥ स्यन्दनेध्यारोपयत्ता-महो सर्वपाः स्त्रियः ! ॥ १७८ ॥ सोथ प्रेर्य हयान् पुर्या, निर्यातोऽनीकमागतः ॥ प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ॥ १७९॥ गच्छन् प्रयाणैरच्छिन्न-देशमुलंध्य भूभृतः ॥ कुमारः पादपाकीणों, प्रापदेकां महाटवीम् ॥ १८० ॥ प्रमद्वरान्नरान् गर्जा-रवैर्जागरयन्निव ॥ धारासारभुवं सिञ्च-स्तदा चागाद्घनागमः ॥ १८१॥ ऋतौ तत्रापि रात्पुत्रः, पित्रोः सङ्गन्तुमुद्यतः॥न तस्थौ क्वापि चक्राङ्ग, इव मानसमन्तरा ॥ १८२ ॥ तत्रारण्ये व्रजत्तस्य, सैन्यं च बहु भिल्लवान् ॥ रुरोध कोपि भिल्लेशः, स्रोतोगमिवाचलः ॥ १८३ ॥ तद्भिलैः प्रबलैभिन्नं, कुमारस्याबलं बलम् ॥ दिशोदिशं ननाश द्राग, मेघवृन्दमिवानिलैः ॥ १८४ ॥ सैन्ये नष्टेपि| सुलसा-सुतः प्राज्यपराक्रमः ॥ युक्तो मदनमंजर्या, रथेनैकेन तस्थिवान् ॥ १८५ ॥ युध्यमानश्च तद्भिल-बलं प्रबलमप्यलम् ॥ स शरैररुपदुद्राव, ध्वान्तमंशुरियांशुभिः ॥ १८६ ॥ ततो नष्टं निजानीकं, दृष्ट्वा भिलप्रभुःखयम् ॥ युद्धा- याढौकत क्रोध-दष्टोष्ठो निष्ठुरं ब्रुवन् ॥ १८७ ॥ घोराघातनिर्घोषै-स्वासयन्तौ वनेचरान् ॥ पृषक्तैः सततोन्मुक्तैः, कुर्वाणी व्योम्नि मण्डपम् ॥ १८८ ॥ अन्योन्यमुक्तनाराच-घर्षणोत्पन्नवह्निना ॥ अनभ्रं विधुदुद्योतं, दर्शयन्तौ मुहु
ROGRECORRUSSRUSSIOSSEX
॥१५२॥
Page #305
--------------------------------------------------------------------------
________________
महः ॥ १८९ ॥ साश्चर्य वनदेवीभि-वीक्षितौ वीरकुञ्जरौ ॥ ततस्तौ चक्रतुर्बाणा-बाणि तुल्यबलौ चिरम् ॥१९॥
त्रिभिर्विशेषकम् ] न त्वेकोपि जयं लेभे, ततो दध्यौ नृपात्मजः ॥ जय्योऽसौ नौजसा तस्मा-च्छलेनापि जयाम्यमुम् ॥ १९१ ॥ विमृश्येति धराधीश-सूनुर्मदनमंजरीम् ॥ कारितोदारशृङ्गारां, पुरः खस्य न्यवीविशत् ॥ १९२॥ तां च प्रेक्ष्य सुरीकल्प-रूपां मोहितमानसम् ॥ कुमारस्तीक्ष्णबाणेन, हृन्ममणि जघान तम् ॥ १९३ ॥ ततः स भिल्लभूमीशः, पतितः पृथिवीतले ॥ घातव्यथाकुलोप्येवं, कुमारं प्रत्यभाषत् ॥ १९४ ॥ अहं हि स्मरवीरेण, हतपूर्वस्त्वया हतः ॥ तन्मयायं हत इति, स्मयं मास्म कृथा वृथा ॥ १९५ ॥ इत्युदीर्य मृते तस्मिन् , भूपभूः खपरिच्छ-15 दम् ॥ प्रेक्षमाणोपि नैक्षिष्ट, नंष्ट्वा क्वापि गतं तदा ॥ १९६ ॥ एकेनैव स्यन्दनेन, ततो गच्छन्नपाङ्गजः॥ उलंघ्य तामरण्यानी-मेकं गोकुलमासदत् ॥ १९७ ॥ निर्गत्य गोकुलाच द्वौ, पुरुषो तमपृच्छताम् ॥ व यास्यतीति स स्माह, यामि शङ्खपुरे ह्यहम् ॥ १९८ ॥ आवामपि त्वया सार्ध-मागच्छावो यदीच्छसि ? ॥ इति ताभ्यां पुनः पृष्टोऽवादीदोमिति भूपभूः ॥ १९९ ॥ रथे चाची योजयन्तं, तमेवं ताववोचताम् ॥ अस्त्यत्र मार्गे कान्तारं, क्रूरश्वापदसङ्कलम् ॥ २०॥ चौरो दुर्योधनाद्वान-स्तत्र तिष्ठति दुर्जयः॥ मत्तो हस्ती विषश्च, व्यालो व्याघ्रश्च दारुणः ॥ २०१॥ तदध्वानममुं मुक्त्वा , सौम्य ! गच्छाधुनामुना ॥ सोपद्रवं हि पन्थान-मृजुमप्याश्रयेत का? ॥२०२॥ प्रोचे कुमारोस्मिन्नेव, मार्गे गच्छत निर्भयाः ॥ ससुखं प्रापयिष्यामि, युष्मान् शङ्खपुरे द्रुतम् ॥ २०३॥ तच्छुत्वा
Page #306
--------------------------------------------------------------------------
________________
ध्य
उत्तराध्ययन ॥१५॥
तौ नरावन्ये. चाध्वनीना धनान्विताः ॥ चेलुस्तेन समं मीना, इवाब्धिास्रोतसा सह ॥ २०४॥ तदा चैको जटाजूट-मुकुटाङ्कितमस्तकः ॥ त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूघनः ॥ २०५ ॥ महाव्रती समेत्यैव-मुवाच नृपनन्द- यनम् (४) नम् ॥ पुत्र! शङ्खपुरे देवा-नन्तुमेमि त्वया समम् ॥२०६॥ [ युग्मम् ] किन्तु मत्सन्निधौ वर्ण-दीनाराः सन्ति केचन ॥ देवानां बलिप्रजार्थ, दत्ता धार्मिकपूरुपैः॥ २०७॥ तानादत्व यथा मार्गे, ब्रजामो निर्भयं वयम् ॥ धने हि निकटस्थे नः, साशङ्कं स्यान्मनो भृशम् ॥ २०८ ॥ इत्युदित्वा कुमाराय, स धनग्रन्थिकां ददौ ॥ आशिषश्च ददत्तस्मै, चचाल सह सार्थिकैः॥२०९॥ स च गानेन नृत्येन, चेष्टाभिर्गतिभिः खरैः॥ कथाभिर्विविधाभिश्चा-ऽरञ्जयत्पथिकान्
पथि ॥ २१० ॥ न तस्य व्यश्चसीद्भिक्षु-वेषस्यापि नृपात्मजः ॥ अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ॥ &॥२११॥ वाहांश्च वाहयंस्तूर्णं, कान्तारान्तर्जगाम सः॥ तदा च राजपुत्रादीन् , जटिलः सोऽब्रवीदिदम् ॥२१॥
एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कलम् ॥ वर्षा रात्रं तत्र चाहं, गतवर्षे स्थितोऽभवम् ॥ २१३॥ तत्रत्यानां बल्लवाना-मत्यर्थ वल्लभोस्म्यहम् ॥ सर्वेषामात्मनां तस्मात्तेऽद्य दास्यन्ति भोजनम् ॥ २१४ ॥ गत्वाऽऽगच्छामि तद्यावत्तावदत्र प्रतीक्षताम् ॥ करोमि सफलं जन्म, यथातिथ्यं विधाय वः ॥ २१५॥ इत्युक्त्वा स व्रती गत्वा-ऽऽनीय दध्याज्यपायसम् ॥ कुमारमवदत्पुत्र !, कृतार्थेय मम श्रमम् ॥ २१६ ॥ प्रत्युत्पन्नमतिः सोऽथ, प्रोचे मौलौ व्यथास्ति
॥१५३॥ मे॥ऋषिभोज्यं च नो कल्प्यं, तन्नेदं भोक्ष्यते मया॥२१७॥ इत्युक्त्वा वारयन्नेत्र-संज्ञया सार्थिकांश्च सः॥ कुशिष्या |
Page #307
--------------------------------------------------------------------------
________________
इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ॥ २९८ ॥ विषमिश्रं च तद्भोज्यं, भुक्त्वा द्राग् मृत्युमाप्नुवन् ॥ ततोऽधावच्छरान्मुञ्चन्, कुमारं प्रति स प्रती ॥ २१९ ॥ कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् ॥ पातयामास तं पृथ्व्यां, ततः सोप्येवमब्रवीत् ॥ २२० ॥ अहं दुर्योधनाह्वान - श्रौरः केनाप्यनिर्जितः ॥ त्वयैकेनैव वाणेन, प्रापितः प्राणसंशयम् ॥ २२१ ॥ त्वद्वीर्य वीक्ष्य तुष्टोन्त-र्वच्मि ते सूनृतं वचः ॥ वामतोऽस्माद्विरेर्मध्ये, नद्योरस्ति सुरालयः ॥ २२२ ॥ तस्य पश्चिमभागे च, सज्जिता विद्यते शिला ॥ तां प्रेर्य प्रविशेर्वाम - भागस्थे भूमिधामनि ॥ २२३ ॥ तत्रास्ति रूपलावण्य-पुण्याङ्गी नवयौवना ॥ नाम्ना जयश्रीः पत्नी मे, द्रविणं चातिपुष्कलम् ॥ २२४ ॥ तत्सर्वमात्मसात्कुर्या दद्याश्चाग्निं मृतस्य मे ॥ वदन्नेवं क्षणाद्दस्यु - दीर्घनिद्रामवाप सः ॥ २२५ ॥ ततो दारुणि संमील्य, तं प्रज्वाल्य महीशसूः ॥ रथमारुह्य तत्प्रोक्ते, ययौ देवकुले द्रुतम् ॥ २२६ ॥ शिलां चोद्घाट्य तेनोच्चैः, शब्दिता दस्युसुन्दरी ॥ मध्येसौधं समेहीति, समेत्य तम भाषत ॥ २२७ ॥ तद्रूपं च जगज्जैत्रं, कुमारो यावदैक्षत ॥ तं जघानापहस्तेन तावन्मदनमंजरी ॥ २२८ ॥ इति चाख्यन्मया सख्यः, पितरौ खजनास्तथा ॥ त्यक्तास्तव कृते त्वञ्चा - ऽत्रपः कामयसे पराम् ॥ २२९ ॥ ततौऽसौ मा भवत्वस्या, विषाद इति चिन्तयन् ॥ विहाय वित्तयुक्तां तां रथारूढः पुरोऽचलत् ॥ २३० ॥ लङ्घमानश्च गहनं, गहनं स्त्रीचरित्रवत् ॥ पुलिन्दवृन्दमु त्रस्त - मपश्यन्नश्यदुच्चकैः ॥ २३९ ॥ किमस्ति मत्तहस्तीति, ध्यायंश्चायं व्यलोकयत् ॥ याव त्सर्वादिशस्ताव - ददशैंकं मतङ्गजम् ॥ २३२ ॥ उदस्तेन खहस्तेन, पातयन्तं पतत्रिणः ॥ मूलादप्युन्मूलयन्तं, पादपान्
Page #308
--------------------------------------------------------------------------
________________
उत्तराध्ययन : सिन्धुवेगवत् ॥ २३३ ॥ मदाम्बुनिझरक्लिन्नं, सितं सितमरीचिवत् ॥ उग्रदन्तं महापादं, कैलासमिव जङ्गमम्॥२३४॥तं चतुर्थमध्य
मत्तानेकपं प्रेक्ष्य, त्रस्तां मदनमंजरीम् ॥ आश्वास्योदतरत्तूर्णं, स्यन्दनान्नृपनन्दनः ॥ २३५ ॥ [ त्रिभिर्विशेषकम् ] ययौ || यनम् (४) ॥१५४॥
च संमुखं तस्य, धैर्याधरितभूधरः ॥ तं च वञ्चयितुं न्यास्थ-दुत्तरीयं तदग्रतः ॥ २३६ ॥ प्रहर्तुं तत्र दन्ताभ्यां, नीचैदर्जातं च तं गजम् ॥ उत्प्लुत्यारोहदत्यर्थ, खेदयित्वा मुमोच च ॥ २३७ ॥ रथमारुह्य गच्छंश्च, पुरो व्यानं विलोक्य
|सः॥ हित्वा रथमगात्तस्य, संमुखं विकसन्मुखः ॥ २३८॥ तमायान्तं प्रति व्याघ्रः, क्रोधोडुषितकेसरः ॥ पुच्छ|माच्छोटयन् व्यात्त-वक्रो यावदधावत ॥ २३९ ॥ तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखे ॥ जघानापरपाणिस्थ|कृपाण्या निष्कृपः स तम् ॥ २४०॥ पुनः शताङ्गमारुह्य, पुरो गच्छन्नतुच्छधीः॥ दूरादध्वनि निःशूकं, दन्दशूकं ददर्श सः ॥ २४१ ॥ अत्युत्कटस्फटाटोपं, भासुरं मणिकान्तिभिः॥धमनीस्फारफूत्कारं, प्रचण्डं यमदण्डवत् ॥२४२॥ लोहिताक्षं कालकान्ति-मायान्तं वीक्ष्य तं भयात् ॥ कम्प्राङ्गी व्यलगत्पत्युः, कण्ठे मदनमंजरी ॥ २४३॥ [युग्मम् ] भुजङ्गाद्भीरु ! मा भैषी-रित्युक्त्वा भूपभूस्ततः ॥ तन्नेत्रगतिवाणि, स्तम्भयामास विद्यया ॥ २४४ ॥ आहितुण्डिकवद्भरिः, क्रीडयित्वा मुमोच तम् ॥ इत्थं कथञ्चिदुलंध्या-ऽरण्यं शङ्खपुरे ययौ ॥२४५॥ यच तस्य बलं भिल्ल-बलान
॥१५४॥ टमभूत्पुरा ॥ तदप्यन्येन मार्गेणा-ऽऽययौ भूपभुवोन्तिके ॥ २४६॥ तं चायान्तं समाकर्ण्य, सुन्दरो भूपुरन्दरः॥ अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमुद्यतः॥ २४७ ॥ अभ्यायान्तं कुमारोपि, श्रुत्वा तातं ससम्भ्रमः ॥ गत्वा ननाम
ASSASSISTANCE
Page #309
--------------------------------------------------------------------------
________________
SAMSUNSALILAMSALASS
भूपीठ-न्यस्तशस्तखमस्तकः ॥ २४८ ॥ ततः प्रमोदाश्रुजल-क्लिन्ननेत्रो धराधवः ॥तमालिंग्य निवेश्याङ्के, मूर्ध्नि जघौ मुहुर्मुहुः ॥ २४९॥ उत्तम्भितध्वजे बद्ध-तोरणे स्वपुरे च तम्॥प्रियाद्वयान्वितं हस्त्या-रूढं प्रावीविशन्नपः॥२५०॥ ततो गतो गृहेऽनंसी-त्स सवित्री वधूयुतः ॥ पुत्र ! त्वमक्षयो भूया, इति साप्याशिषं ददौ॥ २५१॥ भोजनानन्तरं पित्रा, पृष्टः पुत्रो यथातथम् ।। सर्व खवृत्तमाचख्यौ, सर्वेषां विस्मयावहम् ॥ २५२॥ ततो राज्ञा यौवराज्ये, स्थापितो मोदयन् जनान् ॥ कुर्वाणो विविधाः क्रीडाः, स कालं कञ्चिदत्यगात् ॥ २५३॥ अन्यदानङ्गभूपाज्ञा-वर्त्तिनं जनयन् जनम् ॥ द्रुमान् विभूषयन् सर्वान् , मानवानिव यौवनम् ॥ २५४ ॥ मानिनीमानकुटाक-कलकोकिलकूजितः ॥ मत्तद्विरेफझंकार-मुखरीकृतदिग्मुखः ॥ २५५॥ विप्रयुक्तवधूधैर्य-लुण्टाकमलयानिलः ॥ मदमुत्पादयन् यूनां,प्राव|र्तत मधूत्सवः ॥ २५६ ॥ [ त्रिभिर्विशेषकम् ] तदा च रन्तुमुद्यानं, पार्थिवः पौरसंयुतः ॥ ययौ कृताह्वानमिव, | वातोद्भूतद्रुपल्लवैः ॥ २५७ ॥ समं मदनमंजर्या, तत्रागाद्भपभूरपि ॥ सविस्मयं सकामंच, पौरदारैर्निरीक्षितः॥२५८॥ दोलान्दोलनपानीय-क्रीडापुष्पोचयादिभिः ॥ स तत्र कान्तया साकं, रेमे हरिरिव श्रिया ॥ २५९ ॥ राम राम यथाकाम, विनोदैर्विविधैरथ ॥ अपराह्ने पुराधीशः, समं पौरैः पुरे ययौ ॥ २६० ॥ रतिप्रियः कुमारस्तु, विसृष्टान्य|परिच्छदः ॥ प्रियाद्वितीयः सुचिरं, रन्त्वा यावत्पुरे व्रजेत् ॥ २६१ ॥ तावत्प्राणप्रिया तस्य, दष्टा दुष्टेन भोगिना ॥ उत्सङ्गेन्यपतत्पत्यु-र्दष्टाहमिति वादिनी ॥ २६२ ॥ ततो मंत्रादिभिर्याव-तां चिकित्सति भूपभूः ॥ तावत्सा गरल
Page #310
--------------------------------------------------------------------------
________________
चतुर्थमध्ययनम् (४)
व्यापा-मूछिताऽभूदचेतना ॥ २६३॥ ततो विपन्नां तां ज्ञात्वा, कुमारो मोहमोहितः ॥ रुरोद रोदसीकुक्षिम्भ
रिभिः परिदेवनैः ॥ २६४ ॥ दध्यौ चैवं विनामुष्याः, कथं जीविष्यते मया ॥ वल्लभानां वियोगो हि, वरप्यतिरि- ॥१५५॥
च्यते ॥ २६५॥ तदवश्यं प्रवेष्टव्यं, मया वह्नौ सहानया ॥ स्वल्पा हि सह्यते पीडा, भूरिपीडापहा बुधैः ॥ २६६ ॥ इति ध्यात्वा चितां कृत्वा, तत्र कान्तां निधाय च ॥ प्रविविक्षुः खयं याव-ज्वलयामास सोऽनलम् ॥ २६७ ॥ तावत्तत्राजग्मतुर्की, देवाद्विद्याधरोत्तमौ ॥ इत्यूचतुश्च तं सद्य-स्तदुःखं वीक्ष्य दुःखितौ ॥ २६८ ॥ हुताशे होतुमात्मानं, कुतो हेतोस्त्वमीहसे?॥ न हीष्टं विद्यते किञ्चित् , प्राणिनां प्राणिताहते ! ॥ २६९ ॥कुमारः स्माह कान्ता मे, विपन्ना पन्नगादियम् ॥ विना चैनां न शक्नोमि, जीवितुं तच्छ्रयेऽनलम् ॥ २७० ॥ जीवयावो जीवितेशां, तव
तन्मा मृथा वृथा ॥ इत्युक्त्वा मंत्रितैीरैः, खेचरौ तामसिञ्चताम् ॥ २७१ ॥ ततः सा वीतनिद्रेव, विकसलोचना दिखयम् ॥ संवृत्य खाङ्गमुत्तस्थौ, कुमारस्य मुदा समम् ॥ २७२ ॥ अथापृच्छय कुमारं खे-चरयोर्गतयोस्तयोः ॥ घोरा-18
न्धकारनिकरे, जाते च क्षणदाक्षणे ॥ २७३ ॥ पुरमध्येऽधुना गन्तुं, न युक्तमिति चिन्तयन् ॥ सप्रियो भूपभूः प्रत्या-सन्नदेवकुले ययौ ॥ २७४ ॥ [ युग्मम् ] उद्योतायाऽऽनयाम्यग्नि-मित्युदित्वा गतश्च सः॥ आत्ताग्निः पुनरा- याति, यावद्ध्यायनिजां प्रियाम् ॥ २७५ ॥ तावदालोकमद्राक्षी-मध्येदेवकुलं स्फुटम् ॥ तत आगत्य साशङ्क, स कान्तामिति पृष्टवान् ॥ २७६ ॥ आदाय वह्निमहाय, निवृत्तेन मया प्रिये ! ॥ दृष्टो महानिहालोकः, सोऽधुना किं न
१५५॥
Page #311
--------------------------------------------------------------------------
________________
5
2555412
BI दृश्यते ? ॥ २७७ ॥ सा प्रोचे खकरस्थस्य, वहेर्दीप्तस्य वायुना ॥ आलोक इह संक्रान्तो, दृष्टो भावी प्रिय ! त्वया |
॥ २७८ ॥ ततः प्रियायै दत्वासिं, निधाय भुवि जानुनी ॥ धमत्यधोमुखो धूम-ध्वजं यावन्नपाङ्गजः ॥ २७९॥ तावत्तस्याः करात्कोश-विहीनोऽसिस्तदग्रतः॥ पपात गुरुनिर्घातो, विद्युद्दण्ड इवाम्बुदात् ॥ २८० ॥ कृपाणः कोश-I हीनोऽय-मपतद्भूतले कुतः ? ॥ सम्भ्रान्तेनाऽथ तेनैव-मपृच्छयत नितम्बिनी ॥ २८१ ॥ संमोहव्याकुलं चेतः, साम्प्रतं मेऽभवद्भृशम् ॥ ततोऽयं न्यपतत्पाणेः, कृपाण इति साऽब्रवीत् ॥ २८२॥ ततो ज्वलनमुज्वाल्य, रात्रिं तत्रातिवाह्य च ॥ प्रातर्जायापती खीय-सौधे तौ मुदितौ गतौ ॥ २८३॥ वृत्तान्तं तं च बन्धूना-मूचतुः खे दम् ॥ सुखं चाभजतां नित्यं, पञ्चगोचरगोचरम् ॥ २८४ ॥ अन्यदा भूपभूर्वाह-वाहनार्थ बहिर्गतः ॥ निन्येऽरण्येऽपहृत्याशु, वक्रशिक्षितवाजिना ॥ २८५॥ तत्र चायं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् ॥ किमिहाद्भुतवीक्षार्थ, सिद्धसमाऽऽगतं दिवः ॥ २८६ ॥ चैत्यस्य तस्य पार्थे च, कल्पद्रुरिव जङ्गमः ॥ चतुर्ज्ञानधरः साम्य-सुधारसमहोदधिः ॥ २८७॥ तित्रातः परिवृतः, पुरन्दर इवामरैः । आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव रोहणः॥ २८८ ॥ भासमानो गुरुगुणै-महोभिरिव भास्करः ॥ जितेन्द्रियत्वरूपाभ्यां, कलाकेलिकलां हरन् ॥ २८९ ॥ चारणश्रमणस्तेन, नयना-| नन्दचन्द्रमाः ॥ अदर्शि साहसगति-नाम्ना धाम्ना रविं जयन् ॥ २९० ॥ [चतुर्भिःकलापकम् ] ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च ॥शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ॥ २९१॥ तत्र च प्रेक्ष्य पुरुषान् , पञ्च चारि
Page #312
--------------------------------------------------------------------------
________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
त्रकांक्षिणः ॥ कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ॥ २९२ ॥ रूपलावण्यतारुण्य-पुण्याः पञ्च नरा अमी॥
स्वामिन् ! दीक्षां जिघृक्षन्ति, कुतोहेतोस्त्वदन्तिके ॥ २९३ ॥ गुरुजगाद चमरी-संज्ञा पल्लीह विद्यते ॥ धरणीधरना॥१५६॥
मासी-द्भिलेशस्तत्र दुर्धरः ॥ २९४ ॥ अन्यदा नृपभूः कश्चि-दागात्तद्भुवि सैन्ययुक् ॥ सेनामनाशयत्तस्य, भिल्लेशो भिल्लवृन्दयुक् ॥ २९५ ॥ नाशिते भिल्लचके च, कुमारेण तरखिना ॥ स्तेनेशस्तेन युयुधे, न त्वेकोप्यजयत्परम्॥२९६॥ ततः कुमारः खां नारी, पुरश्चके मनोरमाम् ॥ तां च प्रेक्ष्य क्षुब्धचित्तं, सोवधीद्भिलभूपतिम् ॥ २९७ ॥ कुमारे च | गते पञ्च, सोदराः शबरप्रभोः॥ तदाययुर्विपन्नं चा-पश्यन् ज्येष्ठसहोदरम् ॥ २९८ ॥ ततस्ते वैरशुद्यर्थ, रथाध्वान
मनुश्रिताः॥प्राप्ताः शङ्खपुरेऽद्राक्षु-स्तं कुमारं भटैर्वृतम् ॥ २९९ ॥ कुमारमारणच्छिद्रं, वीक्षमाणाश्च तेऽन्यदा ॥ 8 उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ॥३०॥ तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना ॥ दष्टा तस्या
गना तां च, कुमारो ज्ञातवान् मृताम् ॥ ३०१॥ ततस्तया समं मोहात् , कुमारे मर्तुमुद्यते ॥ आयातं खेचरयुगं, कृपया तामजीवयत् ॥ ३०२ ॥ विहायोद्यानमासन्ने, गत्वा देवकुले ततः॥ विमुच्य कामिनी तत्र, कुमारो वह्नये | ययौ ॥ ३०३॥ चिराल्लब्धच्छलास्ते तु, छन्नं देवकुले स्थिताः ॥ अनागतममुं हन्म, इति पञ्चाप्यचिन्तयन् ॥३०४॥1 दि अन्यान्निवार्य चतुरः, चतुरश्छद्मकर्मणि ॥ तद्विघातकनिष्ठोऽस्था-कनिष्ठो द्वारसन्निधौ ॥ ३०५॥ विस्मेरकौतुकः
१ तौ चिरं चक्रतुर्युद्धं । इति 'ग' संज्ञकपुस्तके ॥
॥ १५६॥
Page #313
--------------------------------------------------------------------------
________________
AAAA%
सोऽथ, तजायारूपमीक्षितुम् ॥ चिरसङ्गोपितं दीप-माविश्चक्रे समुद्कात् ॥ ३०६ ॥ ततो निरीक्ष्य तं जाता-नुराणा सैबमब्रवीत् ॥ सौम्य ! त्वं भव भर्ती मे, मरिष्यामि न चेदहम् ॥ ३०७॥ मुग्धे ! त्वां कामये काम. बिभेमि त्वत्पतेः परम् ॥ तेनेत्युक्ता च सा क्रूरा-शया पुनरदोवदत् ॥ ३०८ ॥ अधुनाहं हनिष्यामि, खपतिं तव पश्यतः॥ तन्मा भैषीस्तयेत्युक्तः, स दीपं निरवापयत् ॥ ३०९ ॥ अचिन्तयच्च यो मर्तु-मुद्यतोऽभूत्सहानया ॥ कान्तं तमपि दुष्टेयं, मयि रक्ता जिघांसति !॥३१॥ हरिद्रारागया तन्मे, कृतमङ्गनयानया ॥ विषवल्लीमिव क्रूरो-दो नारी हि कः श्रयेत् ? ॥३११ ॥ अस्या दुष्टस्त्रिया योगा-द्विद्यते मृत एव यः ॥ विपक्षस्यापि तस्याथ, मारणं नो न युज्यते ॥ ३१२ ॥ तत्सर्वथा वराकं तं, जीवयिष्यामि साम्प्रतम् ॥ तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः ॥ ३१३ ॥ आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना ॥ खकान्तामित्यपृच्छच्च, ततः सा कुटिलाब्रवीत् ॥ ३१४ ॥ खपाणिस्थज्वलद्वः, प्रकाश इह सङ्क्रमात् ॥ दृष्टो भावीति तन्मेने, सरलः सोऽपि सूनृतम् ॥ ३१५॥ अथ पत्त्याः प्रदायासिं, तस्मिन् धमप्ति पावकम् ॥ कोशात्कृपाणमाकृष्य, घातं यावन्मुमोच सा ॥ ३१६ ॥ तावत्कृपारसाम्भोधि-रसौ भिल्लाधिपानुजः ॥ अपहस्तेन हत्वासिं, पातयामास भूतले ॥३१७॥ तच्च स्त्रीचरितं प्रोचे, सोदराणां स दारुणम् ॥ ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाययुः ॥ ३१८ ॥कुमारेदं तव प्रोक्त-मेषां वैराग्यकारणम् ॥ तदाकातिसम्भ्रान्तः, कुमारो ध्यातवानिति ॥ ३१९॥ अहो ! चरित्रं नारीणां, दारुणेभ्योऽपि दारुणम् ।। अहो
उ०२७
Page #314
--------------------------------------------------------------------------
________________
-
उत्तराध्ययन
--
चतुर्थमध्ययनम् (४)
॥१५७॥
तन्मनसां क्रूर-भावो व्याघ्रादिजित्वरः ॥३२० ॥ ध्यातुं वक्तुं च यन्नैव, शक्यं धीधनवाग्मिभिः ॥ नार्यो रक्ता विरक्ताश्च, विचेष्टन्ते तदप्यहो ! ॥ ३२१॥ यः प्रेम्णा मन्यते वामाः, खप्राणेभ्योऽपि वल्लभाः॥ अध्यवस्यन्ति तम- पि, हन्तुं हेतुं विनापि ताः ॥३२२ ॥ अपि वारांनिधेरापो, गङ्गायाः सिकताकणाः ॥ मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुनः ॥३२३॥ ध्यायन्त्यन्यद्वदन्त्यन्य-नार्यः कुर्वन्ति चेतरत् ॥ या मायाशाकिनीग्रस्ता-स्तासु रज्येत कः सुधीः? ॥३२४॥ तन्मां धिगस्तु निर्लजं, येन तस्याः कृते मया ॥ अहारि तद्यशो हारि,कुलञ्च मलिनीकृतम् ॥३२५॥ यद्वा विवेको वैराग्यं, पाण्डित्यं संयमो दमः ॥ तावत्स्यात्प्राणिनां याव-न्न स्युस्ते रमणीवशाः ॥ ३२६ ॥ संसारे च सुखं स्त्रीभ्य-स्ताश्चैवंविधचेष्टिताः ॥ तन्मे संसारवासेन, कृतं दुःखौघदायिना !॥ ३२७ ॥ ध्यात्वेत्यादि गुरूनत्वा, जगादैवं नृपाङ्गजः ॥ खामिन्निदं चरित्रं मे, यत्पूज्यैः प्रतिपादितम् ॥ ३२८ ॥ अहं ह्येषां भ्रातृघाती, तस्या दुष्टस्त्रियाः पतिः ॥ निर्विण्णोस्मि भवादस्मा-निशम्य चरितं निजम् ! ॥३२९ ॥ सद्यः प्रसद्य तन्मह्यं, दीक्षां दत्त मुनीश्वराः !॥ ऐहिकामुष्मिकानन्त- सुखाङ्करसुधापगाम् ! ॥ ३३० ॥ ततस्तैर्दीक्षितो दीक्षा-मत्युग्रां परिपाल्य &सः॥ सुदुस्तपं तपस्तत्त्वा, क्रमानिर्वाणभागभूत् ॥ ३३१॥ यथा चायं सुधीद्रव्य-निद्रां परिहरन् पुरा ॥ दस्युना|
तद्भगिन्या च, नावश्यत कथञ्चन ! ॥३३२ ॥ प्रान्ते च भावतो जाग्र-त्परत्राप्यभवत्सुखी ॥ अन्योप्येवं द्विधा | जाग्र-दुभयत्र सुखी भवेत् ॥ ३३३ ॥ इति सुन्दरभूपनन्दनर्षे-श्वरितं चित्रकरं निशम्य सम्यक ॥ भविकैः शिवकां-
॥१५७॥
Page #315
--------------------------------------------------------------------------
________________
क्षिभिर्द्विधापि, श्रयणीयः प्रतिबुद्धजीविभावः ॥ ३३४ ॥ इति द्रव्यभावनिद्रात्यागेऽगडदत्तसाधुकथा ॥
प्रतिबुद्धजीवी सन् किं कुर्यादित्याह - 'न वीससे' इत्यादि - न विश्वस्यात्प्रमादेष्विति गम्यते, अयं भावः - बहुजनादृतत्वात् प्रमादा नानर्थकारिण इति विश्रम्भवान्न भवेत्, पण्डितो विद्वान् । आशु शीघ्रमुचितकृत्येषु प्रवर्तितव्यमिति प्रज्ञा यस्य स आशुप्रज्ञः, कुतश्चायमाशुप्रज्ञो ? यतो घोरा रौद्राः सततमपि प्राणापहारिणो मुहूर्ताः कालविशेषा दिवसाद्युपलक्षणं चैते, कदाचिच्छारीरबलात् घोरा अप्यमी न प्रभविष्यन्तीत्यत आह-अवलं वलरहितं मृत्युदायिनो मुहूर्ता - | न्निराकर्तु विसोढुं वा असमर्थ शरीरं वपुः, उक्तञ्च – “सत्थगीजलसावय - वीसूइआवाहिअहिविसाईहिं ॥ जज्जरमिणं सरीरं, उवक्कमेहिं बहुविहेहिं ॥ १ ॥ जं ऊसासायत्तं, देहं जीवस्स कयलिखंभसमं ॥ जरडाइणिआवासं, का कीरउ तत्थ दीहासा ! ॥ २ ॥ " तर्हि किं कार्यमित्याह - भारुण्डपक्षीव चराऽप्रमत्तः, यथा भारुण्डपक्षी अप्रमत्तश्चरति, तथा त्वमपि प्रमादरहितश्चर, विहितानुष्ठानमासेवख, अन्यथा तु यथा भारुण्डपक्षिणः पक्ष्यन्तरेण सह साधारणस्य मध्यवर्त्तिचरणस्य सम्भवात्खल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः, उक्तञ्च - "एकोदराः पृथग्ग्रीवा, अन्यान्यफलकांक्षिणः ॥ प्रमत्ता हि विनश्यन्ति, भारुण्डा इव पक्षिणः ॥ १ ॥” तथा तवापि प्रमाद्यतः संयमजीविताद्धंश एवेति सूत्रार्थः ॥ ६ ॥ अमुमेवार्थ स्पष्टयन्नाह -
Page #316
--------------------------------------------------------------------------
________________
उत्तराध्ययन मूलम्-चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्नमाणो॥
चतुर्थमध्य
यनम् (४) ॥१५८॥
लाभंतरे जीविअ वूहइत्ता, पच्छा परिणाय मलावधंसी ॥७॥ व्याख्या-चरेद्गच्छेन्मुनिरिति शेषः, पदानि पादनिक्षेपरूपाणि परिशङ्कमानः, मा मे संयमविराधना भूयादिति || परिभावयन् तथा 'जं किंचित्ति' यत्किञ्चिद्दश्चिन्तिताद्यपि प्रमादपदं पाशमिव पाशं बन्धहेतुतया मन्यमानो जानानः, अयं भावः- यथा भारुण्डपक्षी पदानि परिशङ्कमानश्चरति, यत्किञ्चिद्दवरकाद्यपि पाशं मन्यमानस्तथा साधुरप्यप्रमत्तश्चरेत् । ननु ? यदि परिशङ्कमानश्चरेत्तर्हि पूर्वोक्तदोपपरिहारार्थमादित एवाऽनशनं कुरुतामित्याशङ्कानिरासार्थमाहलाभान्तरे अपूर्वार्थप्राप्तिरूपे सति, अयं भावः-यावद्विशिष्टविशिष्टतरसम्यग्दर्शनज्ञानाद्यवाप्तिरितः सम्भवति ताव-16 दिदं जीवितं प्राणधारणरूपं बृहयित्वा, अकालोपक्रमरक्षणेन अन्नपानोपयोगादिभिश्च वृद्धिं नीत्वा पश्चाल्लाभविशेपप्राप्तेरुत्तरकालं परिज्ञाय सर्वप्रकारैरवबुध्य यथेदं नेदानीं प्राग्वद्गणविशेषार्जनक्षम, न चातस्तादृशी निर्जरा, न च जरया व्याधिना चाभिभूतं तत्तथाविधधर्मध्यानं प्रति समर्थमिति ज्ञपरिज्ञया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्त प्रत्याख्याय सर्वथा जीवितनिरपेक्षो भूत्वेति भावः, मलापध्वंसी कर्ममलविनाशी स्यादिति शेषः, यद्वा मलाश्रय- ॥१५८॥
त्वान्मल औदारिकं शरीरं, तदपध्वंसी स्यात्तन्निरपेक्षो भवेदिति भावः । ततो यथागर्म प्रवर्त्तमानस्य यावल्लाभं देह|| धारणमपि गुणायैवेति स्थितम् । इह च यावल्लाभं देहधारणे मण्डिकदस्युरुदाहरणम् , तत्रायं वृद्धवादः । तथाहि
XSARA ROSSI
Page #317
--------------------------------------------------------------------------
________________
ororoct
वेण्णातटपुरे तुन्न-कारो मण्डिकसंज्ञकः ॥ परखहरणासक्तो-ऽभवन्मायानिकेतनम् ॥ १॥ स च मे व्रणमस्तीति, जानुबद्धपटचरः ॥ राजमार्ग स्थितश्चक्रे, वासरे तुन्नकारताम् ॥२॥ रात्रौ तु धनिधामभ्यो, धनं हृत्वा पुरावहिः ॥ उद्यानस्थे भूमिगेहे, निचिक्षेपानुवासरम् ॥३॥ तत्र चासीत्वसा तस्य, कन्यका प्राप्तयौवना ॥ कूपश्चैकोऽभवत्तत्रो-पकण्ठन्यस्तविष्टरः ॥ ४॥ यं च प्रलोभ्यानयति, स चौरो भारवाहकम् ॥ तमुपावीविशत्कूप-| पार्श्वस्थासने तत्खसा ॥५॥ पादशौचमिषात्पादे, धृत्वान्धौ न्यक्षिपञ्च तम् ॥ इत्थं तस्यात्यगात्कालो, मुष्णतः सकलं पुरम् ॥ ६ ॥ पिशाचमिव तं धर्तु, पुरारक्षोपि नाशकत् ॥ पूर्वोक्तो मूलदेवाह्व-स्तत्र चाभून्नृपस्तदा ॥७॥ तत उद्वेजितास्तेन, राक्षसेनेव दस्युना ॥ पौराः सर्वे मूलदेव-भूपमेवं व्यजिज्ञपन् ॥ ८ ॥ खामिन् ! केनापि चौरेण, प्रत्यहं मुष्णता पुरम् ॥ व्रतं विनापि निग्रन्थो, निर्ममे निखिलो जनः !॥ ९॥ स च ग्रहीतुं केनापि, शक्यते न महीपते ! ॥ पाहि पाहि प्रजाः सर्वा-स्तस्मादस्मादुपद्रवात् ! ॥१०॥ सद्यस्तं निग्रहीष्यामी-त्युक्त्वा पौरान विसृज्य 3 च ॥ नृपश्चक्रेन्यमारक्षं, तं धर्तुं सोऽपि नाशकत् ! ॥ ११ ॥ ततो निशि खयं श्यामां-शुकं प्रावृत्य भूपतिः ॥ शङ्कास्थानेषु बभ्राम, न तु तस्करमैक्षत ! ॥ १२ ॥ श्रान्तो भूपस्ततो याव-त्सभायामखपीत्वचित् ॥ कोत्रास्तीति बर्दस्ताव-तत्रोपेयाय मण्डिकः ॥ १३ ॥ अहं कार्पटिकोऽस्मीति, समयज्ञोऽवदन्नपः ॥ एहि त्वामीश्वरं कुर्वे, मण्डिकोप्येवमब्रवीत् ॥ १४ ॥ भुजिष्य इव भूजानि-स्ततो मण्डिकमन्वगात् ॥ खकार्यसिद्धयै दक्षो हि, नीचम
or
Page #318
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १५९ ॥
प्यनुवर्त्तते । ॥ १५ ॥ ततो धनिगृहे क्वापि, कृत्वा क्षात्रं मलिम्लुचः ॥ आकृक्षत्सारवस्तूनि, भानुसूनुरसूनिव ॥ १६ ॥ तच्च सर्वे परास्कन्दी, शिरस्यारोप्य भूपतेः ॥ पुरस्कृत्य च तं कृष्ट- कृपाणो भूगृहं ययौ ॥ १७ ॥ मध्ये भूमिगृहं भूप- मानीयोत्तार्य वीवधम् ॥ क्षालयाऽस्यातिथेः पादा - विति जामिमुवाच सः ॥ १८ ॥ ततः कूपोपकण्ठस्थे, पीठे सा विनिवेश्य तम् ॥ पादशौचच्छलाद्याव-त्तस्य पादमुपाददे ॥ १९ ॥ तावत्तन्मृदुतामज - जित्वरीमनुभूय सा ॥ मदि राक्षी मृदूभूत-चित्ता चित्ते व्यचिन्तयत् ॥ २० ॥ एष सत्पुरुषो भुक्त - पूर्वराज्योऽस्ति निश्चितम् ॥ जन्मतो भार - वाहस्य, पादस्पर्शो हि नेहशः ! ॥ २१ ॥ नरोत्तमममुं तन्न, कूपे क्षेप्स्यामि सर्वथा ॥ ध्यात्वेति सा शनैरेवं, तमुवाच मनखिनी ॥ २२ ॥ कूपेऽत्र बहवः क्षिप्ताः पादशौचमिषान्मया ॥ त्वां तु क्षेप्स्यामि नैवात्र, त्वन्महिम्ना वशीकृता ! ॥ २३ ॥ ततो द्रुतमितः स्वामिन् !, याहि कृत्वा कृपां मयि ॥ अन्यथा त्वधुना भावि, मरणं ध्रुवमावयोः ! ॥ २४ ॥ तन्निशम्य बलस्यायं, समयो नेति चिन्तयन् ॥ आनीतवित्तविन्यास - व्यग्रे चौरे ननाश सः ॥ २५ ॥ गते च राज्ञि नष्टोय - मित्यूचे सा तु सोदरम् ॥ कङ्कलोहासिमादाया - ऽनुभूपं सोप्यधावत ॥ २६ ॥ तं सन्निकृष्टमाकृष्टकृपाणं प्रेक्ष्य पार्थिवः ॥ निलीयास्था चत्वरस्थ - पाषाणस्तम्भसन्निधौ ॥ २७ ॥ कोपान्धो मण्डिकस्तु द्राकू, स एवायं | पुमानिति ॥ कंकासिना दृपत्स्तम्भं, छित्त्वा तं स्वगृहे ययौ ॥ २८ ॥ पाटचरो जानुबद्धा- वलेपार्द्रपटचरः ॥ प्रातश्च तुन्नकारत्वं गत्वा राजपथे व्यधात् ॥ २९ ॥ भूपोपि खगृहे गत्वा ऽतिवाह्य रजनीं च ताम् ॥ तं द्रष्टुं निरगा
चतुर्थमध्ययनम् (४)
॥ १५९ ॥
Page #319
--------------------------------------------------------------------------
________________
द्राज-पाटिकाकपटाद्वहिः॥३०॥ तं च प्रेक्ष्यापणद्वारे, तीक्ष्णप्रेक्षापणो नृपः ॥ रात्रिदृष्टानुमानेन, प्रत्यभिज्ञात-| वान् द्रुतम् ॥ ३१॥ दध्यौ च निशि वाजीव, यो जवेन ब्रजन्नभूत् ॥ स एवायं दिने खञ्ज, इव व्याजेन चेष्टते ! ॥३२॥ सवेश्मनि ततो गत्वा-ऽभिज्ञानाख्यानपूर्वकम् ॥ तमाकारयितुं मापः, प्राहिणोनिजसेवकान् ॥ ३३॥ तैराहूतः स चौरोपि, मनस्येवममन्यत ॥न हतः स नरो नून-मुत्तालेन मया निशि!॥ ३४ ॥ सम्भाव्यते नराधीशः, स एव च पुमान् सुधीः ॥ मां हि प्रत्यभिजानीया-जानिः कथमन्यथा ? ॥ ३५॥ इति ध्यायन् ययौ राज्ञः, समीपे स मलिम्लुचः॥ तञ्चोपाविविशद्भपो, महाबुद्धिमहासने ॥३६॥ आलापयन् सुधाकल्पै-स्तञ्चालापैः सगौरवम् ॥ इत्यूचे पार्थिवो मां, दीयतां भगिनी निजा ॥३७॥ दृष्ट्वा मे भगिनीं नान्यो, निरगान्महादहिः ॥ तत्स एवायमित्यन्त-निश्चिकाय स तस्करः ॥ ३८॥ खसा मे गृह्यतां खामि-नित्यूचे च धराधवम् ॥ नृपोपि चाररूपाढ्या-मुपयेमे तदैव ताम् ॥ ३९॥ मण्डिकं च महामात्यं, चक्रे नीतिविदां वरः ॥ द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ॥ ४० ॥ ततोऽतिप्रचुरे वित्ते, दत्ते तेन महीपतिः ॥ तं बहुमानयद्भूयो-ऽप्यन्यदानाययद्धनम् || ॥४१॥ एवं पुनः पुनः कुवे-स्तद्वित्तं सकलं नृपः ॥ आनाययद्विदग्धा हि, कार्य बुद्ध्यैव कुर्वते ! ॥४२॥ कियन्मात्रमथ द्रव्य-मस्ति त्वत्सोदरान्तिके ॥ इत्यन्यदा तत्वसार- मप्राक्षीच क्षमाप्रभुः ॥४३॥ धनमेतावदेवाभूद-स्वेत्युक्ते तया च राट्र ॥ लेख्यकस्यानुसारेण,तत्पौराणामदापयत् ॥४४॥ मण्डिकञ्च प्रचण्डाज्ञो, विडम्ब्य निविडं
Page #320
--------------------------------------------------------------------------
________________
उत्तराध्ययन नृपः ॥ शूलामारोपयत्पाप-कारिणां हि कुतः सुखम् ? ॥ ४५ ॥ यथा चायं मूलदेव-नृदेवेन मलिम्लुचः ॥ अकार्यकार्यपि द्रव्य - लाभं यावदधार्यत ! ॥ ४६ ॥ एवं मुनीन्द्रैरपि भूरिदोष - निदानमप्यङ्गमुदारसत्वैः ॥ आनिर्जराला - भमपेक्षणीय-मुपेक्षणीयं च ततोऽन्यथात्वे ॥ ४७ ॥ इति यावल्लाभं देहधारणे मण्डिकदृष्टान्त इति सूत्रार्थः ॥ ७ ॥ सम्प्रति यदुक्तं जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं स्वातंत्र्येणैव ? उतान्यथेत्याह -
॥ १६० ॥
मूलम् — छंद निरोहेण उवेइ मुक्खं, आसे जहा सिक्खिवम्मधारी ॥ yars वासाईं चरप्पमत्तो, तम्हा मुणी खिप्प मुवेइ मुक्खं ॥ ८७ ॥
व्याख्या - छन्दोनिरोधेन स्वच्छन्दतानिषेधेन उपैति मोक्षं मुक्तिं, अयं भावः- गुरुपारतंत्र्येण खाग्रहविरहेण च तत्र तत्र प्रवर्तमानोपि संक्लेशविकलतया न कर्मबन्धभाक् किन्त्वविकलचरणतया निर्जरामेवाप्नोति, गुरुपारतंत्र्येणाप्रवर्तमानश्चाग्रहग्रहग्रस्ततया अनन्तसंसारित्वाद्यनर्थभागेव भवति, यदुक्तं - "छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं ॥ अकरितो गुरुवयणं, अणंतसंसारिओ होई ॥१॥" तत्सर्वथा गुरुपरतंत्रेणैव मुनिना भाव्यं उक्तञ्च - " नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ ॥ घण्णा आवकहा ए, गुरुकुलवासं न मुंचति ॥ १ ॥ " अत्र दृष्टान्तमाह- 'आसे' इत्यादि - अश्वस्तुरगो, यथा शिक्षितो वल्गनोत्प्लवनधावनादिशिक्षां ग्राहितो, वर्मधारी सन्नाहधरस्ततो विशेषणकर्मधारयः, अनेन शिक्षकपरतंत्रतया स्वातंत्र्यापोहमाह, ततोयमर्थः - यथाश्वः स्वातंत्र्यं विहाय प्रवर्त
चतुर्थमध्ययनम् (४)
॥ १६० ॥
Page #321
--------------------------------------------------------------------------
________________
मानो रणाङ्गणे नो वैरिभिरुपहन्यते इति तन्मोक्षं प्राप्नोति, स्वतंत्रस्तु पूर्वमशिक्षितो रणस्थानं प्राप्तस्तैरुपहन्यते, अत्र चार्य सम्प्रदायः --
तथा केन भूपेन, द्वयोः क्षत्रियपुत्रयोः ॥ दत्तावश्वकिशोरौ द्वौ, शिक्षायै पोषणाय च ॥ १ ॥ तत्रैकः कालयोग्यैस्त-माहारैः पोषयन् शुभैः ॥ अशिक्षयद्वाजिकला, वल्गनोत्प्लवनादिकाः ॥ २ ॥ अन्यस्त्वस्मै शुभं वस्तु, को | ददातीति चिन्तयन् ॥ तुषादिकं ददौ तं च, घरट्टेऽवाहयत्सदा ॥ ३ ॥ राज्ञा दत्तं च तद्योग्यं, बुभुजे स्वयमेव सः ॥ न च वाजिकलां तस्मै, शिक्षयामास काञ्चन ! ॥ ४ ॥ अन्यदोपस्थिते युद्धे, राज्ञेोक्ताविति तौ नरौ ॥ आगच्छतं युवां तूर्ण - मारुह्याचं निजं निजम् ॥ ५ ॥ ततस्तौ तुरगारूढौ, प्राप्तौ भूभर्तुरन्तिकम् ॥ तदाज्ञया प्राविशतां, मध्येयुद्धमुदायुधौ ॥ ६ ॥ तयोरेकः सादिचित्तानुवृत्त्या सञ्चरन् हयः ॥ सद्यो जगाम सङ्ग्राम- पारं शिक्षागुणान्वितः ॥ ७ ॥ अन्यस्तु दुष्ट शिक्षावान्, शुभशिक्षाविनाकृतः ॥ तत्रापि भ्रमिमारेभे, घरट्टकनियुक्तवत् ॥ ८ ॥ यंत्रभ्रमेण भ्राम्यन्तं तं च प्रेक्ष्य तुरङ्गमम् । अशिक्षितोयमित्यन्त- विंदांञ्चकुः परे भटाः ॥ ९ ॥ ततस्तत्सादिनं हत्वा जगृहुस्तमरातयः ॥ विज्ञेया भावना चैवं, दृष्टान्तस्यास्य धीधनैः ॥ १० ॥ आद्यो यथाश्रो निजसादिपार -तंत्र्यात्समित्पारमवाप सद्यः ॥ धर्मार्थिनोप्येवमवाप्नुवन्ति, संसारपारं गुरुपारतंत्र्यात् ॥ ११ ॥ इति वाजिद्वयकथा ॥ अत एव च 'पुवाइंति' पूर्वाणि पूर्वोक्तप्रमाणानि वर्षाणि च चर, सततमागमोक्तक्रियां सेवख, अप्रमत्तः प्रमादपरिहर्त्ता,
Page #322
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १६१ ॥
'तम्हत्ति' तस्मात्स्वातंत्र्यविमुक्तादप्रमादाचरणादेव मुनिः क्षिप्रमुपैति मोक्षं, अत्र पूर्वाणि वर्षाणि इति च एतावदा| युषामेव चारित्रपरिणामः स्यादिति दर्शनार्थमुक्तमिति सूत्रार्थः ॥ ८ ॥ ननु ? यदि छन्दोनिरोधेन मुक्तिस्तर्ह्यन्तकाले एवायं क्रियतामित्याशङ्कानिरासार्थमाह
मूलम् - स पुवमेवं न लभेज पच्छा, एसोवमा सासयवाइआणं ॥
विसीअई सिढि आउअम्मि, कालोवणीए सरिरस्स भए ॥ ९ ॥
व्याख्या - स इति यत्तदोर्नित्याभिसम्बन्धात् यः पूर्वमप्रमत्तो न स्यात् सोऽप्रमादात्मकं छन्दोनिरोधं 'पुवमेवंति' एवं शब्दस्य उपमार्थत्वात् पूर्वमिव अन्त्यकालात् प्रागिव न लभेत न प्राप्नुयात् पश्चादन्त्यकालेपि, किञ्च 'एसोवमत्ति' एषोपमा इयं सम्प्रधारणा यद्वयं पश्चाद्धर्म करिष्याम इति शाश्वतवादिनां निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यमानानां युज्येतापि न तु जलबुद्बुदसमानायुषामन्येषां तथा चायमुत्तरकालेपि छन्दोनिरोधमनानुवन् विषीदति, कथमहमकृतधर्मकर्मा परत्र नरकादिवेदना अनुभविष्यामीति वैक्लव्यमनुभवति, शिथिले आत्मप्रदेशान्मुञ्चत्यायुषि कालेन मृत्युना उपनीते ढौकिते शरीरस्य भेदे सर्वशादात् पृथग्भावे तस्मादादित एव प्रमादः परिहर्तव्य इति सूत्रार्थः ॥ ९ ॥ कथं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते ? इत्याह
चतुर्थमध्ययनम् (४)
॥ १६१ ॥
Page #323
--------------------------------------------------------------------------
________________
मूलम्-खिप्पं न सकेइ विवेगमेउं, तम्हा समुठ्ठाय पहाय कामे ॥
समेच्च लोगं समया महेसी, अप्पाणुरख्खी चरमप्पमत्तो ॥१०॥ व्याख्या-क्षिप्रं तत्क्षण एव न शक्नोति विवेकं द्रव्यतो बहिःसङ्गत्यागरूपं, भावतः कषायापोहात्मकं, एतुं गन्तुं ६ कर्तमित्यर्थः । कृतपरिकर्मा हि द्रुतं तत्परित्यागं कर्तुमलं, न तु तदन्यः, अत्रोदाहरणं, ब्राह्मणी__तथा खेको द्विजोऽन्यत्र, गत्वा देशे महामतिः ॥ साङ्गान् वेदानधीत्यागा-कृतकृत्यो निजं गृहम् ॥१॥ चैकेन विप्रेण, सुरूपा खसुता ददे ॥ लोकाश्च दक्षिणाभिस्तं, वेदज्ञं धनिनं व्यधुः ॥२॥ ततः स स्त्रीकृते भू नलंकारानकारयत् ॥ सापि तान् परिधायास्था-द्भूषितैव दिवानिशम् ॥ ३॥ तां चेत्युवाच तत्कान्तः, कान्ते ! पर्वोत्सवादिषु ॥ परिधेयाः परिष्कारा, न तु प्रतिदिनं त्वया ॥४॥ तस्करोपद्रवः प्रान्त-ग्रामे ह्यत्र भवेभृशम् ॥ न चोत्तारयितुं शक्या, द्रुतमेते तदागमे ॥५॥ साथ स्माह यदा खामि-नायास्यन्तीह दस्यवः ॥ एतानुत्तारयिप्यामि, तदाहमविलम्बितम् ॥६॥ इत्युक्त्वा सा तथैवास्था-न तु तानुदतारयत् ॥ सुशिक्षामपि मन्यन्ते, दक्षंमन्या न जन्तवः ॥७॥ चौराः केचिच तां नित्यं, मण्डितां दृष्टपूर्विणः ॥ तस्या एव गृहेऽन्येधु-विविशुर्जगृहुश्च ताम् ॥ ८॥ नित्यं स्निग्धाशनात्पीन-पाणिपादा तदा च सा ॥ कटकाद्यपनेतुं द्राक् , नानभ्यासादभूत् प्रभुः ॥९॥ ततस्तस्याः करौ छित्त्वा, लात्वा च कटकादिकम् ॥ पाटचरा ययुस्तूर्ण, पापानां हि कुतो दया ?॥१०॥ यथा
Page #324
--------------------------------------------------------------------------
________________
उत्तराध्ययन च सा प्राक् परिकर्महीना, तदापनेतुं न शशाक भूषाः ॥ कर्तुं विवेकं न तथा परोपि, क्षिप्रं प्रभुः स्यात्परिकर्महीनः चतुर्थमध्य
दि॥११॥इति द्विजवधूकथा॥ न च मरुदेव्युदाहरणमत्र वाच्यमाश्चर्यरूपत्वात्तस्य, यत एवं तस्मात्समुत्थाय पश्चा- यनम् (४) ॥१६२॥
द्धर्म करिष्यामीत्यालस्यत्यागेनोद्यमं कृत्वा प्रहाय परित्यज्य कामान् इच्छामदनात्मकान् समेत्य ज्ञात्वा लोकं प्राणिसमूह 'समयत्ति' समतया समशत्रुमित्रतया महर्षिः सन् यद्वा मह एकान्तोत्सवरूपो मोक्षस्तमिच्छतीत्येवं शीलो|
महेपी सन् , आत्मानुरक्षी कुगतिगमनादिभ्योऽपायेभ्य आत्मनो रक्षकः चराप्रमत्तः प्रमादरहितः, इह च प्रमादपहै रिहारापरिहारयो रैहिकमुदाहरणं वणिग् महिला, तत्र चायं सम्प्रदायः, तथा हि
नैगमः खगृहे कोपि, नानाशिल्पविधायिनः॥ मुक्त्वा कर्मकरान् वाणि-ज्या) देशान्तरे ययौ ॥ १॥ तांश्च कर्म-18 करांस्तस्य, महिला स्वखकर्मसु ॥ न प्रायुत शुभैर्वाक्यैः, खाङ्गसंस्कारतत्परा ॥ २॥ न च तेषामदात्कालो-पपन्नं |भोजनादिकम् ॥ सीदन्तो ययुरन्यत्र, सर्वे कर्मकरास्ततः ॥ ३ ॥ ततस्तत्तत्कृत्यहान्या, व्यनेशत्प्रचुरं धनम् ॥ तच ||
खरूपमायातो-ऽज्ञासीत्सर्व गृहप्रभुः॥४॥ अलक्ष्मीवत्ततो गेहा-प्रमदां तां प्रमद्वराम् ॥ निष्काश्यान्यां निःख-I PIकन्या, सोऽवृणोद्बहुभिर्धनैः॥ ॥५॥ तद्वन्धूंश्चैवमूचे चे-दात्मानं रक्षयत्यसौ ॥ तदा परिणयाम्येना-मन्यथा तु|8||॥ १६२॥ Sन सर्वथा ॥६॥ तदाकर्ण्य कनी ज्ञात-परमार्था महामतिः ॥ रक्षिष्याम्यहमात्मान-मित्यूचे खजनान्निजान् ॥७॥
ततस्तां परिणीयागा-त्पुनर्देशान्तरे वणिक् ॥ नागभूषादिकं चक्रे, प्रमादं तद्वशा तु सा ॥ ८ ॥ आलापयन्ती
Page #325
--------------------------------------------------------------------------
________________
मधुरै-रालापः श्रवणामृतः ॥ दासकर्मकरादींश्च, प्रायुक्त खखकर्मणि ॥९॥ प्रातराशादिकं तेषां, भोजनं समये
ददौ ॥ अकालपरिहीणं त-द्वेतनं च यथोदितम् ॥१०॥ एवमावर्जिताः सर्वे, तया कर्मकरादयः ॥ सोद्यमं स्वख3 कर्माणि, चक्रिरे प्रतिवासरम् ॥ ११॥ इत्थं प्रमादादात्मानं, रक्षन्ती सा मनखिनी ॥ नैव व्यनाशयत्किञ्चि-दपि 8 कृत्यं धनं तथा ॥ १२ ॥ गृहेशोथ गृहे प्राप्त-स्तामुदीक्ष्याप्रमादिनीम् ॥ सर्वखखामिनी चक्रे, मुदितस्तद्गुणैभृशम् ॥१३॥ इत्यप्रमादो महते गुणाय, भवेदिहैवापगुणाय चान्यः ॥ तस्मात्परत्रापि भवेद्गुणाया-ऽप्रमाद एवेति |चराप्रमत्तः ॥ १४ ॥ इति वणिकपत्नीकथेति सूत्रार्थः ॥ १०॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्त्यागमाह
मूलम्-मुहुँ मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं ।।
फासा फुसंती असमंजसं च, न तेसु भिक्खु मणसा पउस्से ॥११॥ व्याख्या-मुहुर्मुहुर्वारं वारं मोहोपकारिणो गुणा मोहगुणाः शब्दादयस्तान् जयन्तमभिभवन्तं, अनेकानि कार्क-13 श्यकुरूपत्वादीनि रूपाणि येषां ते अनेकरूपाः श्रमणं मुनिं चरन्तं संयमाध्वनि गच्छन्तं, स्पृशन्ति स्वानि खानि इंद्रियाणि गृह्यमाणतया इति स्पर्शाः, शब्दादयस्ते स्पृशन्ति, गृह्यमाणतयैव सम्बन्धन्ति, 'असमंजसं चत्ति' चशब्द-17 स्वावधारणार्थत्वादसमञ्जसमेव अननुकूलमेव यथास्यात्तथा न तेषु भिक्षुः, 'मणसत्ति' अपेर्गम्यत्वान्मनसापि, आस्तां वाचा कायेन च, प्रद्विष्यात्, अयं भावः-अमनोज्ञशब्दादिषु कथञ्चिदिन्द्रियविषयत्वमापन्नेषु अहो एषामनिष्टत्वमिति न चिन्तयेत् न वा तान् परिहरेदिति सूत्रार्थः ॥ ११॥ तथा
उ०२८
Page #326
--------------------------------------------------------------------------
________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
॥१६॥
मूलम्-मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुजा ।
___ रक्खिज कोहं विणइज माणं, मायं न सेवे पयहिज लोहं ॥ १२ ॥ व्याख्या-मन्दयन्ति विवेकिनभपि जनमज्ञतां नयन्तीति मन्दाः, च समुच्चये, स्पर्शाः शब्दाद्याः, बहून् लोभयन्ति मोहयन्तीति बहुलोभनीयाः, अनेन तेषामाक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति' अपेर्गम्यमानत्वात्तथाप्रकारेष्वपि बहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु मनश्चित्तं न कुर्यान्न निवेशयेत् , एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स च कथं स्यादित्याह-रक्षेन्निवारयेत्क्रोधं, विनयेदपनयेन्मानमहङ्कारं, मायां परवञ्चनबुद्धिरूपां न सेवेत न कुर्यात् , 'पयहिजत्ति' प्रजह्याल्लोभमभिष्वङ्गरूपं, तथा च क्रोधमानयोषात्मकत्वान्मायालोभयोश्च रागरूपत्वात्क्रोधादिनिग्रह एव रागद्वेषपरिहार इति सूत्रार्थः ॥ १२ ॥ अथ यदुक्तं 'तम्हा समुट्ठाय पहाय कामे इत्यादि-तत्कदाचिचरकादिष्वपि स्यादिति शङ्कापोहार्थमाह
मूलम्-जे संखया तुच्छपरप्पवाई, ते पिजदोसाणुगया परज्झा। एए अहम्मुत्ति दुगंच्छमाणो, कंखे गुणे जाव सरीरभेओत्ति बेमि॥१३॥
॥ इइ चउत्थमज्झयणं सम्मत्तं ॥
॥१६३॥
Page #327
--------------------------------------------------------------------------
________________
RANSARS5E
व्याख्या-ये इत्यनिर्दिष्टखरूपाः संस्कृताः कृत्रिमशुद्धिमन्तो न तु तत्ववेदिनः, अत एव तुच्छा यदृच्छा-1 भिधायितया निःसाराः, परप्रवादिनः परतीर्थिकास्ते प्रेमद्वेषानुगता ज्ञेया इति शेषस्तथाहि-सर्वथा सूनृते जिनवाक्येपि या कदाग्रहादप्रतीतिः सा न रागद्वेषाभ्यां विनेति भावनीयं, अत एव 'परज्झत्ति' देश्यत्वात् परवशा रागद्वेषग्रहग्रस्ततया तद्वशाः, यदि ते ईदृशास्तर्हि किं कार्यमित्याह-एते अधर्महेतुत्वादधर्मा इत्यमुनोल्लेखेन जुगुप्समाना उन्मार्गगामिनोऽमी इति तत्खरूपमवधारयन् न तु निन्दन , निन्दायाः सर्वत्र निषेधात् , एवं विधश्च किं कुर्यादित्याह-कांक्षेदभिलषेद्गुणान् ज्ञानदर्शनचारित्रादीन् जिनागमोक्तान्, कियत्कालमित्याह-यावच्छरीरभेदो देहात् पृथग्भावो मरणमिति यावत् , अनेन च जैनेष्वेव समुत्थानं कामप्रहाणं च तात्विकमन्यत्र तु न तादृशमिति सूचितमिति सूत्रार्थः ॥ १३॥ इति ब्रवीमीति प्राग्वत् ॥
HOOAAOORDAROORanamRACRORM
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपा21 ध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्थाध्ययनं सम्पूर्णम् ॥४॥ Boarकाहन्नन्छन्डन्न्क
ळलालबाहळा
Page #328
--------------------------------------------------------------------------
________________
TRE
AGO
R
RUDROIDARMEG
SA
EG
ODCY
"सूरिं श्रीविजयानन्द, विजयानन्दकारकम् । “आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥"
॥ इति चतुर्थाध्ययनं सम्पूर्णम् ॥
"वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नियं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥"
जबजबजब
Vala
AUGUANAVARAVEL
Page #329
--------------------------------------------------------------------------
________________
॥ अथ पञ्चमाध्ययनम् ॥
उक्तं चतुर्थाध्ययनमथाकाममरणीयाख्यं पञ्चममारभ्यते । अस्य चायमभिसम्बन्ध इहानन्तराध्ययने कांक्षेद्गुणान् यावच्छरीरभेद इति वदता मरणं यावदप्रमादो विधेय इत्युक्तं, मरणं च कति भेदं ? किं हेयं ? किञ्चोपादेयमित्यनेन सम्बन्धेनायातमिदं, ततोस प्रारम्भे मरणविभागो नियुक्तिकृता प्रोक्तः संक्षेपात्तावदुच्यते । तथाहि-"आवीइ १ ओहि २ अंतिम ३ वलायमरणं ४ वसहमरणं च ५॥ अंतोसलं ६ तब्भव ७ बालं ८ तहपंडिअं९ मीसं १० ॥१॥ छउमत्थमरण ११ केवलि १२ वेहायस १३ गिद्धपिट्टमरणं च १४ ॥ मरणं भत्तपरिण्णा १५ इंगिणि १६ पाओवगमणं च १७॥२॥” इति सप्तदशविधमरणम् , तत्र वीचिर्विच्छेदः अंतरमित्यर्थस्तदभावादवीचि, नारकतिर्यगूनरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायुःकर्मदलिकानामनुसमयमनुभवनाद्विचटनं तत्प्रधानं मरणमवीचिमरणं १। अवधिर्मर्यादा, ततश्च यानि नारकादिभवनिबन्धनतया आयुःकर्मदलिकान्यनुभूय म्रियते, मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणं, परिणामवैचित्र्यात् । एवं क्षेत्रादिष्वपि भावनीयं २। अन्तेभवमन्तिकं, अयं भावः-यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति तव्यतोऽन्तिकमरणं, एवं क्षेत्रादिष्वपि वाच्यं३ । “वला
Page #330
--------------------------------------------------------------------------
________________
उत्तराध्ययन
पञ्चममध्ययनम् (५)
॥१६५॥
यमरणंति" वलतां संयमान्निवर्तमानानां, दुश्चरं तपश्चरणं कर्तुं व्रतं मोक्तुञ्चाशकवतां कथञ्चिदस्माकमस्मान्मुक्तिरस्तु इति ध्यायतां यन्मरणं तद्वलन्मरणं, एतच भग्नव्रतपरिणामानां मुनीनामेव स्यात् ४ । वशेन इंद्रियविषयविषयेण परवशत्वेन आर्ता दीपशिखावलोकनाकुलपतङ्गवदाकुलिता वशास्तेिषां मरणं वशार्त्तमरणं ५। अन्तः शल्यं लज्जादिवशादनालोचितदुराचाररूपं येषां ते अन्तःशल्यास्तेषां मरणमन्तःशल्यमरणं, इदश्चातीव दुष्टं यदाहु:-“एवं ससल्लमरणं, मरिऊण महाभए दुरंतंमि ॥ सुचिरं भमंति जीवा, दीहे संसारकंतारे ॥६॥"तब्भवत्ति" यस्मिन् भवे. साम्प्रतं प्राणी वर्त्तते तद्भवयोग्यमेवायुर्बद्धवा पुनस्तत्क्षयेण यदा म्रियते तदा तद्भवमरणं, इदश्च संख्यातवर्षायुषां नृतिरश्चामेव, न त्वसंख्यातवर्षायुपां नृतिरश्चां देवनारकाणां च, तेषां पुनरनन्तरं तद्भवाभावात् ७ । बालानां मिथ्यादृशामविरतसम्यग्दृशां वा मरणं बालमरणम् ८ । पण्डितानां सर्वविरतिमभ्युपगतानां मरणं पण्डितमरणम् ९॥ मिश्राणां बालपण्डितानां देशविरतानां मरणं मिश्रमरणम् १० । छद्मस्थानां मतिश्रुतावधिमनःपर्यायज्ञानवतां वतिनां मरणं छद्मस्थमरणम् ११ । केवलिनां उत्पन्नकेवलानां मरणं केवलिमरणम् १२ । विहायसि आकाशे भवं वैहायसं, अयं भावः-ऊर्द्ध वृक्षशाखादावुद्वन्धनेन भृगुपातकूपपातशस्त्रादिभिर्वा मरणं वैहायसमरणं १३ । गृङ्ग्ररुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं स्पर्शनं यत्र तद्भ्रस्पृष्ट, इदश्च मृतगजादिशवान्तः प्रविश्य गृध्राद्यैरात्मानं भक्षयतः स्यात् १४ । भक्तं भोजनं तस्य, उपलक्षणत्वात् पानादेश्च । परिज्ञा, इदं मया भूरिशो भुक्तमेतद्धेतुकञ्चायद्यमिति,
॥१६५॥
Page #331
--------------------------------------------------------------------------
________________
ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यागो भक्तपरिज्ञा तया मरणं भक्तपरिज्ञामरणम् १५ । इंग्यते प्रतिनियतदेश एव चेष्ट्यते यत्र तदिङ्गिनीमरणं, इदश्च चतुर्विधाहारप्रत्याख्यानवतो नियमितप्रदेशे खयमेवोद्वर्तनादि कुर्वतो मुनेः स्यात् १६ । पादपो वृक्षः, उपशब्दः सादृश्य, ततः पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपोपगमनं, अयं भावः-यथा पादपः पतितः समं विषममित्यचिन्तयन्निश्चलमास्ते परप्रयोगात्तु कम्पते, तथायमपि भगवान् यदङ्गं प्रथमतो यत्र समे विषमे वा पतितं तत्तत्रैव स्थापयति न तु खतश्चलयतीति १७ । इदश्चान्त्यमरणत्रयं यद्यपि वैमानिकत्वमुक्तिलक्षणसमानफलदं, यदुक्तं-"एवं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ य देवो, हविज अहवा वि सिज्झेजा ॥१॥" तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेवोत्तरोत्तरं सम्भवतीति विशेषात् प्रथमं कनीयः, द्वितीयं मध्यं, तृतीयं ज्येष्ठमिति ध्येयं । एषु च साध्वीनामाद्यमेव । यदाहुः"सबावि अ अज्जाओ, सवेवि अ पढमसंघयणवजा । सत्वे वि देसविरया, पचखाणेण उ मरंति ॥" अत्र हि प्रत्याख्यानशब्देन भक्तपरिज्ञैव ज्ञेया। इङ्गिनीमरणं.तु विशिष्टतरधृतिसंहननवतामेव स्यादित्यार्यिकानिषेधादेवावसीयते, पादपोपगमनं तु विशिष्टतमधृतिमतां वज्रर्षभनाराचसंहननवतामेव स्यादुक्तञ्च-“पढमंमि अ संघयणे, वटुंतो सेलकुडसामाणो । तेसिपि अ वुच्छेओ, चउदसपुवाण बुच्छेए ॥१॥” इत्युक्तः संक्षेपान्मरणविभागो विस्तरतस्तु बृहट्टीकातो ज्ञेयः। एपाञ्च मध्ये "धीरेण वि मरिअवं, काउरिसेण वि अवस्स मरिअवं । तम्हा अद
Page #332
--------------------------------------------------------------------------
________________
उत्तराध्ययन
स्समरणे, वरं खु धीरत्तणे मरणं ॥ १॥ संसाररंगमझे, धीवलसन्नद्धबद्धकच्छो उ । हतूण मोहमल्लं, हरामि पञ्चममध्य
आराहणपडागं ॥२॥” इत्यादि ध्यात्वा धीरैः पण्डितमरणमुपादेयमन्यत्तु हेयमित्यलं प्रसङ्गेन। साम्प्रतं सूत्रमनुगम्यते।। |यनम् (५) ॥१६६॥
मूलम्-अण्णवंसि महोहंसी, एगे तिण्णे दुरुत्तरे । तत्थ एगे महापण्णे, इमं पण्हमुदाहरे ॥१॥ GI व्याख्या-अर्णव इवार्णवोऽदृष्टपरपारतया भव एव तस्मिन् , महानोघः प्रवाहो भवपरम्परात्मको यत्र स
महौषः तस्मिन् , एको रागद्वेषादिसहभावरहितः, तीर्ण इव तीर्णः तीरप्राप्त इत्यर्थः । दुरुत्तरे दुःखेनोत्तरितुं शक्ये भवार्णवे एव, तत्र सदेवमनुजासुरायां पर्षदि, एकस्तीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतितया अद्वितीयः, स हि एकदा एक एव भवतीत्येवमुक्तं, महती निरावरणतया अपरिमाणा प्रज्ञा केवलज्ञानलक्षणा यस्य स तथा, इममनन्तरवक्ष्यमाणं प्रष्टव्यार्थरूपमुदाहरेदुदाहृतवानिति सूत्रार्थः ॥ १॥ तथा हिमूलम्-सन्तिमे अ दुवेठाणा, अक्खाया मारणंतिआ।अकाममरणं चेव, सकाममरणं तहा ॥२॥ | व्याख्या-“संतित्ति” वचनव्यत्ययात् स्तो विद्यते, इमे प्रत्यक्षे, चः पूरणे, द्वे द्विसंख्ये, तिष्ठन्त्यनयोजन्तव इति |
॥१६६॥ स्थाने, आख्याते, प्राक्तनतीर्थकरैरपिकथिते । मरणमेवान्तो निजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके, ते एव नामतः प्रकाशयति, अकाममरणं वक्ष्यमाणलक्षणं, चः समुचये, एवेति पूत्तौ, सकाममरणं तथा वक्ष्यमाणमेवेति सूत्रार्थः ॥२॥ केषां पुनरिमे ? कियद्वारं ? चेत्याह
Page #333
--------------------------------------------------------------------------
________________
मलम्--बालाणं अकामं तु, मरणं असई भवे। पंडिआणं सकामं तु, उक्कोसेणं सहं भवे ॥३॥
व्याख्या-बाला इव बालाः सदसद्विवेकविकलास्तेषां अकामं, 'तुत्ति' तुशब्दस्य एवकारार्थत्वादकाममेव मरणमसकृद्वारंवारं भवेत्ते हि विषयाभिष्वङ्गान्मरणमनिच्छन्त एव नियन्ते, तत एव च भवाटवीमन्तो भूयो भूयस्तदेव मरणमासादयन्ति, पण्डितानां चारित्रवतां सह कामेनाभिलाषेण वर्तते इति सकामं सकाममिव सकामं, सकामत्वञ्च मरणागमे त्रासाभावात् , तदभावश्च तादृशां मरणस्योत्सवभूतत्वात् । यदाहु:-"सञ्चिततपोधनानां, नियं व्रतनियमसंयमरतानाम् ॥ उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ॥ १॥" न तु परमार्थतस्तेषां मरणं प्रति सकामत्वं, मरणाभिलापस्य निषिद्धत्वादुक्तं हि-"मा मा हु विचिंतेजा, जीवामि चिरं मरामि अलहुंति । जइ इच्छसि तरिउं जे, संसारमहोअहिमपारं ॥१॥" तु शब्दः पूर्वापेक्षया विशेषद्योतकः, तच मरणं "उकोसेणंति" उत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घ स्पृहयेयुरपि, मुक्तिप्राप्तिरितः स्यादिति । केवलिनस्तु कृतकृत्यतया तदपि नेच्छन्ति आस्तां भवजीवितमिति तन्मरणस्यैवोत्कर्षेण सकामता । “सइंति" सकृदेकवारमेव भवेत् , जघन्येन तु शेषचारित्रिणां सप्ताष्ट वा वारान् स्यादित्याकूतमिति सूत्रार्थः ॥ ३॥ अथानयोर्द्वयोः स्थानयोराचं स्थानमाहमूलम्-तथिमं पढमं ठाणं, महावीरेण देसि । कामगिद्धे जहा बाले, भिसं कूराइं कुबई ॥ ४ ॥
Page #334
--------------------------------------------------------------------------
________________
56
उत्तराध्ययन व्याख्या-तत्रेति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये इदं वक्ष्यमाणं प्रथम स्थानं महावीरेण चरम-13 पञ्चममध्य
ता, तत्रैको महाप्रज्ञ इति सामान्योक्तेरभिव्यक्तिनिमित्तमिदं "देसिअं" प्ररूपितं। किंतदित्याह-कामेषु इच्छा॥१६७॥
यनम् (५) मदनात्मकेषु गृद्धोऽभिकांक्षावान् कामगृद्धः, यथेत्युपदर्शनार्थ, बाल उक्तरूपो भृशमत्यर्थ ऋराणि रौद्राणि प्राणि-1 व्यपरोपणादीनि कर्माणीति शेषः, “कुवइत्ति" करोति शक्तौ सत्यां, अशक्तौ तु तन्दुलमत्स्यवन्मनसापि करोति।। तानि च कृत्वा प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ॥ ४ ॥ इदमेव स्पष्टयति
मूलम्-जे गिद्धे कामभोएसु, एगे कूडाय गच्छइ । न मे दिट्टे परे लोए, चक्खुदिट्टा इमा रई ॥५॥ II व्याख्या–य इत्यनिर्दिष्टनामा गृद्धो लम्पटः, कामौ च शब्दरूपाख्यौ, भोगाश्च स्पर्शरसगन्धाह्वाः, कामभोगास्तेषु ।
एकः कश्चिदतिक्रूरकर्मा कूटाय गच्छति । तत्र कूटं द्रव्यतो मृगादिबन्धनं, भावतो मिथ्याभाषणादि, तस्मै प्रवर्तते | इत्यर्थः । स हि मांसादिलुब्धतया मृगादिबन्धनान्यारभते, मिथ्याभाषणादीनि च सेवते, प्रेरितश्च कैश्चिद्वक्ति, “न मे" इति, न मया दृष्टः परलोको भूतभाविजन्मात्मकः, कदाचिद्विषयरतिरपि तादृश्येव स्थादित्याह, चक्षुषा । दृष्टा चक्षुदृष्टा, इयं रतिः कामजनिता चित्तप्रहात्तिः तत्कथं दृष्टत्यागाददृष्टप्रार्थनयात्मानं वञ्चये? इति तस्याशय ॥१ इति सूत्रार्थः ॥ ५॥ पुनस्तदाशयमेव व्यञ्जयति
(१) चित्तप्रसत्तिः
॥१६७॥
Page #335
--------------------------------------------------------------------------
________________
मूलम् - हत्थागया इमे कामा, कालिआ जे अणागया । को जाणइ परे लोए, अत्थि वा नत्थि वा पुणो॥६॥
व्याख्या - हस्तागताः स्वाधीनतया हस्तप्राप्ता इमे प्रत्यक्षाः कामाः शब्दाद्याः, कालिका अनिश्चितकालान्तरप्राप्तयो ये अनागता भाविभवसत्काः, कथं पुनरमी अनिश्चितलाभाः ? इत्याह- क इत्यत्र पुनः शब्दस्य व्यवहितस्य सम्बन्धात्कः पुनर्जानाति ? नैव कश्चिदित्यर्थः । यथा परलोकोऽस्ति वा ? नास्ति वा ? ततः सन्दिग्धे परलोके कः प्रत्यक्षान् कामान् विहाय कालिककामार्थं यतेतेति तस्याभिप्राय इति सूत्रार्थः ॥ ६ ॥ कश्चित्तु ज्ञातपरलोकोपि कामांस्त्यतुमशक्त इदमाह -
मूलम् --जणेण सद्धिं होक्खामि, इइ वाले पग भइ । कामभोगाणु राएणं, केसं संपडिवज्जइ ॥ ७ ॥
व्याख्या - जनेन लोकेन सार्द्ध सह भविष्यामि, अयं भावः, बहुर्जनो भोगासङ्गी तदहमपि तद्गतिं गमिष्यामि ! न हि इयान् जनो मूढ इत्यमुना प्रकारेण बालोऽज्ञः प्रगल्भते धार्श्वमवलम्बते । अलीकवाचालतया स्वयं नष्टः परानपि नाशयति । न च किम्बहुनापि जनेनोन्मार्गप्रस्थितेनेति चिन्तयति ! स चैवं कामभोगानुरागेण क्लेशमिह परत्र च सम्प्रतिपद्यते प्राप्नोतीति सूत्रार्थः ॥ ७ ॥ यथा चायं क्लेशं प्राप्नोति तथा प्राह
मूलम् -- तओ से दंडं समारभइ, तसेसु थावरेसु अ । अट्टाए व अणट्टाए, भूअग्गामं विहिंसइ ॥८॥ व्याख्या - ततः कामभोगानुरागात्स धृष्टो दण्डं मनोदण्डादिकं समारभते प्रवर्त्तयति, त्रसेषु द्वीन्द्रियादिषु,
Page #336
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१६८॥
स्थावरेषु च पृथिव्यादिषु, अर्थाय वित्तप्राप्त्यादिकार्याय, अनर्थाय वा यदात्मनो मित्रादेर्वा नोपयुज्यते तस्मै | पञ्चममध्यनिरर्थकमित्यर्थः । ननु निरर्थकमपि किं कोपि दण्डमारभते ? आरभत एव तादृशपशुपालवत् ॥
यनम् (५) । तथाहि कोप्यजापालः, संनिवेशे क्वचिद्वसन् ॥ अजाश्चारयितुं नित्य-मटतिस्म वनान्तरे ॥ १ ॥ अजाबजे । च मध्याह्ने, न्यग्रोधद्रुममाश्रिते ॥ तस्य छायामुपाश्रित्य, सोप्युत्तानतयाऽखपीत् ॥ २॥ लघुना धनुषा मुक्तै-बंद-| रास्थिभिरन्वहम् ॥ वटस्य तस्य पत्राणि, छिद्रयामास चासकृत् ॥ ३॥ क्रीडापरेण तेनैवं, प्रायो विद्धाखिलच्छदः॥ न्यग्रोधो निर्ममे नित्या-भ्यासाद्वा किं न साध्यते ? ॥४॥ तत्र चैकोन्यदा भ्राम्य-नागतो गोत्रिविद्रुतः ॥ भूप| भूस्तं तथाभूतं, वटं वीक्ष्य विसिष्मिये ! ॥५॥ केनैवमस्य पर्णानि, छिद्रितान्यखिलान्यपि ? ॥ इत्यपृच्छच तमजापालं भूपालनन्दनः ॥ ६ ॥ सोऽवादीक्रीडयैतानि, छिद्रितानि मया सखे! ॥ ततस्तस्मै बहु द्रव्यं, दत्वा राजाङ्गजो जमौ ॥ ७॥ मदुक्तमर्त्यनेत्रे त्वं, यदि स्फोटयितुं स्फुटम् ॥ प्रभूयसे तदा कार्य, समग्रं मम सिद्ध्यति ॥८॥स प्रोचे चेत्स पुरुषः, पार्थवर्ती भवेन्मम ॥ तदाहं भवतः कार्य, कतुं शक्नोमि नान्यथा ॥९॥ पशुपालं ततो नीत्वा, पुरमध्ये नृपात्मजः ॥ छन्नमस्थापयद्राज-मार्गासन्ने निकेतने ॥ १० ॥ दायादञ्च निजं ॥१६॥ राज-पाटिकायै विनिर्गतम् ॥ तस्यादर्शयदस्याशु, नेत्रे स्फोव्ये इति ब्रवन् ॥ ११॥ सोपि चापविमुक्ताभ्यां, | गोलिकाभ्यां तदीक्षणे ॥ पक्कस्फोटकवत्सद्यो-ऽस्फोटयत्वयमस्फुटः ॥ १२ ॥ ततः सम्प्राप्तसाम्राज्य-स्तमाहूय स
Page #337
--------------------------------------------------------------------------
________________
पणालमवाचैवं. हि कं ते वरं ददे ? ॥ १३॥ सोऽब्रवीद्यत्र तिष्ठामि, देहि ग्रामं तमेव मे ॥ ततस्तस्मै ददौ राजा, तदिष्ट तुष्टमानसः ॥ १४ ॥ सोऽथ ग्रामे तत्र तुम्बी-रिखूश्चावापयद्वहून् ॥ निष्पन्नं च गडं तम्बः. साकं खादन्निदं जगौ ॥ १५ ॥ "अट्टमर्से पि सिक्खिजा, सिक्खिन निरत्ययं ॥ अट्टमट्टप्पसाएण, खजए गुडतुंबयं ॥ १६॥” इत्थं गायन प्रतिदिन-ममन्दामोदमेदुरः ॥ पशुपालः सुखं काल-मतिवाहयति स्म सः॥ १७॥ यथायमर्थेन विना वटस्य, पत्राणि विव्याध दृशौ तु सार्थम् ॥ अन्योपि जन्तुर्वितनोति दण्डा-रम्भं तथा सार्थमनर्थकञ्च ॥ १८॥ इति पशुपालकथा ॥ दण्डमारभत इत्युक्तं, न चासौ दण्डारम्भमात्रेणावतिष्ठते, किन्तु "भृअग्गामंति" भूताः प्राणिनस्तेषां ग्रामः समूहस्तं विविधैः प्रकारैर्हिनस्ति व्यापादयति, अनेन दण्डत्रयव्यापार उक्त इति | सूत्रार्थः ॥ ८॥ किमयमेतावदेव करोतीत्याहमूलम्-हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेअमेअंति मन्नइ ॥ ९॥
व्याख्या-हिंस्रो हिंसनशीलः सन् , बालो मूढो, मृषावादी मिथ्याभाषणशीलः, 'माइलेति' माया परवञ्चनोपायचिन्तनं तद्वान् , पिशुनः परदोषप्रकाशकः, शठो वेपविपर्यासादिना आत्मानमन्यथाभूतं दर्शयति, मण्डिकचौरवत् । अत एव च भुआनः, सुरां मद्यं, मांसं च, श्रेयोऽतिप्रशस्यमेतदिति मन्यते, उपलक्षणत्वाद्भाषते च । “न मांसभक्षणे दोपो, न मद्येन च मैथुने" इत्यादीति सूत्रार्थः॥९॥ तथा
PROACHCHECRU
CIENCIEOS
Page #338
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥१६९॥
पञ्चममध्ययनम् (५)
मूलम्-कायसा वयसा मत्ते, वित्ते गिद्धे अ इत्थिसु । दुहओ मल संचिणइ, सिसुणागुव महि ॥१०॥ __ व्याख्या-'कायसत्ति' सूत्रत्वात्कायेन, वचसा वचनेन, उपलक्षणत्वान्मनसा च, मत्तो दृप्तः । तत्र कायेन मत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान् , यद्वा अहो! अहं बलवान् रूपवांश्चेति चिन्तयन् , वचसा खगुणान् ख्यापयन् अहो ! अहं सुखर इति वा ध्यायन् , मनसा च मदाध्मातचेताः, अहो ! अहमवधारणशक्तिमानिति वा मन्यमानो वित्ते धने गृद्धो गृद्धिमान् । चशब्दो भिन्नक्रमः, ततः स्त्रीषु च गृद्धः । तत्र वित्ते गृद्ध इत्यनेन अदत्तादानग्रहणम् तद्भावभावित्वात्तस्य । तथा स्त्रीपु गृद्ध इत्यनेन तु मैथुनासेवित्वमुक्तं, स हि स्त्रियः संसारसारभूता मन्यते वक्ति च । "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः ॥ अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ॥१॥" तदासक्तश्च मैथुनं सेवत एवेति । ततः स किं कुर्यादित्याह-'दुहओत्ति' द्विधा रागद्वेषाभ्यां मलमष्टप्रकारं कर्म सञ्चिनोति बनाति, क इव किमित्याह-शिशुनाग इवालस इव मृत्तिका, स हि स्निग्धतनुतया बहीरजोभिरवगुण्ड्यते, तामेव |चानातीति बहिरन्तश्च मलमुपचिनोति, ततश्च खरतरदिनकरकरनिकरस्पर्शतः शुष्यन्निहैव क्लिश्यते । तथायमप्युपचितकर्मवशादिहैव जन्मनि क्लिश्यते विनश्यति चेति सूत्रार्थः ॥ १०॥ इदमेव स्पष्टयति
मूलम्-तओ पुट्ठो आयंकेण, गिलाणो परितप्पइ । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो ॥११॥ | व्याख्या-'तओत्ति' स एवैकः ततो वा दण्डारम्भाधुपार्जितमलादनुस्पृष्टोऽभिभूतः, केन ? आतङ्केन आशुघा-13
॥१६९॥
Page #339
--------------------------------------------------------------------------
________________
तिना शूलविशुचिकादिरोगेण ग्लानो मन्दः परितप्यते, बहिरन्तश्च खिद्यते । प्रभीतः प्रकर्षण त्रस्तः 'परलोगस्सत्ति' परलोकात् , आपत्वात्पञ्चम्यर्थे पष्ठी, कुत एवं? यतः कर्म क्रियां अनुप्रेक्षते इत्येवंशीलः कर्मानुप्रेक्षी, कस्य ? आत्मनः, स हि हिंसादिकां खचेष्टां स्मरन्मया न किञ्चिच्छुभमाचरितं! किन्तु सदैवाजरामरवचेष्टितमिति ध्यायन् मनसि रोगेण वपुषि च खिद्यते । भवति हि विषयलोलुपमनसोपि प्रायः प्राणत्यागसमयेऽनुतापः ! यदुक्तं-"भवित्री भावानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् ॥ पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥ १ ॥” इति सूत्रार्थः ॥ ११ ॥ एतदेव व्यक्तीकरोतिमूलम्-सुआ मे नरए ठाणा, असीलाणंच जा गई ॥ वालाणं कूरकम्माणं, पगाढा जत्थ वेअणा।१२॥ । व्यख्या-श्रुतानि 'मे' मया नरके स्थानानि कुम्भीवैतरण्यसिपत्रवनादीनि, तत्किमियतापि परितप्यत इत्याह& अशीलानां च दुराचाराणां या गतिर्नरकादिका सापि श्रुता, कीदृशीत्याह-बालानामज्ञानां करकर्मणां हिंसादि
द्रकर्मकारिणां प्रगाढाः प्रकृष्टा यत्र यस्यां गतौ वेदनाः शीतोष्णाद्याः। ततश्च ममाप्येवंविधानुष्ठानस्य तादृश्येव गतिरिति ध्यायन् परितप्यत इति सूत्रार्थः ॥ १२ ॥ किञ्चमूलम्-तत्थोववाइअं ठाणं, जहा मे तमणुस्सुअं॥ अहा कम्मेहिं गच्छंतो, सो पच्छा परितप्पइ ॥१३॥ व्याख्या-तत्र नरकेषु उपपाते भवमोपपातिकं स्थानं स्थितिः यथा येन प्रकारेण स्यादिति शेषः, मे मया तदि
Page #340
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१७॥
त्यनन्तरोक्तमनुश्रुतमवधारितं, गुरुभ्य इति शेषः । अयं भावः-गर्भजत्वे हि गर्भावस्थानावस्थां यावच्छेदभेदादिदुःखा- पञ्चममध्य. नामन्तरमपि स्यात् , औपपातिकत्वे त्वन्तर्मुहूर्त्तानन्तरमेव महावेदनोदय इति कुतस्तदन्तरसम्भवः ? तथा च 'अहा- यनम् (५) कम्मेहिति' यथाकर्मभिर्गमिष्यमाणगत्यनुरूपैः कर्मभिस्तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छन् तदनुरूपमेव स्थानं स इति बालः पश्चादित्यायुपि हीयमाने परितप्यते, यथा धिग्मां दुष्कर्मकारिणं ! किमधुना मन्दभाग्यः करोमि ? इत्यादि शोचतीति सूत्रार्थः ॥१३॥ अमुमेवार्थ दृष्टान्तद्वारा दृढयन्नाहमूलम्-जहा सागडिओ जाणं, समं हेच्चा महापह। विसमं मग्गमोइण्णो, अक्खे भग्गंमि सोयइ।१४।। __ व्याख्या-यथा शाकटिको गंत्रीवाहकः 'जाणंति' जानन् सममुपलादिरहितं हित्वा त्यक्त्वा महापथं राजमार्ग विषमं मार्गमवतीर्णो गन्तुं प्रवृत्तोऽक्षे धुरि भने खण्डिते शोचति, धिग्मे ज्ञानं ! यदहं जाननपायमवापमिति सूत्रार्थः ॥ १४ ॥ अथोपनयमाहमूलम्-एवं धम्म विउकम्म, अहम्म पडिवजिआ।वाले मच्चुमुहं पत्ते, अक्खे भग्गेव सोअइ ॥१५॥|| व्याख्या-एवमिति शाकटिकवत् धर्म शुभाचारं व्युत्क्रम्य उलंघ्य अधर्म हिंसादिकं प्रतिपद्य खीकृत्य बालो मूढो
॥१७०॥ मृत्युमुखं मरणगोचरं प्राप्तः अक्षे भग्न इव शोचति, अयं भावः- यथाऽक्षभङ्गे शाकटिकः शोचति तथायमपि मरणावस्थायामात्मानं शोचति, हा ! किमेतन्मया कृतमिति सूत्रार्थः ॥ १५॥ शोचनानन्तरञ्च किमसौ करोतीत्याह
Page #341
--------------------------------------------------------------------------
________________
| मूलम् — तओ से मरणंतंमि, बाले संतस्सई भया ॥ अकाममरणं मरइ, धुत्ते वा कलिणा जिए ॥ १६ ॥ व्याख्या - तत इत्यातङ्कोत्पत्तौ शोचनानन्तरं 'सेत्ति' स वालः, मरणमेवान्तो मरणान्तस्तस्मिन्नुपस्थिते इति शेषः, वालो रागादिव्यग्रचित्तः संत्रस्यति विभेतीत्यर्थः । कुतः ? भयान्नरकगतिगमनसाध्वसात्, अनेन तस्याकामत्वमुक्तं, स च तथापि मरणान्न मुच्यत इत्याह- अकामस्यानिच्छतो मरणमकाममरणं तेन म्रियते, सूत्रे चार्षत्वात् द्वितीया, नरकञ्चासौ गच्छति, तत्र चासौ शोचतीति शेषः । क इव कीदृशः सन् ? धूर्त्त इव द्यूतकार इव, वाशब्दस्योपमार्थत्वा त्कलिना एकेन प्रक्रमाद्दायेन जितः, यथा ययमेकेन दायेन जितः सन्नात्मानं शोचति, तथायमप्यतितुच्छैरतुच्छसं| क्लेशफलैर्मर्त्यभोगैर्दिव्यसौख्यं हारितो दुःखी सन् शोचतीति सूत्रार्थः ॥ १६ ॥ प्रस्तुतमर्थ निगमयितुमाह-मूलम् - एअं अकाममरणं, बालाणं, तु पवेइअं । एत्तो सकाममरणं पंडिआणं सुणेह मे ॥ १७ ॥
व्याख्या - एतदनन्तरमेव दुःकृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं बालानामेव, 'तु' शब्दस्य एवार्थत्वात् प्रवेदितं प्ररूपितं तीर्थकरादिभिरिति शेषः । पण्डितमरणप्रस्तावनामाह - 'एत्तोत्ति' इतोऽकाममरणादनु सकाममरणं पण्डितानां सम्बन्धि शृणुताकर्णयत मे मॅम वदत इति शेष इति सूत्रार्थः ॥ १७॥ यथा प्रतिज्ञातमेवाहमूलम् — मरणं पि सपुण्णाणं, जहा मे तमणुस्सुअं । विष्वसन्नमणाघायं, संजयाणं बुसीमओ ॥१८॥ व्याख्या -'मरणमपि आस्तां जीवितमित्यपिशब्दार्थः, भवतीति गम्यते सपुण्यानां पुण्यवतां किं सर्वमपि ?
Page #342
--------------------------------------------------------------------------
________________
उत्तराध्ययन
पञ्चममध्ययनम् (५)
॥१७॥
नेत्याह-यथा येनप्रकारेण मे मम कथयत इति शेषः । तदिति पूर्वसूत्रोपात्तं, अनुश्रुतमवधारितं भवद्भिरिति गम्यं, कीदृशं ? मरणमित्याह-'विप्पसन्नंति' विविधैर्भावनादिभिः प्रकारैः प्रसन्ना मरणेप्यनाकुलचेतसो विप्रसन्नास्तत्सम्बन्धि मरणमपि विप्रसन्नं, तथा न विद्यते आघातः पीडात्मकस्तादृशयतनया परप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तदनाघातं, केषां? पुनरिदमित्याह-संयतानां चारित्रिणां 'वुसीमओत्ति' आपत्वावश्यवन्तः वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषां, एतचात्पण्डितमरणमेव, ततोयमर्थः-यथा ह्येतसंयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनामिति सूत्रार्थः ॥ १८ ॥ किञ्चमूलम्-ण इमं सवेसु भिक्खुसु,न इमं सवेसु गारिसु। नाणासीला अगारत्था,विसमसीला य भिक्खुणो१९/ MT व्याख्या-नेदं पण्डितमरणं 'सत्वेस भिक्खसत्ति' सूत्रत्वात्सर्वेषां भिक्षणां परदत्तोपजीविनां व्रतिनामिति यावत, किन्तु केषाञ्चिदेवोपचितपुण्यानां भावभिक्षणां । तथा च तद्गृहस्थानां दुरापास्तमेव, अत एवाह-नेदं सर्वेपामगारिणां, सर्वचारित्रिणामेव तत्सम्भवात् , सर्वचारित्रपरिणामे तु सति तेषामपि तत्त्वतो यतित्वात् । कुत एवं ? यतो नानाशीला अनेकविधव्रता अगारस्था गृहस्था अनेकविधभङ्गकोपेतत्वाद्देशविरतेः । विषमशीलाश्च विसदृशशीलाश्च भिक्षवो, न हि सर्वेजिनमतप्रतिपन्ना अप्यनिदानिनोऽविकलचारित्रिणो वा म्रियन्ते ! तर्हि व तीर्थान्तरीयाः ? इति सूत्रार्थः ॥ १९॥ विषमशीलतामेव भिक्षूणां समर्थयितुमाह
IX||१७१॥
Page #343
--------------------------------------------------------------------------
________________
मूलम्-संति एगेहिं भिक्खूहि, गारत्था संजमुत्तरा। गारत्थेहि अ सबेहिं, साहवो संजमुत्तरा॥२०॥ | व्याख्या-सन्ति विद्यन्ते एकेभ्यः कुप्रवचनभिक्षुभ्यः ‘गारत्थत्ति' सूत्रत्वादगारस्थाः संयमेन देशविरत्यात्मकेन | उत्तराः प्रधानाः संयमोत्तराः, कुतीर्थिकभिक्षवो हि जीवास्तिक्यादिरहिताः सर्वथाऽचारित्रिणश्चेति कथं तेभ्यः सम्यग्दृशो देशचारित्रिणो गृहिणः संयमोत्तरा न स्युः ? किञ्च अगारस्थेभ्यश्च सर्वेभ्य इति, अनुमतिवर्जसर्वोत्तमदेशविरतिं प्राप्तेभ्योऽपि साधवः संयमोत्तराः सम्पूर्णसंयमान्वितत्वात्तेषां । अत्र च वृद्धवादो यथा-कोपि श्राद्धः साधु पप्रच्छ, श्राद्धसाध्वोः किमन्तरमिति ? साधुरूचे मेरुसर्षपान्तरं । तदाकाकुलीभूतः पुनः पप्रच्छ, कुलिङ्गिश्राद्धयोः किमन्तरं ? मुनिः स्माह तदेव, ततः प्रसादमाससादेति । उक्तञ्च-“देसिक्कदेसविरया, समणाणं सावगा सुविहिआणं ॥ तेसिं परपासंडा, सइमं पि कलं न अग्छति ॥१॥" तदेवं भिक्षूणामपि तेषां चारित्राभावात् पण्डितमरणाभाव एवेति सूत्रार्थः ॥२०॥ ननु कुतीर्थिकभिक्षवोपि नानालिङ्गधरा एव, तत्कथं तेभ्यो गृहस्थाः संयोमत्तराः ? इति सन्देहापोहायाहमूलम्-चीराजिणं नगिणिणं, जडी संघाडि मुंडिणं। एआइं पिन ताइंति, दुःसीलं परिआगयं ॥२१॥ | व्याख्या-चीराणि च चीवराणि, अजिनं च मृगादिचर्म, चीराजिनं । 'नगिणिणंति' आपत्वान्नाग्न्यं, 'जडित्ति भावप्रधानत्वान्निर्देशस्य जटित्वं, संघाटी वस्त्रसंहतिजनिता कथेत्यर्थः, 'मुंडिणंति मुंडत्वं, एतान्यपि निजनिजप्रक्रि
Page #344
--------------------------------------------------------------------------
________________
पञ्चममध्ययनम् (५)
उत्तराध्ययन याकल्पितानि व्रतिलिङ्गान्यपि, किं ? पुनर्गार्हस्थ्यमित्यपिशब्दार्थः, न नैव त्रायन्ते नरकादिदुर्गतेः, कमित्याह-दुःशीलं
दुराचारं 'परिआगयंति' पर्यायागतं प्रव्रज्यापर्यायं प्राप्त, आपत्वाच याकारस्यैकस्य लोपः। न हि कषायकलुषचेत॥१७२॥
सोऽतिकष्टहेतुरपि बहिर्बकवृत्तिर्नरकादिकुगतिनिवारणायालं ! ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति सूत्रार्थः ॥२१॥18 ननु ? कथं गृहाद्यभावेपि तेषां दुर्गतिरिति चेदुच्यते- .. मूलम्-पिंडोलएव दुस्सीले, नरगाओ न मुच्चई। भिक्खाए वा गिहत्थे वा, सुबए कमई दिवं ॥२२॥
व्याख्या-पिंडोलएवत्ति' वा-शब्दोऽपि शब्दार्थस्ततश्च पिण्डावलगकोऽपि खीयाहाराभावतो भैक्ष्यसेवकोपि, आस्तां गृहादिमान् , दुःशीलो नरकात्स्वकर्मोपस्थापितात् सीमन्तकादेन मुच्यते । तत्र चोदाहरणं तथाविधद्रमकः
तथाहि द्रमकः कोपि, पुरे राजगृहेऽभवत् ॥ स च भिक्षाकृते नित्यं, बभ्राम सकले पुरे ॥१॥ वैभारगिरिपाश्वेस्थ-मुद्यानं स गतोन्यदा ॥ उद्यानिकार्थमायातं, जनं भुञ्जानमैक्षत ॥ २॥ ततः स तत्र भिक्षार्थ, पयेभ्राम्यन्मु
हुमुहुः ॥ वदन्नुच्चैः खरं दीन-वचांसि रसलोलुपः॥३॥न तु कोपि ददौ तस्मै, भाग्यहीनाय किञ्चन ॥ ततः प्रद्विहाएचित्तः स, दुष्टधीरित्यचिन्तयत् ॥ ४ ॥ अमी हि कुक्षिम्भरयो, भक्षयन्त्यखिलं खयम् ॥ दीनाय न तु मे खल्प-1 मपि यच्छन्ति निर्दयाः॥५॥ तदमूनुपवैभारं, निविष्ठान् दुष्टचेतसः ॥ कयाचिच्छिलया तूर्ण, चूर्णयामीति चिन्त
१ पिण्डं परदत्तग्रासमवलगते सेवते इति पिण्डावलगः स एव पिण्डावलगकः ।
॥१७२॥
Page #345
--------------------------------------------------------------------------
________________
SCOCALMAMALS
यन ॥६॥ वैभारगिरिमारुह्य, स क्रोधाध्मातमानसः ॥ सर्वात्मना विलग्यकां, शिलां गुर्वीमचीचलत् ॥७॥ [ युग्मम् ] तस्यां विलुण्ठितायां द्राक, स पृथक् स्थातुमक्षमः॥ लुण्ठंस्तया समं तस्या, एवाधस्तादुपाययौ ॥८॥ ततस्तया क्षुण्णतनुः स रौद्र-ध्यानानुबन्धी द्रमको विपद्य ॥ तमस्तमायां भुवि नारकत्वं, मध्येऽप्रतिष्ठानमवाप पापात् ॥ ९॥ इति द्रमककथा । ततो न भिक्षुत्वमात्रं कुगतिनिवारकं, ननु ? तर्हि तत्वतः किं सुगतिहेतुरित्याह'भिक्खाए वत्ति' भिक्षामत्ति भुक्ते इति भिक्षादः, वा विकल्पे, अनेन व्रती प्रोक्तः, गृहस्थो वा, सुष्टु शोभनं निरतिचारतया सम्यग्भावानुगतया च व्रतं शीलपालनात्मकं यस्येति सुव्रतः, कामति गच्छति दिवं देवलोकं । मुख्यतया व्रतपालनस्य मुक्तिहेतुत्वेऽपि दिवं क्रामतीति कथनं जघन्यतोऽपि देवलोकावाप्तिरितः स्यादिति सूचनार्थ, अनेन च व्रतपालनमेव तत्वतः सुगतिहेतुरिति प्रोक्तमिति सूत्रार्थः ॥ २२ ॥ अथ यैर्ऋतैर्गृहस्थोऽपि दिवं याति तान्याह-18
मूलम्-आगारिसामाइअंगाई, सड्डी काएण फासए। पोसहं दुहओ पक्खं, एगराइं न हावए ॥ २३ ॥ al व्याख्या-आगारिणो गृहिणः सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि निःशङ्कताकालाध्ययनाणुव्रताहै दिरूपाणि अगारिसामायिकांगानि 'सड्डीत्ति' श्रद्धावान् कायेन उपलक्षणत्वान्मनसा वाचा च 'फासएत्ति' स्पृशति
सेवते, तथा पौषधं आहारपौषधादिकं 'दुहओ पक्खंति' प्राकृतत्वात् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपूर्णिमादितिथिषु ‘एगराइंति' अपेर्गम्यमानत्वादेकरात्रिमपि केवलरात्रिसम्बन्धिनमपीत्यर्थः, उपलक्षणत्वाचैकदिनमपि
O CTOCOCC
Page #346
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१७३॥
न 'हावएत्ति' न हापयेन्न हानि प्रापयेत् , रात्रिग्रहणं तु दिवा व्याकुलतया कर्तुमशक्तौ रात्रावपि पौषधं कुर्यादिति | पञ्चममध्यसूचनार्थ । इह च सामायिकाङ्गत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थमिति सूत्रार्थः ॥ २३ ॥ प्रस्तु- यनम् (५) तमेवार्थमुपसंहरन्नाहमूलम्-एवं सिक्खासमावण्णे, गिहवासे वि सुबए।मुच्चई छविपवाओ, गच्छे जक्खसलोगयं ॥ २४ ॥ ___ व्याख्या-एवमुक्तन्यायेन शिक्षया व्रतात्मिकया समापन्नो युक्तः शिक्षासमापन्नः गृहवासेप्यास्तां दीक्षापर्या पिशब्दार्थः, सुव्रतः शोभनव्रतो मुच्यते मुक्तिमाप्नोति, कुत इत्याह-'छविपवाओत्ति' छविस्त्वक्, पर्वाणि जानुकूपरादीनि, तयोः समाहारे छविपर्व तद्योगादौदारिकं देहमपि छविपर्व तस्मात्ततश्च गच्छेत् यायात्, यक्षा देवाः, समानो लोकोऽस्येति सलोकः तस्य भावः सलोकता सादृश्यमित्यर्थः, यक्षः सलोकता यक्षसलोकता तां । इयं च देवगतावेव स्यादित्यर्थाद्देवगतिं । अनेन च पण्डितमरणावसरे प्रसङ्गाद्वालपण्डितमरणमुक्तमिति सूत्रार्थः ॥ २४ ॥ अथ प्रस्तुतं पण्डितमरणमेव फलोपदर्शनद्वारेणाहमूलम्-अह जे संवुडे भिक्खू, दुण्हमन्नयरे सिआ। सव्वदुक्खप्पहीणे वा, देवेवावि महिड्डिए॥ २५॥ ॥१७३॥
व्याख्या-अथेत्युपदर्शने, यः कश्चित्संवृतः पिहितसमग्राश्रवद्वारो भिक्षुर्भावसाधुः स च द्वयोरन्यतर एकतरः स्यात् , ययोईयोरेकतरः स्यात्तावाह-सर्वाणि यानि दुःखानि क्षुत्पिपासाभीष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षण
Page #347
--------------------------------------------------------------------------
________________
|पुनरनुत्पादलक्षणेन हीनो रहितः सर्वदुःखप्रहीणो वा स्यादिति सम्बन्धः, स च सिद्ध एव देवो वा स्यात् , अपिः सम्भावने, सम्भवति हि संहननादि वैक्लव्यान्मुक्तेरप्राप्तौ देवोऽपि स्यादिति, कीटक् ? महर्द्धिक इति सूत्रार्थः ॥२५॥ यत्रासौ देवो भवति तत्र कीदृशा आवासाः कीदृशाश्च देवा इत्याहमूलम-उत्तराई विमोहाइं, जुइमंताणुपुत्वसो।समाइण्णाइं जक्खेहि, आवासाइं जसंसिण्णो ॥२६॥
व्याख्या-उत्तरा उपरिवर्तिनोऽनुत्तरविमानाख्या विमोहा इव विमोहा अल्पवेदादिमोहनीयत्वात् , द्युतिमन्तो दीप्तिमन्तः, 'अणुपुवसोत्ति' आनुपूर्व्या क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु हि अनुत्तरविमानान्तेषु ,
पूर्वापक्षया प्रकषेवन्त्येव विमोहत्वादीनि विशेषणानि । तथा समाकीणों व्याप्ता यक्षदेवरावासाः, प्राकृतत्वान्नपुंसकलिङ्गत्वं सर्वत्र । देवास्तु तत्र यशखिनः श्लाघान्विताः ॥ २६ ॥ तथामूलम्--दीहाउआइड्डिमंता,समिद्धा कामरूविणो।अहुणोववन्नसंकासा,भुजो अच्चिमालिप्पभा ॥२७॥ ___ व्याख्या-दीर्घायुषश्चिरजीविनः, ऋद्धिमन्तो रत्नादिसम्पदुपेताः, 'समिद्धा' अतिदीप्ताः, कामरूपिणः अभिलाषानुरूपरूपविधायिनः, अनुत्तरेष्वपि तच्छक्तियुक्तत्वात् , अधुनोपपन्नशंकाशास्तत्कालोत्पन्नदेवकल्पाः, अनुत्तरेषु हि वर्णद्युत्यादि यावदायुस्तुल्यमेव स्यात् , 'भुजोत्ति' भूयांसः प्रभूता ये अर्चिालिनः सूर्यास्तद्वत् भा येषां ते तथा । न त्वेकस्यार्कस्य तादृशी द्युतिरस्तीति सूत्रार्थः ॥ २७॥ उपसंहर्तुमाह
Page #348
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १७४ ॥
मूलम् - तानि ठाणाणि गच्छंति, सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा, जे संतिपरिनिबुआ २८॥ व्याख्या - तान्युक्तरूपाणि स्थानानि आवासान् गच्छन्ति शिक्षित्वाऽभ्यस्य, संयमं सप्तदशभेदं तपो द्वादशभेद, भिक्षादा वा गृहस्था वा प्राकृतत्वाद्वचनव्यत्ययः, ये शान्त्या उपशमेन परिनिर्वृताः विध्यातकषायानलाः शान्तिपरिनिर्वृता भवन्तीति शेष इति सूत्रार्थः ॥ २८ ॥ एतच विज्ञाय मरणेपि महात्मानो यथाभूता भवन्ति तथाह-
मूलम् -- तेसिं सुच्चा सपुजाणं, संजयाणं बुसीमओ । न संतंसंति मरणंते, सीलवंता बहुस्सुआ ॥ २९ ॥
व्याख्या - तेपामनन्तरोक्तखरूपाणां यतीनां श्रुत्वा आकर्ण्य पूर्वोक्तस्थानावाप्तिमिति शेषः । कीदृशानामित्याहसतामिन्द्रादीनां पूज्याः सत्पूज्यास्तेषां संयतानां संयमवतां 'वसीमओत्ति' प्राग्वत्, न संत्रस्यन्ति नोद्विजन्ते मरणान्ते उपस्थिते शीलवन्तश्चारित्रवन्तो बहुश्रुता आगमवचः श्रवणशुद्धधियः, अयं भावः - अज्ञातधार्मिकगतयोऽनुपार्जितधर्माणश्च मरणादुद्विजन्ते, यथा क्वाऽस्माभिर्गन्तव्यमिति, न तु निश्चितसद्गतिगमना उपार्जितधर्माणः । यदाहु:"चरितो निरुपक्लिष्टो, धर्मो हि मयेति निर्वृतः स्वस्थः । मरणादपि नोद्विजते, कृतकृत्योस्मीति धर्मात्मा ॥ १ ॥” इति सूत्रार्थः ॥ २९ ॥ इत्थं सकाममरणस्वरूपमभिधाय शिष्योपदेशमाह -
१ वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषाम् ॥
पञ्चममध्य
यनम् (५)
॥ १७४ ॥
Page #349
--------------------------------------------------------------------------
________________
मूलम्-तुलिआ विसेसमादाय, दयाधम्मस्स खंतिए। विप्पसीएज मेहावी, तहाभूएण अप्पणा॥३०॥
व्याख्या-तोलयित्वा परीक्ष्य, बालमरणपण्डितमरणे, विशेषञ्च बालमरणात् पण्डितमरणस्य विशिष्टत्वं, आदाय है। गृहीत्वा दयाधर्मस्य च, यतिधर्मस्य च, चस्य गम्यत्वात् विशेषमशेषधर्मातिशायित्वलक्षणमादाय क्षान्त्या क्षमया करणभूतया विप्रसीदेत् प्रसन्नतां भजेत् , न तु कृतद्वादशवर्षसंलेखनतथाविधतपखिवन्निजाङ्गुलिभङ्गादिना कषायमवलम्बत मेधावी मर्यादावर्ती, तथाभूतेन यथामरणकालात्पूर्वमनाकुलमना अभूत् मरणकालेऽपि तथास्थितेनात्मनो|पलक्षित इति सूत्रार्थः ॥ ३० ॥ विप्रसन्नश्च किं कुर्यादित्याहमूलम्-तओ काले अभिप्पेए, सड्डी तालिसमंतिए।विणइज्ज लोमहरिसं, भेअंदेहस्स कंखए ॥३१॥
व्याख्या-ततः कषायोपशान्तेरनन्तरकाले मरणकाले अभिप्रेते अभिरुचिते, कदा च मरणमभिप्रेतं ? यदा योगा| || नोत्सर्पन्ति, 'सहीत्ति' श्रद्धावान् तादृशं मरणभयोत्थं अन्तिके समीपे गुरूणामिति शेषः विनयेदपनयेद्रोमहर्षे, हा !
अहं मरिष्यामीत्यभिप्रायोद्भवं रोमाञ्चं, किञ्च भेदं विनाशं देहस्य कांक्षेदिव कांक्षेत्त्यक्तपरिकर्मतया, न तु मरणासंशया, हेयत्वात्तस्या इति सूत्रार्थः ॥ ३१ ॥ निगमयितुमाहमूलम्-अह कालम्मि संपत्ते,आघायाय समुस्सयं। सकाममरणं मरइ,तिहमन्नयरं मुणित्ति बेमि ॥३२॥
3.३०
Page #350
--------------------------------------------------------------------------
________________
उत्तराध्ययन
पञ्चममध्ययनम् (५)
॥१७५॥
व्याख्या-अथ मरणाभिलापानन्तरं काले मरणकाले सम्प्रासे "निप्फाइआ य सीसा, सउणी जह अंडयं पयतेणं ॥ बारस संवच्छरिअं, अह संलेहं तो करेइ ॥१॥” इत्यादिना क्रमेण समायाते, आघाताय संलेखनादिक्रमेण विनाशाय 'समुस्सयंति' स्यादिव्यत्ययात्समुच्छ्रयस्यान्तः कार्मणदेहस्य बहिरौदारिकाङ्गस्य, किं कुर्यादित्याह-सकामस्येव साभिलाषस्येव मरणं सकाममरणं तेन म्रियते, त्रयाणां भक्तपरिक्षेङ्गिनीपादपोपगमनानामन्यतरेण सूत्रत्वाद्विभक्तिव्यत्ययः सर्वत्र मुनिः साधुरिति सूत्रार्थः ॥ ३२॥ इति ब्रवीमिति प्राग्वत् ॥
SARORAMAARRAORAMASOOMARRIRAMA
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्री-2 4 भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चमाध्ययनं सम्पूर्णम् ॥ ५॥
॥१७५॥
Page #351
--------------------------------------------------------------------------
________________
॥ अथ षष्ठाध्ययनम् ॥
॥ अर्हन् ॥ उक्तं पञ्चमाध्ययनमथक्षुल्ल निर्ग्रन्थीयाख्यं षष्ठमारभ्यते, अस्य चार्य सम्बन्धोऽनन्तराध्ययने मरणविभक्तिरुक्ता तत्र चान्ते पण्डितमरणमुक्तं तच्च विद्याचरणसम्पन्नानां निर्ग्रन्थानामेव स्यात् इति तत्स्वरूपमनेनोच्यते | इत्यनेन सम्बन्धेनायातस्यास्यादौ नियुक्तिकारोक्तं पञ्चनिर्ग्रन्थस्वरूपं वृहट्टीकातो ज्ञेयमत्र तु सूत्रमेवानुत्रियते, तच्चेदंमूलम् -- जावंतविज्जा पुरिसा, सवे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारंमि अनंत ॥ १ ॥
व्याख्या - यावन्तो यत्परिमाणाः, न विद्यते विद्या तत्वज्ञानात्मिका येषां ते अविद्याः, पुरुषा नराः सर्वे ते दुःखस्य सम्भव उत्पत्तिर्येषु ते दुःखसम्भवाः । ईदृशः सन्तो लुप्यन्ते दारिद्यादिभिर्वाध्यन्ते, बहुशोऽनेकशः मूढा हिताहितविवेकं प्रत्यसमर्थाः, संसारे भवे अनन्तके अन्तरहिते, अनेन निर्ग्रन्थखरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयं । अत्र चायं कथानकसम्प्रदायस्तथाहि
एकः कोपि पुमान् दौःस्थ्यो- पद्रुतो भाग्यवर्जितः ॥ कृष्यादि कुर्वन्नपि नो, तत्फलं किञ्चिदासदत् ॥ १ ॥ ततो गृहाद्विनिर्गत्य, द्रविणोपार्जनाय सः ॥ उपायान् विविधान् कुर्वन् भूयो बभ्राम भूतले ॥ २ ॥ न तु किञ्चिदपि प्राप, धनमुद्यमवानपि ॥ अप्युद्यतैः श्रभिरिव, न श्रीः पुण्यं विनाप्यते ॥ ३ ॥ निष्फलभ्रमणेनाथ, निर्विण्णः स
5.444444+X
Page #352
--------------------------------------------------------------------------
________________
उत्तराध्ययन
गृहं प्रति ॥ न्यवर्त्तिष्ट विनालाभ-मुद्यमो हि श्लथो भवेत् ॥४॥ स चान्यदा कचिदामे, निशि वासार्थमागतः ॥ षष्ठमध्य
तस्थौ देवकुले स्थाना-वाप्तिस्तत्रैव तादृशाम् ॥५॥ तत्र तत्रस्थिते पश्य-त्येव देवकुलात्ततः ॥ विद्यासिद्धःयनम् (६) ॥१७६॥
कुम्भपाणिः, पुरुषः कोऽपि निर्ययौ ॥६॥ सोऽपि तं कुम्भमभ्या -वादीदतिमनोरमम् ॥ कुरु वासगृहं शय्यासनभार्यादिसंयुतम् ॥ ७॥ तेनाथ कामकुम्भेन, तदुक्ते निर्मितेऽखिले ॥ तत्र स्थित्वाऽभुक्त भोगान् , सोऽङ्गनाभिः सहाद्भुतान् ॥८॥ सञ्जहार प्रभाते च, तत्सर्वमपि सत्वरम् ॥ तत्वरूपं तदखिलं, दुःस्थमर्यो ददर्श || सः ॥९॥ दध्यौ चैवं निष्फलेन, किमायासेन मेऽमुना॥ एनमेवाथ सेविष्ये, कामितार्थसुरद्रुमम् ॥ १० ॥ ध्यात्वे-18||
ति सेवनं तस्य, कुर्वन् विनयपूर्वकम् ॥ स तन्मनो वशीचक्रे, विनयाद्वा न किं भवेत् ॥ ११ ॥ ततः सिद्धपुमा-1 कानूचे, ब्रूहि किं ते समीहितम् ? ॥ विना समीहां सेवा हि, न केनापि विधीयते ॥ १२ ॥ स स्माहाहं जन्मतोऽपि,IPI
दारिद्यणास्मि विद्रुतः॥न चाप्नोमि धनं किञ्चित् , प्रयत्नैर्विविधैरपि ॥१३॥ दौस्थ्यस्यैवापनोदाय, बम्भ्रमीमि महीतले ॥ स्निग्धं मित्रमिवोपान्तं, न तु तन्मे विमुञ्चति ॥ १४ ॥ त्वाञ्चोपकारिणं प्रेक्ष्य, हृद्यविद्यासुधाम्बुदम् ॥ दारिद्यग्रीष्मसन्ताप-समुत्तप्तः श्रितोस्म्यहम् ॥१५॥ तत् प्रसद्य महाभाग !, तथा कुरु यथा मम ॥ त्वद्वत्सुखोपभोगः स्या-त्सन्तो ह्याश्रितवत्सलाः ॥ १६॥ तच्छुत्वा ध्यातवान् सिद्ध-पुमानेवमहो ! अयम् ॥ दुरवस्थापराभूतो, जायते भृशमातुरः ॥ १७॥ व्रतं सत्पुरुषाणाच, दीनादीनामुपक्रिया ॥ तदस्योपकृतिं कृत्वा, करोमि सफलं जनुः
॥१७६॥
Page #353
--------------------------------------------------------------------------
________________
॥ १८ ॥ ध्यात्वेत्यूचे सिद्धविद्यः, किमु विद्यां ददामि ते ॥ विद्याभिमंत्रितं कुम्भ-मथवेति निगद्यताम् ॥ २० ॥ भोगाभोगोत्सुकः सोथ, विद्यासाधनभीरुकः ॥ विद्याधिवासितं कुम्भ-मेव देहीत्युवाच तम् ॥ २०॥ विद्यासिद्ध-| स्ततस्तस्मै, सद्यस्तं कलशं ददौ ॥ दक्षः कक्षीकृते ह्यर्थे, विलम्ब नावलम्बते ॥२१॥ दुःस्थमोपि तं कुम्भ-मादायामोदमेदुरः ॥ ययौ तूर्णं निजग्राम-मिति दध्यौ च चेतसि ॥२२॥ देशान्तरप्राप्तया किं, पीनयापि तया श्रिया ॥ यां विद्विषो न पश्यन्ति, या च मित्रने भुज्यते ॥ २३॥ इत्यसो घटमाहात्म्यात् , कृत्वा वेश्मादि कामितं ॥ खच्छन्दं बुभुजे भोगान् , बन्धुमित्रादिभिः समम् ॥ २४ ॥ खतः सिद्धेषु भोगेषु, किमेभिरिति बुद्धयः ॥ तदा कृष्यादिकर्माणि, मुमुचुस्तस्य बन्धवः ॥ २५॥ धेन्वादीनां पशूनाञ्च, रक्षां चक्रुर्न ते जडाः ॥ नश्यन्ति स्म ततस्तेपि, तिष्ठेद्वा किमरक्षितम् ? ॥ २६ ॥ सुखीकृतोऽमुना बन्धु-युक्तोऽहमिति सम्मदात् ॥ पीतासवोऽन्यदा स्कन्धा-हितकुम्भो ननत सः॥ २७ ॥ उन्मत्तस्य करात्तस्य, विच्युतः कलशस्ततः ॥ सद्योऽभूच्छतधा भाग्य-हीनस्येव मनोरथः॥ २८ ॥ कुम्भप्रभावप्रभवं, भवनं विभवादि च.॥ ततो गन्धर्वनगर-मिव तूर्णं तिरोदधे ॥ २९ ॥ कुम्भोत्थया प्राच्यया च, सम्पदा रहिता भृशम् ॥ ततस्तेऽन्वभवहुःखं, सर्वेऽन्यप्रेष्यतादिभिः ॥ ३०॥ अथ प्रागेव तां विद्यामग्रहीष्यत्स चेत्स्वयम् ॥ एकस्य तस्य भङ्गेऽन्य-मकरिष्यत्तदा घटम् ॥ ३१॥ विद्यां विना तु कलशं, तादृशं कर्तुमक्षमः ॥ नित्यं दौर्गत्यसाङ्गत्या-दत्यन्तं व्याकुलोऽभवत् ॥ ३२॥ यथा प्रमादादनुपात्तविद्यः, स मन्दधीदुःखमिहेव
Page #354
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१७७॥
लेमे ॥ तथाङ्गिनोऽन्येपि लभंन्ति तत्व-ज्ञानं विना दुःखमनेकभेदम् ॥ ३३ ॥ इति विद्याहीनत्वे दुःस्थकथेति षष्ठमध्यसूत्रार्थः ॥१॥ यतश्चैवं ततो यत्कार्य तदाह
यनम् (६) मूलम्-समिक्खं पंडिए तम्हा, पासजाइपहे बहू ॥ अप्पणा सच्चमेसिजा, मित्तिं भूएसु कप्पए ॥२॥ ___ व्याख्या-समीक्ष्य आलोच्य पण्डितस्तत्त्वातत्त्वविवेकनिष्णः, 'तम्हत्ति' यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात् , किं समीक्ष्येत्याह-'पासेत्यादि'-पाशा इव पाशा अत्यन्तपारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीवमोहोदयादिहेतुतया जातीनामेकेन्द्रियादिजातीनां पन्थानस्तत्प्रापकत्वान्मार्गाः पाशजातिपथास्तान् बहून् प्रभूतान् विद्यारहितानां विलुप्तिहेतून् , किं कुर्यादित्याह-आत्मना खयं न तु परोपरोधादिना, सद्भ्यो जीवेभ्यो हितः सत्यः संयमस्तं एषयेद्वेषयेत्, किञ्च मैत्री मित्रभावं भूतेषु पृथिव्यादिप्राणिषु कल्पयेत्कुर्यादिति सूत्रार्थः ॥२॥ अपरञ्चमूलम्-माया पिआ ण्हुसा भाया, भज्जा पुत्ताय ओरसा। नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा॥३॥ | व्याख्या-पूर्वाधं स्पष्टं, नवरं 'बहुसत्ति' सुषा पुत्रवधूः, 'ओरसत्ति' उरसि भवा औरसाः स्वयमुत्पादिता इत्यर्थः, नालं न समस्त मात्रादयो मम त्राणाय रक्षणाय लुप्यमानस्य खकर्मणा ज्ञानावरणीयादिनेति ॥३॥ ततश्च
13॥१७॥ मूलम् –एअमहं सपेहाए, पासे समिअ दसणे । छिंद गेहिं सिणेहं च, न कंखे पुवसंथवं ॥४॥
१ आत्मनेपदस्यानित्यत्वादयं प्रयोगः समर्थनीयः ।।
Page #355
--------------------------------------------------------------------------
________________
व्याख्या-एवमनन्तरोक्तमर्थ खप्रेक्षया खबुद्ध्या 'पासेत्ति' पश्येदवधारयेत् , शमितमुपशमितं दर्शनं प्रस्तावान्मिथ्यात्वात्मकं येन स शमितदर्शनः सम्यग्दृष्टिः सन् , 'छिंदत्ति' सूत्रत्वात् छिंद्यात् , गृद्धिं विषयाभिष्वङ्गरूपां, स्नेहञ्च खजनादिप्रेम, न नैव कांक्षेदभिलपेत् पूर्वसंस्तवं पूर्वपरिचयं, एकग्रामोषितोऽयमित्यादिकं, यतो न कोपि दुःखोत्पत्तौ अत्रामुत्र वा त्राणाय धर्म विनेति सूत्रद्वयार्थः ॥ ४ ॥ एनमेवार्थ विशेषतोऽनूद्यास्यैव फलमाहमूलम्-गवासं मणिकुंडलं, पसवो दासपोरुसं । सबमेअं चइत्ता णं, कामरूवी भविस्ससि ॥ ५॥ | व्याख्या-गावश्च अश्वाश्च गवाश्चं, अत्र गोशब्देन धेनवो वृषभाश्च गृह्यन्ते, पशुत्वेऽप्यनयोः पृथगुपादानमत्यन्तोपयोगित्वेन प्राधान्यात्, मणयश्च चन्द्रकान्ताद्याः, कुण्डलानि च कर्णाभरणानि मणिकुण्डलं,उपलक्षणं चैतत्वर्णादीनां सर्वभूषणानाञ्च । पशवोऽजैडकादयः । दासाश्च गृहजातादयः 'पोरुसंति' सूत्रत्वात् पौरुषेयं च पुरुषसमूहो दासपौरुषेयं । सर्वमेवैतत् पूर्वोक्तं त्यक्त्वा हित्वा संयमाङ्गीकारेणेति भावः, कामरूपी भविष्यसि, इहैव विकरणाद्यनेकलब्धियोगात् परत्र च देवभवाप्तेरिति सूत्रार्थः ॥ ६ ॥ पुनर्द्वितीयगाथोक्तसत्यखरूपमेव विशेषत आहमूलम्-थावरं जंगमं चेव, धणं धन्नं उवक्खरं । पच्चमाणस्स कम्मेहिं, नालं दुक्खाओ मोअणे॥६॥
१ अथवा-सम्यकप्रकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः एतादृशः संयमी ॥ ग. घ.
Page #356
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१७८॥
|. व्याख्या-स्थावरं गृहारामादि, जङ्गमं पत्यादि, 'चेवत्ति' समुच्चये, धनधान्ये प्रतीते, उपस्करं गृहोपकरणं, षष्ठमध्यएतानि कर्मभिः पच्यमानस्य जीवस्य नालं, न प्रभूणि दुःखाद्विमोचने इति सूत्रार्थः ॥ ६॥ ततश्च
यनम् (६) मूलम्-अज्झत्थं सबओ सवं,दिस्स पाणे पिआयए । न हणे पाणिणो पाणे,भयवेराओ उवरए ॥७॥
व्याख्या-'अज्झत्थंति' सूत्रत्वादध्यात्मस्थं, तत्राध्यात्म.मनस्तत्र तिष्ठतीति अध्यात्मस्थं, तचेह प्रस्तावात्सु. खादि सर्वत इष्टसंयोगानिष्टवियोगादिहेतुभ्यो जातमिति शेषः, सर्व सकलं 'दिस्सत्ति' दृष्ट्वा प्रियादिखरूपेणावधार्य, चस्स गम्यमानत्वात्प्राणांश्च जीवान् “पिआयएत्ति' प्रिय आत्मा येषां ते तथा तान् , बहुहिरण्यकोटिमूल्येनाऽभयकुमाराप्राप्तयवमात्रकालेयदृष्टान्तेन दृष्ट्वा न हन्यात् प्राणिनः प्राणान् इन्द्रियादीन् , प्राणिन इत्यत्र जातित्वादेकवचनं
१ यथा राजगृहे सभास्थितेन श्रेणिकनृपेण प्रोक्तं, सम्प्रति नगरे किं वस्तु सुलभं स्वादु चास्ति ? क्षत्रियाः प्रोचुर्मासं समर्घ खादु चास्ति । तदा अभयकुमारेण चिन्तितं, एते निर्दयाः ! यथा पुनरप्येवं न जल्पेयुस्तथा कुर्याम् । ततो रात्रौ सर्वक्षत्रियगृहेषु पृथक् पृथक् । गत्वा अभय एवमवादीत् । भो क्षत्रियाः ! राजपुत्रशरीरे महाव्याधिरुत्पन्नोस्ति ! यदि मनुष्यसत्कं कालेयमांसं टंकद्वयमितं दीयते तदा स|| जीवति नान्यथेति वैद्यैरुक्तमस्ति ! ततो यूयं राज्ञो ग्रासजीविनो भवद्भिरेवैतत्कार्य कर्त्तव्यं ! । तदा एकेनोक्तं दीनारसहस्रं गृहाण परं मां मुश्च. ॥१७८॥ अन्यत्र गच्छ ! अभयेन तद्गृहीतम् । एवं रात्रौ प्रतिगृहं परिभ्रम्य तैर्दत्तानि बहूनि दीनारलक्षाण्यादाय प्रभाते नृपसभायां तद्धनं क्षत्रियेभ्यो | दर्शितं, प्रोक्तञ्च । अहो ! गतदिने यूयमेवमवदत! यन्मांसं सुलभमिति, अद्य तु एतावता द्रव्येणापि तन्मांसं मया न प्राप्तं!। ततो लज्जिता अभयेन हकिता मांसभक्षणनियमं प्रापिताश्च । अत्रार्थे श्लोकः-"स्वमांसं दुर्लभं लोके, लक्षणापि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम्"।
Page #357
--------------------------------------------------------------------------
________________
कीदृशः सन्नित्याह-भयं च भीतिरं च द्वेषो भयवैरं तस्मादुपरतो निवृत्तः सन्निति सूत्रार्थः ॥ ७ ॥ एवं हिंसाश्रवनिरोधमुक्त्वा शेषानवनिरोधमाहमूलम्-आदाणं नरयं दिस्स, नायइज तणामवि । दोगुंछी अप्पणो पाए,दिण्णं भुजिज भोअणं ॥८॥
व्याख्या-आदीयते इत्यादानं, धनधान्यादि,नरकहेतुत्वान्नरकं दृष्ट्वावधार्य नाददीत न गृह्णीयात्तृणमपि, आस्तां | हिरण्यादि। कथं तर्हि जीवनमित्याह-'दोगुंछित्ति' जुगुप्सते आत्मानं आहारं विना धर्मधुराधरणाक्षममित्येवं शीलो
जुगुप्सी, न तु रसादिलम्पटः, आत्मनः सम्बन्धिनि पात्रे, न तु गृहस्थपात्रे, तत्र भुानस्य पश्चात्कर्मादिदोषसम्भवात् , दत्तं गृहस्थैरिति शेषः, भुजीत भोजनमाहारं। अनेन परिग्रहाश्रवपरिहार उक्तः, तदेवं तन्मध्यपतितस्तद्हणेन गृह्यते इति न्यायान्मृषावादादत्तादानमैथुनलक्षणाश्रवत्रयनिरोध उक्त एवेति सूत्रार्थः ॥८॥ एवं पञ्चाश्रवविरम-15 णात्मके संयमे प्रोक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाहमूलम्-इहमेगे उ मण्णंति, अप्पच्चक्खाय पावगं । आयरिअं विदित्ता णं, सबदुक्खा विमुच्चइ ॥९॥
व्याख्या-इह जगति एके केचित्परतीर्थिकाः, तुः पुनरर्थे, मन्यन्ते अभ्युपगच्छन्ति उपलक्षणत्वात्प्ररूपयन्ति च, यथा अप्रत्याख्याय अनिवार्य पातकं प्राणातिपातादि 'आयरिअंति' आचारिक निजनिजाचारभवमनुष्ठानं तदेव विदित्वा यथावदवबुध्य सर्वदुःखात् शारीरमानसाद्विमुच्यते, यदाहुः-“पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः ॥ जटी
SARROSSOSLASHISHALA
Page #358
--------------------------------------------------------------------------
________________
1962
षष्ठमध्ययनम् (६)
उत्तराध्ययन मण्डी शिखी वापि. मुच्यते नात्र संशयः॥१॥ तेषां हि ज्ञानमेव मुक्तिकारणं, न चैतचारु, न हि रोगिणामप्यो
षधादिज्ञानादेव रोगाभावः, किन्तु तदासेवनादेव, तर्हि भावरोगेभ्यो ज्ञानावरणादिकर्मभ्योपि महाव्रतात्मकपञ्चा॥१७९॥
झोपलक्षितक्रियां विना कथं मुक्तिरिति ? ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैव आत्मानं खस्थय-1 जन्तीति ॥९॥ तथा चाह
मूलम्-भणंता अकरिता य, बंधमोक्खपइण्णिणो । वायावीरिअमेत्तेणं, समासासंति अप्पयं ॥१०॥ | व्याख्या-भणन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति ब्रुवन्तः, अकुर्वन्तश्च मुक्त्युपायानुष्ठानं, बन्धमोक्षयोः प्रतिज्ञाभ्युपगमो बन्धमोक्षप्रतिज्ञा तद्वन्तो बन्धमोक्षप्रतिज्ञिनो, विद्यते बन्धमोक्षावित्येवंवादिन एव, न तु तथानुष्ठायिनः । वाग्वीर्य वचनशक्तिर्वाचालतेति यावत् , तदेवानुष्ठानशून्यं वाग्वीर्यमानं तेन समाश्वासयन्ति, ज्ञानादेव वयं मुक्तिं यास्याम इति खस्थयन्त्यात्मानमिति सूत्रद्वयार्थः॥१०॥न च तद्वाग्वीय त्राणाय स्यादित्याहमूलम्-ण चित्ता तायए भासा,कओ विजाणुसासणं। विसण्णा पावकम्मेहि, बाला पंडिअमाणिणो॥११॥ ___ व्याख्या-न नैव चित्रा प्राकृतसंस्कृतादिका त्रायते रक्षति भाषा वचनात्मिका पापेभ्य इति शेषः, स्यादेतदचिन्त्यो हि मणिमंत्रौषधीनां प्रभाव इति मंत्राद्यात्मिका भाषा त्राणाय भाविनीत्याशङ्कापोहायाह-कुतो विद्याया विचित्रमंत्रात्मिकाया अनुशासनं शिक्षणं विद्यानुशासनं त्रायते पापान कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठानवैय
॥१७९॥
Page #359
--------------------------------------------------------------------------
________________
र्थ्यप्रसङ्ग इति भावः । ये तु विद्यानुशासनं त्राणायेत्याहुस्ते कीदृशा इत्याह-'विसण्णत्ति' विविधं सन्ना मनाः पापकस हिंसाधनुष्ठानेषु सततकारितयेति भावः, कुतश्चैवं ? यतस्ते बाला मूढाः पण्डितमात्मानं मन्यन्त इति पण्डितमानिनः, अयं भावः-ये वालाः पण्डितमानिनश्च न स्युस्ते खयं सम्यगजानानाः परं पृच्छेयुस्तदुपदेशाच दुष्कर्माणि| त्यजेयन त तेषु विषण्णा एवासीरन् ! ये तु बालाः पण्डितमानिनश्च ते तु खयमज्ञा अपि ज्ञत्वगर्वादन्यं ज्ञानिनमनाश्रयन्तो विषण्णा एव स्युरिति सूत्रार्थः ॥ ११॥ अथ सामान्यतयैव मुक्तिपथप्रत्यर्थिनां दोषमाह
मूलम्-जे केइ सरीरे सत्ता, वण्णे रूवे अ सबसो। मणसा कायवक्केणं, सवे ते दुक्खसंभवा ॥१२॥ RT व्याख्या-ये केचिच्छरीरे सक्ता लालनाभ्यअनोद्वर्तनादिभिर्बद्धाग्रहाः, तथा वर्णे गौरवत्वादिके, रूपे सौन्दर्य काच शब्दात् स्पर्शादिषु च सक्ता आसक्ताः, 'सबसोत्ति' सूत्रत्वात्सर्वथा खयं करणकारणादिभिः सर्वैः प्रकारैः, मनसा ||
कथं वयं पीनदेहा वर्णादिमन्तश्च भविष्याम इति ध्यानात् , कायेन रसाधुपभोगेन, वाक्येन रसायनादिप्रश्नरूपेण, सर्वे ते ज्ञानादेव मुक्तिरित्यादिवादिनो दुःखसम्भवा इहामुत्र च दुःखभाजनमिति सूत्रार्थः ॥ १२ ॥ यथा चैते| दुःखभाजनं तथा दर्शयन्नुपदेशसर्वखमाह- - मूलम्-आवन्ना दीहमद्धाणं, संसारंमि अणंतए । तम्हा सबदिसं पस्स, अप्पमत्तो परिवए॥ १३ ॥ व्याख्या--आपन्नाः प्राप्ता दीर्घमनाद्यनन्तं अध्वानमिवाध्वानं, अन्यान्यभवभ्रमणरूपं मार्ग, संसारे अनन्तके अप
Page #360
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१८॥
यवसाने दुःखान्यनुभवन्तीति शेषः 'तम्हत्ति' यस्मादेवमेते मुक्तिमार्गवैरिणो दुःखसम्भवास्तस्मात् 'सबदिसंति' सर्व-|| षष्ठमध्यदिशः प्रस्तावादशेषभावदिशोष्टादशभेदाः "पुढवि १ जल २ जलण ३ वाया ४ मूला ५ खंध ६ ग्ग ७ पोरबीआ यनम् (६) |य ८॥ बि ९ ति १० चउ ११ पणिदितिरिआ १२ य नारया १३ देवसंघाया १४ ॥१॥ संमुच्छिम १५ कम्मा १६ कम्मभूमिगनरा १७ तहंतरहीवा १८॥ भावदिसाओ दिस्सति, संसारी निअयमेआहिं ॥२॥” इतिगाथाद्वयोक्ताः पश्यन् अप्रमत्तः प्रमादरहितः, यथा तेषां एकेन्द्रियादीनां विराधना न स्यान्न च तेषु पुनरुत्पत्तिर्भवति तथा परिव्रजेः संयमाध्वनि यायाः सुशिष्येति सूत्रार्थः ॥ १३ ॥ कथं परिव्रजेदित्याहमूलम्-बहिआ उड्डमादाय, नावकंखे कयाइवि । पुवकम्मक्खयट्ठाए, इमं देहं समुद्धरे ॥ १४ ॥ |
व्याख्या-बहिर्भूतं संसारादिति गम्यते, ऊर्द्ध सर्वोपरिस्थितमर्थान्मोक्षमादाय गृहीत्वा मयैतदर्थं यतितव्यमिति निश्चित्य नावकांक्षेद्विषयादिकं नाभिलषेत् कदाचिदपि उपसर्गपरीपहाकुलिततायामपि आस्तामन्यदा। एवञ्च सत्याकांक्षाकारणं देहधारणमप्ययुक्तमित्याशङ्कापोहार्थमाह-पूर्वं पूर्वकालभावि यत्कर्म तत्क्षयार्थ इमं प्रत्यक्षं देहं समुद्धरेत उचिताहारादिभिः परिपालयेत् , तद्धारणस्य विशुद्धिहेतुत्वात्तत्पाते हि भवान्तरोत्पत्तावविरतिः स्यादुक्तञ्च-"सवत्थ
॥१८ ॥ संजमं संजमाओ अप्पाणमेव रक्खिजा ॥ मुञ्चति अतिवायाओ, पुणो विसोही न याविरई॥१॥" ततो निरभिप्वङ्गतया शरीरोद्धरणमपि कर्त्तव्यमिति सूत्रार्थः ॥ १४ ॥ देहपालने च निरभिष्वङ्गताविधिमाह
Page #361
--------------------------------------------------------------------------
________________
मूलम्-विगिंच कम्मणो हेडं, कालकंखी परिवए । मायं पिंडस्स पाणस्स, कडं लक्षूण भक्खए॥१५॥ ___ व्याख्या-विविच्य पृथकृत्य कर्मणो ज्ञानावरणादेर्हेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, कालमनुष्ठानावसरं कांक्षतीत्येवं शीलः कालकांक्षी परिजेदिति प्राग्वत् , मात्रां यावत्या संयमनिर्वाहस्तावती ज्ञात्वेति शेषः, पिण्डस्य ओदनादेः, पानस्य च सौवीरादेः, खाद्यखाद्यानादानं तु यतेः प्रायस्तत्परिभोगासम्भवात् , कृतं खार्थमेव विहितं गृहस्थैरिति शेषः, प्रक्रमात् पिण्डादिकमेव लब्ध्वा प्राप्य भक्षयेदिति सूत्रार्थः॥१५॥ भुक्तशेषञ्च न दिनान्तरमुक्तये स्थाप्यमित्याह
मूलम्-सन्निहिं च न कुविजा, लेवमायाइ संजए । पक्खीपत्तं समादाय, निरविक्खो परिवए ॥१६॥ KI व्याख्या-सन्निधिः समयोक्त्या दिनान्तरे भोजनार्थ भक्तादिस्थापनं तं न कुर्वात, चः पूर्वापेक्षया समुचये, लेप
मात्रया यावता पात्रं लिप्यते तावन्तमपि सन्निधिं न कुर्यादास्तां बहुं, संयतो मुनिः, किमेवं पात्राद्युपकरणसन्निधि-18
रपि न कर्तव्य इत्याह-'पक्खीत्यादि' पक्षीव पक्षी, पात्रं पतहादिभाजनं, उपलक्षणत्वाच्छेषोपकरणञ्च समादाय 8 गृहीत्वा निरपेक्षो निरभिलापः परिव्रजेदयं भावः- यथा पक्षी पक्षसञ्चयमादाय याति तथायमपि पात्रादिकमिति,
ततश्च प्रत्यहमसंयमपलिमन्थभीरुत्वात् पात्रादिसन्निधिकरणम् न दोपायेति सूत्रार्थः ॥ १६ ॥ कथं पुनर्निरपेक्षः परिव्रजेदित्याह
CARA
Page #362
--------------------------------------------------------------------------
________________
उत्तराध्ययन । मूलम्-एसणासमिओ लज्जू , गामे अणिअओ चरे । अप्पमत्तो पमत्तेहिं, पिंडवायं गवेसए ॥१७॥ षष्ठमध्य॥१८॥
BI व्याख्या-एपणायामुद्गमोत्पादनग्रहणग्रासविषयायां समित उपयुक्त एषणासमितः, अनेन निरपेक्षत्वमुक्तं, 'लज-शायनम् (६)
त्ति लजा संयमस्तद्वान् , ग्रामे उपलक्षणत्वान्नगरादौ च अनियतवृत्तिश्चरेत् विहरेत् , अनेनापि निरपेक्षतवोक्ता, चरंश्च किं कुर्वीतेत्याह-अप्रमत्तः सन् प्रमत्तेभ्यो गृहस्थेभ्यस्ते हि विषयादिसेवनासक्तत्वात्प्रमत्ता उच्यन्ते पिण्डपातं भिक्षा गवेषयदिति सूत्रार्थः ॥ १७ ॥ इत्थं संयमखरूपप्ररूपणद्वारा निर्ग्रन्थखरूपमुक्तं, न चैतन्निजमतिकल्पितमित्याह___ मूलम्-एवं से उदाहु अण्णुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदसणधरे
अरहा णायपुत्ते भयवं वेसालिए विआहिएत्ति बेमि ॥ १८ ॥ व्याख्या-एवमनेन प्रकारेण 'से' इति, स खामी ‘उदाहुत्ति' उदाहृतवान् उवाचेत्यर्थः । अनुत्तरज्ञानी सर्वोत्कृ-| ज्ञानवान् । तथाऽनुत्तरं सर्वोत्कृष्टं पश्यतीत्यनुत्तरदर्शी । सामान्यविशेषग्राहितया च दर्शनज्ञानयोर्भेदः । यदाहु:"जं सामण्णग्गहणं, सणमेअं विसेसि नाणंति" अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः । पूर्वविशेषणाभ्यां हि ज्ञानदर्शनयोरुपयोगस्य भिन्नकालतोक्ता, ततश्चोपयोगवल्लब्धियमपि भिन्नकालं भावीति व्यामोहः कस्यचिन्माभूदत उक्तमनुत्तरज्ञानदर्शनधर इति न पौनरुक्त्यं । अर्हन् तीर्थकरो, 8
१॥
Page #363
--------------------------------------------------------------------------
________________
ज्ञात उदारक्षत्रियः स चेह सिद्धार्थस्तत्पुत्रो ज्ञातपुत्रः श्रीवर्द्धमानजिनः, भगवान् समग्रैश्चर्यादिमान् , विशालाः| शिष्या यशःप्रभृतयो वा गुणा विद्यन्ते यस्य स वैशालिकः, 'विआहिएत्ति' व्याख्याता सदेवमनुजासुरायां पर्षदि धर्मस्य कथयितेति सूत्रार्थः ॥ १८॥ इति ब्रवीमीति प्राग्वत् ॥
SHRESTHA
AGRAT
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यो पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षष्ठमध्ययनं सम्पूर्णम् ॥ ६॥
Page #364
--------------------------------------------------------------------------
________________
EPASSAGIRIAGRAMRARIAGRASSASRASRANAGANGRASSASSAGAR
"सूरि श्रीविजयानन्द, विजयानन्दकारकम् । “आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥"
॥इति षष्ठमध्ययनं सम्पूर्णम् ॥
“वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥”
Favocadosvcavalavaavalavdavalavaadavalaavaadates
Page #365
--------------------------------------------------------------------------
________________
"अथ सप्तमाध्ययनम्”
॥ॐ॥व्याख्यातं षष्ठमध्ययनं साम्प्रतमौर श्रीयाभिधं सप्तमं प्रस्तूयते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्ब्रन्थत्वं उक्तं तच्च रसगृद्धेः परिहारादेव स्यात्, तत्परिहारस्तु विपक्षे दोषदर्शनात्तच दृष्टान्तोपदर्शनद्वारा स्फुटं स्यादिति | रसगृद्धिदोषदर्शको र भ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते, इत्यनेन सम्बन्धेनायातेऽस्मिन्नध्ययने दृष्टान्तपञ्चकं वाच्यं यदाह निर्युक्तिकृत् -" उरब्भे १ कागिणि २ अंबएअ ३ ववहार ४ सायरे चेव ५ ॥ पंचेए दिट्ठता, ओरब्भीअंमि अज्झयणे ॥ १ ॥” तत्रादावुरभ्रदृष्टान्ताभिधायकमिदमादिसूत्रम् -
मूलम् — जहा एसं समुद्दिस्स, कोइ पोसिज एलयं । ओअणं जवसं दिजा, पोसेज्जावि सयंगणे ॥ १ ॥
" व्याख्या - यथेत्युदाहरणोपदर्शने, आदिश्यते विविधकार्येषु आज्ञाप्यते परिजनोऽस्मिन्नागत इत्यादेशः प्राघूर्ण - कस्तं समुद्दिश्य यथाऽसौ समेष्यति समायातश्चैनं भोक्ष्यत इति विचिन्त्य कश्चित्परलोकनिरपेक्षः पोषयेत् एलकमूरणकं, कथमित्याह - ओदनं भुक्तशेषं तद्योग्य शेषान्नोपलक्षणञ्चैतत् यवसं मुद्गमाषादि च दद्यात्तदग्रतो ढौकयेत्, पोषयेत्, पुनर्वचनमस्यादरख्यापनार्थ, अपिः सम्भावने, संभाव्यते हि कोप्येवंविधो गुरुकर्मेति, खकाङ्गणे स्वकीयगृहप्राङ्गणे, अन्यत्र हि नियुक्तः कदाचिन्नौदनादि ददातीति खकाङ्गण इत्युक्तमिति सूत्रार्थः ॥ १ ॥ ततोऽसौ कीदृशो भवतीत्याह
Page #366
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १८३ ॥
मूलम् - तओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ॥ २ ॥ व्याख्या - तत इत्योदनादिभोजनात्स इत्युरभ्रः, पुष्ट उपचितमांसतया पुष्टिमान्, परिवृढः समर्थः, जातमेदा उपचितचतुर्थधातुः, अत एव महोदरो बृहज्जठरः, प्रीणितस्तर्पितो यथाकालमुपढौकिताहारादिभिरेव, विपुले विशाले | देहे सति आदेशं परिकांक्षतीव परिकांक्षति । इह च उरभ्रार्भकस्य प्राघूर्णकाभिकांक्षाभावेऽपि यदेवमुक्तं तदादेशयोग्योऽसौ जात इति जनैरुच्यमानत्वात् तद्योग्यश्च तमिच्छतीत्युपचारादुच्यते, यथा हि बराह कनी वरमनिच्छन्त्यपि तमिच्छतीत्युच्यते इति सूत्रार्थः ॥ २ ॥ ततश्च
ܕ
मूलम् -- जाव न एइ आएसे, ताव जीवइ से दुही । अह पत्तंमि आपसे, सीसं छित्तूण भुजइ ॥३॥
व्याख्या - यावन्नेति न समायाति आदेशोऽतिथिस्तावज्जीवति प्राणान् धारयति स उरभ्रो दुःखी, वध्यमण्डनमिवास्यौदनादेरदनस्य दानं । अहेत्यादि - अथानन्तरं प्राप्ते आगते आदेशे शिरो मस्तकं छित्वा द्विधा विधाय भुज्यते तेनैव खामिना प्राघूर्णकयुक्तेनेति शेषः । अत्र चायं सम्प्रादायः
तथा हि नगरे क्वापि, गृहस्थः कोऽपि निष्क्रियः ॥ उरभ्रबालकं कञ्चित्, पुपोषाऽतिथिहेतवे ॥ १ ॥ मुग्धत्वमञ्जुलाकारं, कृतकर्णावचूलकम् ॥ त्रपिताङ्गं हरिद्रादि - रागालङ्कृतभूघनम् ॥ २ ॥ तञ्चातिपीनवपुषं गृहा
सप्तमाध्य यनम् (७)
॥ १८३ ॥
Page #367
--------------------------------------------------------------------------
________________
*
[धिपतिबालकाः ॥ क्रीडाप्रकारैर्विविधैः, क्रीडयाञ्चक्रुरन्व हम् ॥३॥ [युग्मम् ] तश्च दृष्ट्वा लाल्यमानमुत्कोपः कोऽपि तर्णकः ॥ विमुक्तं गोदुहा मात्रा, गोपितं न पपौ पयः ॥ ४ ॥ लिहती तं ततः स्नेहा-द्धेनुः पप्रच्छ वत्सकम् ॥ कुतो हेतोरिदं दुग्धं, न पिबस्यद्य नन्दन! ॥५॥ सोऽवादीद्भोजन रम्यैः, सर्वेऽस्मत्खामिनन्दनाः ॥ उरभ्रं पोषयन्येनं, लालयन्ति च पुत्रवत् ॥६॥ मन्दभाग्याय मह्यं तु, न काले पाययन्त्यपः ॥ न च यच्छन्ति पूर्णानि, शुष्काण्यपि तृणान्यहो !॥ ७॥ पति भेदेन तन्मात-मनो मे दूयते ।
न्यहम् ॥ ६ ॥ तच्छुत्वा गोर्जगी वत्स !, किमत्रार्थे विपी-15 दसि ? ॥ उरभ्रपोषणं ह्येत-दातुरार्पणसन्निभम् ॥ ९॥ रोगिणाऽभ्यर्थ्यमानं हि, निश्चितासन्नमृत्युना ॥ यथा पथ्यमपथ्यं वा, सर्व तस्मै प्रदीयते ॥ १० ॥ ज्ञेयं वत्स! तथैवेद-मुरभ्रस्यापि पोषणम् ॥ लप्स्यते नियतं मृत्यु-मागतेऽ- | भ्यागते ह्यसौ ॥ ११ ॥ शुष्कस्तोकतृणावाप्ति-रप्यसौ शोभना ततः ॥ उपद्रवविनिर्मुक्तैः, सुचिरं जीव्यते यया । ॥ १२॥ जनन्येत्युदितःप्रेम्णा, तर्णकः स्तन्यमापिबत् ॥ प्राघूर्णकाः समाजग्मु-स्तत्वामिसदनेऽन्यदा ॥ १३॥ तमुरनं ततो हत्वा, गृहेशस्तानभोजयत् ॥ निघ्नन्ति हि परान् स्वल्पा-यापि स्वार्थाय निर्दयाः!॥ १४॥ तञ्च |दृष्ट्वा हन्यमान-ममानं भीतमानसः ॥ नापान्मातुः पयः साय-मायातायाः स तर्णकः ॥ १५॥ दुग्धापाननिदानं च, पृष्टो मात्राऽब्रवीदिति ॥ मातरद्य कुतोप्यत्रा-ऽऽययुः प्राघूर्णका घनाः॥१६॥ ततो व्यात्ताननः कृष्ट-जिह्वाग्रो
RARARAPASAKASASA
Page #368
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१८४॥
विहलेक्षणः॥ हतोऽस्मत्खामिना दीनः, स मेषो विखरं रसन् ! ॥ १७॥ तां दशां तस्य दृष्ट्वाहं, न पयः पातम- सप्तमाध्य. त्सहे ॥ भवन्ति मृदुचित्ता हि, परदुःखेन दुःखिताः!॥ १८॥ धेनुर्जगी सुत ! तदैव मया तवोक्त-मूर्णायुपोषण
यनम् (७) मिहातुरदानदेश्यम् ॥ तत्तस्य दुःखमपहाय धृतिं विधाय, मां प्रश्रुतामनुगृहाण गृहाण दुग्धम् ॥ १९ ॥ इत्युरभ्र || दृष्टान्त इति सूत्रार्थः ॥ ३॥ एवं दृष्टान्तमुक्त्वा तमेवानुवदन् दार्टान्तिकयोजनामाहमूलम्-जहा खलु से उरब्भे, आएसाए समीहिए । एवं बाले अहम्मिट्टे, ईहइ नरयाउअं ॥४॥ | व्याख्या-यथा येन प्रकारेण खलु निश्चये स इति पूर्वोक्तखरूप उरभ्र आदेशाय प्राघूर्णकार्थे समीहितोऽसावादेशाय भावीति कल्पितः सन् आदेशं परिकांक्षतीत्यनुवर्तते, एवमनेनैव न्यायेन बालो मूढः, अधर्मः पापमिष्टो । यस्थासौ अधर्मेष्टः, यद्वा अतिशयेनाधर्मोऽधर्मिष्ठः, ईहते वाञ्छति तदनुकूलाचरणेन नरकायुष्कं नरकजीवितमिति सूत्रार्थः॥ ४ ॥ उक्तमेवार्थ प्रपञ्चयन् सूत्रत्रयमाहमूलम्-हिंसे बाले मुसावाई, अद्धाणमि विलोवए। अन्न दत्तहरे तेणे, माई कन्नु हरे सढो ॥५॥॥१८४ ॥
इत्थीविसयगिद्धे अ, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परं दमे ॥६॥ अयकक्करभोई अ, तुंदिल्ले चिअलोहिए । आउअं नरए कंखे, जहा एसंव एलए ॥७॥
Page #369
--------------------------------------------------------------------------
________________
व्याख्या - हिंस्रः खभावत एव प्राणिघातकः, बालोऽज्ञः, मृषावादी असत्यभाषकः, अध्वनि मार्गे व्रजतो जनानिति शेषः, विविधं सर्वस्वहरणादिना लुम्पतीति विलोपकः, अन्यैरदत्तं हरतीति अन्यादत्तहरः, स्तेनो ग्रामपुरादिषु चौर्येण कल्पितवृत्तिः, मायी वञ्चनैकचित्तः, 'कं नु हरेत्ति' कमिति कस्यार्थं नु वितर्के हरिष्यामीत्यध्यवसायी कंनु - हरः, शठो वक्राचारः ॥ ५ ॥ स्त्रीषु विषयेषु च गृद्धः चः समुच्चये, महानपरिमित आरम्भो भूरिजन्तूपमर्दको व्यापारः परिग्रहश्च धनधान्यादिसञ्चयो यस्य स तथा, भुआनः खादन् सुरां मद्यं मांसं परिवृढः पुष्टमांसशोणिततया नानाक्रियासमर्थः, अत एव परंदमोऽन्येषां दमयिता ॥ ६ ॥ अजस्य छागस्य कर्करं यद्भक्ष्यमाणं कर्करायते तच्चेह प्रस्तावादतिपक्कं मांसं तद्भोजी, अत एव तुन्दिलो बृहज्जठरः, चितलोहितः पुष्टशोणितः, शेषधातूपचयोपल - क्षणमेतत्, आयुर्जीवितं नरके सीमन्तकादौ कांक्षतीव कांक्षति, तद्योग्यकर्मारम्भितया कमिव क इवेत्याह- 'जहा एस व एलएत्ति' आदेशमिव यथा एडकः प्रोक्तरूपः । इह च हिंसेत्यादिना सार्धश्लोकद्वयेनारम्भरसगृद्धी प्रोक्ते, आउअमित्यादिना श्लोकार्थेन तु दुर्गतिप्राप्तिरूपोपाय उक्त इति सूत्रत्रयार्थः ॥७॥ अथ साक्षादैहिकापायं सूत्रद्वयेनाह - मूलम् - आसणं सयणं जाणं, वित्तं कामे अभुंजिआ । दुस्साहडं धणं हिच्चा, बहु संचिणिआ रयं ॥८॥ तओ कम्मगुरू जंतू, पच्चुत्पन्नपरायणे । अएव आगया एसे, मरणंतंमि सोअई ॥ ९ ॥ व्याख्या—आसनं, शयनं, यानं वाहनं, वित्तं, कामांश्च शब्दादीन् भुक्त्वोपभुज्य, दुःखेन संहियते मील्यते
156464564445
Page #370
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१८५॥
इति दुःसंहृतं धनं हित्वा द्यूताद्यसद्ययेन, बहु प्रभूतं सञ्चित्योपाय॑ रजोऽष्टप्रकारं कर्म ॥ ८ ॥ ततः कर्मसञ्चया-1 सप्तमाध्यनन्तरं कर्मगुरुः कर्मभारितो जन्तुः, प्रत्युत्पन्नं वर्तमानं तस्मिन् परायणस्तत्परः प्रत्युत्पन्नपरायणः । “एतावानेव यनम् (७) लोकोऽयं यावानिन्द्रियगोचरः" इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इत्यर्थः । 'अएवत्ति' अजः पशुः स चेह प्रक्रमादुरभ्रस्तद्वत् । 'आगयाएसेत्ति' सूत्रत्वात् आदेशे प्रघुिणके आगते सति, अनेन प्रपञ्चितवेदिविनेयानुग्रहायोक्तमप्युरभ्रदृष्टान्तं स्मारयति, किमित्याह-मरणरूपः अन्तः अवसानं मरणान्तस्तस्मिन् शोचति । अयं भावःयथाऽऽदेशे समागते उरभ्रः शोचति तथाऽयमपि, धिग्मां! विषयव्यामोहितमतिमुपार्जितगुरुकर्माणं ! हा! क्वेदानीं मया गन्तव्यमित्यादि प्रलापतः खिद्यते, नास्तिकस्यापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ॥९॥ ऐहिकमपायमुक्त्वा पारभविकमाहमूलम्-तओ आउपरिक्खिणे, चुआ देहा विहिंसगा।आसुरीअं दिसं बाला, गच्छंति अवसा तमं॥१०॥ | व्याख्या-ततः शोचनान्तरं 'आउत्ति' आयुपि तद्भवसम्बन्धिनि जीविते परिक्षीणे सर्वथा क्षयगते च्युतो भ्रष्टो देहाद्विहिंसको विविधैः प्रकारैः प्राणिघातकः 'आसुरीअंति' असुरा रौद्रकर्मकर्मठास्तेषामियं आसुरी तां दिशं ॥१८५॥ भावदिशं नरकगतिमित्यर्थः, बालो अज्ञो गच्छति अवशः परवशः, सर्वत्र बहुवचननिर्देशस्तु एक एव नैतादृशः किन्तु भूयांस इति सूचनार्थ, 'तमंति' तमोयुक्तां गतिविशेषणश्चैतत्, यदुक्तं-निचंधयारतमसा, ववगयगहचंदसूर
Page #371
--------------------------------------------------------------------------
________________
णक्खत्ता ॥ निरया अणंत विअणा, पणट्ठसद्दाइविसया य ॥ १॥ इति सूत्रार्थः ॥ १०॥ सम्प्रति काकिण्याम्रदृष्टान्तद्वयमाह__ मूलम्-जहा कागणिए हेडं, सहस्सं हारए नरो॥अपत्थं अंबगंभुच्चा, रायारजंतु हारए ॥ ११ ॥ | व्याख्या-यथेति दृष्टान्तोपदर्शने काकिण्या रूपकाशीतितमभागरूपायाः 'उंति' हेतोः कारणात्सहनं दश|शतात्मकं दीनाराणामिति गम्यते, हारयेन्नरः पुमान् । इहासौ सम्प्रदायः___ तथा हि दुर्गतः कोऽपि, भ्रामं भ्रामं महीतले ॥ उपायैर्विविधैर्निष्क-सहस्रं समुपार्जयत् ॥ १॥ ववले सह सार्थेन, तदादाय गृहं प्रति ॥ जन्मभूमिर्जन्मिनां हि, नान्यदेशेऽपि विस्मरेत् ॥ २॥ विधाय काकिणीरेक-रूपकस्य । स चाध्वनि ॥ एकैकां काकिणीं नित्यं, व्ययतिस्माऽशनादिना ॥ ३ ॥ अन्यदा काकिणीमेकां, विस्मार्य क्वापि सोऽचलत् ॥ दूरंगतश्चतां स्मृत्वा, चेतसीति व्यचिन्तयत् ॥ ४ ॥ काकिण्येकावशिष्टा मे, विस्मृता भोजनास्पदे ॥
इतस्तृतीयदिवसे, लप्स्ये चाहं गृहं निजम् ॥ ५॥ तदेककाकिणीतो-रन्यरूपकभेदनम् ॥ प्रातर्भावीति तामेव, र व्याघुट्य द्रुतमानये ॥ ६ ॥ ध्यात्वेति कापि सङ्गोप्य, स द्रव्यनकुलं द्रुतम् ॥ न्यवर्तिष्ट विमूढा हि, खल्पार्थ भूरि-2
हारिणः!॥७॥ गोप्यमानश्च तं द्रव्य-नकुलं कोऽपि दृष्टवान् ॥ तस्मिन् गते तु तं हृत्वा, ततस्तूर्ण स नष्टवान् ॥८॥ सोऽथ तद्विस्मृतिस्थान-मवाप्तो दुःस्थपूरुषः ॥ तत्रागतेन केनापि, हृतां न प्राप काकिणीम् ॥९॥
4596555*****
Page #372
--------------------------------------------------------------------------
________________
उत्तराध्ययन
सप्तमाध्ययनम् (७)
॥१८६॥
ततोऽसौ द्रव्यनकुल-स्थापनस्थानमागतः ॥ नापश्यत्तत्र तमपि, धूर्तधाम्नीव सूनृतम् ॥ १०॥ कृच्छ्रालब्धे ततस्त- स्मिन् , धने नष्टे स निर्धनः ॥ प्राप्तप्रणष्टनयन, इवोच्चैर्दुःखमासदत् ॥ ११ ॥ ततः स दुःखातिशयाद्विमूढ- मना निजं धाम जगाम निःखः॥ अल्पस्य हेतोबहुहारितं खं, निनिन्द चाऽऽपत्तटिनीनिमग्नः ॥१२॥ इति
काकिणीदृष्टान्तः॥ 8 तथा 'अपत्थंति' अपथ्यमाम्रफलं भुक्त्वा राजा राज्यं नृपत्वं तुरवधारणे भिन्नक्रमश्च ततो हारयेदेव, सम्भव
त्येव हि तस्यापथ्यभोजिनो राज्यहारणमित्यक्षरार्थः, भावार्थस्तु सम्प्रदायादवसेयः, स चायम्| तथा हि पार्थिवः कोऽपि, सहकारफलप्रियः॥बहनि बजे तानि, रसनारसलोलुपः॥१॥ तेभ्योऽजीर्णमभूत्तस, ततो जज्ञे विसूचिका ॥ अजीर्ण खलु सर्वेषां, रोगाणामादिकारणम् ॥ २॥ ततस्तं विविधोपायै-रचिकित्संश्चिकित्सकाः, ॥ नीरोगत्वे च जाते ते, प्रोचुरेवं महीपतिम् ॥३॥रोगोयमधुनास्माभिः, शमितोपि कथञ्चन ॥ पुनथूतफलाखादे, भावी मृत्युप्रदो द्रुतम् ॥४॥ तैरित्युक्तो नृपो दध्यौ, सत्सु माकन्दशाखिषु ॥ नाहं शक्ष्यामि हातुं तत्-फलानि रसलम्पटः॥५॥ ध्यात्वेत्यच्छेदयत्सर्वा-न्माकन्दान् विषये निजे ॥ आत्महेतोर्विमूढा हि, बहूना- मुपघातकाः!॥६॥ अन्यदा प्राभृतायातौ, द्वावश्वौ वक्रशिक्षितौ ॥ आरुह्य भूपसचिवौ, वाहकेल्यांप्रजग्मतुः ॥७॥ वलगाकर्षणतस्तुण, चलन्तौ तौ च वाजिनौ ॥ अरण्यं निन्यतर्देश-मुलंध्य नृपमंत्रिणौ ॥८॥ तयोश्च श्रान्तयो
॥१८६ ॥
Page #373
--------------------------------------------------------------------------
________________
स्तत्र, स्वयं संस्थितयोनृपः ॥ उत्तीर्य धीसखसखैः, प्रविशत्वापि कानने ॥९॥ वार्यमाणोप्यमात्येन, तत्र चूततरोस्तले ॥ निषद्य पक्वपतिता-न्यस्पृशत्तत्फलानि सः॥१०॥ तानि चादाय जिघ्रन्तं, मंत्रीत्यूचे महीधवम् ॥ अपथ्याहारतो जन्तु-विनश्यति विषादिव ॥ ११॥ तद्दर्शनं स्पर्शनञ्चा-घ्राणश्चैषां न तेऽर्हति ॥ स्त्रीणामिवैषां स्प
दौ, मनःस्थैर्य हि नो भवेत् ॥ १२॥ स्थैर्याभावे च भोगोऽपि, स्यादेषां जीवितापहः ॥ तत्किम्पाकफलानीव, त्याज्यान्येतान्यपि प्रभो!॥ १३॥ तेनेत्युक्तोऽपि को दोषः ?, स्यादेभिरिति चिन्तयन् ॥ बुभुजे तानि भूपो हि, दुस्त्यजा रसगृद्धता ! ॥ १४ ॥ सुप्तसिंह इव दण्डघट्टना-दुत्थितो लघु ततः फलाशनात् ॥ आमयः स नृपतिं । व्यनाशय-न्न ह्यपथ्यनिघसः शुभावहः ॥ १९ ॥ इत्यपथ्याम्रफलाशने नृपदृष्टान्त इति सूत्रार्थः॥ ११॥ एवं दृष्टान्तद्वयमभिधाय दाान्तिकयोजनामाहमूलम्-एवं माणुस्सगा कामा, देवकामाणमंतिए।सहस्सगुणिआ भुजो, आउं कामा य दिविआ॥१२॥
व्याख्या-एवमिति काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यकाः कामा विषया देवकामानामन्तिके समीपे | किमित्येवमत आह-सहस्रगुणिताः सहस्रलक्षणेन गुणकारेण गुणिता दिव्यकामा इति सबन्धः, भूयो बहून् वारान् मनुष्यायुःकामापेक्षया इति शेषः, आयुर्जीवितं कामाश्च शब्दादयो दिविभवा दिव्यास्त एव दिव्यका अनेन चैते
१ मंत्रिसहितः ॥
उ. ३२
Page #374
--------------------------------------------------------------------------
________________
उतराध्ययन
॥१८७॥
षामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्यतुल्यतामाह । इह च पूर्व 'देवकामाणमंतिएत्ति' काममात्रोपादाने
सप्तमाध्यऽपि 'आउं कामा य दिविआ' इत्यत्र यदायुषोप्यादानं तत्तत्रत्यायुष्कादीनामपि मनुष्यजीविताद्यपेक्षयातिभूयस्त्व- यनम् (७) ख्यापनार्थमिति सूत्रार्थः ॥ १२॥ मनुष्यकामानामेव काकिण्याम्रफलोपमतां भावयितुमाह--
गुनाह मूलम्-अणेगवासानउआ, जा सा पण्णवओ ठिई। जाणिं जीअंति दुम्मेहा, ऊणे वाससयाऊए ॥१३॥ ___ व्याख्या अनेकानि बहूनि तानि चेहासंख्येयानि वर्षाणां वत्सराणां नयुतानि संख्याविशेषा अनेकवर्षनयुतानि, प्राकृतत्वात्सकारस्याकारः । नयुतानयनोपायस्त्वयं-"चतुरशीतिवर्षलक्षा पूर्वाङ्गं, तच पूर्वाङ्गेन गुणितं पूर्व। पूर्व चतुरशीतिलक्षाहतं नयुताङ्गं, नयुताङ्गमपि चतुरशीतिलक्षाहतं नयुतमिति" । का नामैवमुच्यते इत्याह-'जा. सेति || प्रज्ञापकः शिष्यान् प्रत्याह- या सा भवतामस्माकञ्च प्रतीता। 'पण्णवओत्ति' प्रकृष्टं ज्ञानं प्रज्ञा सा विद्यते यस्खासौ प्रज्ञावान् , न च क्रियाविकलं ज्ञानं प्रकृष्टं स्यादिति प्रज्ञाशब्देन क्रियाप्याक्षिप्यते, ततश्च प्रज्ञावतो ज्ञानक्रियावतः स्थितिर्देवभवायुलक्षणा अधिकृतत्वादिव्यकामाश्च भवन्तीति शेषः, यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्य
॥१८७॥ कामानां च विषयभूतानि जीयन्ते हारयन्ति तद्धेतुभूतानुष्ठानाकरणेनेति भावः । दुर्मेधसो दुर्मतयो विषयविवशाः प्राणिन इति गम्यते, क पुनस्तानि हारयन्तीत्याह-ऊने वर्षशतायुषि, प्रभूते ह्यायुषि प्रमादादेकवारं हारितान्यपि पुनरयन्ते, अस्मिंस्तु संक्षिप्तायुष्येकदापि हारितानि हारितान्येव, श्रीवीरखामितीर्थे च प्रायो न्यूनवर्षशतायुषः
१९८४२२२१२-7-2525
Page #375
--------------------------------------------------------------------------
________________
एव प्राणिन इत्येवमुच्यते । अयं चेह समुदायार्थः, गुरुः शिष्यानुद्दिश्योपदिशति, असंख्यवर्षनयुतानि कोऽर्थः पल्योपमसागरोपमाणि ज्ञानक्रियावतो मुनेर्देवलोकेषु स्थितिः प्रक्रमात्कामाश्च सर्वोत्कृष्टा भवन्तीत्यस्माकं जिनवचः श्रद्दधतां प्रतीतमेवास्ति । दुर्मेधसस्तु इहये खल्पायुषि तुच्छकामभोगेषु लोलुपा धर्माकरणेन तां स्थितिं तान् कामांश्च हारयन्तीति । दृष्टान्तदार्शन्तिकयोजना त्वेवं, मनुष्याणामायुर्विषयाश्चातिस्वल्पतया काकिण्याग्रफलोपमाः, सुराणामायुः कामाचातिप्रचुरतया कार्षापणसहस्रराज्यतुल्यास्ततो यथा द्रमको राजा वा काकिण्यावफलकृते कार्षापणसहस्रं राज्यं च हारितवानेवमेतेऽपि दुर्धियोऽल्पतरमनुष्यायुः कामार्थं प्रभूतान् देवायुः कामान् हारयन्तीति | सूत्रार्थः ॥ १३ ॥ सम्प्रति व्यवहारोदाहरणमाह-
मूलम् - जहा य तिण्णि वण्णिआ, मूलं घित्तूण निग्गया। एगोत्थ लहए लाभ, एगो मूलेण आगओ ॥१४॥
व्याख्या - यथेति निदर्शनोपनिदर्शने, चशब्दः पूर्वोक्तदृष्टान्तापेक्षया समुच्चये, त्रयो वणिजः मूलं नीवीं गृहीत्वा निर्गताः खस्थानात् स्थानान्तरं प्रति प्रस्थिता इष्टस्थानं गताश्च तत्र च गतानामेको वाणिज्यकलाकलितः, अत्र एतेषु मध्ये लभते लाभं विशिष्टद्रव्योपचयात्मकं, एकस्तेष्वेवाऽन्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स मूलधनेन यावद्गृहान्नीतं तावतैवोपलक्षित आगतः स्वस्थानं प्राप इति सूत्रार्थः ॥ १४ ॥ तथा| मूलम् — एगो मूलंपि हारिता, आगओ तत्थ वाणिओ। ववहारे उवमा एसा, एवं धम्मे विआणह ॥ १५ ॥
Page #376
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १८८॥
व्याख्या - एकोऽन्यतरः प्रमादपरो द्यूतमद्यादिष्वत्यन्तमासक्तः मूलमपि हारयित्वा नाशयित्वा आगतः प्राप्तः स्वस्थानमिति शेषः, तत्र तेषु मध्ये वणिगेव वाणिजः, अत्र च सम्प्रदायः -
तथा हि पुर्या काप्येको, बभूवेभ्यो महाधनः ॥ सम्प्राप्तयौवनास्तस्य, जज्ञिरे नन्दनात्रयः ॥ १ ॥ तेषां सहस्रं दीनारान् दत्वा प्रत्येकमेकदा ॥ तद्भाग्यादिपरीक्षार्थ - मित्युवाच स नैगमः ॥ २ ॥ गत्वा पृथक् पुरीर्वित्ते- नेयता व्यवहृत्य च ॥ कालेनैतावताऽऽगम्यं, युष्माभिः सकलैरिह ॥ ३ ॥ ततस्ते तद्धनं लात्वा, गत्वा चान्यान्यनीवृति ॥ पृथक् पृथक् पत्तनेषु, तस्थुः सुस्थितचेतसः ॥ ४ ॥ तेष्वेकोऽचिन्तयत् प्रैषीत्, परीक्षार्थी पिता हि नः ॥ तोषणीयः स तद्भूरि-धनोपार्जनया मया ॥ ५ ॥ चञ्चापुरुषकल्पो हि, पुमर्थासाधकः पुमान् ॥ पुमर्थेषु च सर्वेषु, प्रधानं गृहिणां धनम् ॥६॥ तदुपार्जनयोग्यं च वयो मे वर्त्ततेऽधुना ॥ द्वितीयमेव हि वयो, द्रविणोपार्जने क्षमम् ॥७॥ यदुक्तं - " प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् ॥ तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ॥ ८ ॥ " विमृश्येति द्यूतमद्य - वेश्यादि व्यसनोज्झितः ॥ यथोचितं व्ययन् वित्त- मदनाच्छादनादिना ॥ ९ ॥ व्यापारं विविधं कुर्वन्, अनर्वाणं स वाणिजः ॥ उपार्जयद्वहु द्रव्यं, व्यापारो हि सुरद्रुमः ॥ १० ॥ द्वितीयोऽचिन्तयद्वित्त-मस्ति भूयस्तरं हि नः ॥ विनार्जनां भुज्य मानं, किन्तु तत्क्षीयते क्षणात् ॥ ११ ॥ तन्मया रक्षता मूलं, भोक्तव्यं धनमर्जितम् ॥ ध्यात्वेति नातिभूयांसं, स
१ उत्तमम् ।
सप्तमाध्य
यनम् (७)
॥१८८॥
Page #377
--------------------------------------------------------------------------
________________
वाणिज्योद्यम व्यधात् ॥ १२ ॥ विशिष्टाहारवसन-गन्धमाल्यविभूषणैः ॥ व्ययति स्माऽखिलं वित्तं, स च नित्यमपार्जितम ॥ १३॥ दध्यौ ततीयो दर्बद्धिः, संख्यातमपि दुःशकम् ॥ पर्याप्तमस्ति नो गेहे, वित्तं वारीव वारिधी ॥ १४ ॥ तथापि वार्धकादृद्धो, वर्धमानस्पृहाकुलः ॥ सुदूरे प्राहिणोदस्मा-नपस्मारो गुणानिव ॥ १५॥ तहव्यो-14 पार्जनोपायान् , हित्वा संक्लेशकारकान् ॥ भोक्ष्येऽहं नीविकावित्त-मेव वहिरिवन्धनम् ॥ १६ ॥ ध्यात्वेति तद्धनं है द्यूत-वेश्यामद्यामिषादिभिः ॥ गन्धमाल्याङ्गरागैश्चा-चिरात्सर्व व्यनाशयत् ॥ १७॥ अथो यथोक्तकालान्ते, ते त्रयः खगृहं ययुः ॥ तेष्वाद्यं तत्पिता तुष्टः, सर्वखस्वामिनं व्यधात् ॥ १८ ॥ द्वितीयं तु सुतं गेह-व्यापारेषु नियुक्तवान् ॥ स चान्नादि सुखं लभे, न तु श्रीकीर्तिगौरवम् ॥ १९ ॥ छिन्नमूलं तृतीयं तु, खसौधान्निरकाशयत् ॥ स च भूयस्तरं दुःखं, लेभेऽन्यप्रेष्यतादिभिः ॥ २०॥ केप्याहुर्वणिजोऽभूवं-स्त्रयो वाणिज्यतत्पराः ॥ तेष्वेको |भाग्यवान् लब्ध-लाभोऽमोदत बन्धुयुक् ॥२१॥ लाभव्ययी मूलयुतोऽपरस्तु, बभूव भूयो व्यवहर्तु लाभं विना मूलधनोपभोगी, लेभे तृतीयस्तु भुजिष्यभावम् ॥ २२ ॥ इति वणित्रयदृष्टान्तः ॥
अथ दृष्टान्तोपनयप्रस्तावकं सूत्रपश्चार्धमनुस्रियते, व्यवहारे व्यापारे उपमा एषाऽनन्तरोक्ता, एवं वक्ष्यमाणन्या येन धर्मे धर्मविषये एनामेवोपमा विजानीतेति सूत्रार्थः ॥ १५ ॥ कथमित्याहमूलम् -माणुसत्तं भवे मूलं, लाभो देवगई भवे। मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥१६॥
Page #378
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १८९ ॥
व्याख्या—मानुषत्वं मनुजजन्म भवेन्मूलमिव मूलं, स्वर्गापवर्गाद्युत्तरोत्तरलाभहेतुत्वात् । तथा लाभ इव लाभो नरजन्मापेक्षया विषयसुखादिभिर्विशिष्टत्वाद्देवगतिर्देवत्वावाप्तिर्भवेत्, मूलच्छेदेन नरगतिहान्यात्मकेन जीवानां नारकत्वं च ध्रुवं निश्चितं इदमिह पारम्पर्यम् - " यथा केपि त्रयः संसारिणो जीवा नरत्वं प्राप्ताः, तेष्वेको मार्दवार्जवा - दिगुणाढ्यो मध्यमारम्भपरिग्रहवान् मृत्वा मूलरक्षकवणिग्वत्" कार्षापणसहस्रस्थानीयं नृत्यमेव लेभे । द्वितीयस्तु सम्यक्त्वचारित्रादिगुणान्वितः सरागसंयमालब्धलाभवणिग्वलाभतुल्यां देवगतिं प्राप्तः । तृतीयस्तु हिंसामृषावादादि| सावद्ययोगयुक्तश्छिन्नमूलवणिग्वत् मूलच्छेददेश्यां नरकतिर्यग्गतिमाससादेति सूत्रार्थः ॥ १६ ॥ मूलच्छेदमेव स्पष्टयतिमूलम् - दुहओ गइ बालस्स, आवई वहमूलिआ । देवत्तं माणुसत्तं च, जं जिए लोलया सढे ॥ १७ ॥
व्याख्या- 'दुहओत्ति' द्विधा गतिः प्रक्रमान्नरकगतितिर्यग्गतिरूपा वालस्य रागद्वेषाकुलस्य स्यादिति गम्यते । तत्र च गतस्य ' आवइत्ति' आपत् स्यात् सा च कीदृशीत्याह - वधस्ताडनं मूलमादिर्यस्याः सा तथा मूलशब्दाच छेदभेदभारारोपणादिपरिग्रहः । लभन्ते हि प्राणिनो नरकतिर्यक्षु विविधा वधाद्यापदः, किमित्येवमत आह- देवत्वं मानुषत्वं च यज्जितोपहारितः 'लोलया सढेत्ति' लोलता मांसादिलाम्पट्यं तद्योगाज्जीवोपि लोलतेत्युक्तः, शठो विश्वस्तजनवञ्चकः, इह लोलताशब्देन पञ्चेन्द्रियवधादिकमुपलक्षते, ततोऽनेन नरकहेतुरुक्तः, यदुक्तं - "महारंभयाए महापरिग्गहियाए कुणिमाहारेणं पंचिंदिअवहेणं जीवा निरयाउअं निअच्छंतित्ति” शठ इत्यनेन तु शाठ्यमुक्तं, तच तिर्य
सप्तमाध्ययनम् (७)
॥ १८९ ॥
Page #379
--------------------------------------------------------------------------
________________
ग्गतिहेतुः, यदाहुः- “तिरिआउ गूढहिअओ, सढो ससलो समज्जिणइत्ति” अयं चात्र भावार्थ:- यतोऽयं बालो नरकतिर्यग्गतिहेतुभ्यां लोलताशाठ्याभ्यां देवत्वनरत्वे हारितस्ततोऽस्य द्विविधैव गतिः सम्भवतीति सूत्रार्थः ॥ १७॥ पुनर्मूलच्छेदमेव स्पष्टयति
मूलम् - तओ जिए सई होइ, दुविहं दुग्गइं गए। दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ॥ १८ ॥
व्याख्या - ततो देवत्वनरत्वाभावात् 'जिएत्ति' सर्व वाक्यं सावधारणमिति न्यायाजित एव हारित एव 'सइंति' सदा भवति द्विविधां नरकतिर्यगूरूपां दुर्गतिं गतः, कुतश्चैवं ? यतो दुर्लभा तस्य वालस्य 'उमग्गत्ति' सूत्रत्वादुन्मज्जा नरकतिर्यग्गतिनिर्गमनरूपा अद्धायामनागतकाले सुचिरादपि प्रभूतायामपि बाहुल्यापेक्षया चैवमुक्तं, अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमपि लभन्त इति सूत्रार्थः ॥ १८ ॥ इत्थं पश्चानुपूर्व्या मूलहारिणि पूर्वमुपनयमुपदर्श्य मूलप्रवेशिनि तदुपदर्शनायाह
मूलम् — एवं जिअं सपेहाए, तुलिआ बालं च पॅडिअं । मूलिअं ते पवेसंति, माणुसं जोणिमिंति जे ॥ १९ ॥
व्याख्या - एवं उक्तनीत्या जितं देवत्वनरत्वे हारितं बालं 'सपेहाएत्ति' सम्प्रेक्ष्य सम्यगालोच्य तथा तोलयित्वा गुणदोषवत्तया परिभाव्य वालं पण्डितं च मौलिकं मूलधनं ते मूलप्रवेशकवणिक्सदृशाः प्रवेशयन्ति ये मानुषां योनिमायान्ति, बालत्वं त्यक्त्वा तदुचितपांडित्यासेवनादिति सूत्रार्थः ॥ १९ ॥ कथं मनुष्ययोनिमायान्तीत्याह
Page #380
--------------------------------------------------------------------------
________________
सप्तमाध्य यनम् (७)
उत्तराध्ययन मूलम्-वेमायाहिं सिक्खाहिं, जे नरा गिहिसुव्वया।उविंति माणुसं जोणिं, कम्मसच्चा हु पाणिणो ॥२०॥ ॥१९॥ व्याख्या-विमात्राभिर्विविधपरिणामाभिः शिक्षाभिः प्रकृतिभद्रकत्वादेरभ्यासरूपाभिः, उक्तञ्च-"चउहिं ठाणहिं
जीवा मणुस्साउअं निबंधंति, तंजहा-पगतिभद्दयाए, पगतिविणीअयाए, साणुकोसयाए, अमच्छरिअयाएत्ति” ये नराः गृहिणश्च ते सुव्रताश्च धृतसत्पुरुषव्रता गृहिसुव्रताः, सत्पुरुषव्रतञ्च लौकिका अप्येवमाहुः-"विपधुच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिमलिनमसुभङ्गेऽप्यसुकरम् ॥ असन्तो नाभ्याः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥१॥" आगमोक्तव्रतधारणं त्वेषां न सम्भवति, देवगतिहेतुत्वात्तस्य । यत्तदोर्नित्याभिसम्बन्धात् ते उपयान्ति प्राप्नुवन्ति मानुषी योनि, किमित्येवमत आह-'कम्मेत्यादि' हु यस्मात् सत्यान्यवन्ध्यफलानि कर्माणि ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः, सूत्रत्वाद्यत्यये कर्मसत्याः प्राणिनः
इति सूत्रार्थः ॥ २०॥ अथ लब्धलाभोपनयमाह३ मूलम्-जेसिं तु विउला सिख्खा, मूलिअंते अइत्थिआ।सीलवंता सविसेसा,अदीणा जंति देवयं ॥२१॥ ___ व्याख्या-येषां तु विपुला निःशङ्कितादिरूपदर्शनाचारादिविषयत्वेन विस्तीर्णा शिक्षा ग्रहणासेवनात्मिकास्तीति शेषः, मौलिकं मूलधनरूपं मानुषत्वं ते नराः 'अइत्थिअत्ति' अतिक्रम्योलंध्य शीलवन्तः, अविरतसम्यग्दृष्ट्यपेक्षया सदाचारवन्तः, विरताविरतापेक्षया त्वणुव्रतवन्तो विरतापेक्षया पुनर्महाव्रतादिमन्तः, सह विशेषेण उत्तरोत्तरगुण
॥१९॥
Page #381
--------------------------------------------------------------------------
________________
6425069-OCOMOCROSOCIOS
प्रतिपत्तिरूपेण वर्तन्ते इति सविशेषाः, अत एवाऽदीनाः, कथं वयममुत्र भविष्यामः? इति वैक्लव्यविकलाः, यान्ति देवतां देवत्वं ऐदंयुगीनजनापेक्षया चेत्थमुक्तं, विशिष्टसंहननादिसामग्रीसद्भावे तु मोक्षमपि यान्तीति सूत्रार्थः ॥ २१॥ उक्तमर्थ निगमयन्नुपदेशमाहमूलम्-एवमदीणवं भिक्खु, आगारि च विआणिआ। कहं नु जिच्चमेलिक्खं,जिच्चमाणोन संविदे॥२२॥ __व्याख्या-एवमुक्तन्यायेन लाभान्वितं अदीनवन्तं दैन्यरहितं भिक्षु मुनिमगारिणं च गृहस्थं विज्ञाय विशेषेण तथाविधशिक्षावशाद्देवनरगतिप्राप्तिरूपेण ज्ञात्वा कथं केन प्रकारेण नु वितर्के 'जिचंति' सूत्रत्वात् जीयेत हारयेद्विवेकी विषयकपायादिभिरिति शेषः । 'एलिक्खंति' ईदृशं देवत्वादिलक्षणं लाभं, कथं च जीयमानो हार्यमाणो न 'संविदेत्ति' सूत्रत्वान्न संवित्ते न जानीते ? अपि तु संवित्त एव, संविदानश्च यथा न जीयते तथा यतेतेति भावः इति सूत्रार्थः ॥ २२॥ समुद्रदृष्टान्तमाह-- मूलम्-जहा कुसग्गे उदगं, समुद्देण समंमिणे। एवं माणुस्सगा कामा, देवकामाणमंतिए ॥२३॥
व्याख्या-यथेति दृष्टान्तोपन्यासे, कुशाग्रे दर्भकोटौ यदुदकं जलं तत्समुद्रेण समुद्रजलेन समं मिनुयात् , अयं |भावः-यथा कोप्यज्ञः कुशाग्रबिन्दुमादाय समुद्रजलमियदेवास्ति नाधिकमिति मानं कुर्यात्, न च कुशाग्रजलसमुद्रजलयोस्तुल्यत्वमस्ति । एवं मानुष्यकाः कामा देवकामानामन्तिके समीपे, अयमाशयो यद्यपि कश्चिच्चक्रवर्त्यादि
CRACANCERNER
Page #382
--------------------------------------------------------------------------
________________
उत्तराध्ययन
सप्तमाध्य यनम् (७)
॥१९१॥
मनुष्यकामान् देवकामोपमान् मन्यते, परं कुशाग्रजलबिन्दुसमुद्रवन्मनुष्यदेवकामानां महदेवान्तरमिति सूत्रार्थः॥२३॥ उक्तमेवार्थ निगमयन्नुपदेशमाह
मूलम्-कुसग्गमित्ता इमे कामा, संनिरुद्धम्मि आउए।कस्स हेउं पुरा काउं, जोगक्खेमं न संविदे॥ २४ ॥ PI व्याख्या-कुशाग्रमात्रा दर्भाग्रस्थितजलवदत्यल्पा इमे कामा- मनुष्यसम्बन्धिनो भोगास्तेऽपि न पल्योपमादि
माने दीर्घ आयुषि, ततः 'कस्स हेउंति' प्राकृतत्वात् कं हेतुं किं कारणं 'पुराकाउंति' पुरस्कृत्याश्रित्य, अलब्धस्य लाभो योगो लब्धस्य पालन क्षेमस्तयोः समाहारे योगक्षेम, अप्राप्तविशिष्टधर्मावाप्तिं प्राप्तस्य च तस्य पालनं न संवित्ते न जानाति जन इति शेषः, अयं भावः-योगक्षेमाज्ञाने हि भोगाभिष्वङ्ग एव हेतुर्मनुष्यभोगाश्च धर्मप्रभावप्रभवदिव्य भोगापेक्षयाऽत्यल्पाः ततस्तत्त्यागतो भोगाभिलाषिणापि धर्म एव यतनीयमिति सूत्रार्थः ॥ २४ ॥ इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र चादौ उरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमुक्तं, अपायबहुलमपि यन्न तुच्छं न तत्परिहतुं शक्यत इति काकिण्याम्रफलदृष्टान्ताभ्यां तत्तुच्छत्वं दर्शितं, तुच्छमपि लाभच्छेदात्मकव्यवहाराभिज्ञतया आयव्ययतोलनानिपुण एव त्यक्तुं शक्त इति वणिग्व्यवहारदृष्टान्तः, आयव्ययतोलना च कथं कार्येति समुद्रदृष्टान्तस्तत्र च दिव्यकामानामधिजलोपमत्वमुक्तं, तथा च तेषामुपार्जनं महानायोऽनुपार्जनं तु महान् व्यय इति तत्वतो दर्शितमिति ध्येयं । इह च योगक्षेमासंवेदने कामानिवृत्त एव स्यादिति तस्य दोषमाह--
॥१९१॥
Page #383
--------------------------------------------------------------------------
________________
मूलम् - इह कामा निअट्टस्स, अत्तट्ठे अवरज्झइ । सोच्चा नेआउअं मग्गं, जं भुज्जो परिभस्सइ ॥ २५॥
व्याख्या - इहेति मनुष्यत्वे जिनमते वा प्राप्ते इति शेषः, कामेभ्योऽनिवृत्तोऽनुपरतः कामानिवृत्तस्तस्य आत्मनोऽर्थ आत्मार्थः खर्गादिरपराध्यति, अनेकार्थत्वाद्धातूनां भ्रश्यति । कुतश्चैवमित्याह श्रुत्वा उपलक्षणत्वात्प्रतिपद्य च नैयायिकं न्यायोपपन्नं मार्ग रत्नत्रयरूपं मुक्तिमार्ग, यद्यस्माद्भूयः पुनः परिभ्रश्यति, कामनिवृत्तिं प्रतिपन्नोऽपि गुरुकर्मत्वात्ततः प्रतिपतति । तु श्रुत्वापि न प्रतिपन्नाः, श्रवणं वा येषां नास्ति तेऽपि कामानिवृत्ता एवेति भाव इति सूत्रार्थः ॥ २५ ॥ यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह
| मूलम् - इह कामनिअहस्स, अत्तट्ठे नावरज्झइ । पूइदेहनिरोहेणं, भवे दे वित्ति मे सुअं ॥ २६ ॥
व्याख्या - इह कामेभ्यो निवृत्तः कामनिवृत्तस्तस्यात्मार्थः खर्गादिर्नापराध्यति न भ्रश्यति, कुतः पुनरेवं १ यतः पूतिः कुथितो देह औदारिकं शरीरं तस्य निरोधोऽभावः पूतिदेहनिरोधस्तेन कामनिवृत्तो भवेदेवः सौधर्मादिकल्पवासी । उपलक्षणत्वात् सिद्धो वा । इत्येतन्मया श्रुतं परमगुरुभ्य इति शेष इति सूत्रार्थः ॥ २६ ॥ तदनु यदसौ | प्राप्नोति तदाह
19
मूलम् - इड्डी जुइ जसो वण्णो, आउं सुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु, तत्थ से उववज्जइ ॥ २७ ॥
व्याख्या- ऋद्धिः स्वर्णादिका, द्युतिः शरीरकान्तिः, यशः पराक्रमकृता प्रसिद्धिः, वर्णो गाम्भीर्यादिगुणोत्था
Page #384
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १९२॥
श्लाघा, गौरत्वादिर्वा, आयुर्जीवितं, सुखं यथेष्टविषयावाप्तिः, अनुत्तरं सर्वोत्कृष्टमिदञ्च सर्वत्र योज्यते । एतानि यत्र येषु मनुष्येषु भवन्ति प्राच्यस्य भूयः शब्दस्येह योगात् भूयः पुनस्तत्र तेषु स उपपद्यते जायते इति सूत्रार्थः ॥ २७ ॥ एवञ्च कामानिवृत्त्या यस्यात्मार्थो विनश्यति स बालः, इतरस्तु पण्डित इत्यर्थादुक्तं, सम्प्रति सूत्रत्रयेण पुनस्तयोः खरूपमुपदश्यपदेशमाह -
मूलम् - बालस्स परस बालत्तं, अहम्मं पडिवजिआ । चिच्चा धम्मं अहम्मिट्ठे, नरएसु उववज्जइ ॥ २८ ॥
व्याख्या-बालस्य मूढस्य पश्य बालत्वं, किं तदित्याह - अधर्मं विषयासक्तिरूपं प्रतिपद्याङ्गीकृत्य त्यक्त्वा धर्म भोगत्यागरूपं 'अहम्मिट्ठेत्ति' प्राग्वन्नरके उपलक्षणत्वादन्यत्र दुर्गतौ उपपद्यते ॥ २८ ॥ तथा-मूलम् - धीरस्स पस्स धीरतं, सवधम्माणुवत्तिणो । चिच्चा अधम्मं धम्मिट्ठे, देवेसु उववज्जइ ॥ २९ ॥ व्याख्या-धिया राजते इति धीरो बुद्धिमान्, परीपहाद्यजय्यो वा धीरस्तस्य पश्य धीरत्वं सर्वधर्म क्षान्त्यादि - - रूपमनुवर्त्तते तदनुकूलाचरणेन स्वीकरोतीत्येवंशीलो यः स सर्वधर्मानुवर्त्ती तस्य सर्वधर्मानुवर्त्तिनः । धीरत्वमेवाहत्यक्त्वा अधर्म भोगाभिष्वङ्गरूपं 'धम्मिट्ठेत्ति' इष्टधर्मा देवेषूपपद्यते ॥ २९ ॥ ततः किं कर्तव्यमित्याहमूलम् - तुलिआ णं बालभावं, अवालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणित्ति बेमि ॥३०॥ ॥ इइ सत्तमज्झयणं सम्मत्तं ॥
सप्तमाध्य
यनम् (७)
॥ १९२ ॥
Page #385
--------------------------------------------------------------------------
________________
व्याख्या-तोलयित्वा बालभावं बालत्वं, 'अवालंति' भावप्रधानत्वान्निर्देशस्य अबालत्वं, चः समुचये, 'एवेति' है सूत्रत्वादनुखारलोपः, ततश्च एवमनन्तरोक्तन्यायेन पण्डितस्तत्त्वज्ञः त्यक्त्वा वालभावं 'अबालंति' अबालत्वं सेवते |
मुनिरिति सूत्रत्रयार्थः ॥ ३०॥ इति ब्रवीमीति प्राग्वत् ॥
BIGungungenOpenOORAMAgenOODCORORMA
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्री2 भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तमाध्ययनं सम्पूर्णम् ॥ ७॥ लन्डन्टन्हकडळालाहन्छन्
Page #386
--------------------------------------------------------------------------
________________
PROMORE
DADIO
FomNAAV
MS
GAM
LGHA
5
न
"सूरि श्रीविजयानन्दं, विजयानन्दकारकम् । "आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥"
॥ इति सप्तमाध्ययनं सम्पूर्णम् ॥
"वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥"
Page #387
--------------------------------------------------------------------------
________________
“अथाष्टमाध्ययनम्"
कपिलचरितम् .
व्याख्यातं सप्तममध्ययनं, अथ कपिलमुनिप्रणीतत्वेन कापिलीयाख्यमष्टममारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने रसद्धित्याग उक्तः, स च निर्लोभस्यैव स्यादित्यत्र निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्याऽस्य प्रस्तावनार्थमादी कपिलमुनिचरितमुच्यते । तत्रायं सम्प्रदायः-- | तथाहि पुर्या कौशाम्ब्यां, जितशत्रुमहीशितुः ॥ पुरोधाः काश्यपाहोऽभू-विद्याम्भोनिधिपारगः॥१॥ यशखिनी यशा नानी, तस्यासीत्प्राणवल्लभा ॥ अजनिष्ट तयोः सूनुः, क्रमेण कपिलाभिधः ॥२॥ कपिले च शिशावेव, विपेदे काश्यपोऽन्यदा ॥ कालः कालमकालं वा, न हि मृत्योरपेक्षते ॥३॥ मृते तस्मिन्नपोऽन्यस्मिन् , पुरोहितपदं न्यधात् ॥ अस्तङ्गते रवी तेजः, प्रदोष इव दीपके ॥४॥ हयारूढं धृतच्छत्रं, तं नूतनपुरोहितम् ॥ गच्छन्तमन्यदापश्य-धशा भूरिपरिच्छदम् ॥५॥ तद्दर्शनानिलोद्भूत-भूरिदुःखानलार्दिता ॥ स्मारं स्मारं निजं कान्तं, रुरोद विवशा यशा ॥६॥ कपिलोऽपि निजामम्बां, रुदतीं वीक्ष्य दुःखितः ॥ रुदन्नित्यवदन्मात-स्त्वं रोदिषि कुतोऽनिशम् ? ॥७॥ साऽवादीदस्य विप्रस्य, या सम्पत् पुत्र! वर्त्तते ॥ साऽभवत्त्वत्पितुः सर्वा, गता च त्वयि निर्गुणे ॥८॥ सत्यपि त्वयि पुत्रे यत्, क्रमायाताऽप्यऽगाद्रमा ॥ ततोऽहं दुःखिता कुर्वे, रोदनं नन्दनाऽन्वहम् ॥९॥ सुतः
545445445
१२
Page #388
--------------------------------------------------------------------------
________________
उत्तराध्ययन
अष्टमाध्ययनम् (८) कपिलच
॥१९॥
रितम्.
१०-२२
प्रोचे ब्रूहि मात-विद्याभ्यासाय पाठकम् ॥ यथा तदन्तिकेऽधीत्य, भवामि गुणवानहम् ॥ १० ॥ यशाऽशंसन्न कोऽप्यत्र, भवन्तं पाठयिष्यति ॥ यो हि त्वां पाठयेत्तस्मै, कुप्येन्नव्यपुरोहितः ॥ ११॥ तद्वत्स ! गच्छ श्रावस्ती, तत्रास्ति त्वत्पितुः सुहृत् ॥ इन्द्रदत्तद्विजः प्राज्ञः, स हि त्वां पाठयिष्यति ॥ १२ ॥ ततः स गत्वा श्रावस्ती-मिन्द्रदत्तं प्रणम्य च ॥ आत्मानं ज्ञापयित्वोचे, ताताऽध्यापय मामिति ॥ १३॥ उपाध्यायोऽभ्यधावत्स!, युक्तस्तेऽसौ मनोरथः ॥ विशेष नाहं कञ्चित् , पश्यामि पशुमूढयोः॥१४॥ किन्तु ते भोजनं दातुं, निःसत्वादक्षमोऽस्म्यहम् ॥ तद्विना च कथं नित्य-मखिन्नस्त्वं पठिष्यसि ? ॥ १५॥ भ्रातुप्पुत्राय ते विद्यार्थिने प्राघुर्णकाय च ॥ भोज्यदा|नेऽप्यशक्तोऽस्मि, तन्मे दुःखायते भृशम् ! ॥ १६ ॥ अलपत्कपिलस्तात !, कृतं चिन्तनयाऽनया ॥ भिक्षावृत्त्या | करिष्येऽहं, प्रत्यहं प्राणधारणम् ॥ १७॥ उवाच पाठको भिक्षा-वृत्त्याऽध्येतुं न शक्ष्यते ॥ तदेहि तव भुक्त्यथे, प्राथेये कञ्चिदीश्वरम् ॥ १८॥ इत्युक्त्वा स समं तेन, शालिभद्रेभ्यमन्दिरम् ॥ जगाम कुञ्जर इव, कलभेन समं सरः॥१९॥ ॐ भूर्भुवःखरित्यादि-गायत्रीमंत्रवादिनम् ॥ दत्ताशि तमिभ्योऽपि, किंकार्यमिति पृष्टवान् ॥२०॥ ऊचे द्विजोऽमुं मन्मित्र-पुत्रमध्येतुमागतम् ॥ भोजय प्रत्यहं ज्ञानो-पष्टम्भो हि महाफलः ॥ २१ ॥ सहर्ष शालिभद्रेण, तद्वाक्ये |खीकृतेऽन्वहम् ॥ पपाठ पाठकोपान्ते, भुक्त्वा तद्धाग्नि माणवः ॥ २२ ॥ भोक्तुगतस्य तद्गह, कपिलस्यानुवासरम् ॥
१ अल्पवयस्कः ।
॥१९४॥
Page #389
--------------------------------------------------------------------------
________________
दास्येका तरुणी भोज्यं, शोभनं पर्यवेषयत् ॥ २३ ॥ तस्य विद्याभिरात्मानं, भोज्यैरङ्गञ्च पुष्णतः ॥ उदभूद्यौवनं दाक्ष्या-कुरोज्जीवनजीवनम् ॥ २४ ॥ हास्यशीलो द्विजः सोऽथ, तस्यां दास्यामरज्यत || यौवनं हि विकाराणां, सर्वेषामादिकारणम् ॥ २५ ॥ तया च रक्तया साकं, कपिलोऽरमताऽनिशम् । तदेकचित्ता तञ्चैव-मूचे दास्यन्यदा रहः ॥ २६ ॥ त्वमेव मे प्रियः किन्तु, निःखोऽसीत्यपरं नरम् ॥ सेवे वस्त्रादिहेतोश्चे-न ते कोपः प्रजायते ॥ २७ ॥ अन्यमन्यत निर्मन्यु- स्तत्रार्थे कपिलोऽपि ताम् ॥ तस्यां पुर्याञ्चान्यदाऽऽसी - दासीनामुत्सवो महान् ॥ २८ ॥ तदा च प्रेक्ष्य तां दासी-मुद्विग्नां कपिलो द्विजः ॥ कुतस्तवारतिरिति, पप्रच्छ स्नेहमोहितः ॥ २९ ॥ साऽवादीदद्य दासीना-मुत्सवः समुपस्थितः ॥ न च मे पत्रपुष्पादे - मूल्यं किञ्चन विद्यते ! ॥ ३० ॥ तद्विना तु सखीमध्ये, लभि| प्येऽहं विगोपनाम् ॥ सश्रियो हि स्त्रियो निःखां, हीलयन्ति सखीमपि ॥ ३१ ॥ तच्छ्रुत्वा कपिलोप्यन्त - रधृताऽधृतिमुच्चकैः ॥ याति स्थानान्तरं दुःखं, प्रीत्या वारीव कुल्यया ॥ ३२ ॥ ततस्तमवदद्दासी, सुन्दर ! त्वं विषीद मा ॥ अत्रास्ति श्रेष्ठिषु श्रेष्ठो, धनाख्यो धनदोपमः ॥ ३३ ॥ यस्तं प्रबोधयेत्सुतं स तस्मै स्वर्णमाषकौ ॥ ददातीति निशा - शेषे, याहि त्वं तस्य मन्दिरे ॥ ३४ ॥ कल्पकाले च कल्याणिन् कान्तैः कल्याणभाषितैः ॥ प्रबोधयेस्तं राजीव - | मिवार्कः कोमलैः करैः ॥ ३५ ॥ इत्युक्त्वा कश्चिदन्यः प्राग् मा यासीदिति शङ्कया ॥ औत्सुक्याज्ञातकाला सा, | निशीथे प्रजिघाय तम् ॥ ३६ ॥ स च राजनरैश्चौर, इति बद्धः पथि व्रजन् ॥ प्रसेनजिन्महीजानेः पुरः प्रातरनी
१२
දී
९
कपिलचरितम् - २३-३६
Page #390
--------------------------------------------------------------------------
________________
-१
उत्तराध्ययन | यत ॥ ३७ ॥ राज्ञा पृष्टश्च वृत्तान्तं, सर्व सत्यं जगौ निजम् ॥ तच्छुत्वेत्यभ्यधाद्भूपः, कृपारसमहोदधिः ॥ ३८॥||3अष्टमाध्य:
यन्मार्गयसि तत्तुभ्यं, ददामि वद कामितम् ॥ खामिन् विचार्य याचिष्ये, प्रोवाचेति ततो द्विजः ॥ ३९ ॥ सोऽथायनम् (८) ॥१९५॥ राज्ञाभ्यनुज्ञातो, गत्वाऽशोकवनान्तरे ॥ दध्यौ वस्त्रादिकं भावि, न हि माषद्वयेन मे ॥४०॥ तत्सुवर्णशतं याचे,
कपिलच
रितम् . यद्वा तेनापि नो भवेत् ॥ गृहयानादि तनिष्क-सहस्रं प्रार्थये नृपात् ! ॥ ४१॥ यद्वा तेनापि नापत्य-विवाहादि
३८-५१ भविष्यति ॥ तलक्षं प्रार्थये दातुः, सत्त्वे किं स्तोकयाञ्चया ॥४२॥ उद्धारो बन्धुदीनादे-लक्षेणापि न सम्भवी ॥ सम्पदां च फलं बन्धु-दीनादीनामुपक्रिया ॥४३॥ कोटि कोटिशतं कोटि-सहस्रं वा तदर्थये ॥ तस्येति ध्यायतः पुण्य-वशादियमभून्मतिः॥४४॥ मापद्वितयमूलस्या-प्यहो लोभमहीरुहः॥ विस्फूर्जितं यत्कोटीनां, लाभेऽप्युच्चैः प्रवर्धते !॥४५॥ लोभः खल्पोऽपि लाभेना-ऽम्भोजनालमिवाम्भसा ॥ वृद्धिं यातीत्यलं तेन, सन्तोषसुखदस्युना ॥ ४६॥ विदेशं मातृनिर्देशा-द्विद्यार्थमहमागतः ॥ सापि नोपार्जिता किन्तु, व्यसनं महदर्जितम् ! ॥४७॥ मातुगुंरोश्च वाक्यानि, कुलाचारं च लुम्पता ॥ मया विषयगृद्धेन, कर्मानहमिदं कृतम् ! ॥४८॥ विषवद्विषमोदक
॥१९५॥ विषयैस्तदलं मम ॥ ध्यायन्नित्यादिसंवेगा-जातिस्मृतिमवाप सः ॥ ४९ ॥ खयंबुद्धः खयं कृत्वा, लोचं मूर्धनि शुद्धधीः ॥ देवतादत्तलिङ्गो द्राग्, राज्ञोऽभ्यणे जगाम सः॥ ५० ॥ विमृष्टं किमिति स्पष्टं, पृष्टो राज्ञा विशिष्टधीः॥ निजां मनोरथश्रेणी, निवेद्येत्यवदन्मुनिः॥५१॥ यथा लाभस्तथा लोभो, लाभालोभः प्रवर्धते ॥ माषद्वयाश्रितं
Page #391
--------------------------------------------------------------------------
________________
ARRASSHRESS
कार्य, कोव्यापि न हि निष्ठितम् ! ॥५२॥ तन्निशम्य नृपस्तुष्टो-वादीन्मुञ्च व्रतं द्रुतम् ॥ ददामि कोटीमपि ते, कपिलच
रितम् . मुंव भोगान् यथासुखम् ! ॥५३॥ मुनिः स्माह कृतं द्रव्य-रसारैर्निस्पृहस्य मे ॥ जातो निर्ग्रन्थ एवाह, धर्मलाभोऽस्तु
|५२-६६ भूपते ! ॥ ५४ ॥ इत्युक्त्वा भूभुजोऽभ्यर्णा-निर्गयोग्रं तपश्चरन् ॥ विचरन् भुवि षण्मास्या-केवलज्ञानमाप सः॥५५॥
इतश्च योजनान्यष्टा-दश सर्वत्र विस्तृता ॥ अटव्येकाऽभवद्राज-गृहाभिधपुराध्वनि ॥५६॥ तत्र चेत्कटदासाख्या-श्चौराः पञ्चशतीमिताः॥ बलभद्रादयोऽभूवन् , पाताले पन्नगा इव ॥ ५७ ॥ विज्ञाय प्रतिबोधाहा-स्तांश्च विज्ञानचक्षुषा ॥ तेषामुपकृति कर्तु, तत्रारण्ये ययौ यतिः ॥ ५८॥ तमायान्तं द्रुमारूढो-पश्यदेको मलिम्लुचः॥ | आयाति श्रमणः कोपी-त्यन्येषाञ्च न्यवेदयत् ॥ ५९॥ अस्मानवगणय्यैव, समेत्ययमिति क्रुधा ॥ गृहीत्वा ते मुनि निन्यु-रुपसेनापतिं द्रुतम् ॥ ६॥ ऊचे सेनापतिः क्रीडां, कुर्मोऽनेनेति चिन्तयन् ॥ साधो ! त्वं नृत्य नृत्येति, ततो यतिरदोऽवदत् ॥ ६१॥ वाद्यं नृत्यस्य हेतुस्त-द्वादकश्च न विद्यते ॥ तन्नृत्यं स्यात्कथं ? कार्य, न हि स्यात्कारणं विना ॥ ६२ ॥ वादितेष्यथ तालेषु, चौराणां पञ्चभिः शतैः ॥ ध्रुवकानुचकैर्गाय-ननत कपिलो मुनिः ॥६३॥5
तद्यथा-"अधुवे असासयंमि, संसारंमि उ दुक्खपउराए ॥ किं नाम होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेजा ला॥ ६४ ॥ प्रतिध्रुवमिमं गायन , ध्रुवं कपिलकेवली ॥ जगौ सूरीन् ध्रुवान् शान्त-रसपीयूषसागरान् ॥६५॥ एतद
ध्ययनं जज्ञे, तैरेव ध्रुवकैधुवम् ॥ शास्त्रत्वं प्रतिपद्यन्ते, वचांस्यपि हि तादृशाम् ॥ ६६ ॥ तेषु चाद्यं ध्रुवं श्रुत्वा,
१
Page #392
--------------------------------------------------------------------------
________________
उत्तराध्ययन है। केप्यबुध्यन्त दस्यवः ॥ केचित्त्वन्यं केचिदन्य-तरं तदपरे परम् ॥ ६७ ॥ इत्थं मुनीन्द्रः प्रतिबोध्य तूर्ण-मदीक्षय-1|| अष्टमाध्य.
त्पञ्चशतानि चौरान ॥ विहृत्य पृथव्यां सुचिरं क्रमाच, बभूव निवाणपुराधिवासी ॥ ६८॥ इत्यक्तः सम्प्रदायः. यनम् (८) ॥१९६॥ साम्प्रतं सूत्रं प्रस्तूयते, तच्चेदं
गाथा. १ मूलम्-अधुवे असासयंमि, संसारम्मि उ दुक्खपउराए ।
किं नाम होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेज्जा ॥१॥ व्याख्या-कपिलो हि भगवान् खयं बुद्धश्चौरप्रतिबोधार्थ प्रथमममुं ध्रुवं जगौ। ध्रुवकलक्षणञ्चेदं-"ज गिजइट पुवं चिअ, पुणो पुणो सबकवबंधेसु ॥ धुवयंति तमिह तिविहं, छप्पाय चउप्पयं दुपयं ॥१॥ति" अत्र 'अधुवेत्ति' ध्रुव एकास्पदप्रतिबद्धः स्थिर इत्यर्थः, न तथा अध्रुवस्तस्मिन् संसार इति सम्बन्धः। भ्रमन्ति यत्र सर्वस्थानेषु जन्तवः यदुक्तं-"रङ्गभूमिन सा काचि-च्छुद्धा जगति विद्यते ॥ विचित्रैः कर्मनेपथ्य-यंत्र जीवन नाटितम् ॥१॥” तथा अशाश्वते कालतोप्यनित्ये, अशाश्वतं हि सर्वमिदं राज्यादि, यदुक्तं-"चलं राज्यैश्वर्य धनकनकसारः परिजनो, नृपाद्वा वाल्लभ्यं चलममरसौख्यं च विपुलं ॥ चलं रूपारोग्यं बलमिह चलं जीवितमिदं, जनो दृष्टो यो वै जनयति सुखं
॥१९६॥ सोपि हि चलः ॥१॥” संसारे भवे प्रचुरकाणि प्रभूतानि दुःखानि शारीरमानसानि यत्र स तथा, प्राकृतत्वाच व्यत्यये 'दुक्खपउराएत्ति' किमित्ति प्रश्ने, नामेति वाक्यालङ्कारे, भवेत्तत् कमव कर्मकमनुष्ठानं ? येन कर्मणा हेतुभूतेन
Page #393
--------------------------------------------------------------------------
________________
१२
अहं दुर्गतिं नरकादिकां 'न गच्छेजत्ति' न गच्छेयं । अत्र च तस्य भगवतः संशयाभावेऽपि दुर्गतिगमनाभावेपि च यदेवमुक्तं तत्प्रतिबोधनीयपूर्वसङ्गतिकापेक्षमिति सूत्रार्थः ॥ १ ॥ एवञ्च भगवतोद्गीते तालान् कुट्टयद्भिश्चौरैश्च प्रत्युगीतेऽस्मिन् ध्रुवके पुनर्भगवानाह -
मूलम् — विजहित्तु पुत्रसंजोगं, न सिणेहं कहिंचि कुविज्जा । असिणेह सिणेहकरेहिं, दोसपओसेहिं मुच्चए भिक्खु ॥ २ ॥
व्याख्या - विहाय त्यक्त्वा पूर्वसंयोगं, पूर्वपरिचितानां मातापित्रादिखजनानामुपलक्षणत्वाद्धनस्य च सम्बन्धं, न | हमभिष्वङ्गं क्वचिद्वाह्येऽभ्यन्तरे वा परिग्रहे कुर्वीत कुर्यात्, तथा च को गुणः ? इत्याह, अस्नेहः प्रतिबन्धरहितः प्राकृतत्वाद्विसर्ग लोपः, स्नेहकरेष्वपि पुत्रकलत्रादिषु आस्तामन्येषु, अपिश्चात्र लुप्तो द्रष्टव्यः, दोषाश्च इहैव मनस्तापादयः, प्रदोषाश्च परत्र नरकप्रात्यादयो दोषप्रदोषास्तैर्मुच्यते यज्यते भिक्षुरिति सूत्रार्थः ॥ २ ॥ पुनर्यदसौ कृतवांस्तदाहमूलम् - तो णाणदंसणसमग्गो, हिअनिस्सेअसाए सबजीवाणं । सिं व मोक्खणट्टाए, भासई मुणिवरो विगयमोहो ॥ ३ ॥
व्याख्या -- 'तोत्ति' ततोऽनन्तरं भाषते मुनिवर इति सम्बन्धः, स च कीदृश इत्याह । ज्ञानदर्शनाभ्यां प्रस्तावाकेवलाभ्यां समग्रः समन्वितः किमर्थं भाषते ? इत्याह । 'हिअनिस्सेअसाएत्ति' सूत्रत्वात् हितो भावारोग्यहेतुत्वात्
गाथा. २-३
Page #394
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १९७ ॥
३
६
१२
पथ्यो यो निश्रेयसो मोक्षस्तस्मै तदर्थ, केषां ? सर्वजीवानां, 'तेसिंति' चस्य गम्यत्वात्तेषाञ्च पञ्चशतचौराणां विमोक्षणार्थ भाषते वक्ति वर्त्तमान निर्देशस्तत्कालापेक्षया मुनिवरो विगतमोहः क्षपितमोहनीय कर्मा । इह च 'हिअनिस्सेअसाए सङ्घजीवाणमित्यनेनैव चरितार्थत्वेऽपि 'तेसिं विमोक्खणट्टाएत्ति' यत् पुनरभिधानं तत्तदा भगवतस्तानेवोद्दिश्य प्रवृत्तिरिति प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥ ३ ॥ यच्चासौ भाषते तदाह
मूलम् — सवं गंथं कलहं च, विप्पजहे तहाविहं भिक्खू । सर्व्वसु कामजाएसु, पासमाणो न लिप्पई ताई ॥ ४ ॥
व्याख्या – सर्वमशेषं ग्रन्थं बाह्यं धनादिकं आन्तरं मिथ्यात्वादिकं परिग्रहं कलहहेतुत्वात्कलहः क्रोधस्तं, च शब्दान्मानादींश्च, आन्तरग्रन्थरूपत्वेऽप्येषां पृथक् ग्रहणं बहुदोपताख्यापनार्थ, 'विप्पजहेत्ति' विप्रजह्यात्त्यजेत्, तथाविधं कर्मबन्धहेतुं धर्मोपकरणमपीत्यभिप्रायः । भिक्षुर्मुनिः ततश्च किं स्यादित्याह, सर्वेषु कामजातेषु शब्दादिविषयसमूहेषु 'पासमाणोत्ति' पश्यन् अत्यन्तकटुकं तद्दोषमिति शेषः, न लिप्यते न सज्यते 'ताइत्ति' त्रायते रक्षत्यात्मानं दुर्गतेरिति त्रायीति सूत्रार्थः ॥ ४ ॥ इत्थं ग्रन्थत्यागे गुणमुक्त्वा व्यतिरेके दोषमाह -
मूलम् - भोगामिसदोसविसन्ने, हिअनिस्सेअसबुद्धिविवज्जत्थे । बाले अ मंदिए मूढे, बज्झई मच्छिआ व खेलंमि ॥ ५ ॥ व्याख्या - भोगा एव गृद्धिहेतुत्वादामिषं भोगामिषं, तदेवात्मदूषणाद्दोषो भोगामिषदोषस्तस्मिन् विविधं सन्नो
अष्टमाध्य. यनम् (८) गाथा. ५
॥ १९७ ॥
Page #395
--------------------------------------------------------------------------
________________
tor
SARASHRSSSS
निमग्नो भोगामिपदोषविषण्णः, हिते निश्रेयसे मोक्षे बुद्धिस्तल्लाभोपायविषया मतिविपर्यस्ता विपर्ययवती यस्य स गाथा. ६ हितनिश्रेयसबुद्धिविपर्यस्तः, बालश्चाज्ञः, मंदिएत्ति' सूत्रत्वान्मन्दो धर्मकरणम्प्रत्यलसः, मूढो मोहाकुलितचेताः || वध्यते श्लिप्यतेऽर्थात् ज्ञानावरणादिकर्मणा मक्षिकेव श्लेष्मणि रजसेति गम्यते । अयं भावः-यथाऽसौ तद्गन्धेनाकृष्यमाणा खेले मजति, मन्ना च रेवादिना वध्यते, एवं जीवोपि भोगामिषमग्नः कर्मणेति सूत्रार्थः ॥ ५॥ ननु । यद्येवं कर्मबन्धहेतवो भोगास्तर्हि किं न सर्वेऽपि तांस्त्यजन्तीत्याह
मूलम् –दुपरिच्चया इमे कामा, नो सुजहा अधीरपुरिसेहिं ।
अह संति सुवया साहू, जे तरंति अतरं वणिआ वा ॥ ६॥ व्याख्या-दुष्परित्यजा दुःखेन परित्यक्तुं शक्या इमे प्रत्यक्षाः कामा शब्दाद्याः नो नैव 'सुजहत्ति' आपत्वात्सुहानाः सुत्यजाः, कैः ? अधीरपुरुषैः! असात्विकनरैः, यच्चेह दुःपरित्यजा इत्युक्त्वा पुनर्न सुजहा इत्युक्तं तदत्यन्त-13 दुस्त्यजत्वख्यापकं, अधीरग्रहणात्तु धीरैः सुत्यजा एवेत्युच्यते, अत एवाह 'अहेत्यादि' अथेति वाक्यान्तरोपन्यासे, सन्ति विद्यन्ते, सुत्रता निष्कलङ्कव्रताः साधवो ये तरन्ति अतिक्रामन्ति अतरं तरीतुमशक्यं भवमित्यर्थः । वणिज| इव, वाशब्दस्य इवार्थत्वात् । यथा हि वणिजोऽतरं नीरधिं यानपात्रादिना तरन्ति एवमेतेऽपि व्रतादिना भवमिति ।।
Page #396
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ १९८ ॥
३
१२
उक्तं च- विषयगणः कापुरुषं, करोति वशवर्त्तिनं न सत्पुरुषम् ॥ बध्नाति मशकमेव हि लूतातन्तुर्न मातङ्गम् ॥ १ ॥” इति सूत्रार्थः ॥ ६ ॥ किं सर्वेऽपि साधवोऽतरं तरन्ति ? उत नेत्याह
मूलम् - समणामु एगे वयमाणा, पाणवहं मिआ अयाणंता । मंदा निरयं गच्छंति, बाला पाविआहिं दिट्ठीहिं ॥ ७ ॥
व्याख्या— श्रमणाः स्मो वयमित्येके केचनान्यतीर्थिका वदमानाः स्वाभिप्रायं दीपयन्तः, 'दीप्तिज्ञानयत्त्रविमत्युपसम्भाषोपमंत्रणे वद इत्यात्मनेपदम्' । प्राणवधं प्राणघातं मृगा इव मृगा मूढत्वात् अजानन्तः ! के प्राणिनः ? के वा तेषां प्राणाः ? कथं वा वधः ? इत्यनवबुध्यमानाः । अनेन प्रथमत्रतमपि न विदन्ति आस्तां शेषाणीति सूचितं, अत एव मन्दा इव मन्दा मिथ्यात्वमहारोगाकुलिताः 'निरयं' नरकं गच्छन्ति, बाला निर्विवेकाः पापिकाभिः पापहेतु| भिर्दृष्टिभिर्दर्शनाभिप्रायरूपाभिः “ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रं, मरुद्भ्यो वैश्यं, तपसे शूद्रं” तथा - "यस्य बुद्धिर्न | लिप्येत, हत्वा सर्वमिदं जगत् ॥ आकाशमिव पङ्केन, नासौ पापेन लिप्यते ॥ १ ॥ ” इत्यादिकाभिर्दयादमवाह्याभिः, तेषां च नरकं गच्छतां वेषादिकं न त्राणाय स्याद्यदुक्तं - “ चर्मवल्कलचीराणि, कूर्च मुण्डशिखाजटाः ॥ न व्यपोहन्ति पापानि, शोधकौ तु दयादमौ ॥ १ ॥” इति सूत्रार्थः ॥ ७ ॥ अत एवाह-
अष्टमाध्य
यनम् (८) गाथा. ७
॥ १९८ ॥
Page #397
--------------------------------------------------------------------------
________________
A
गाथा८-९
GATHA ASOSIPAS%**
मूलम्-न हु पाणवहं अणुजाणे, मुच्चिज कयाइ सव्वदुक्खाणं ।
एवं आरिएहिं अक्खायं, जेहिं इमो साहुधम्मो पण्णत्तो ॥ ८॥ व्याख्या-न हु नैव प्राणवधं मृषावादादेरुपलक्षणश्चैतत्, ‘अणुजाणेत्ति' अपेलृप्तस्य दर्शनादनुजानन्नपि आस्तां कुर्वन् । कारयन् वा मुच्येत त्यज्येत कदाचित् क्वापि काले 'सबदुक्खाणंति' सुप्व्यत्ययात्सर्वदुःखै; शारीरमानसैः क्लेशैः, ततो हिंसादिनिवृत्ता एव श्रमणा भवं तरन्तीति तत्वम् । न चैतन्मयैवोच्यत इत्याह, एवमुक्तनीत्या आर्यस्तीर्थकरादिभिराख्यातं कथितं, पैरायैरसौ साधुधर्मो हिंसानिवृत्त्यादिः प्रज्ञप्तः प्ररूपित इति सूत्रार्थः ॥ ८॥ साधुधर्ममेवाहमूलम्-पाणे अ नाइवाइजा, से समिएत्ति वुच्चइ ताई । तओ से पावयं कम्म, निजाइ उदगं व थलाओ९
व्याख्या-प्राणान्नातिपातयेत् , चकारात्कारणानुमत्योर्निषेधमाह । मृपावादादिपरिहारोपलक्षणश्चैतत् । किमिति || प्राणान्नातिपातयेदित्याह, 'सेत्ति' यः प्राणान्नातिपातयति स समितः समितिमान् इत्युच्यते । किं भूतः सन्नित्याह, त्रायी अवश्यं प्राणित्राता, समितत्वेपि को गुणः? इत्याह, ततः समितात् 'से इति' अथ पापकं अशुभ कर्म निर्याति निर्गच्छति, उदकमिव स्थलादत्युन्नतघढभूप्रदेशादिति सूत्रार्थः ॥ ९॥ यदुक्तं प्राणान्नातिपातयेदिति तदेव स्पष्टयति
१२
उ०३४
Page #398
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥१९९॥
१०-११
मूलम्-जगनिस्सिएहिं भूएहिं, तसनामेहिं थावरेहिं च ।
अष्टमाध्यतो तेसिमारभे दंडं, मणसा वयसा कायसा चेव ॥ १० ॥
यनम् (८)
गाथा. व्याख्या-जगन्निश्रितेषु लोकाश्रितेषु भूतेषु जन्तुषु, त्रसनामसु त्रसनामकर्मोदयवत्सु द्वीन्द्रियादिषु, स्थावरेषु । पृथिव्यादिषु, चः समुच्चये, नो नैव तेषु आरभेत कुर्याइण्डं वधात्मकं 'मणसा वयसा कायसा चेवत्ति' सूत्रत्वात् मनसा वचसा कायेन 'चेवत्ति' समुच्चये, इदमिह तात्पर्य-"सवेवि दुक्खभिरू, सवेवि सुहाभिलासिणो सत्ता ॥ सवेवि जीवणपिआ, सचे मरणाओ बीहंति ॥१॥” इति मत्वा न कस्यापि हिंसां कुर्यादिति सूत्रार्थः ॥ १० । उक्ता मूलगुणा अथोत्तरगुणा वाच्यास्तेषु चैषणासमितिः प्रधानेति तामाह
मूलम्-सुद्धसणाओ नच्चा णं, तत्थ दृविज भिक्खू अप्पाणं ।
जायाए घासमेसिजा, रसगिद्धे न सिआ भिक्खाए ॥ ११ ॥ | व्याख्या-शुद्धा निर्दोषा एषणा उद्गमोत्पादनाद्याः शुद्धषणास्ता ज्ञात्वा तत्र स्थापयेन्निवेशयेद्भिक्षुर्मुमुक्षुरात्मानं,||"
॥१९९॥ किमुक्तं भवति ? अनेषणीयत्यागेन शुद्धमेव गृह्णीयात्तदपि किमर्थम् ? इत्याह-'जायाएत्ति' यात्रायै संयमनिर्वाहार्थम् , 'घासंति' ग्रासमेषयेद्वेषयत् । एषणाशुद्धमप्यादाय कथं भोक्तव्यमिति ग्रासैषणामाह-रसेपु स्निग्धमधुरादिषु
Page #399
--------------------------------------------------------------------------
________________
गाथा १२-१३
रद्धो गृद्धिमान् न स्यान्न भवेद्भिक्षाघेऽनेन रागत्याग उक्तो, द्वेषपेषोपलक्षणश्चैतत्ततश्च रागद्वेषविमुक्तो भुजीतेति || सूत्रार्थः॥ ११॥ रसागृद्धश्च यत्कुर्यात्तदाहमूलम्-पंताणि चेव सेविज्जा,सीअपिंडं पुराणकुम्मासं।अदु बक्कस पुलागं वा,जवणहाए निसेवए मंथु॥१२ ___ व्याख्या-प्रान्तान्येव नीरसान्येव सेवेत भुञ्जीत, कानि पुनः प्रान्तानीत्याह-शीतपिण्डं शीताहारं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यादत आह-पुराणाः प्रभूतवर्षधृताः कुल्माषा राजमाषास्तान्, एते हि पुराणा अत्यन्तपूतयो नीरसा भवन्तीति तद्हणं, उपलक्षणञ्चैतत् पुराणमुद्गादीनां 'अदु' इत्यथवा 'बक्कसं' मुद्गादिनहिकानिष्पन्नमन्त्रं, पुलाकमसारं वल्लचनकादि, वा समुच्चये । 'जवणहाएत्ति' यापनार्थ देहनिर्वाहार्थ निषेवेत भुञ्जीत, मन्थुश्च बदरादिचूर्ण, चस्य गम्यमानत्वात् अतिरूक्षतया चास्य प्रान्तत्वं । इह च यापनार्थमित्यनेनैतत्सूचितं, | यदि तेन शरीरयापना स्यात्तदा तदेव सेवेत, यदि तु वातोद्रेकादिना तद्यापनैव न स्यात् तदा गच्छगतो मुनिः सरसमपि सेवेत । जिनकल्पिकादिर्गच्छनिर्गतस्तु प्रान्तादीन्येव सेवेत, तस्य तादृशानामेवादानानुज्ञानात् । पुनः क्रिया-| भिधानं तु न सकृदेतानि सेवेत, किन्तु सर्वदापीति सूचनार्थमिति सूत्रार्थः ॥ १२ ॥ शुद्धषणाविपर्यये दोषमाह
मूलम-जे लक्खणं च सविणं च, अंगविजं च जे पउंजति।
न हु ते समणा वुच्चंति, एवं आयरिएहिं अक्खायं ॥ १३ ॥
Page #400
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२००॥
३
६
१२
Photo
व्याख्या - ये मुनयो लक्षणं शुभाशुभ सूचकं पुरुषादिलक्षणं तत्प्रतिपादकं शास्त्रमपि लक्षणं, “अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु ॥ गतौ यानं खरे चाज्ञा, सर्व सत्वे प्रतिष्ठितम् ॥१॥" इत्यादिकं । खप्नं च स्वप्नस्य शुभाशुभसूचकं शास्त्रं, “अलङ्कृतानां द्रव्याणां वाजिवारणयोस्तथा ॥ वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयाद्यशः ॥ १ ॥ तथा - " मूत्रं वा कुरुते खने, पुरीषञ्चापि लोहितम् ॥ प्रतिबुद्ध्येत यः सोऽर्थ - नाशं प्राप्नोति निश्चितम् ॥ १ ॥ " | इत्यादिकं । अङ्गविद्यां च शिरःप्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां, “सिरफुरणे किर रजं, पिअमेलो होइ बाहुफुरणम्मि || अच्छिफुरणंमि अ पिअं, अहरे पिअसंगमो होई ॥ १ ॥" इत्यादिकां । प्रणवमायाबीजादिवर्णविन्या| सात्मिकां वा । चकारः सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते व्यापारयन्ति, पुनर्ये इति ग्रहणं लक्षणादिभिः पृथक् सम्बन्धसूचनार्थ, ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव, 'न हु' नैव ते श्रमणा उच्यन्ते । इह च पुष्टालम्बनं विना तद्यापारणे एवमुच्यते, अन्यथा करवीरलताभ्रमकतपखिनोऽपि तथात्वापत्तेः, एवं आचाराख्यातं कथितमिति सूत्रार्थः ॥ १३ ॥ तेषां फलमाह -
मूलम् - इह जीविअं अनिअमेत्ता, पन्भट्ठा समाहिजोएहिं । कामभोगा रसगिद्धा, उववज्जंति आसुरे काए ॥ १४ ॥
व्याख्या - इह जन्मनि जीवितमसंयमजीवितं अनियम्य द्वादशविधतपोविधानादिना अनियंत्र्य प्रभ्रष्टाः प्रच्युताः
अष्टमाध्य
यनम् (८) गाथा १४
॥२००॥
Page #401
--------------------------------------------------------------------------
________________
RAPOSARAPAN
समाधिश्चित्तस्वास्थ्यं तत्प्रधाना योगाः शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः तेऽनन्तरोक्ताः कामभोगेषु | गाथा. पूर्वोक्तेषु रसेषु मधुरादिषु च गृद्धा लोलुपाः कामभोगरसगृद्धाः, भोगान्तर्गतत्वेपि रसानां पृथग्ग्रहणमतिगृद्धहेतु- १५-१६ त्वख्यापकं, उपपद्यन्ते जायन्ते आसुरे असुरसम्बन्धिनि काये निकाये, एवंविधा हि किञ्चित्कष्टानुष्ठानमनुतिष्ठन्तोऽपि विराधकत्वादसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः ॥ १४ ॥ ततोऽपि च्युतास्ते किं प्राप्नुवन्तीत्याहमूलम्-तत्तोवि उवट्टित्ता, संसारं बहुं अणुपरिअडंति।बहुकम्मलेवलित्ताणं, बोही होई सुदुल्लहो तेसिं१५ | व्याख्या-ततोपि असुरनिकायादुद्धृत्य निर्गस्य संसारं भवं 'बहु' विस्तीर्ण अनुपर्यटन्ति सातत्येन परिभ्रमन्ति, किञ्च बहुकर्मलेपलिप्तानां बोधिः प्रेत्य जिनधर्मावाप्तिः भवति सुदुर्लभोऽतिशयेन दुष्प्रापः तेषां, ये लक्षणादि प्रयुअते । यतश्चैवमतो नोत्तरगुणविराधना कार्येति सूत्रार्थः ॥ १५ ॥ ननु किमेते जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते-लोभवशादत एव तदाकुलस्यात्मनो दुष्पूरत्वमाह--
मूलम्-कसिणंपि जो इमं लोगं, पडिपुण्णं दलेज इक्कस्स।
तेणावि से न संतुस्से, इइ दुप्पूरए इमे आया ॥ १६ ॥ __ व्याख्या-कृत्नमपि सकलमपि यः सुरेन्द्रादिरिमं प्रत्यक्षं लोकं प्रतिपूर्ण धनधान्यादिभृतं 'दलेजत्ति' दद्यात् 'इक्कस्सत्ति' एकस्मै कस्मैचिदाराधकाय तेनापि धनादिपूर्णलोकदायकेनापि स लुब्धो न सन्तुष्येत् , अनेन दायकेन
Page #402
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२०१॥
गाथा.
मम परिपूर्णता कृतेति न सन्तुष्टिमाप्नुयात् । यदुक्तं-“न वह्निस्तृणकाष्ठायै नदीभिर्वा महोदधिः ॥ न चैवात्मार्थ- अष्टमाध्यसारेण, शक्यस्तर्पयितुं क्वचित् ॥ १॥ इत्यमुना प्रकारेण दुःखेन पूरयितुं शक्यो दुष्पूरः सएव दुष्पूरकः 'इमेत्ति' अयं यनम् (८) प्रत्यक्ष आत्मा जीवस्तदिच्छायाः पूरयितुमशक्यत्वादिति सूत्रार्थः ॥ १६ ॥ असन्तोषे खविदितं हेतुमाह
|१०-१८ मूलम्-जहा लाहो तहा लोहो, लाहा लोहो पवडइ । दोमासकयं कजं, कोडीएवि न निढिअं ॥ १७॥
व्याख्या-यथा लाभो द्रव्यप्राप्तिः तथा लोभो मूर्छा भवतीति शेषः, किमेवमित्याह-यतो लाभाल्लोभः प्रवर्धते, यथा यथा लाभस्तथा तथा लोभः प्रवर्धत इत्यर्थः । कुतश्चैवमित्याह-द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं कार्य प्रयोजनं दास्याः पुष्पताम्बूलमूल्यरूपं कोट्यापि दीनाराणां न निष्ठितं न निष्पन्नं, उत्तरोत्तरविशेषाभिलाषादिति सूत्रार्थः ॥ १७॥ द्विमाषकृतं च कार्य स्त्रीमूलमिति तत्परिहारोपदेशमाह
मूलम्–णो रक्खसीसु गिन्झिज्जा, गंडवच्छासु णेगचित्तासु ।
- जाओ पुरिसं पलोभित्ता; खेलंति जहा वा दासे हिं ॥ १८ ॥ व्याख्या-नो नैव, राक्षस्य इव राक्षस्यः स्त्रियस्तासु, यथा हि राक्षस्यो रक्तसर्वखमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति, एवमेता अपि तत्त्वतो हि ज्ञानादीन्येव जीवितं, ज्ञानादीनि च ताभिरपहियन्त एवेत्येवमुक्तं । तू ॥२०१॥ 'गिज्झिज्जत्ति' गृध्येदभिकांक्षावान् भवेत्, कीदृशीषु ? 'गंडवच्छासुत्ति' पिशितपिण्डरूपत्वाद्दण्डे इव गण्डे कुचौ वक्षसि
१२
Page #403
--------------------------------------------------------------------------
________________
गाथा.१९
यासां तास्तथा तासु, वैराग्योत्पादनार्थञ्चेत्थमुक्तं । अनेकान्यनेकसंख्यानि चञ्चलतया चित्तानि यासां तास्तथा तासु, उक्तञ्च-"हृद्यन्यद्वाच्यन्यत् ,कर्मण्यन्यत् पुरोऽथ पृष्ठेऽन्यत् ॥ अन्यत्तव मम चान्यत् , स्त्रीणां सर्व किमप्यन्यत् ॥१॥" याः स्त्रियः पुरुषं कुलीनमपि प्रलोभ्य त्वमेव मे शरणं त्वमेव च मे प्रिय इत्यादिकाभिर्वाग्भिर्विप्रतार्य खेलन्ति
क्रीडन्ति 'जहावत्ति' वाशब्दस्यैवकारार्थत्वात् यथैव दासैरेहि याहि मा वायासीरित्यादिभिः क्रीडाभिर्दासमिव * पुरुषं प्रवर्तयन्यो विलसन्तीति सूत्रार्थः ॥ १८ ॥ पुनस्तासामेवातिहेयतां दर्शयन्नाह
मूलम्-नारीसु नो पगिज्झिज्जा, इत्थी विप्पजहे अणगारे ।
धम्मं च पेसलं णच्चा, तत्थ ठविज भिक्खू अप्पाणं ॥ १९ ॥ __ व्याख्या-नारीषु नो नैव प्रगृध्येत् प्रशब्दः प्रारम्भे, ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः । |'इत्थित्ति' स्त्रियो 'विप्पजहेत्ति' विप्रजह्यात् त्यजेत् , पूर्व नारीग्रहणान्मानुष्य एवोक्ता, इह तु देव तिर्यक्सम्बन्धि
न्योपि त्याज्या उक्ता इति न पौनरुत्त्यं । अनगारो मुनिः, किं पुनः कुर्यादित्याह-'धम्म चत्ति' चशब्दस्यावधार-|| &णार्थत्वात् धर्ममेव ब्रह्मचर्यादिरूपं पेशलमत्र परत्र चैकान्तहितत्वेनाऽतिमनोरं ज्ञात्वावबुध्य तत्रेति धर्म स्थाप
येद्भिक्षुर्मुनिरात्मानमिति सूत्रार्थः ॥ १९ ॥ अध्ययनार्थोपसंहारमाह
Page #404
--------------------------------------------------------------------------
________________
उत्तराध्ययन ते
अष्टमाध्य. यनम् (८) गाथा.२०
॥२०२॥
मूलम्-इति एस धम्मे, अक्खाए कविलेणं च विसुद्धपण्णेणं ।
___ तरिहिंति जे काहिंति, तेहिं आराहिअ दुवेलोगत्ति बेमि ॥२०॥ व्याख्या-इत्यनेन प्रकारेण एष पूर्वोक्तो धर्मो मुनिधर्म आख्यातः कथितः, केनेत्याह-कपिलेनेति पूर्वसङ्गतिकत्वादमी मद्वचनं प्रतिपद्यन्तामित्यात्मानमेव निर्दिशति, चः पूत्तौं, विशुद्धप्रज्ञेन निर्मलज्ञानेन । अथार्थसिद्धिमाह'तरिहंतित्ति' तरिष्यन्ति भवाब्धिमिति शेषः, के ? इत्याह-ये नराः करिष्यन्ति प्रक्रमादमुं धर्म, अन्यच्च, तैराराधितौ द्वी लोको इहलोकपरलोकरूपौ, इह महाजनपूज्यतया परत्र च स्वर्गापवर्गादिप्राप्तिरिति सूत्रार्थः ॥ २०॥ इति ब्रवीमीति प्राग्वत् ॥
- ജയകയായ ഇയാളു
ही इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यो-2 श पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ अष्टमाध्ययनं सम्पूर्णम् ॥ ८॥
॥२०२॥
Page #405
--------------------------------------------------------------------------
________________
॥ अथ नवमाध्ययनम् ॥
करकण्डच
रित्रम्१-७
॥ अहम् ॥ उक्तमष्टमाध्ययनं, अथ नमिप्रव्रज्याख्यं नवममारभ्यते, अस्य चायमभिसम्बन्धोनन्तराध्ययने निर्लोभत्वमुक्तं, निर्लोभश्चेहापि शक्रादिपूज्यः स्यात्तदुपदर्शनायेदमुच्यते, इत्यनेन सम्बन्धनायातस्यास्य प्रस्तावनार्थ नमिचरितं ३ तावदिहावश्यं वाच्यम् । यथाचायं प्रत्येकबुद्धस्तथान्येपि करकण्ड्डादयस्त्रयः प्रत्येकबुद्धास्तत्समकालखर्गच्यवनदीक्षोपादा-81 निकेवलज्ञानमहानन्दपदभाजो बभूवुर्यद्वक्ष्यति, “करकंडू कलिंगेसु, पंचालेसु अ दुम्मुहो ॥ नमी राया विदेहेसु, है |गंधारेसु अ नग्गइ ॥ १॥ त्ति” ततः प्रसङ्गात्तचरितान्यपीहोच्यन्ते ।
तत्रादौ वृषभं वीक्ष्य, प्रतिबुद्धस्य धीनिधेः ॥ करकण्डमहीजाने-श्वरितं वच्मि तद्यथा ॥ १॥ अत्रैव भरते चम्पा-नगयों गुरुविक्रमः ॥ भूपोभूगुणरत्नाना-मुदधिदेधिवाहनः॥२॥ पुत्री चेटकभूभर्तुः, शीलादिगुणसेवधिः॥ राज्ञी तस्याभवत्पद्मा-वती पद्मा हरेरिव ॥३॥ भुञ्जाना भूभुजा साकं, भोगाभोगान् यथासुखम् ॥ बभूव सा क्रमादन्त-वनी पत्नी महीपतेः॥४॥ कृतपार्थिवनेपथ्या, धृतच्छत्रा धराभृता॥ विहराम्यहमारामे, पट्टेभस्कन्धमाश्रिता ॥ ५॥ इत्यभूदोहदस्तस्याः, काले गर्भानुभावतः ॥ तस्यापूर्णे च सा काय, कृष्णपक्षेन्दुवधौ ॥६॥ [ युग्मम् ] ततः पृथ्वीभृता पृष्टा, महिषी कार्यकारणम् ॥ जगौ तं दोहदं राज्ञः, प्रमोदद्रुमदोहदम् ॥ ७॥ ततो
Page #406
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२०३॥
LASSASSISTERIS
भूपस्तया साक-मारुह्य जयकुञ्जरम् ॥ खयं तदुपरि छत्रं, दधत्पूर्णेन्दुसुन्दरम् ॥ ८॥ सानन्दं पौरपौरीभिः, प्रेक्ष्य-2 नवमाध्यमाणो बलान्वितः ॥ प्रावृट्कालप्रवेशेन, रम्यमाराममासदत् ॥९॥ [युग्मम् ] तदा च नव्यपाथोद-पाथा सङ्ग- यनम् (९) मसम्भवः ॥ गन्धः प्रादुरभूमेः, सुरभि सिकन्धयः ॥१०॥ तच गन्धं समाघाय, ध्यायन् विन्ध्याचलाटवीम्॥
करकण्डुच
मारित्रम्८-२१ व्यालः काल इवोत्तालः, कान्तारं प्रत्यधावत ॥११॥ व्यावर्तमानो विक्रान्त-भूयोभिरपि स द्विपः॥ कदाग्रहादिव शठो, गमनान्न न्यवर्तत ॥ १२॥ कुर्वाणैर्विविधोपायान् , स्खल्यमानोपि मानवैः॥ न तस्थौ सिन्धुरः सिन्धु-पूरः शरवणैरिव ॥ १३॥ विहस्तेषु ततस्तेषु, पश्यत्वेव स हस्तिराट् ॥ पश्यतोहरवद्भूप-राज्यौ हृत्वा वनेऽनयत् ॥१४॥ तत्र प्रेक्ष्य क्षमापालो, दूरादेकं वद्रुमम् ॥ देवीमूचे गजो ह्येष, गन्ताऽमुष्य तरोरधः ॥ १५ ॥ तत्र चास्मिन् गते सद्यः, शाखां न्यग्रोधशाखिनः ॥ गृह्णीयास्त्वं ग्रहीष्येत-च्छाखामहमपि प्रिये ! ॥ १६ ॥ आवां ततो गमिष्यावो, गजं हित्वा निजं पुरं ॥ अन्यथा त्वावयोर्भावी, वनेस्मिन् कोप्युपद्रवः ॥१७॥ प्रतिपन्नाप्यदो वाक्यं, वटस्याधो गते गजे ॥ तच्छाखाग्रहणायालं, नाभूद्राज्ञी चिरक्रिया ॥ १८ ॥ मापस्तु दक्षस्तच्छाखा-मालम्ब्योदतरवटात् ॥ प्राणप्रियामपश्यंश्च, व्यलापीदिति दुःखितः ॥ १९ ॥ अयि कांते ! कदा भावी?, सङ्गमः पुनरावयोः॥ अमुना
॥२०॥ रिपुरूपेण, करिणा वञ्चितोस्मि हा!॥ २०॥ त्वद्वियोगोद्भवं दुःखं, दावाग्नेरपि दुःसहम् ॥ असोढपूर्वं दयिते !, सहिष्यहं कियचिरम् ? ॥२१॥ दुःखमेतद् घटेम्भोधि-रिव माति न मे हृदि ॥ तत्किं कुर्वे ? क्व गच्छामि ?, पुरः
*
442
**
Page #407
--------------------------------------------------------------------------
________________
करकण्डुचरित्रम् २२-३६
कस्य ब्रवीमि वा? ॥ २२ ॥ इत्यादि विलपन् दुःख-भरभङ्गुरमानसः॥ दन्तिपादानुसारेण, ययौ चम्पापुरी नृपः ॥ २३॥ राज्ञः प्रियां तु तां दन्ती, निन्ये निर्मानुपाटवीम् ॥ पिपासाविवशस्तत्रा-विशञ्चैकं महासरः ॥ २४ ॥ वाद्धौं सुरेभवत्तत्र, क्रीडति द्विरदे शनैः ॥ उत्ततार ततो राज्ञी, कुरङ्गीव महागिरेः ॥ २५॥ सरस्ती च हंसीव, पुलिनोद्देशमागता ॥ पश्यन्ती परितोपश्य-दरण्यानी भयप्रदाम् ॥ २६ ॥ यूथच्यूतकुरङ्गीव, ततः सांत्यर्थमातुरा ॥ मुक्तकण्ठं रुरोदोच्चै-रोदयन्ती खगानपि ॥ २७ ॥ कथञ्चिद्धैर्यमालम्ब्य, दध्यौ चैवं नृपाङ्गना ॥ दुष्कर्मदोपतो ह्याप-दियमापतिता मम ॥ २८ ॥ न चातिचिक्कणः कर्म-मलो रोदनसम्भवैः ॥ विनेतुं शक्यते नीरै-स्तदलं, रोदनेन मे ! ॥२९॥ किञ्चास्मिन् गहने व्याघ्र-सिंहादिश्वापदाकुले ॥ उपद्रवोपि कोपि स्यात् , तत् प्रमादं जहा
म्यहम् ॥ ३० ॥ इति ध्यात्वा कृतचतुः-शरणा सा महाशया ॥ क्षमयित्वाखिलान् सत्त्वान् , निन्दित्वा दुरितं ४ानिजम् ॥ ३१॥ साकारानशनं कृत्वा-ऽरण्यनिस्तरणावधि ॥ स्मरन्ती प्रकटं पञ्च-परमेष्ठिनमस्क्रियाः॥ ३२॥
अध्वानं निजपुर्याश्च, दिग्मूढत्वादजानती ॥ गन्तुं प्रववृते काञ्चि-द्दिशमुद्दिश्य सत्वरम् ॥ ३३॥[त्रिभिर्विशेषकम् ] दूरङ्गता च सा प्रेक्ष्य, तत्र कञ्चनतापसम् ॥ पिप्रियेऽन्तः पयः प्राप्य, पिपासुरिव जङ्गले ॥ ३४ ॥ कृताभिवादनां| ताच, पप्रच्छेति स तापसः॥ मातः! कुत इहायासी-स्त्वं देवीव मनोरमा ॥ ३५ ॥ अहं चेटकराट्रपुत्री, दधिवाहनराड्वधूः ॥ इहानीता द्विपेनेति, खवृत्तं साप्यवोचत ॥ ३६ ॥ अहं चेटकभूभर्तुर्बान्धवोस्मि महाशये !
CSCR554
Page #408
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२०४॥
NA
तन्मा भैषीर्मा कृथाश्च, शोकं नीचजनोचितम् ॥ ३७॥ इत्युक्त्वा तापसश्रेष्ठ-स्तस्यै वनफलान्यदात् ॥ आतिथ्यं 4 नवमाध्य बतिथेः श्रीणा-मनुसारेण जायते ॥ ३८॥ पारेर्णवं पोत इव, नीत्वा पारेवनं च ताम् ॥ दर्शयन् वसतो ग्रामा
यनम् (९)
करकण्डुचनित्युवाच तपोनिधिः॥ ३९॥ सीरकृष्टां भुवं नैवा-क्रामामो वयमित्यहम् ॥ नायास्यामि पुरस्त्वं तु, निर्भयातः
चरित्रम् परं ब्रजेः॥४०॥ देशो दन्तपुरस्यायं, दन्तवक्रोऽत्र भूपतिः॥ गत्वा पुरेत्र चम्पायां, गच्छेः सार्थेन संयुता ॥४१॥ ३७-५१ इत्युदित्वा न्यवर्तिष्ठ, शिष्टात्मा तापसाग्रणीः॥ सापि दन्तपुरे प्राप्ता, साध्वीनामन्तिके ययौ ॥ ४२ ॥ कृतप्रणामां विधिव-ताश्च पार्थिवकामिनीम् ॥ श्राद्धे! त्वं कुत आयासी-रित्यपृच्छत् प्रवर्तिनी ॥४३॥ साप्युवाच निजां वाता, विना गर्भ यथास्थिताम् ॥ स्मृतानुभूतदुःखा च, जज्ञेश्रुक्लिन्नलोचना ॥ ४४ ॥ ततः प्रवर्तिनी प्रोचे, मा |खिद्यख महाशये ! ॥ कर्मणां हि परीणामो-प्रतिकार्यः सुरैरपि ॥४५॥ "किञ्च-"वातोद्धृतध्वजप्रान्त-चञ्चलैश्वर्यशर्मणि ॥ चलेष्टजनसङ्गेस्मिन् , भवे सौख्यं न किञ्चन ॥४६॥ जन्मरोगजराशोक-मृत्युदौःस्थ्याधुपद्रवैः ॥ व्याकुलेत्र भवे दुःख-मेव प्रायो भवेद्विशाम् ॥ ४७ ॥ यच्चेह स्यात्सुखं किञ्चि-द्विषयाधुपभोगजम् ॥ दुःखानुषङ्गात्तदपि, दुःख एव निमजति ॥४८॥ यत एव च संसारो, दुःखानामेकमास्पदम् ॥ प्रपद्यन्ते मोक्षमार्ग-मत एव
॥२०४॥ विवेकिनः॥४९॥ इति तद्देशनां श्रुत्वा, विरक्ता साददे व्रतम् ॥ पृष्टाप्याचष्ट नो गर्भ, चारित्रादानशङ्कया ॥५०॥ गर्भवृद्धौ च साध्वीभिः, पृष्टा किमिदमित्यसौ ॥ सत्यमूचे ततस्तास्तां, साध्वीं गुप्तमरक्षयन् ॥५१॥ गर्भकाले च
Page #409
--------------------------------------------------------------------------
________________
करण्डुच.
रित्रम् ५२-६६
सम्पूर्णे, शय्यातरगृहस्थिता ॥ असूत सुतरत्नं सा, मणिं रोहणभूरिव ॥ ५२ ॥ ततो गृहीत्वा तं बालं, गत्वा प्रेतबनेऽमुचत् ॥ तत्तातनाममुद्रात, रत्नकम्बलवेष्टितम् ॥ ५३॥ द्रष्टुं तद्वाहकं साथ, तञ्च त्रातुमुपद्रवात् ॥ प्रच्छन्नं संस्थिताद्राक्षी-दृशा प्रेमामृताया ॥५४॥ तत्रायातस्तदा प्रेत-बनेशोऽपत्यवर्जितः॥ जगृहे तं निजगृहे, नीत्वा पल्यै च दत्तवान् ॥ ५५॥ तस्यावकर्णक इति, सानन्दः सोभिधां व्यधात् ॥ आर्यापि तद्गृहं वीक्ष्य, जगामोपाश्रयं निजम् ॥ ५६ ॥ व गर्भ इति साध्वीभिः, पृष्टा चेत्यवदन्मृषा ॥ मृतः सुतो मया जातः, स च त्यक्तः कचित्ततः॥ ५७॥ साध्व्योपि सरलाः सर्वा-स्तत्तथा प्रतिपेदिरे ॥ बालस्तु ववृधे तस्य, सौधे पङ्क इवाम्बुजम् ॥५८॥ वत्सं गौरिव तं बालं, ध्यायन्ती सा तु संयता ॥ जगाम प्रत्यहं प्रेत-वनपालस्य धामनि ॥ ५९॥ तत्पत्या |च समं प्रेम, चक्रे सम्भाषणादिभिः ॥ अलालयच तं बाल-महो ! मोहोतिदुर्जयः॥६० ॥ अवाप यच्च भिक्षायां, शोभनं मोदकादिकम् ॥ तद्वालायार्पयत्सोपि, तस्यां रागं दधौ ततः ॥ ६१ ॥ जन्मतस्तस्य देहे च, रूक्षकण्डूरभूपृशम् ॥ स च वृद्धिङ्गतो बालैः, समं कीडन्नदोवदत् ॥ ६२ ॥ अहं वो नृपतिस्तस्मा-घूयं दत्त करं मम ॥ बालाः प्रोचुः करस्थाने, बेहि किं ते प्रदीयते ? ॥ ६३॥ स प्रोचे चण्डकण्डूको, मां कण्डूयध्वमुच्चकैः ॥ करणानेन || तुष्टोस्मि, कृतं तदपरैः करैः ॥६४ ॥ ततस्तस्याभिधां बालाः, करकण्डूरिति व्यधुः ॥ गुणक्रियादिभिर्नाम, नवीनमपि
जायते ॥ ६५ ॥ किञ्चित्प्रौढत्वमापन्नः, श्मशानं च ररक्ष सः ॥ तदेव हि कुले तस्मिन् , गीयते कार्यमुत्तमम् ॥६६॥
ॐॐॐ545
Page #410
--------------------------------------------------------------------------
________________
६७-८०
उत्तराध्ययन । हेतोः कुतश्चिदायातौ, श्मशाने तत्र चान्यदा ॥ द्वौ मुनी वंशजालान्त-दण्डमेकमपश्यताम् ॥६७ ॥ तयो- नवमाध्य. ॥२०५॥
गरेको यतिर्दण्ड-लक्षणज्ञो महामतिः॥ तं वंशं दर्शयन्नेव-मवादीदपरं मुनिम् ॥ ६८ ॥ यावता वर्धते चत्वा- यङ्गु- यनम् (९) लान्यपराण्ययम् ॥ तावत्प्रतीक्ष्य यो बेन-मादत्ते स भवेन्नृपः ॥ ६९ ॥ तच साधुवचो वृक्ष-निकुञ्जान्तरवर्तिना ॥
करकण्डुच
रित्रम् तेन मातङ्गपुत्रेण, द्विजेनैकेन च श्रुतम् ॥ ७० ॥ ततो वंशस्य तस्याधः, खनित्वा चतुरङ्गुलम् ॥ छित्त्वा प्रछन्नवृत्त्या तं, वाडवो दण्डमाददे ॥ ७१ ॥ तच प्रेक्ष्य द्विजेनात्तं, करकण्डुः क्रुधा ज्वलन् ॥ आछिद्य जगृहे को वा, राज्यलक्ष्मी न कांक्षति ? ॥ ७२ ॥ ततस्तं करेण नीत्वा, दण्डं देहीत्यवग् द्विजः ॥ स प्रोचेऽसौ श्मशाने मे, जातस्तन्न ददामि ते ॥७३॥ विप्रोवोचदनेनैव, कार्य मे वर्तते ततः ॥ अस्य स्थानेन्यमादाय, दण्डमेनं प्रदेहि मे है ॥७४ ॥ तेनेत्युक्तोपि तं दण्डं, करकण्डुरनर्पयन् ॥ कुतोऽमुं न ददासीति, पृष्टः कारणिकैस्तदा ॥ ७५ ॥ बालो-TR ब्रवीत्सुरस्येव, दण्डस्यास्य प्रभावतः ॥ भविष्यामि नृपो नूनं, तदस्यामुं ददे कथम् ? ॥ ७६ ॥ ततो विहस्य तं बाल-मेवं कारणिका जगुः ॥ राज्यावाप्तौ द्विजस्यास्य, ग्राममेकं त्वमर्पयेः ॥ ७७ ॥ तत्प्रपद्य निजं धाम, कर-18 कण्डुर्ययौ द्रुतम् ॥ द्विजोप्यन्यान् द्विजानेव-मूचे गत्वा खमास्पदम् ॥ ७८॥ दण्डं ममापि जग्राह, बलाचाण्डाल
R ॥२०५॥ वालकः ॥ ततः कथञ्चित्तं हत्वा, दण्डमादद्महे वयम् ॥ ७९ ॥ कथमप्येतदाका -वकर्णकपिता ततः ॥ पत्नीपुत्रान्वितोनश्य-त्सुतरक्षाकृते क्षणात् ॥ ८॥ गत्वा च काञ्चनपुरे, ते त्रयोपि पुराबहिः ॥ कुत्रापि सुषुपुः
Page #411
--------------------------------------------------------------------------
________________
श्रान्ताः, खापो हि श्रमभेषजम् ॥ ८१ ॥ तदा च नगरे तत्रा-पुत्रो राजा व्यपद्यत ॥ ततोधिवासयामासु-स्तु-18 करकण्डुच
रित्रम् रहं मंत्रिपङ्गवाः ॥ ८२॥ तुरङ्गोऽपि भ्रमंस्तेषां, सुप्तानामन्तिके ययौ ॥ तश्च प्रदक्षिणी चक्रे, बालं देवमिवास्तिकः
८१-९५ ॥ ८३॥ तञ्च तेजखिनं श्रेष्ठ-लक्षणं वीक्ष्य नागराः ॥ तुष्टा जयारवं चक्रु-स्तूर्यनिर्घोषमिश्रितम् ॥ ८४ ॥ ध्वानेन तेन विध्वस्त-प्रमीलः सोथ बालकः ॥ जृम्भायमाण उत्तस्था-वारुरोह च तं हयम् ॥ ८५ ॥ तूर्यध्वनिप्रतिध्वाना-पूर्णद्यावाक्षमान्तरः ॥ पौरैः परीतः परित-स्तारापतिरिवोडुभिः ॥ ८६ ॥ युक्तः पितृभ्यां नगरे, प्रविशन् स च वाडवैः ॥ अरोधि मातङ्ग इति, मातङ्ग इव शूकरैः ॥ ८७॥ [ युग्मम् ] ततो गृहीत्वा तं दण्डं, करकण्डुः पुरोकरोत् ॥ तस्य राज्यप्रदाने हि, स एव प्रतिभूरभूत् ॥ ८८॥ निर्मितो ज्वलनेनेवा-ज्वलद्दण्डस्तदार च सः॥ तश्च प्रेक्ष्य द्विजा भीता, नेशुः शरमिव द्विकाः॥८९॥ पुरे प्रविष्टो राज्ये चा-भिषिक्तो धीसखादिभिः॥ सोथ राजा सजातीया-न्मातङ्गान्विदधे द्विजान् ॥ ९० ॥ उक्तञ्च-"दधिवाहनपुत्रेण,राज्ञा च करकण्डुना ॥ वाटधानकवास्तव्या-चाण्डाला ब्राह्मणीकृताः ॥ ९१-" तस्यावकर्णक इति, त्यक्त्वाद्यं नाम नीरसम् ॥ वालोक्तमेव तत्प्रोचुः, करकण्डुरिति प्रजाः॥ ९२ ॥ प्राप्तराज्यञ्च तं श्रुत्वा, दण्डच्छेदी स वाडवः ॥ आगत्योवाच राजन्मे, देहि ग्राम तदोदितम् ॥ ९३॥ कं ग्रामं ते ददामीति, राज्ञोक्तः स पुनर्जगौ ॥ चम्पायां मे गृहं तस्मा-त्तद्देशे ग्राममर्पय ॥ ९४ ॥ ततो लेखं लिलेखैवं, करकण्डुनरेश्वरः ॥ दधिवाहनभूपालं, प्रति निष्प्रतिमो गुणैः ॥ ९५॥
Page #412
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२०६॥
"तथाहि-" स्वस्ति श्रीकाश्चनपुरा-त्करकण्डुर्महीपतिः॥ सम्भाषते नृपं चम्पा-धिपं श्रीदधिवाहनम् ॥९६॥ नवमाध्यपरमात्मप्रभावेण, कल्याणमिह विद्यते ॥ श्रीमद्भिरपि तद्ज्ञाप्यं, खशरीरादिगोचरम् ॥९७ ॥ किञ्चास्मै ब्राह्मणा- यनम् (९) यको, ग्रामो देयः समीहितः ॥ दास्ये वो रुचितं ग्राम, नगरं वा तदास्पदे ॥ ९८ ॥ इदं कार्यं ध्रुवं कार्य, नात्र
करकण्डुच
रित्रम् कार्या विचारणा ॥ मूल्यावाप्तौ विमर्शो हि, व्यर्थ एवेति मङ्गलम् ॥ ९९॥ लेखमेनं समादाय, विप्रश्चम्पापुरी
९६-१०९ गतः॥ आस्थानस्थस्य भूपस्य, पाणिपद्मातिथिं व्यधात् ॥ १०॥ तद्वाचनहविर्होम-दीप्तक्रोधहुताशनः ॥ तमित्यूचे धराधीशो, भ्रकुटीविकटन नः ॥१॥रे! मातङ्गस्य किं तस्य, खजातिरपि विस्मृता ? ॥ अनात्मज्ञोलिखल्लेख, यो ममोपरि दुष्टधीः ॥२॥ लेखेनानेन तं नीच-मस्पश्यं स्पृष्टपूर्विणा ॥ अहं मलीनतां नीतो-ऽज्ञानाद्वा किं न जायते ? ॥३॥रे विप्र ! याहि याहि त्वं, नोचेन्मातङ्गलेखदः ॥ यास्यसि त्वं पतङ्गत्वं, मत्कोपज्वलनेधुना ॥४॥ तेनेत्युक्तो द्विजो गत्वा, तदूचे करकण्डवे ॥ क्रोधाध्मातस्ततः सोपि, यात्राभेरीमवीवदत् ॥५॥ चतुरङ्गचमू-12
चक्रे-भुवमाच्छादयन्निव ॥ जगाम चम्पानगरी, सर्वतस्तां रुरोध च॥६॥वीराणामुत्सव इवा- नन्ददायी ततोहै वहम् ॥ पुरस्थायिबहिःस्थायि-सैन्ययोरभवद्रणः॥७॥ ताञ्च पद्मावती साध्वी, वातो श्रुत्वेत्यचिन्तयत् ॥ अज्ञा- २०६॥
नेन पितापुत्री, कुरुतः समरं मिथः॥ ८॥ भूयसां प्राणिनां नाशो, दाववाविवाहवे ॥ तयोर्नरकदो भावी, तद्गत्वा शमयामि तम् ॥९॥ इति ध्यात्वा मुख्यसाध्वी-मापृच्छय च महासती ॥ करकण्डुसमीपेगा-त्सोप्युत्थाय ननाम
Page #413
--------------------------------------------------------------------------
________________
१२
ताम् ॥ १० ॥ साथ तस्मै रहः प्रोच्य, प्राच्यं वृत्तान्तमात्मनः ॥ इत्याख्यत्तव माताहं, पिता च दधिवाहनः ॥ ११ ॥ तत्तातेन समं युद्धं, न युक्तं ते महामते ! ॥ कुलीना हि न लुम्पन्ति, गुरूणां विनयं क्वचित् ॥ १२ ॥ तच्छ्रुत्वा तेन पृष्टौ तावूचतुः पितरावपि ॥ पुत्रो नः पालितोसि त्वं सम्प्राप्तः प्रेतकानने ॥ १३ ॥ साध्वीवाक्ये ततो जात - प्रत्ययोपि स पार्थिवः ॥ दर्पान्नापासरज्जन्या - द्राजन्यानां सौ बहुः ॥ १४ ॥ आर्या ययौ ततो मध्ये - पुरं राज्ञो गृहे द्रुतम् ॥ ताञ्चोपालक्षयश्चेव्यः प्रणेमुश्च ससम्भ्रमम् ॥ १५ ॥ दिष्ट्या दृष्टाद्य मातस्त्व-मियत्कालं क्व च स्थिता ॥ चिरात्किं दर्शनं दत्तं किमिदं स्वीकृतं व्रतम् ॥ १६ ॥ इत्याद्युच्चैर्वदन्त्यस्ता रुरुदुश्च मुहुर्मुहुः ॥ इष्टानां | दर्शने जीर्ण-मपि दुःखं नवायते ! ॥ १७ ॥ तं च कोलाहलं श्रुत्वा तत्रायातो धराधिपः ॥ तां प्रणम्यासनं क्त्वा, क गर्भ इति पृष्टवान् ॥ १८ ॥ राजन् ! गर्भः स एवायं येनेयं वेष्टिता पुरी ॥ तयेत्युक्तश्च स प्रापा-नन्दं वाचामगोचरम् ॥ १९ ॥ उत्कण्ठोत्कर्षपानीया - पूर्णमानसमानसः ॥ सुतेन तेन सङ्गन्तुं गन्तुं प्रववृते नृपः ॥ २० ॥ समायान्तं समाकर्ण्य करकण्डुनृपोपि तम् || अभ्यागात् पादचारेण, पादयोश्चापतत्पितुः ॥ २१ ॥ पितापि तं नतं | दोर्भ्या-मादाय परिषखजे ॥ तदङ्गसङ्गपीयूपै - र्निजं निर्वापयन् वपुः ॥ २२ ॥ भूपाच्धेः पश्यतस्तस्या-दृष्टपूर्व सुतोडुपम् ॥ ललंघे लघु हृत्कूल - मुद्वेलैः प्रमदोदकैः ॥ २३ ॥ तञ्चाभ्यपिञ्चदङ्कस्थं नृपः प्राक् सम्मदाश्रुभिः ॥ राज्याभिषेकनीरैश्च पश्चात्सिंहासनस्थितम् ॥ २४ ॥ इति चावोचदायुष्मन् !, राज्यमेतत्क्रमागतम् ॥ पालनीयं तथा
करकण्डुचरित्रम् ११०-१२४
Page #414
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२०७॥
नवमाध्य. यनम् (९) करकण्डुच
रित्रम् १२५-१३८
लोका, यथा नैव स्मरन्ति माम् ॥ २५॥ नियोज्येमां राज्यभार-धुरां त्वयि धुरन्धरे ॥धास्ये धर्मधुरां युक्त-मिदं हि समये विदाम् ॥ २६ ॥ इत्युक्त्वा व्रतमादत्त, नृपः सद्गुरुसन्निधौ॥करकण्डुधराधीश-कृतनिष्क्रमणोत्सवः॥२७॥ | अथ प्रतापदावाग्नि-ध्वस्तवैरियशोद्रुमः॥ करकण्डुनृपो राज्य-द्वयं सनयमन्वशात् ॥ २८ ॥ स चोर्वीशः खभावेन, भृशं वल्लभगोकुलः ॥ खीचके तानि भूयांसि, यादांसी पयोनिधिः ॥ २९॥ स चान्यदा गतः क्वापि, गोकुले जलदात्यये ॥ सुरभीः सौरभेयांश्च, तर्णकांश्च विलोकयन् ॥ ३०॥ गौरं गौरीगुरुगिरेः, शृङ्गाद्गङ्गाजलाप्लुतात् ॥ एकं तर्णकमद्राक्षी-मुग्धं स्निग्धतनुच्छविम् ॥३१॥ जातप्रेमा ततस्तस्मिन् , भूमान् गोदुहमूचिवान् ॥ एतन्मातुः पयोस्यैव, देयं दोह्या तु नैव सा ॥ ३२॥ किञ्च वृद्धिं गतस्यास्य, मचित्तानन्ददायिनः ॥ अन्यासामपि धेनूनां, पायनीयं पयोन्वहम् ॥३३॥ गोपालोऽपि महीपाल-वचनं प्रतिपद्य तत् ॥ तथैव विदधे को वा, राज्ञामाज्ञां विलुम्पति? ॥ ३४ ॥ सोथ वत्सो वर्धमानः, स्पर्धमानः शशित्विषा ॥ पलोपचयदुर्लक्ष्य-कीकसः प्राज्यविक्रमः
॥ ३५॥ शोभमानोंसकृटेन, कटेनेवावनीधरः॥ तीक्ष्णाग्रवर्तलोत्तुङ्ग-शृङ्गस्तारुण्यमासदत् ।। ३६ ॥[युग्मम् ] तथा| &भूतं च तं मापो, वृपभैरपरैः समम् ॥ क्रीडयायोधयत्तं तु, नाजैपीत्कोपि शाङ्करः॥ ३७॥ कालान्तरे च भूपालो, गतो गोकुलमीक्षितुम् ॥ घट्यमानं पडकायै-र्ददशैकं जरद्वम् ॥ ३८॥ महोक्षः स महावीर्यः, केत्यपृच्छच्च गोदु१ हिमाद्रेः ।
॥२०७॥
Page #415
--------------------------------------------------------------------------
________________
करकण्डुच
रित्रम् १३९-१४६
हम ॥ सोवादीहेव ! वृषभः, स एवायं जरातुरः ॥ ३९॥ तन्निशम्य नृपोध्यासी-दध्यासीनः शुभाशयम् ॥ अहो! अनित्यता सर्व-भावानां वचनातिगा ॥४०॥ बलिनोपि बलीपर्दा, नेशुदप्ता अपि द्रुतम् ॥ यस्य हम्भारवेण ज्या-टङ्कारेणेव पक्षिणः॥४१॥ चलदोष्ठो गलदृष्टि-नेष्टौजा विश्रसावशात् ॥ सोऽधुना पडुकैः क्लसां, सहते परिघटनाम् ! ॥४२॥यद्रपं पश्यतां नेन्दु-दर्शनेप्यादरोऽभवत् ॥ सोप्यद्य तनुते दृष्टो, जुगुप्सा हा पुरीषवत् !॥४३॥ तद्विक्रमवयोरूप-विभुत्वविभवादिकम् ॥ वीक्ष्यतेध्यक्षमेवैत-त्पताकाञ्चलचञ्चलम् !॥ ४४ ॥सत्यप्येवं जनो मोहा-न जानाति यथास्थितम् ॥ तत्तमेव निगृह्णामि, गृह्णामि जनुषः फलम् ॥४५॥ध्यात्वेति कृत्वा स्वयमेव लोचं, विभ्रन्मुनेर्वेषममर्त्यदत्तम् ॥ प्रत्येकवुद्धः प्रतिबुद्धजीवी, भुवि व्यहार्षीत्करकण्डुराजः॥ ४६॥ [इति करकण्डुनृपकथा ॥१॥] | अथ प्रत्येकबुद्धस्य, बुद्धस्येन्द्रध्वजेक्षणात् ॥ राज्ञो द्विमुखसंज्ञस्य, कथां वक्ष्यामि तद्यथा ॥ १॥ पाञ्चालदेशतिलके, पुरे काम्पिल्यनामनि ॥ यवाभिधोभवद्भूपो, हरिवंशाब्धिचन्द्रमाः ॥२॥ तस्यासीद्गुणमालाढ्या, गुणमालाहया प्रिया ॥ तया समं नृपो भोगान् , भुजानः कालमत्यगात्॥३॥अन्यदा च गुणास्थान-मास्थानस्थःस पार्थिवः॥ देशान्तरागतं दूत-मिति पप्रच्छ कौतुकात् ॥४॥राज्येन्येषां विद्यमानं, मद्राज्ये किं न विद्यते ? ॥ दूतोवादीत्तव विभो !, नास्ति चित्रसभा शुभा ॥५॥ ततः कार्यविदाकार्य, नृपतिः स्थपतीन् जगौ ॥ चित्रसत्रसभा चित्र-सभा मे क्रियतामिति ॥६॥प्रमाणमादेश इति, प्रोच्य तेपि शुभे क्षणे ॥ प्रारेभिरे भुवः खातं, सभान्यासविधित्सया
९
द्विमुखचरित्रम् १-७
RRCRAR
Page #416
--------------------------------------------------------------------------
________________
उत्तराध्ययन हूँ ॥ ७ ॥ पञ्चमे च दिने तस्माद्भूतलात्तेजसा ज्वलन् । मौलिः प्रादुरभूद्रल-मयो रविरिवार्णवात् ॥ ८ ॥ स्थपतयस्तुष्टा - स्तमाचक्षुः क्षमाभृते ॥ सोत्साहः सोत्सवं सोपि, तत्रागत्य तमाददे ॥ ९ ॥ अपूजयच्च स्थपति - प्रभृतीन् वसनादिभिः ॥ तेपि चित्रसभां खल्प- कालेनैव वितेनिरे ॥ १० ॥ भित्तिन्यस्तैर्मणिगणै - र्नियालोकां विमानवत् ॥ देवीभिरिव माणिक्य - पुत्रिकाभिरधिष्ठिताम् ॥ ११ ॥ माणिक्यतोरणैः शक्र - चापैरिव विराजिताम् ॥ पञ्चवर्णमणिव्यूह-रचनाञ्चितकुट्टिमाम् ॥ १२ ॥ सभा सुधर्मा मत्तोपि किं रम्येति समीक्षितुम् ॥ उच्चैः कृतं मौलिमिव, शिखरं गुरु विभ्रतीम् ॥ १३ ॥ विचित्रचित्ररचना - चित्रीयितजगत्रयीम् ॥ आह्वयन्तीमिवामर्त्यान् स्वप्रे क्षायै चलद्वजैः ॥ १४ ॥ प्रविश्य तां सभां भूमि-वल्लभः शोभने दिने ॥ आरोपयन्निजे मौलौ, तं दिव्यं मौलिमुत्सवैः ॥ १५ ॥ पञ्चभिः कुलकम् ] तस्य मौलेर्महिम्नाभू - द्राज्ञस्तस्याननद्वयम् ॥ रावणस्य यथा हार - प्रभावेण | दशाननी ॥ १६ ॥ ततो द्विमुख इत्यूचे, तस्य नामाखिलैर्जनैः ॥ क्रमाच्च नृपतेस्तस्य, तनयाः सप्त जज्ञिरे ॥ १७ ॥ गुणमाला ततो दध्यौ, सुतेष्वेतेषु सत्खपि ॥ एकां छेकां विना पुत्रीं मन्ये जन्म निरर्थकम् ॥ १८ ॥ लक्ष्मीरिव | सुतापि स्यात्काचित्पित्रोः शुभावहा ॥ ततस्तत्प्राप्तये कञ्चि - देवमाराधयाम्यहम् ॥ १९ ॥ ध्यात्वेति मदनाख्यस्य, सा यक्षस्योपयाचितम् ॥ चक्रे सुतार्थ खल्पं हि सर्व गौरवमश्रुते ॥ २० ॥ ततस्तस्याः सुताप्येका, जज्ञे सौन्दर्य - | सेवधिः ॥ मन्दारमञ्जरीप्राप्ति - खप्नदर्शनसूचिता ॥ २१ ॥ ततो राज्ञा मुदा चक्रे, तस्या जन्ममहो महान् ॥ दत्तं
॥ २०८ ॥
३
६
९
१२
नवमाध्य.
यनम् (९) द्विमुखच रित्रम्
८-२१
॥२०८॥
Page #417
--------------------------------------------------------------------------
________________
रित्रम्
ROCEROSARORSCORRECTOR
महाविभूत्या च, यक्षस्याप्युपयाचितम् ॥ २२ ॥ दत्ता मदनयक्षेण, मअरीखानसूचिता ॥ इति तामवदत्तातो, द्विमुखचनाम्ना मदनमअरी ॥ २३॥ क्रमाच वर्द्धमाना सा, कल्पवल्लीव नन्दने ॥ जगन्मनोहरं प्राप, यौवनं रूपपावनम्
२२-३६ ॥ २४ ॥ आदर्शादिपु संक्रान्तात् , तदीयप्रतिबिम्बतः॥ अन्यत्र नाभवत्तस्या, रूपस्यानुकृतिः क्वचित् ॥ २५॥ इतश्चोजयनीभर्तु-श्चण्डप्रद्योतभूभृतः ॥ दूतः केनापि कार्येण, काम्पिल्यनगरं ययौ ॥ २६ ॥ स च प्रत्यागतोवन्ती-मिति प्रद्योतमब्रवीत् ॥ स्वामिन् ! काम्पिल्यनाथस्य, जातमस्ति मुखद्वयम् ॥ २७॥ राज्ञाथ कथमित्युक्ते,
यादीत्तस्य भूपतेः॥ मौलिरेकोस्ति तस्मिंश्चा-रोपिते स्यान्मुखद्विकम् ॥२८॥ तच्छ्रुत्वा स नृपो जात-लोभः कोटीरहेतवे ॥ वाग्मिनं प्राहिणोतं, पार्थे द्विमुखभूभुजः॥२९॥ ततः स गत्वा नत्वा च, पाञ्चालाधीशमब्रवीत् ।। |चण्डप्रतापः श्रीचण्ड-प्रद्योतस्तेऽवदत्यदः ॥ ३०॥ मुखद्वयकरं मौलि-रत्नं मे प्रेषयेद्भुतम् ॥ नोचेद्रणाय प्रगुणो, भवेः किं भूरिभाषितैः १ ॥ ३१ ॥ ततोवादीन्नृपो दूत !, यदि प्रद्योतभूधवः ॥ दत्ते मे याचितं किञ्चित् , तदाहमपि ।
तं ददे ॥३२॥ किंवः प्रार्थमिति प्रोक्ते, दूतेन माधवोऽभ्यधात् ॥ रदांशुनिकरोन्मिश्र-स्मितविच्छुरिताधरः॥३३॥ * गन्धद्विपोऽनलगिरि-रग्निभीरू रथोत्तमः ॥ राज्ञी शिवाभिधा लोह-जंघः संदेशहारकः ॥ ३४ ॥ खराज्यसाराण्ये
तानि, दीयन्ते तेन चेन्मम ॥ तदा मयापि मुकुटो, राज्यसारः प्रदीयते !॥ ३५ ॥गत्वा दूतोपि तत्सर्व, प्रद्योताय न्यवेदयत् ॥ ततो दिदीपे तस्योचैः, कोपो वायोरिवानलः ॥३६ ॥ ततो भेरी प्रयाणार्थ, प्रवाद्योजयनीपतिः ॥
Page #418
--------------------------------------------------------------------------
________________
6
।२०९॥
उत्तराध्ययन
चचाल प्रति पाञ्चालं, चलयनचलां बलैः॥३७॥ पूरयन्तो दिशः सर्वा, बृंहितैगर्जितैरिव ॥धारासारैरिव रसां, सिञ्चन्तो| नवमाध्यमदवारिभिः ॥३८॥ वर्णादिभूषणैर्विद्युद्दण्डैरिव विराजिताः ॥ लक्षद्विकं द्विपा रेजु-स्तत्सैन्येऽन्दा इवाम्बरे ॥३९॥ यनम् (९) [ युग्मम् ] पञ्चायुतानि तुरगा-स्त्वराधरितवायवः ॥ तत्सेनां भूषणानीवा-म्बुजनेत्रां व्यभूषयन् ॥४०॥ आयुक्त
द्विमुखच
रित्रम् वाजिनो नाना-विधैः प्रहरणभृताः ॥ शताङ्गा विंशतिशती-मितास्तत्र विरेजिरे ॥४१॥ तद्बलं प्रबलं चक्रु-विक्रमक्रमशालिनाम् ॥ कृतवैरिविपत्तीनां, पत्तीनां सप्त कोटयः ॥४२॥ सज्जया सज्जयार्थिन्या, संयुतः सेनयाऽनया ॥ पाञ्चालसन्धिमच्छिन्नैः, प्रयाणैः स नृपो ययौ ॥४३॥ तचायान्तं चरैत्विा, द्विमुखोपि महाबलः ॥ जयेच्छु
राजयेऽगच्छत् , सीम्नि देशस्य संमुखः ॥४४॥ दुर्भेदं गरुडव्यूह, चण्डप्रद्योतपार्थिवः ॥ खसैन्ये विदधे वार्धिदिव्यूहं द्विमुखराटू पुनः ॥ ४५ ॥ उत्साहितेषु वीरेषु, रणनिखाननिखनैः ॥ अथ प्रववृते युद्धं, सैन्ययोरुभयोर्मिथः ।
॥४६॥ तदा च शस्त्रसङ्गोत्थ-स्फुलिङ्गकणवर्षणैः ॥ वीराः केपि दिवाप्युल्का-पातोत्पातमदर्शयन् ॥ ४७ ॥ लघु-४ हस्ता भटाः केपि, मुमुचुर्विशिखांस्तदा ॥ तदादानधनुासा-कर्पणादिष्वलक्षिताः॥४८॥ निस्त्रिंशैर्निशितैः केपि, कुम्भिकुम्भानभेदयन् ॥ तुङ्गानि शैलशृङ्गाणि, तडिद्दण्डैरिवाम्बुदाः॥४९॥ केचिद्भटोत्तमा भिन्न-देहा अप्यभिमानिभिः ॥ घातव्यथां न विविदुः, सम्परायपरायणाः ॥५०॥ दण्डैरखण्डयन् केपि, विपक्षान् केपि मुद्गरैः ॥ सशल्यांश्चक्रिरे शल्यैः, केचित्केचित्तु शक्तिभिः ॥५१॥ एवं रणे जायमाने, कालरात्रिनिभे विशाम् ॥ मौलेस्तस्य
Page #419
--------------------------------------------------------------------------
________________
द्विमुखचरित्रम् ५२-६५
प्रभावेणा-जय्योभूद्द्विमुखो नृपः ॥५२॥ तत्सैन्येन ततोपास्तं, प्रद्योतस्याखिलं बलम् ॥ विदुद्राव द्रुतं भानु-धाम्ना धाम विधोरिव ॥५३॥ तदा चोजयनीनाथं, नश्यन्तं द्विमुखो द्रुतम् ॥ जग्राह शशकग्राहं, क्रौञ्चबन्धं बबन्ध च ॥५४॥ |तं गृहीत्वाविशद्भूमा-नुत्पताकं निजं पुरम् ॥ सानन्दं बन्दिभिरिव, पौरैः कृतजयारवः ॥५५॥न्यधापयच्च निविडं, निगडं तत्पदानयोः ॥ महानपि जनो लोभात् , कां कां नापदमश्नुत ? ॥ ५६ ॥ प्राप्तोपि दुर्दशां दैवा-मा नृपः खिद्यतामयम् ॥ इति तं सुखितं चक्रे, भूपः स्नानादनादिना ॥ ५७॥ राज्ञोभ्यर्णे सभास्थस्य, प्रद्योतोप्यन्वहं ययौ ॥ न्यवीविशद्विशामीशो-ऽर्धासने तञ्च गौरवात् ॥ ५८॥ ___ अन्यदा च सुतां राज्ञो, दृष्ट्वा मदनमञ्जरीम् ॥ प्रद्योतो जातगाढानु-रागोभूद्वाढमाकुलः ॥ ५९॥ ध्यायतस्तस्य तां सृष्टेः, सारं सारङ्गलोचनाम् ॥ नागान्निद्रा निशीर्ष्यालुः, कामिनीवापरा रतेः ॥६०॥ स्मरोन्मादसमुद्भूत-चिन्तादाघज्वरार्दितः ॥ पुष्पतल्पेपि सुप्तोसौ, स्वास्थ्यं नाप मनागपि ॥ ६१ ॥ वर्षायितां च तां रात्रिं, कथञ्चिदतिवाह्य सः ॥ प्रातः सभां ययौ तञ्चो-द्वीनं वीक्ष्याब्रवीन्नपः ॥ ६२॥ अद्य ते विद्यते राजन्!, किं पीडा कापि रोगजा ? ॥ हेमन्तेजमिव म्लान-मास्यं ते कथमन्यथा! ॥ ६३ ॥ पृष्टोप्येवं प्रतिवचः, प्रद्योतो न ददौ यदा ॥ तदातिव्याकुलो भूपः, सनिर्बन्धमदोवदत् ॥ ६४ ॥राजन् ! प्रतिवचो देहि, निवेदय निजां व्यथाम् ॥ अब्रवाणे त्वयि कथं, भाविनी तत्प्रतिक्रिया ? ॥६५॥ ततः स दीर्घ निःश्वस्य, जगौ लजां विहाय च ॥ न व्याधिर्बाधते
Page #420
--------------------------------------------------------------------------
________________
उत्तराध्ययन
नवमाध्य. यनम् (९) द्विमुखच
॥२१
॥
रित्रम्
राजन् !, बाधते किन्तु मां स्मरः ॥ ६६ ॥ तचेदिच्छसि मे क्षेम, तदा मदनमअरीम् ॥ देहि पुत्रीं निजां मयं. नो चेद्वह्नौ विशाम्यहम् ॥६७ ॥ द्विमुखोपि ददौ तस्मै, निजां पुत्रीं महामहः ॥ ताञ्चावाप्य निजं जन्म, सोपि धन्यममन्यत ॥६८॥ व्यसृजद्द्विमुखस्तं चा-न्यदा दत्त्वा हयादिकम् ॥प्रद्योतोपि ततोयासी-पुरीमुजयनीं मुदा ॥६९॥ ___ उपस्थिते शक्रमहे-ऽन्यदा च द्विमुखो नृपः ॥ नागरानादिशच्छक-ध्वजः संस्थाप्यतामिति ॥७॥ ततः पटु ध्वजपर्ट, किङ्किणीमालभारिणम् ॥ माल्यालिमालिनं रत्न-मौक्तिकावलिशालिनम् ॥७१॥ वेष्टितं चीवरवरै- - न्दीनिर्घोषपूर्वकम् ॥ द्रुतमुत्तम्भयामासुः, पौराः पौरन्दरं ध्वजम् ॥ ७२॥ [युग्मम् ] अपूजयन् यथाशक्ति, तं च पुष्पफलादिभिः ॥ पुरस्तस्य च गीतानि, जगुः केपि शुभखराः ॥ ७३॥ केचित्तु ननृतुः केचि-दुचैवोद्यान्यवादयन् ॥ अर्थितान्यर्थिनां केपि, ददुः कल्पद्रुमा इव ॥ ७४ ॥ कर्पूरमिश्रधुसूण-जलाच्छोटनपूर्वकम् ॥ मिथः केचित्तु | चूणोनि, सुरभीणि निचिक्षिपुः॥७५॥ एवं महोत्सवैरागा-प्रर्णिमा सप्तमे दिने ॥ तदा चापूजयद्भरि-विभूत्या भूधवोपि तम् ॥ ७६ ॥ सम्पूर्णे चोत्सवे वस्त्र-भूषणादि निजं निजम् ॥ आदाय काष्ठशेष तं, पौराः पृथ्व्यामपातयन् ॥ ७७॥ परेधुस्तञ्च विण्मूत्र-लिप्तं कुस्थानसंस्थितम् ॥ आक्रम्यमानं बालाद्यै-भूपोऽपश्यद्वहिर्गतः॥७८॥ ततः संवेगमापन्नो दध्यौ चैवं धराधिपः॥ य एवं पूज्यमानोऽभू-सबैलॊकैर्गतेऽहनि ॥ ७९ ॥ स एवाद्य महाकेतुः, प्राप्नोत्येतां विडम्बनाम् ॥ दृश्यते क्षणिकत्वं तत्, क्षणिकानामिव श्रियाम् ॥८॥ आयाति याति च
HOREOGARALAMAUSTRICK
०
॥
Page #421
--------------------------------------------------------------------------
________________
९
१२
उ० ३६
,
क्षिप्रं या सम्पत्सिन्धुपूरवत् ॥ पांशुलायामिव प्राज्ञ - स्तस्यां को नाम रज्यते ? ॥ ८१ ॥ त्यक्त्वा विडम्बनप्रायां, तदेनां राज्यसम्पदम् ॥ श्रये निःश्रेयसकरीं, शमसाम्राज्यसम्पदम् ॥ ८२ ॥ ध्यात्वेति विध्यातममत्ववह्निः, कृत्वा स्वयं लोचमुपात्तदीक्षः ॥ प्रत्येकबुद्धो द्विमुखः सुपर्व - वितीर्णलिङ्गो व्यहरत् पृथिव्याम्॥८३॥ [ इति श्रीद्विमुखनृपकथा ॥२॥ ] अथ प्रत्येकबुद्धस्य, नमिनाम्नो महात्मनः । बलयात् प्रतिबुद्धस्य, तृतीयस्य कथां ब्रुवे ॥ १ ॥ तथा यत्रैव भरते, | देशे मालवकाभिधे ॥ आसीद्दासीकृतस्वर्ग, सुदर्शनपुरं पुरम् ॥ २ ॥ तत्रासीच्छत्रुवित्रासी, राजा मणिरथाभिधः ॥ युगबाहुस्तदनुजो, युवराजोऽभवत्सुधीः ॥ ३ ॥ सौन्दर्येणातिवर्येण जयन्ती जयवाहिनीम् ॥ जिनवाणीसुधापान-ध्वस्ताज्ञानहलाहला ॥ ४ ॥ निश्चलं शैलरेखाव - दधती शीलमुत्तमम् | युगवाहोश्च मदन - रेखासंज्ञाऽभवत्प्रिया | ॥ ५ ॥ [ युग्मम् ] तस्या गुणामृतापूर्ण - चन्द्रोज्वलयशोद्युतिः ॥ सुतश्चन्द्रयशाश्चन्द्र इवानन्दप्रदोऽभवत् ॥ ६ ॥ भ्रातृजायां तां च दृष्ट्वाऽन्यदा मणिरथो नृपः ॥ इत्यन्तश्चिन्तयामास, व्यथितो मान्मथैः शरैः ॥ ७ ॥ यदि भोगान्न भुञ्जेह-मनयाङ्गनया समम् ॥ अवकेशिद्रुमस्येब, तदा मे निष्फलं जनुः ॥ ८ ॥ कथं पुनर्विनारागं, स्यादस्याः सङ्गमो मम ॥ नोकपक्षया प्रीत्या, कामिनां कामितं भवेत् ! ॥ ९ ॥ तदस्याः प्रणयोत्पत्ते - रुपायान् रचयाम्यहम् ॥ पश्चाद्विज्ञाय तद्भावं, करिष्यामि यथोचितम् ॥ १० ॥ ध्यात्वेति तस्मै ताम्बूल - पुष्पभूषांशुकादिकम् ॥ प्रैषीदास्या समं काम-विवशानामहो ! कुधीः ॥ ११ ॥ सा तु ज्येष्ठप्रसादोय - मिति ध्यात्वा तदाददे ॥ अथान्यदा नृपो -
%%
द्विमुखच
रित्रम्
८१-८३
नमिच
रित्रम्
१-११
Page #422
--------------------------------------------------------------------------
________________
उत्तराध्ययन
नवमाध्य. यनम् (९) नमिच
॥२११॥
रित्रम्
१२-२६
वादी-द्विजने तामिति खयम् ॥१२॥ त्वद्रूपं प्रेक्ष्य रक्तं मां, पुमांसं खीकरोषि चेत् ॥ सुन्दरि ! त्वां तदा कुर्वे खामिनी राज्यसम्पदाम् ॥ १३॥ सा प्रोचे स्त्रीत्वषण्ढत्व-हीनस्य भवतः खतः॥ पुंस्त्वमस्त्येव तत्कस्मा-मया न प्रतिपद्यते ॥ १४ ॥ त्वद्धातुर्युवराजस्य, पत्न्या मे राज्यसम्पदः ॥ खाधीना एव सन्तीति, शून्यमेतत्प्रलोभनम् ॥ १५॥ किञ्च खीकुर्वते मृत्यु-मपि सन्तो महाशयाः॥ लोकद्वयविरुद्धं तु, न चिकीर्षन्ति जातुचित् !॥१६॥ अन्योच्छिष्टान्नवच्छिष्टाः, परामपि पराङ्गनाम् ॥ नेच्छन्ति किं पुनः पुत्री-तुल्यां भ्रातुर्लघोः स्त्रियम् ॥ १७ ॥ परनारीरिएंसापि, रावणस्येव दुःखदा ॥ महतामपि जायेत, तन्महाराज! मुञ्च ताम् ॥ १८॥ तच्छ्रुत्वा दुष्टधीकूपो, भूपोन्तर्ध्यातवानिति ॥ युगवाहुर्भवेद्याव-त्तावन्नेच्छति मामसौ ॥ १९॥ तद्विसम्भेण तं हत्वा, ग्रहीष्यह बलादमूं ॥ स भ्रातापि रिपुनं, योऽस्याः सङ्गेन्तरायकृत् ॥ २० ॥ इति ध्यात्वा स पापात्मा, भ्रातुश्छिद्राण्यमार्गयत् ॥ कामभूतातुराणां हि, सुत्यजं स्नेहचीवरम् ॥ २१॥ मदना तु न तां वार्ता, जगाद युगवाहवे ॥ निवृत्तो मदिरा ज्येष्ठो, दुर्भावादिति जानती ॥ २२ ॥ सा चान्यदा विधुं खप्ने, दृष्ट्वा पत्ये न्यवेदयत् ॥ सोप्यूचे चन्द्रवद्विश्वा-नन्दिनं लप्स्यसे सुतम् ॥ २३॥ ततः प्रमुदितखान्ता, सुतगर्भ बभार सा ॥ पारिजाततरो/ज-मिव
मेरुवसुन्धरा ॥ २४ ॥ पूजयामि जिनान् साधून , शृणोमि जिनसङ्कथाः ॥ इत्यभूदोहदस्तस्याः, काले गर्भानुभावतः ४॥२५॥ तस्मिंश्च दोहदे पूर्णे, गर्भः स ववृधे सुखम् ॥ अथान्यदा वसन्तर्तु-रागाद्रागिजनप्रियः ॥ २६ ॥ मलया.
॥२१
॥
Page #423
--------------------------------------------------------------------------
________________
नमिच
२७-४१
******
निलशैलप-प्रयोगारब्धनर्तनाः ॥ दधद्वलीनटील-पल्लवोलासिहस्तकाः ॥ २७ ॥ माकन्दमअरीपुञ्ज-मअगुञ्जदलिवजम् ॥ कोकिलध्वनिमंत्रास्त-मानिनीमानकुग्रहम् ॥ २८॥ पुष्पिताशोकतिलक-लवङ्गबकुलाकुलम् ॥ विस्मेरकुसुमस्रस्त-परागक्लिन्नभूतलम् ॥ २९ ॥ क्रीडासक्तप्रियायुक्त-व्यक्तकिन्नरसेवितम् ॥ हृचौरगौरपौरस्त्री-गीतानीतमृगव्रजम् ॥ ३० ॥ वसन्तसङ्गमाद्रम्य-मुद्यानं रन्तुमुद्यतः ॥ प्रमदाप्रमदायुक्तो युगवाहुर्ययौ तदा ॥३१॥ [पञ्चभिः कुलकम् ] दिनं च नानालीलाभि-रतिवाह्य स निश्यपि ॥ तत्रैवास्थादल्पतंत्रो, रम्भावेश्मनि चाखपीत् ॥ ३२॥ तदा मणिरथो दध्यौ, खल्पतंत्रो ममानुजः ॥ निशाव्याप्ततमोघोरे, बाह्योद्यानेऽद्य तिष्ठति ॥३३॥ तत्तत्र गत्वा तं हत्वा, पूरयिष्यामि कामितम् ॥ ध्यात्वेति खड्गमादाय, ययावुद्यानमुद्यतः ॥ ३४॥ यामिकानिति चापाक्षी-युगबाहुः क्व विद्यते? ॥ रम्भागृहेत्र सुप्तोस्ती-त्यूचिरे तेपि सम्भ्रमात् ॥ ३५॥ मा भूद्धातुर्वनस्थस्यो-प. द्रवः कश्चिदित्यहम् ॥ इहागामिति सअल्पन् , सोपि रम्भागृहेऽविशत् ॥ ३६ ॥ ससम्भ्रमं समुत्थाय, नमन्तं स्माह |चानुजम् ॥ भ्रातर्नात्र निशि स्थातुं, युक्तमागच्छ तत्पुरे ॥ ३७ ॥ उलंघ्या नाग्रजस्याज्ञा, तातस्येवेति चिन्तयन् ॥ युगबाहुस्ततो याव-त्पुरे गन्तुं प्रचक्रमे ॥ ३८॥ तावत्पापापकीयोदि-भयमुत्सृज्य दुर्मतिः ॥ ग्रीवायामसिना भूप-स्तं विश्वस्तं जघान सः !॥३९॥प्रहारवेदनाक्रान्ते, तस्मिंश्च पतिते भुवि ॥ अहो! अक्षत्रमक्षत्रं, पूचकारेति तत्प्रिया ॥४०॥ ततो दधाविरे कृष्ट-मण्डलायोद्भटा नटाः।।किमेतदस्तीत्यूचाना-नित्यूचे तांश्च भूपतिः
***
Page #424
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥२१२॥
३
६
१२
॥ ४१ ॥ मत्करात्पतितः खङ्गः प्रमादात्तदलं भिया ॥ तेनेत्युक्ते च तेऽजानन्, सर्व तस्य कुचेष्टितम् ॥ ४२ ॥ ततो मणिरथं दूर-मपसार्य बलेन ते ॥ युगबाहोः खरूपं तत्, तत्पुत्राय न्यवेदयन् ॥ ४३ ॥ सोपि शोकाकुलो वैद्यान् समाहूयागमद्वने ॥ व्रणकर्माणि यत्वेन पितुञ्चाकारयत्कृती ॥ ४४ ॥ क्षणान्तरे च निश्श्रेष्टो, नष्टवाग्मी - लितेक्षणः ॥ युगबाहुरभूद्रक्त - निर्गमात्पाण्डुविग्रहः ॥ ४५ ॥ - ततो ज्ञात्वा तमासन्न - मृत्युं धीरा मृदुखरम् ॥ प्रोचे मदनरेखेति, तत्कर्णाभ्यर्णमाश्रिता ॥ ४६ ॥ धीर ! धीरत्वमादृत्य, चेतः स्वास्थ्यमुरीकुरु ॥ कस्याप्युपरि रोषं च, मा कार्षीस्त्वं धियांनिधे ! ॥ ४७ ॥ सहख व्यसनं चेद-मागतं निजकर्मणा ॥ अपराध्यति जन्तोर्हि, निजं कर्मैव नापरः ॥ ४८ ॥ उक्तञ्च - "जं जेण कयं कम्मं, अन्नभवे इहभवे अ सत्तेणं ॥ तं तेण वेइअवं, निमित्तमित्तं परो होइ ॥ ४९ ॥ किञ्चार्हत्सिद्धनिर्ग्रन्थ-धर्माणां शरणं कुरु ॥ जीवहिंसादीनि पाप - स्थानान्यष्टादश त्यज ॥ ५० ॥ महामते ! गृहाण त्वं, परलोकाध्वशम्बलम् ॥ शल्यवदुःखदान्निन्द, दुराचारान् पुराकृतान् ॥ ५१ ॥ क्षमयखापराधञ्च सर्वेषां प्राणिनां प्रभो ! ॥ तत्कृतानपराधांश्च, क्षमस्व त्वमपि स्वयम् ॥ ५२ ॥ नाशयेन्निजमेवार्थ, | द्वेषस्तस्माद्विमुञ्चतम् ॥ सुहृदो मम सर्वेपि, जीवा इति विभावय ॥ ५३ ॥ देवं सर्वज्ञमर्हन्तं, गुरूंश्च गुणिनो मुनीन् ॥ धर्म जिनप्रणीतं च, यावज्जीवमुरीकुरु ॥ ५४ ॥ जीवहिंसानृतस्तेया - ब्रह्मचर्यपरिग्रहान् ॥ त्रिविधं त्रिविधेन त्वं, प्रत्याख्याहि महामते ! ॥ ५५ ॥ धनखजनमित्रादा - वभिष्वङ्गञ्च मा कृथाः ॥ न हि प्राणभृतां तानि भवेयुः शरणं
नवमाध्य
यनम् (९) नमिचरित्रम् ४२-५६
॥२१२॥
Page #425
--------------------------------------------------------------------------
________________
नमिच
RH रित्रम्
५७-७०
भवे ॥५६॥ धर्मो धनं सुहृद्वन्धु-रिति चान्तर्विभावय ॥ दुःखहृत्सुखदाता च, यत्स एवात्र जन्मिनाम् ॥ ५७॥ इदानीं मुञ्च सावद्य-माहारञ्च चतुर्विधम् ॥ उच्छासे चरमे देह-मपि व्युत्सृज धीर ! हे ॥५८॥ स्मृतेन येन पापोपि, जन्तुः स्यान्नियतं सुरः॥ परमेष्ठिनमस्कार-मंत्रं तं स्मर मानसे ॥ ५९॥ इत्यादि तद्वचः सर्व, खमौलिरचिताञ्जलिः॥ युगबाहुः प्रतिपेदे, विपेदे च क्षणान्तरे ॥ ६॥ पञ्चमे सुरलोके च, शक्रतुल्यः सुरोऽभवत् ॥ अहो! महीयान् महिमा, धर्मस्य द्युमणेरपि ॥ ६१॥ ततः प्रववृते चन्द्र-यशाः क्रन्दितुमुन्मनाः॥ दध्यौ मदनरेखा तु, धीरधीरिति चेतसि ॥ ६२॥ धिगु धिगू लोभमिवानर्थ-मूलं रूपमिदं मम ॥ यद्वीक्ष्य क्षुब्धचित्तेन, राज्ञा भ्रातापि मारितः॥ ६३॥ असारस्यास्य रूपस्य, हेतोः क्षणविनाशिनः ॥ धिक् कृतं तेन मूढेन, किमकार्यमिदं हहा !॥ ६४ ॥ अथायं पापकृच्छीला-पायं कर्ता बलान्मम ॥ तदर्थमेवानर्थोय-मनेन विहितोऽस्ति यत् P॥६५॥ सिंहस्य केसराः सत्याः, शीलं फणिपतेर्मणिः ॥ प्राणेषु सत्सु नो हर्तु, शक्यन्ते किन्तु केनचित् ॥६६॥
यतिष्ये परलोकार्थ, तद्गत्वा नीवृदन्तरे ॥ नो चेन्मे पुत्रमप्येतं, हनिष्यति स दुष्टधीः! ॥६७॥ ध्यात्वेति सा| |महासत्त्वा, निशीथे निरगात्ततः॥ अलक्षिता चन्द्रयशो-मुख्यैः शोकांशुकावृतैः ॥ ६८॥ पूर्वामभिव्रजन्ती च,
भूरि दुःखभरातुरा ॥ प्रातः प्रापाटवीमेकां, नैकश्वापदसङ्घलाम् ॥ ६९ ॥ तत्र यान्ती च मध्याह्ने, प्रापदेकं महासरः ॥ मुखादि तत्र प्रक्षाल्य, प्राणवृत्तिं व्यधात्फलैः ॥७॥ साकारानशनं कृत्वा, साथ मार्गश्रमाकुला ॥
SAAREMASARANASA
स
Page #426
--------------------------------------------------------------------------
________________
नवमाध्ययनम् (९) नमिच
रित्रम्
७१-८५
उत्तराध्ययन तबपोहाय तत्रैवा-रण्ये रम्भागृहेऽखपीत् ॥ ७१ ॥क्रमाच पद्मिनीनाथे, रागवत्यपरागते ॥ तदुःखादिव सङ्को
च-माश्रिते पद्मिनीकुले ॥ ७२ ॥ रविकण्ठीरवाभावा-निःशङ्क भुवने वने ॥ विहरत्सु तमःपुञ्ज-कुआरेषु निरन्त॥२१३॥
करम् ॥ ७३ ॥ उडुपूजृम्भमाणेषु, निशावल्लीसुमेष्विव ॥ निशावियुक्ते चक्राङ्ग-चक्रे क्रन्दति दारुणम् ॥ ७४ ॥
तमोभिव्याप्तिगहनी-भूते च गहनान्तरे ॥ रात्रिर्जातेत्यवहिता, सा बभूव महासती ॥७५॥ [चतुर्भिः कलापकम् ] तदा च व्याघ्रसिंहादि-गुजितेषूकधूत्कृतैः ॥ घोणिघोणारंवैाल-फूत्कृतैः फेरुफेत्कृतैः ॥ ७६ ॥ बिभ्यती सा नमस्कार-मंत्रं सस्मार मानसे ॥ स हि सर्वाखवस्थासु, सहायो हेतुमन्तरा ॥ ७७॥ [युग्मम् ] अर्धरात्रे च तत्कुक्षा-वुत्पदे भूयसी व्यथा ॥ मार्गश्रमभयोद्भुत-गर्भसञ्चलनोद्भवा ॥ ७८ ॥ सुषुवे साथ कृच्छ्रेण, सुतं लक्षणलक्षितम् ॥ तत्स्पर्धयेव पूर्वापि, बालाकै सुषुवे तदा ॥ ७९ ॥ तयोरेव तदा जज्ञे, बालयोरुपमा मिथः ॥ सचक्रानन्दिनोस्तेज-विनोः कोमलपादयोः ॥ ८. ॥ कन्धरालम्बितयुग-बाहुनामाङ्कमुद्रिकम् ॥ तं बालं तत्र मुक्त्वाथ, रत्नकम्बलवेष्टितम् ॥ ८१॥ खं मनो रक्षकमिव, तत्समीपे विमुच्य सा ॥ ययौ सरसि वासांसि, क्षालयामास तत्र च ॥ ८२॥ [ युग्मम् ] मजनाय प्रविष्टां च, तटाके तां जलद्विपः॥ धावन् करेण जग्राह, बकोटः शफरीमिव ॥ ८३॥ उच्चैरुलालयामास, तां स कन्दुकलीलया ॥ आयाति दुर्दशायां हि, खाजन्यादिव दुर्दशा |॥ ८४ ॥ पतन्तीमम्बरात्तां च, नेत्रकैरवकौमुदीम् ॥ विद्याधरोऽग्रहीनन्दी-श्वरद्वीपं व्रजन् युवा ॥८५॥ वैताढ्ये
॥२१
॥
Page #427
--------------------------------------------------------------------------
________________
नमिच
रित्रम्
८६-१००
तेन नीता च, रुदती सा तमत्रवीत् ॥ गतरात्रौ महाभाग !, प्रसूतास्मि सुतं वने ॥८६॥ तं च रम्भागृहे मुक्त्वा स्नानार्थ सरसीं गता ॥ जलद्विपेनोत्क्षिप्ताहं, पतंती भवताऽऽददे ॥ ८७ ॥ तत् श्वापदेन केनापि, स बालो मारयिष्यते ॥ आहारविरहाद्यद्वा, खयमेव मरिष्यति! ॥ ८८॥ तन्मे पुत्रप्रदानेन, प्रसादं कुरु सुन्दर! ॥ तमिहानय तत्राशु, नय मां वा नयाश्रय !॥ ८९ ॥ उवाच खेचरश्चेन्मां, रमणं प्रतिपद्यसे ॥ तदा सदा दास इवा-5s देशकारी भवामि ते ॥ ९० ॥ किश्चात्र शैले गान्धार-देशे रत्नावहे पुरे ॥ श्रेणिद्वयप्रभुरभू-न्मणिचूडाभिधो नृपः । ॥ ९१॥ तस्य पुत्रोस्मि कमला-वतीकुक्षीसमुद्भवः ॥ नाम्ना मणिप्रभो भूरि-महाविद्याबलान्वितः ॥९२॥ अन्यदा मत्पिता श्रेणि-द्वयराज्यं प्रदाय मे ॥ चारणश्रमणोपान्ते, विरक्तो व्रतमाददे ॥९३ ॥ क्रमाच विहरन्नत्रा-जगतः सोऽभूनतेऽहनि ॥ चैत्यानि वन्दितुं नन्दी-श्वरे चाद्य गतोऽधुना ॥ ९४॥ तश्च नन्तुं ब्रजस्तत्र, त्वां पतन्तीं विहायसः ॥ कल्पवल्लीमिवानन्द-दायिनीमहमाददे ॥ ९५॥ ततो यथा रक्षिता त्वं, पतनोपद्रवान्मया ॥ मदनोपद्रवाद्भद्रे !, तथा त्वमपि रक्ष माम् ॥ ९६ ॥ अन्यच्च त्वत्सुतं वाहा-पहृतो मिथिलापतिः॥ निरपत्योऽग्रहीत्पन-रथराट् पर्यटन वने ॥ ९७ ॥ क्षणान्मिलितसैन्यश्च, गत्वा पुर्यो तमार्पयत् ॥ महिण्याः पुष्पमालायाः, सापि तं पाति पुत्रवत् ॥ ९८ ॥ प्रज्ञप्तीविद्यया ह्येत-न्मयोक्तं तच नान्यथा ॥ तत्प्रसीद शुचं मुञ्च, सफलीकुरु यौवनम् ॥ ९९ ॥ मां विधायाधिपं सर्व-खेचरीणां भवेश्वरी ॥ दशा वाचा च मां रक्तं, सम्भावय
Page #428
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२१४ ॥
१२
सुलोचने ! ॥ १०० ॥ तदाकर्ण्य सती दध्यौ, विपाकः कर्मणामहो ! ॥ अन्यान्यव्यसनाऽङ्कुर - पूरधात्री भवामि यत् ! ॥ १०१ ॥ विहाय पुत्रसाम्राज्य - परिच्छदधनादिकम् । यत्रातुं निरगा भङ्ग - स्तस्येहाप्युपतिष्ठते ! ॥ १०२ ॥ तत् प्राणिनामपुण्यानां, गरीयानप्युपक्रमः ॥ दुःखायैव भवेत्किं वा, पौरुषं विमुखे विधौ १ ॥ १०३ ॥
यदुक्तं—“छित्त्वा पाशमपास्य कूटरचनां भक्त्वाबलाद्वागुरां ॥ पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ॥
व्याधानां शरगोचरादपि जवादुत्प्लुत्य धावन्मृगः । कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ? ॥ १०४ ॥”
सत्यप्येवं मया शीलं, नैव त्याज्यं कथञ्चन ॥ पीडनव्यसनेपीक्षु- र्माधुर्य किं विमुञ्चति ? ॥ १०५ ॥ अयञ्च मद्नोन्मादोन्मत्तो वेत्ति न किञ्चन ॥ तदुपायेन केनायुं, दुर्बोधं बोधयाम्यहम् ॥ १०६ ॥ अस्य व्याक्षेपहेतोर्वा, कालक्षेपं करोम्यहम् ॥ स हि प्रशस्यत प्राज्ञ - रशुभे समुपस्थिते ॥ १०७ ॥ ध्यात्वेति साभ्यधाद्दक्ष !, नीत्वा नन्दी - वरेऽद्य माम् ॥ देवान् वन्दय तत्राहं करिष्यामि तव प्रियम् ॥ १०८ ॥ ततः स तां विमानस्थां हृष्टो नन्दीश्वरेऽनयत् ॥ तत्र चाहगृहाः सन्ति, द्वापञ्चाशदनश्वराः ॥ १०९ ॥ दीर्घेषु योजनशतं, तदर्धं पृथुलेषु च ॥ चैत्येषु तेषु
नवमाध्य
यनम् (९) नमिचरित्रम् १०१-१०९
॥२१४ ॥
Page #429
--------------------------------------------------------------------------
________________
तुङ्गेषु, योजनानि द्विसप्ततिम् ॥ ११० ॥ चतुर्विशं शतं सन्ति, प्रतिमाः शाश्वताहताम् ॥ सर्वरत्नमयाः पञ्च-धनुः || नमिचशतसमुच्छ्रयाः॥ १११॥ [ युग्मम् ] ततो विमानादुत्तीर्य, मदनाखेचरी मुदा ॥ पूजापूर्वमवन्देतां, ऋषभाद्यान रित्रम्
११०-१२४ जिनोत्तमान् ॥ ११२॥ चतुर्जानधरं तं च, मणिचूडमहामुनिम् ॥ तावुभावपि वन्दित्वा, यथौचित्यं न्यषीदताम् ॥ ११३ ॥ ततो ज्ञानेन विज्ञाय, मदनाचरितं मुनिः॥ धर्म मणिप्रभायेति, समयाहमुपादिशत् ॥ ११४ ॥ ब्रह्मचर्य परब्रह्म-निदानं सम्पदा पदम् ॥ पालनीयं यथाशक्ति, सर्वतो देशतोऽथवा ॥ ११५ ॥ सर्वस्त्रीणां परित्यागे, सर्वतो ब्रह्म कथ्यते ॥ परनारीनिषेधे तु, तदुक्तं देशतो जिनैः ॥ ११६ ॥ ततो यः सकला नारी-विहातुं न प्रभुभवेत् ॥ तेनापि पररामा तु, त्याज्या नरकदायिनी ॥ ११७ ॥ नरः परस्त्रियां रक्तः, क्षणिकं सुखमीक्षते ॥ न तु तत्सङ्गमोत्पन्न-मनन्तं दुःखमायतौ ॥ ११८ ॥ परस्त्रीसेवनात्सौख्य-मभिकांक्षति यो जडः ॥ विषवल्लीफलाखादा-त्स हि वाञ्छति जीवितम् ! ॥ ११९ ॥ तत्कलङ्ककुलस्थानं, कीर्तिवल्लीकुठारिका ॥ हेया पराङ्गनाऽवश्यं, नरकाध्वप्रदीपिका ॥१२० ॥ श्रुत्वेति खेचरो बुद्धः, क्षमयित्वा स तां जगौ ॥ अथ त्वमसि जामिर्म, बहीष्टं किं करोमि ते ॥१२१ ॥ सापि प्रीताब्रवीद्भातः!, सर्वमिष्टं त्वया कृतम् ॥ इदं दर्शयता तीर्थ, वच्मि तत्किमतः परम् ?॥ १२२ ॥ अथ मे लघुपुत्रस्य, वृत्तान्तं कथय प्रभो !॥ तयेत्युक्तो मुनिः प्रोचे, शृणु भद्रे! समाहिता ॥ १२३ ॥ इहैव जम्बूद्वीपे प्राग-विदेहावनिमण्डने ॥ विजये पुष्कलावत्यां, पुरे श्रीमणितोरणे ॥ १२४ ॥ जज्ञेड
Page #430
--------------------------------------------------------------------------
________________
॥२१५॥
उत्तराध्ययन मितयशाश्चक्री, तस्य पुष्पवती प्रिया ॥ तयोश्चास्तां सुतौ पुष्प-शिखरत्नशिखाभिधौ ॥१२५॥ [युग्मम् ] राज्य नवमाध्यचतुरशीति स-पूर्वलक्षाः प्रपाल्य तौ ॥ प्रात्राजिष्टां भवोद्विग्नौ, चारणश्रमणान्तिके ॥१२६ ॥ चारित्रं पालयित्वा
यनम् (९)
नमिच३ च, पूर्वलक्षाणि षोडश ॥ अभूतामच्युते कल्पे, शकसामानिको सुरौ ॥ १२७ ॥ द्वाविंशतिं सागराणि, तत्र जीवि
रित्रम् तमुत्तमम् ॥ दिव्यैः सुखैर्नवनवै-रतिवाह्य च्युतौ च तौ ॥ १२८ ॥ धातकीखण्डभरते, हरिषेणार्धचक्रिणः ॥ १२५-१३८
समुद्रदत्तादेवीजा-वभूतां तनयावुभौ ॥ १२९ ॥ [युग्मम् ] आद्यः सागरदेवाबो-ऽपरः सागरदत्तकः ॥ दृढसुत्र-13 ६ तसार्वान्ते, दान्तौ प्राबजतां च तौ ॥ १३०॥ तृतीये चाह्नि सुध्यानौ, तडित्पातेन मारितौ ॥ जातौ शुक्रे सुरौ
सप्त-दशसागरजीवितौ ॥ १३१ ॥ द्वाविंशस्याहतो नेमे-र्ज्ञानोत्पत्तिमहोत्सवम् ॥ विधातुं तौ गतौ देवा-विति
प्रभुमपृच्छताम् ॥ १३२ ॥ इतो भवाच्युतावावां, कुत्रोत्पत्स्यावहे प्रभो! ॥ खाम्यूचेत्रैव भरते, मिथिलाख्यास्ति | ९| सत्पुरी ॥ १३३ ॥ तत्पतेर्युवयोरेको, जयसेनस्य नन्दनः ॥ भावी सुदर्शनपुरे, युगवाहोः परः पुनः ॥ १३४ ॥
तत्वतस्तु युवा तत्र, पितापुत्रौ भविष्यथः ॥ इत्यहद्वाक्यमाकर्ण्य, तौ देवौ जग्मतुर्दिवम् ॥ १३५ ॥ तयोश्चैकश्चयुतः
पूर्व, विदेहाभिधनीवृति ॥ मिथिलायां महापुर्या, जयसेनस्य भूपतेः ॥ १३६ ॥ महिष्या वनमालायाः, कुक्षौ सम१२ वतीर्णवान् ॥ क्रमाजातं च तं प्रोचे, नाना पद्मरथं नृपः ॥ १३७ ॥ [युग्मम् ] यौवनस्थं च तं राजा, राज्ये
न्यस्याददे व्रतम् ॥ ततः पद्मरथो राज्यं, शास्ति शस्तपराक्रमः॥ १३८ ॥ द्वितीयस्तु सुरश्श्युत्वा, भद्रे ! तव सुतोऽ
॥२१५॥
W
Page #431
--------------------------------------------------------------------------
________________
१३९-१५३
भवत् ॥ तञ्च रम्भागृहे मुक्त्वा, यावत्त्वं सरसीं गता ॥ १३९ ॥ तावत्तत्रागतः पद्म-रथोश्चापहृतो भ्रमन् ॥ तं नमिचप्रेक्ष्य प्राग् भवप्रेम्णा, प्रमोदाद्वैतमासदत् ॥ १४० ॥ दुःस्थो निधिमिव स्नेहा-द्यावद्राजा तमाददे ॥ तावत्तत्स-3 रित्रम् न्यमप्यागा-तत्र वाजिपदानुगम् ॥ १४१॥ गजारूढस्ततो राजा, पुर्यां गत्वा तमार्पयत् ॥ महिष्याः पुष्पमालाया-श्चक्रे जन्मोत्सवं तथा ॥ १४२॥ पुण्यवांस्ते सुतो भद्रे !, ससुखं तत्र वर्धते ॥ सन्निधिः सन्निधिस्थायी. पुण्यं हि प्राणिनां भवे ॥ १४३॥ एवं मुनी बदत्येव, मणिस्तम्भविभूषितं ॥ किङ्किणीजालमुखरं, रुचिन्यश्चितभास्करम् । ॥ ॥ १४४ ॥ शोभितं तोरणैार-मुखपत्रलतोपमैः ॥ लम्बमानोडुमालाभ-मुक्तादामविराजितम् ॥ १४५ ॥ उत्तुशिखरं तूर्य-ध्वानापूर्णदिगन्तरम् ॥ रम्यं विमानं तत्रैक-मन्तरिक्षादवातरत् ॥ १४६ ॥ [ त्रिभिर्विशेषकम् ] है| तस्माच्च निरगादेकः, सुरो भासुरभूषणः ॥ अमरीनिकरप्रोक्त-जयशब्दो महामहाः ॥ १४७ ॥ स त्रिः प्रदक्षिणीकृत्य, मदनामादितोऽनमत् ॥ मुनि तु पश्चादानम्य, यथास्थानमुपाविशत् ॥ १४८ ॥ निरीक्ष्यानुचितं तच, दूनचेता मणिप्रभः ॥ इत्युवाचामरं वाचा, न्यायपादपकुल्यया ॥ १४९ ॥ सुरैर्नरवरैश्चात्र, नीतयो हि प्रवर्तिताः ॥ त एव चेत्ता लुम्पन्ति, तदान्येषां किमुच्यते ? ॥ १५० ॥ कलितं सकलैः साधु-गुणैर्दोषविनाकृतम् ॥ मुक्त्वा मुनिममुं देव !, किं त्वया प्राग् नताङ्गना ॥ १५१ ॥ सुरोऽब्रवीदिदं सत्यं, शृणु किं त्विह कारणम् ॥ आसीत्सुदर्शनपुरे, राजा मणिरथाभिधः ॥ १५२॥ तेन खभ्रातृजायार्थ, युगबाहुर्निजोऽनुजः ॥ शिरोधावसिना जन्ने, वसन्ते
Page #432
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२१६॥
SEISUSTUSSUUSAAS
| विपिने स्थितः॥१५३॥ स च कण्ठगतप्राणो-ऽनया मदनरखया ॥ नियमितः प्रापितश्च, जैनधर्म विपन्नवान् 3 नवमाध्य| ॥ १५४ ॥ दशार्णवायुर्देवोऽभू-द्रह्मलोके हरिप्रभः॥ स चाहं पुण्यनैपुण्या-मेनां द्रष्टुमिहागमम् ॥ १५५ ॥ यच्चयनम् (९) सम्यक्त्वमूलं श्री-जिनधर्ममियं सुधीः ॥ प्राग्भवे प्रापयन्मां त-द्धर्माचार्यो ह्यसौ मम ॥ १५६ ॥ यदुक्तं-"जो
नमिच
रित्रम् जेण सुद्धधम्मंमि ठाविओ संजएण गिहिणा वा ॥ सो चेव तस्स जायइ धम्मगुरू धम्मदाणाओ ॥ १५७ ॥"
१५४-१६७ अत एव मया पूर्व, नतासौ धर्मसेवधिः ॥ निशम्येति मनस्येवं, चिन्तयामास खेचरः ॥ १५८ ॥ अहो! श्रीजै-16 नधर्मस्य, प्रभावो भुवनाद्भुतः ॥ सौख्यं ददाति निःसंख्यं, क्षणमात्रं श्रितोपि यः ॥ १५९ ॥ सुरोथ मदनामूचे, किं कुर्वेहं तवेहितम् ॥ सावादीत्तत्त्वतोभीष्टं, कर्तुं नो यूयमीश्वराः ॥ १६० ॥ यन्मे जन्मजरामृत्यु-रोगादिरहितं हितम् ॥ मुक्तिसौख्यं प्रियं तच्च, खोद्यमेनैव सिध्यति ॥ १६१॥ तथापि मां सुरप्रष्ठ !, मिथिलायां नय द्रुतम् ॥ परलोकहितं कुर्वे, यथा वीक्ष्य सुताननम् ॥ १६२ ॥ ततो देवेन सा निन्ये, मिथिलानगरी क्षणात् ॥ जन्मदीक्षाकेवलानां, स्थानं मल्लीनमीशयोः ॥ १६३ ॥ तत्र पूर्व जिनान्नत्वा, जग्मतुर्मदनासुरौ ॥ साध्वीनां सन्निधौ ताश्च, प्रणम्याग्रे न्यषीदताम् ॥ १६४ ॥ ततः साध्व्योऽभ्यधुर्धर्म, यल्लब्ध्वा मानुषं भवम् ॥ धर्माधर्मविपाकञ्च, ज्ञात्वा धर्मो विधीयताम् ॥ १६५ ॥ विघटन्ते हि जीवानां, धनभूघनबन्धवः ॥ धर्मस्तु नो विघटते, कदापि ॥२१६॥ श्रीजिनोदितः॥१६६ ॥ इत्यादिदेशनाप्रान्ते, मदनामवदत्सुरः॥ एहि यावो राजगेहे, द्रष्टुं सुतमुखाम्बुजम् ॥१६७॥
Page #433
--------------------------------------------------------------------------
________________
साब्रवीदथ मे प्रेम्णा, कृतं दुःखौघदायिना ॥ भवे हि भ्राम्यतां कस्को, नाभूद्वन्धुः परोऽथवा ॥ १६८ ॥ तद्बही-नमिच. प्याम्यहं दीक्षां, त्वं तु खाभीष्टमाचर ॥ तयेत्युक्ते सुरो नत्वा, साध्वीस्ताञ्च ययौ दिवम् ॥ १६९ ॥ साध्वीनाम-II
रित्रम्
१६८-१८० न्तिके तासां, प्राब्राजीत्सापि शुद्धधीः ॥ सुव्रतेत्यभिधां प्राप्ता, दुस्तपं च व्यधात्तपः ॥ १७०॥ __ इतश्च तस्य बालस्य, प्रभावेणाखिला द्विषः ॥ नेमुः पद्मरथं देव-महिम्नेव द्रुमा जिनम् ॥ १७१॥ ततस्तुष्टो नृपस्तस्य, नमिरित्यभिधां व्यधात् ॥ कृत्वा महोत्सवं तुल्यं, महत्त्वस्योचितं श्रियाम् ॥ १७२ ॥ साधुधर्मः समितिमि-रिव धात्रीभिरन्वहम् ॥ पञ्चभिः संरक्ष्यमाणः, क्रमादृद्धिं बभार सः ॥ १७३ ॥ किञ्चिद्वृद्धिं च सम्प्राप्त-श्चटुलैश्चलनैश्चलन् ॥ ब्रुवंश्च मन्मनालापै-विश्वं विश्वममोदयत् ॥ १७४ ॥ अष्टमे वत्सरे तं च, कलाग्रहणहेतवे ॥ निनायोपकलाचार्य, भूपो भूयोभिरुत्सवैः ॥ १७५ ॥ सोथ प्रज्ञासुराचार्यः, कलाचार्यान्तिके पठन् ॥ एकशो दर्शिता एव, जग्राह सकलाः कलाः ॥ १७६ ॥ क्रमाच यौवनं प्राप्तो, लावण्यजलवारिधिः ॥ अकाम्यत स देवीमि-रपि विश्वमनोहरः॥ १७७ ॥ यासां रूपं प्रेक्षमाणा, जितदेवाङ्गनागणम् ॥ मन्ये सर्वेपि गीर्वाणा, निर्निमेषदृशोऽभवन् ॥ १७८ ॥ इक्ष्वाकुवंशजा राज-कन्याश्चातुर्यशालिनीः ॥ अष्टोत्तरसहस्रं ताः, क्षमापस्तेनोदवाहयत् ॥ १७९॥ [[युग्मम् ] मघवानिव देवीभिः, समं ताभिः समं सुखम् ॥ भुञ्जानो गमयामास, कालं कञ्चिन्निमेषवत् ॥ १८०॥
१२
Page #434
--------------------------------------------------------------------------
________________
॥२१७॥
उत्तराध्ययन । अन्यदा च नमिं राज्ये, न्यस्य पद्मरथो नृपः ॥ वैराग्यागतमादाय, क्रमात्प्राप परम्पदम् ॥ १८१ ॥ ततो नमिनृपो नवमाध्य
यनम् (९) राज्यं, न्यायेनापालयत्तथा ॥ अन्यायशब्दो व्यर्थीभू-द्वाच्याभावाद्यथा भुवि ॥ १८२ ॥
नमिचइतश्च यस्यां दोषायां, न्यहन्मणिरथोऽनुजम् ॥ तस्यामेवाहिना दष्टो, मृत्वा तुर्यां ययौ भुवम् ॥ १८३ ॥ राज्ये |
रित्रम् न्यस्य ततश्चन्द्र-यशसं सचिवादयः॥ द्वयोः सोदरयोदेहे, समं सञ्चस्करुस्तयोः ॥ १८४ ॥ ततश्चन्द्रयशा भूपो, १८१-१९४ नीतिवल्लीपयोधरः ॥ पितेव पालयामास, प्रजाः प्राज्यपराक्रमः ॥ १८५ ॥ अन्यदा च नमे राज्ञो, राज्यसारः सित| द्विपः ॥ उन्मूल्यालानमुन्मत्तो-ऽचलद्विन्ध्याचलम्प्रति ॥ १८६ ॥ सुदर्शनपुरोपान्ते, व्रजन्तं तश्च दन्तिनम् ॥ अप-13 श्यंश्चन्द्रयशसो, वाह्यालीस्थस्य सेवकाः ॥ १८७ ॥ श्वेतद्विपोयं यातीति, ते नृपाय न्यवेदयन् ॥ भूपोपि तं चिरात्खिन्नं, पुरे प्रावीविशन्निजे ॥ १८८ ॥ तत्रस्थं कुअरं तञ्च, ज्ञात्वा चरनरैनमिः ॥ तन्मार्गणाय तत्रैकं, प्रेषीत्सन्देशहारकम् ॥ १८९ ॥ सोपि गत्वावदचन्द्र-यशसं धृतसौष्ठवः॥ वक्ति त्वां मन्मुखेनेति, राजन्नमिमहीपतिः॥१९॥ गृहीतोस्ति त्वया श्वेत-हस्ती यः स तु मामकः ॥ तदेनं प्रेषयः सद्यो, नान्यदीयं हि सुस्थिरम् ॥ १९१ ॥ ऊचे चन्द्रयशा दूत !, जगाद किमिदं नमिः ॥ मार्गितानि हि रत्नानि, दीयन्ते न हि केनचित् ॥ १९२ ॥ भवन्ति न च कस्यापि, नाम्ना तान्यङ्कितानि भोः!॥ ग्राह्याणि किन्तु बलिभि-वीरभोग्या हि भूरियम् ॥ १९३॥ तां चन्द्रयशसो वाचं, दूतो गत्वाऽवदन्नमेः ॥ कोपाटोपात्ततः सोपि, यात्रानकमवादयत् ॥ १९४ ॥ प्रत्यवन्तीन् प्रतस्थे च,
মেক-ভেসে-ৰে ৰেকৰ
॥२
७
॥
Page #435
--------------------------------------------------------------------------
________________
कलितः प्रबलैबलैः ॥ प्रत्यनीकनृपानीक-मकराकरकुम्भभूः ॥ १९५ ॥ तञ्चायान्तं चरैत्विा, चन्द्रभूपोप्यभित्र-II नमिचजन ॥ विरुद्धविहगैर्जानि-पुरुषैरिव वारितः ॥ १९६ ॥ ततस्तं सचिवाःप्रोचुः, पुरं पिहितगोपुरम् ॥ कृत्वा तिष्ठ प्रभो !
रित्रम् पश्चा-त्करिष्यामो यथोचितम् ॥ १९७ ॥ चन्द्रोपि तत्तथा चक्रे, नमिश्चागत्य तत्पुरम् ॥ बलेनावेष्टयद्विष्वग् , भोगे- १९५-२०८ नेव निधिं फणी ॥ १९८ ॥ तच्च श्रुत्वा जनश्रुत्या, सुव्रतार्या व्यचिन्तयत् ॥ इमौ जनक्षयं कृत्वा, मास्म यातामधोगतिम् ॥ १९९ ॥ तदेनौ बोधयामीति, ध्यात्वाऽऽपृच्छय महत्तराम् ॥ साध्वीभिः संयुता सागा-समीपे नमि-14 भूभुजः॥२०॥ तां प्रणम्यासनं दत्वा, नमिभुवि निविष्टवान् ॥ आर्यापि धर्ममाख्याय, तमेवमवदत्सुधीः ॥२०१॥ राजन्नसारा राज्यश्री-भॊगाश्चायतिदारुणाः ॥ गतिः पापकृतां च स्या-नरके दुःखसङ्कले ॥२०२॥ तद्विमुञ्चाहवं को हि, ज्येष्ठभ्रात्रा सहाहवः ? ॥ नमि-प्रोचे कथमयं, स्यान्मम ज्येष्ठसोदरः? ॥ २०३ ॥ ततः साध्वी 3 जगौ तस्मै, खवृत्तान्तं यथास्थितम् ॥ नमिस्तथाप्यहङ्कारा-नामुचद्विग्रहाग्रहम् ॥२०४॥ साथ मध्ये पुरं चन्द्र-यशःपार्थे ययौ द्रुतम् ॥ सोपि तां प्रत्यभिज्ञाय, ननामाश्रुजलाविलः ॥ २०५॥ दत्त्वाथ विष्टरं तस्यै, क्षितिनाथे क्षितौ स्थिते ॥ तां शुद्धान्तजनोप्येत्या-नमद्वाष्पायितेक्षणः ॥ २०६ ॥ अथ चन्द्रयशाः साध्वी-मित्यूचे गद्दाक्षरम् ॥ अङ्गीकृतं त्वया मातः !, किमिदं दुर्धरं व्रतम् ? ॥ २०७॥ साध्व्याथ खीयवृत्तान्ते, तस्मै तस्मिन्निवेदिते ॥ सहोदरः स मे वास्ती-त्यपृच्छत्तां स पार्थिवः ॥ २०८ ॥ आर्या जगाद येन त्वं, रोधितोसि स तेऽनुजः ॥ तदाकये
RASHARE
*
*
Page #436
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२१८॥
रित्रम्
महानन्द-मविन्दत महीधवः ॥ २०९॥ ययौ च सोदरं द्रष्टु-मुत्सुकः सोऽतिसत्वरम् ॥ स्नेहातिरेकपाथोद- नवमाध्यशान्तदर्पदवानलः ॥ २१० ॥ तञ्चायान्तं निशम्यागा-नमिराजोपि संमुखः ॥ भून्यस्तमस्तकः पादा-वग्रजस्य ननाम
यनम् (९)
नमिचच ॥ २११॥ तच्चानमन्तं चन्द्रोपि, दोामादाय सादरम् ॥ परिरभे दृढं स्नेहा-देकीकुर्वन्निवात्मना ॥ २१२ ॥ महोत्सवैमहीयोभि-स्तञ्च प्रावीविशत्पुरे ॥ मन्यमानो निजं जन्म, कृतार्थ भ्रातृसङ्गमात् ॥ २१३ ॥ तञ्च क्रमागते
२०९-२२३ राज्ये, न्यस्य चन्द्रयशा नृपः ॥ परिव्रज्यामुरीकृत्य, विजहार वसुन्धराम् ॥ २१४ ॥ पाकशासनवचण्ड-शासनोथ नमिर्नृपः ॥ न्यायाम्बुजारुणो राज्य-द्वयमन्वशिषचिरम् ॥ २१५ ॥ __ अथान्यदा तस्य देहे, दाहोभूदतिदुःसहः ॥ भूपो नाप रतिं वापि, व्याधिना तेन बाधितः ॥ २१६ ॥ चिकित्सा विविधास्तस्य, व्याधेश्चक्रुश्चिकित्सकाः ॥ तास्तु तत्राभवन्मूढे, हितशिक्षा इवाफलाः ॥ २१७ ॥ ततो वैद्यैः परित्यतो-ऽसाध्योयमितिवादिभिः॥ वर्भानुरिव शीतांशु, स रोगोऽपीडयन्नपम् ॥ २१८ ॥ तदा च चन्दनरसै, राज्ञः किञ्चिदभूत्सुखम् ॥ इति तं सकला राज्यो, नित्यं खयमघर्षयन् ॥ २१९ ॥ तद्वाहुकङ्कणगण-रणत्कारमहारवः ॥3॥ राज्ञो रोगातुरस्याभू-त्कर्णाघातकरो भृशम् ॥ २२०॥ शोकार्तस्य मृदङ्गादि-नादवन्मम रोगिणः ॥ दुःखाकरोति ॥२१८॥ शब्दोय-मिति राजा जगौ ततः॥ २२१ ॥ तच्चाकर्ण्य क्रमाद्राक्ष्यो, राज्ञः सौख्यकृते खयम् ॥ एकैकमेकशेषाणि, कङ्कणान्युदतारयन् ॥ २२२ ॥ एकैकं तत्तु कल्याण-हेतवे दधिरे करे ॥ तदा च नाभवत्कोला-हलचन्दनघर्षणे
Page #437
--------------------------------------------------------------------------
________________
॥२२३॥ नृपोवादीत्ततो यन्न, श्रूयते कङ्कणध्वनिः ॥ तन्मन्ये चन्दनं देव्यो, न घर्षन्ति प्रमद्वराः ॥ २२४ ॥ मंत्री प्रोचे नमिचप्रभो ! देव्यः, सर्वा घर्षन्ति चन्दनम् ॥ परमेकाकिभावेन, शब्दायन्ते न कङ्कणाः ॥ २२५ ॥ तदाकर्ण्य नृपो दध्यौ, रित्रम्
२२४-२३५ शान्तमोहो महाशयः ॥ बहूनां सङ्गमे दोषः, स्यादेकस्य तु न क्वचित् ॥ २२६ ॥ वलयानामपि मिथो, घर्षणं वसतामभूत् ॥ एकाकिनां तु तन्नैव, तेषां सम्प्रति जायते ॥ २२७ ॥ सङ्गस्तदखिलो दुःख-कारणं प्राणिनां भवे ॥ एकत्वं तु महानन्द-हेतुः स्यात्सङ्गवर्जनात् ॥ २२८ ॥ तचेच्छाम्येदयं दाह-स्तदाहं व्रतमाददे ॥ ध्यायन्निति प्रसुप्तो दाग, निद्रासुखमवाप सः॥ २२९ ॥ तस्यां कार्तिकराकायां, रात्रौ तस्य महीपतेः॥ दाहः पाण्मासिकः सद्यो-ऽशाम्यत्पुण्यप्रभावतः ॥ २३० ॥ प्रभाते च तनूभूत-तन्द्रः स्वप्ने ददर्श सः॥ आत्मानं मेरुमौलिस्थ-सितेभस्कन्धमाश्रितम् ॥ २३१ ॥ तूर्यनादैः प्रबुद्धोथ, हृष्टो नमिरचिन्तयत् ॥ अहो ! मया प्रधानोद्य, दृष्टः खप्नो महाफलः ॥ २३२ ॥ किञ्चाहमीदृशं शैलं, दृष्टपूर्वीति भावयन् ॥ जातिस्मरणमासाद्य, सोज्ञासीदिति शुद्धधीः ॥२३३॥ पूर्व नरभवे दीक्षा-मादाय त्रिदिवं गतः ॥ जिनजन्मोत्सवे मेरु-मद्राक्षमहमीदृशम् ॥ २३४ ॥ ततः स विध्वस्तविमोहजालो, विधाय लोचं खयमात्तदीक्षः॥ प्रत्येकबुद्धो विबुधप्रदत्त-वेषो व्यहान्निमिराट् पृथिव्याम् ॥ २३५ ॥ इति श्रीनमिराजर्षिकथा ॥३॥ कथाशेषं त्वमूष्य सूत्रसिद्धमिति सूत्रमिहैव व्याख्यायते, तच्चेदं
१ घर्षणं भूयसामभूत् । इति ग. घ. पुस्तके ।
९
Page #438
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २१९ ॥
१२
मूलम् - चइऊण देवलो गाओ, उववण्णो माणुसंमि लोगंमि । वसंतमोहणिजो, सरइ पोराणिअं जाई ॥ १ ॥
व्याख्या - च्युत्वा देवलोकात् शुक्राभिधस्वर्गात्, उत्पन्नो मानुष्यके लोके मनुष्यभवे, उपशान्त अनुदितं मोह - नीयं दर्शनमोहनीयात्मकं यस्य स उपशान्तमोहनीयः, स्मरति पुराणामेव पौराणिकीं चिरन्तनीं जातिं जन्म, वर्त्तमाननिर्देशस्त्वत्र सर्वत्र तत्कालापेक्षया इति सूत्रार्थः ॥ १ ॥ ततः किमित्याह
मूलम् — जाई सरित्तु भयवं, सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवित्त रज्जे, अभिनिक्खमई नमी राया ॥२॥
व्याख्या - जातिं स्मृत्वा भगशब्दस्य धैर्य सौभाग्यमाहात्म्ययशो वैराग्यैश्वर्यसूर्य पुण्य प्रयत्नस्त्रीचिह्नादिवाचकत्वेनानेकार्थत्वेपि भगशब्दोत्र घटमाने धैर्यादावर्थे वर्त्तते, ततो भगवान् धैर्यादिमान् 'सहत्ति' स्वयमेव सम्बुद्धो न त्वन्येन प्रतिबोधितः, केत्याह- अनुत्तरे सर्वोत्कृष्टे धर्मे चारित्रधर्मे, पुत्रं स्थापयित्वा राज्ये अभिनिष्क्रामति प्रव्रज्यामादत्ते नमिनामा राजेति सूत्रार्थः ॥ २ ॥ किं कृत्वाभिनिष्क्रामतीत्याह
| मूलम् — सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । भुंजित्तु नमी राया, बुद्धो भोगे परिचय ॥ ३ ॥
व्याख्या - स पूर्वोक्तो देवलोकसदृशान् इह देवलोकशब्देन देवलोकस्था भोगा लक्ष्यन्ते, मञ्चाः क्रोशन्तीत्यादौ मञ्चशब्देन मञ्चस्थ पुरुषवत् । ततो देवलोकस्थ भोगतुल्यान् ' अंतेउरवरगओत्ति' वरान्तःपुरगतो वरान् प्रधानान्
नवमाध्य
यनम् (९)
गाथा १-३
॥ २१९ ॥
Page #439
--------------------------------------------------------------------------
________________
नवमाध्ययनम् गाथा ४-५
३
भोगान् मनोज्ञशब्दादीन् भुक्त्वानुभूय नमी राजा बुद्धो विज्ञाततत्त्वो भोगान् परित्यजति, पुनर्भोगग्रहणं विस्मरMणशीलविनेयानुग्रहार्थमिति सूत्रार्थः ॥ ३॥ किञ्च__ मूलम्-मिहिलं सपुरजणवयं, बलमोरोहं च परिअणं च सत्वं ।
चिच्चा अभिनिक्खंतो, एगंतमहिडिओ भयवं ॥४॥ व्याख्या-मिथिलां मिथिलाभिधां नगरी सह पुरैरन्यनगरैर्जनपदेन च वर्चते या सा तथा तां, बलं हस्त्यादिचतुरङ्गं, अवरोधश्चान्तःपुरं, परिजनं परिवार, सर्व निरवशेषं त्यक्त्वा विहाय अभिनिष्क्रान्तः प्रव्रजितः एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु “एकोहं नास्ति मे कश्चि-त्राहमन्यस्य कस्यचित् ॥ न तं पश्यामि यस्याहं, नासौ दृश्योस्ति यो मम ॥१॥” इति भावनया एक एवाहमित्यन्तो निश्चय एकांतस्तमधिष्ठित आश्रितो भगवान् इति सूत्रार्थः ॥ ४ ॥ तदा च यदभूत्तदाह
मूलम्-कोलाहलगभूअं, आसी मिहिलाइ पवयंतमि ।
तइआ रायरिसिम्मि, नमिम्मि अभिनिक्खमंतंमि ॥ ५॥ व्याख्या-कोलाहलो विलापादिकलकलः, स एव कोलाहलकः, स भूतो जातो यस्मिंस्तत्कोलाहलकभूतं, |
ARRORECARRAI
.
Page #440
--------------------------------------------------------------------------
________________
नवमाध्य. यनम् (९) गाथा ६८
॥२०॥
उत्तराध्ययन के आसीदभूमिथिलायां सर्वं गृहारामदेवकुलादीति गम्यते । प्रव्रजति प्रव्रज्यामाददाने तदा तस्मिन्काले, राजा चासो
राज्यावस्थापेक्षया, ऋषिश्च तत्कालापेक्षया राजर्षिस्तस्मिन्नमौ अभिनिष्क्रामति गृहान्निर्गच्छति सतीति सूत्रार्थः ॥५॥ अत्रान्तरे च यदभूत्तदाहमूलम्-अब्भुट्टि रायरिसिं, पवजाठाणमुत्तमं । सक्को-माहणरूवेण, इमं वयणमब्बवी ॥६॥
व्याख्या-अभ्युत्थितमभ्युद्यतं राजर्षि प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिन्नुत्तमे श्रेष्ठ, सूत्रत्वाद्विभक्तिव्यत्ययः, शक्र इन्द्रो माहनरूपेण द्विजवेषेणाऽऽगत्येति शेषः, तदाहि तदाशयं परीक्षितुकामः शक्रः खयमागादिति । ततः स इदं वक्ष्यमाणं वचनमब्रवीदिति सूत्रार्थः ॥ ६॥ यदब्रवीत्तदाहमूलम्-किं नु भो अज मिहिलाए, कोलाहलगसंकुला। सुच्चंति दारुणा सद्दा, पासाएसु गिहेसु अ॥७॥ ___ व्याख्या-किमिति प्रश्ने, नु इति वितर्के, भो! इत्यामंत्रणे, अद्य मिथिलायां पुर्या कोलाहलकेन बहलकल-3 है कलरूपेण सङ्कला व्याप्ताः कोलाहलकसङ्कुलाः श्रूयन्ते ? दारुणा हृदयोद्वेगकराः, शब्दा विलापाक्रन्दादयः, प्रासा-1 ॥२२०॥
देषु, गृहेषु तदितरेषु, च शब्दात्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ ७ ॥ ततश्चमूलम्-एअमहं निसामित्ता, हेऊकारणचोइओ। तओ नमिरायरिसी, देविंदं इणमब्बवी ॥८॥
RRC-RRRRRRRRRRRRRC
SAURUSAN
."
Page #441
--------------------------------------------------------------------------
________________
गाथा ९
६
**SUPERMICROPC
व्याख्या-एतमनन्तरोक्तमर्थ निशम्य, हतुः पञ्चावयवाक्यरूपः, कारणञ्चान्यथानुपपत्तिमात्रं, ताभ्यां चोदितः नवमाध्यप्रेरितो हेतुकारणचोदितः, इह च हेतुकारणे कोलाहलकसङ्कलाः शब्दाः श्रूयन्ते इत्यनेनैव सूचिते, तथा हि-अयुक्तमिदं यनम् तव निष्क्रमणमिति प्रतिज्ञा १। आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः२। यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनामयुक्तं, यथा प्राणातिपातादिरिति दृष्टान्तः ३ । आक्रन्दादिदारुणशब्दहेतुश्चेदं तव निष्क्रमणमित्युपनयः ४ । तस्मादयुक्तमेवेदं तव निष्क्रमणमिति निगमनमिति ५। पञ्चावयवमनुमानवाक्यमिह हेतुः । आक्रन्दादिदारुणशब्दहेतुत्वं त्वनिष्क्रमणस्यायुक्तत्वं विना नोपपद्यते इत्येतावन्मात्रं तु शेषावयवविवक्षारहितं कारणं, अनयोः पृथगुपादानं PIतु साधनवाक्यवैचित्र्यरचनार्थमिति ध्येयं । 'तओत्ति' ततः प्रेरणानन्तरं नमिराजर्षिदेवेन्द्रमिदमब्रवीदिति सूत्रार्थः ।
॥ ८॥ यदवादीत्तदाह
मूलम्--मिहिलाए चेइए वच्छे, सीअच्छाए मणोरमे। पत्तपुप्फफलोवेए, बहणं बहगुणे सया॥९॥ हा व्याख्या-मिथिलायां परि. चितिरिह प्रस्तावात पत्रपुष्पाद्यपचयस्तत्र साधु चियं चित्यमेव चैत्यमद्यानं तस्मिन 'वच्छेत्ति' सूत्रत्वादृक्षो विद्यत इति शेषः। कीदृशः ? इत्याह-शीतच्छायः शीतलच्छायो मनोरमो मनोरमाभिधः पत्रपुष्पफलोपेतो बहूनां प्रक्रमात् खगादीनां बहुगुणः फलादिभिभृशमुपकारी सदा सर्वकालं, एकारश्चात्र सूत्रे सर्वत्र मागधभाषानुसरणात् ज्ञेय इति सूत्रार्थः ॥९॥ तत्र किमित्याह
Page #442
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २२१ ॥
३
१२
मूलम् - वाएण हीरमाणंमि, चेइअंमि मणोरमे । दुहिआ असरणा अत्ता, एए कंदंति भो ! खगा ॥१०॥ व्याख्या - वातेन वायुना हियमाणे इतस्ततः क्षिप्यमाणे 'चेइअंमित्ति' चितिरिहेष्टकादिचयस्तत्र साधुर्योग्यो वा चित्यः स एव चैत्यस्तस्मिन् कोऽर्थोऽधोबद्धपीठिके उपरि चोच्छ्रितपताके मनोरमे मनोहरे तस्मिन् वृक्ष इति शेषः । दुःखं जातं येषां ते दुःखिताः, अशरणास्त्राणरहिता अत एवार्त्ताः पीडिता एते प्रत्यक्षा क्रन्दन्ति आक्रन्दान् कुर्वन्ति भो ! इत्यामंत्रणे खगाः पक्षिणः । इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्त इति यत्स्वजना क्रन्दनमुक्तं तत्खगाक्रन्दनप्रायमात्मा च वृक्षकल्पस्तत्वतो हि खल्पकालमेव सहावस्थानेन उत्तरकालं च खगतिगामितया द्रुमाश्रितखगोपमा एवामी खजनादयः । उक्तञ्च - " यद्वद्दुमे महति पक्षिगणा विचित्राः, कृत्वाश्रयं हि निशि यान्ति पुनः प्रभाते । तद्वज्जगत्यसकृदेव कुटुम्बजीवाः सर्वे समेत्य पुनरेव दिशो भजन्ते ॥ १ ॥ इति" ततथाक्रन्दादिदारुणशब्दानां मन्निष्क्रमणहेतुकत्वमसिद्धं, खस्वकार्यहेतुकत्वात्तेषां । आह च - " आत्मार्थ सीदमानं खजनपरिजनो रौति हाहारवार्त्ता, भार्या चात्मीयभोगं गृहविभवसुखं खं वयस्याश्च कार्यम् । क्रन्दन्त्यन्योन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्माच्च किञ्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥ १ ॥ " तथा च सति भवदुक्ते हेतुकारणे असिद्धे एवेति सूत्रार्थः ॥ १० ॥
मूलम् - एअमहं निसामित्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ११ ॥
नवमाध्य
यनम् (९) गा१०-११
॥ २२१ ॥
Page #443
--------------------------------------------------------------------------
________________
नवमाध्य
यनम् गा१२-१४
el व्याख्या-एनमर्थं निशम्य हेतुकारणयोः पूर्वोक्तयोश्वोदितोऽसिद्धे भवदुक्ते हेतुकारणे इत्युपपत्त्या प्रेरितो हेतु
कारणचोदितः, ततो नमि राजर्षि देवेन्द्र इदमब्रवीदिति सूत्रार्थः ॥ ११ ॥ ३ मूलम्-एस अग्गी अ वाऊ अ, एअं डज्झइ मंदिरं । भयवं अंतेउरं तेणं, कीस णं नाव पिक्खह १२
__ व्याख्या-एष प्रत्यक्षोऽग्निश्च वायुश्च एतत्प्रत्यक्षं दह्यते मन्दिरं गृहं तवेति शेषः, अग्निवायू च तदा शक एवादर्शयदिति वृद्धाः, हे भगवन् ! 'अंतेउरंतेणंति' अन्तःपुराभिमुखं 'कीसत्ति' कस्मात् 'णं' वाक्यालंकारे नावप्रेक्षसे
नावलोकसे ? यद्यदात्मीयं तत्तत्रातव्यं, आत्मीयञ्चेदं तवान्तःपुरादीति सूत्रार्थः ॥ १२ ॥ | मूलम्-एअमह निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १३ ॥ व्याख्या-स्पष्टं नवरं हेतुकारणचर्चा इहोत्तरत्र च बृहट्टीकातोवसेयेति ॥ १३ ॥
मूलम्--सुहं वसामो जीवामो, जेसिं मो नत्थि किंच णं ।
मिहिलाए डज्झमाणीए, न मे डज्झइ किंच णं ॥ १४ ॥ व्याख्या-सुखं यथा स्यादेवं वसामस्तिष्ठामः जीवामः प्राणान् धारयामः येषां 'मोत्ति' अस्माकं नास्ति किंचन वस्तुजातं यतः-“एकोहं न च मे कश्चित् , खः परो वापि विद्यते । यदेको जायते जन्तु-म्रियते चैक एव हि॥१॥
Page #444
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२२२॥
कश्चिदल्पमपि, अप्रि
SAASAASAASAASASARAS
इति" न किञ्चिदन्तःपुरादि मदीयमस्ति यत्रातव्यं स्यात्, अत एव मिथिलायां दह्यमानायां न मे दह्यते किञ्चन नवमाध्य. | खल्पमपीति सूत्रार्थः ॥ १४ ॥ इदमेव भावयितुमाह
यनम् (९)
गा१५-१८ मूलम्-चत्तपुत्तकलत्तस्स, निवावारस्स भिक्खुणो । पिअंन विजए किंचि, अप्पिअंपिन विजए॥१५॥ | व्याख्या-त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य मुक्तकृष्यादिक्रियस्थ भिक्षोः प्रियमिष्टं न विद्यते किञ्चिदल्पमपि. अप्रि-10 यमपि अनिष्टमपि न विद्यते । एतेन यदुक्तं नास्ति मे किञ्चनेति तत्समर्थितमिति सूत्रार्थः ॥ १५ ॥ एवमपि सुखेन वसनं जीवनं कथं स्यादित्याह
मूलम्—बहुं खु मुणिणो भदं, अणगारस्स भिक्खुणो । सबओ विप्पमुक्कस्स, एगंतमणुपस्सओ ॥१६॥ | व्याख्या-बहु भूरि खु निश्चये मुनेर्भद्रं सुखं अनगारस्य भिक्षोरपि सत इति शेषः। कीदृशस्य मुनेरित्याह-सर्वतो बाह्याभ्यन्तरपरिग्रहादिप्रमुक्तस्य । एक एवाहमित्यन्तो निश्चय एकान्तस्तं अनुपश्यतः पालोचयत इति सूत्रार्थः ॥१६॥ मूलम्-एअमटं निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥१७॥ मूलम्-पागारं कारइत्ता णं, गोपुरद्वालगाणि अ । ओसूलगसयग्घीओ, तओ गच्छसि खत्तिआ॥१८॥ व्याख्या-प्राकारं वयं कारयित्वा गोपुराहालकानि च । तत्र गोपुराणि प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाक
॥२२२॥
Page #445
--------------------------------------------------------------------------
________________
६
१२
उ० ३८
पाटोपलक्षणं, अट्टालकानि च वप्रकोष्ठकोपरिवर्त्तीनि रणकरणस्थानानि । 'ओसूलगत्ति' खातिकाः, 'सयग्धीओत्तिशतभ्यो यंत्ररूपाः, तत एवं सर्व निराकुलीकृत्य 'गच्छसित्ति' विभक्तिव्यत्ययाद्गच्छ हे क्षत्रिय ! | हेतूपलक्षणञ्चेदं, यो यः क्षत्रियः स्यात् स स पुररक्षां कुर्वीत, यथा भरतादिः, क्षत्रियश्च भवानिति सूत्रार्थः ॥ १८ ॥ | मूलम् - एअमहं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्वी ॥ १९ ॥ मूलम् —सद्धं च नगरं किच्चा, तव संवरमग्गलं । खंतीनिऊणपागारं तिगुत्तं दुप्पधंसगं ॥ २० ॥
व्याख्या - श्रद्धां तत्त्वरुचिरूपां सर्वगुणाधारतया नगरं पुरं कृत्वा विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते । तपोऽनशनादि बाह्यमेवेह ग्राह्यं, तत्प्रधानः संवरस्तपः संवरस्तं, अर्गलामित्युपलक्षणत्वादर्गलाकपाटं कृत्वा, क्षान्ति क्षमां, निपुणं श्रद्धाप्रत्यनीकस्यानन्तानुबन्धिकोपस्य रोधकत्वेन वैरनिवारणं प्रति कुशलं प्राकारं कृत्वा, उपलक्षणःञ्चैषां मानादिरोधकानां मार्दवादीनां । 'तिगुत्तंति' तिसृभिरट्टालकोत्सूलकशतघ्नीस्थानीयाभिर्मनोगुत्यादि - गुप्तिभिर्गुतं दुष्प्रधर्षकं परैर्दुरभिभवं, वप्रविशेषणान्येतानि । अनेन प्राकारं कारयित्वेत्यादेः प्रतिवचनमुक्तं ॥ २० ॥ सम्प्रति तु सत्सु प्राकाराट्टालकेष्ववश्यं योद्धव्यं तच्चायुधेषु वैरिषु च सत्खेव स्यादत आह
मूलम् — धणुं परकमं किच्चा, जीवं च इरिअं सया । धिङ्गं च केअणं किच्चा, सच्चेणं पलिमंथ ॥ २१ ॥ व्याख्या - धनुः कोदण्डं पराक्रमं जीववीर्योल्लासरूपं उत्साहं कृत्वा, जीवां च प्रत्यंचां च ईर्यामीर्यासमितिं,
नवमाध्य यनम् गा१९-२१
Page #446
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २२३ ॥
३
व्याख्या-तपः षडूविधमाभ्यन्तरं तदेव नाराचो लोहमयो वाणस्तद्युक्तेन प्रक्रमाद्धनुषा भित्वा विदार्य कर्मकचुकं कर्मग्रहणेन चात्मैवोद्धतो वैरी भवतीत्युक्तं भवति, वक्ष्यति च 'अप्पा मित्तममित्तं च, दुपट्ठिअसुपट्ठिएत्ति” मुनिः साधुः | कर्मभेदे जेयस्य जितत्वात् विगतसंग्रामो यस्य स विगतसंग्रामः भवात् संसारात् परिमुच्यते । अनेन सूत्रत्रयेण | प्राकारं कारयित्वेत्यादिसूत्रस्य सिद्धसाधनतोक्तेति सूत्रत्रयार्थः ॥ २२ ॥
६
| उपलक्षणत्वाच्छेषसमितीश्च कृत्वा सदा । धृतिं च धर्माभिरतिरूपां केतनं शृङ्गमयधनुर्मध्ये काष्ठमयमुष्टधात्मकं कृत्वा, | तत्केतनं सत्येन मनःसत्यादिना स्त्रायुस्थानीयेन 'पलिमंथत्ति' बनीयात् ॥ २१ ॥ ततः किमित्याह
मूलम् -तवनारायजुत्तेणं, भित्तूणं कम्मकंचुअं । मुणिविगयसंगामो भवाओ परिमुचई ॥ २२ ॥
मूलम् - एअमहं निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ २३ ॥ | मूलम् — पासाए कारइत्ताणं, वद्धमाणगिहाणि अ । वालग्गपोइआओअ, तओ गच्छसि खत्तिआ ! ॥२४॥
९
१२
**
व्याख्या - प्रासादान् कारयित्वा वर्धमानगृहाणि चानेकधा वास्तुशास्त्रोक्तानि 'वालग्गपोईआओत्ति' | देशी भाषया वलभीश्च कारयित्वा, अशेषरचनाविशेषोपलक्षणञ्चैतत्, ततो गच्छ क्षत्रिय ! । अनेन यः प्रेक्षावान् स |सति सामर्थ्ये गृहादि कारयति, प्रेक्षावांश्च भवानिति सूचितमिति सूत्रार्थः ॥ २४ ॥
नवमाध्ययनम् (९) गा२२-२४
॥ २२३ ॥
Page #447
--------------------------------------------------------------------------
________________
६
१२
मूलम् - एअम निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंद इणमब्बवी ॥ २५ ॥ मूलम् - संसयं खलु सो कुणइ, जो मग्गे कुणइ घरं । जत्थेव गंतुमिच्छिज्जा, तत्थ कुविज्ज सासयं ॥ २६॥ व्याख्या - संशयं सन्देहं खलु निश्चये स कुरुते यथा कदाचिन्मे गमनं न भवेदपीति यो मार्गे कुरुते गृहं गमननिश्चये हि तत्करणायोगात् । ननु गमननिश्चये कुतो मार्गे गृहं न क्रियते ? इत्याह-यत्रैव वाञ्छितप्रदेशे गन्तुमिच्छेतू 'तत्थेति' सावधारणत्वाद्वाक्यस्य तत्रैव कुर्वीत स्वस्यात्मना आश्रयः स्वाश्रयस्तं, ततोऽयमर्थः - इदं तावदिहावस्थानं मार्गावस्थानप्रायं तदिह गृहादि न क्रियते, यत्तु जिगमिषितमस्माभिर्मुक्तिपदं तदाश्रयविधाने च प्रवृत्ता एव वयमिति सिद्धसाधनमेतदपीति सूत्रार्थः ॥ २६ ॥
मूलम् -- एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ २७ ॥ मूलम् - आमोसे लोमहारे अ, गंठिभेए अ तक्करे । नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिआ ! २८
व्याख्या - आसमन्तात् मुष्णन्तीत्यामोपाश्चौरास्तान्, लोमहारा ये निर्दयतया स्वविघातशङ्कया च जन्तून् हत्वैव सर्वस्वं हरन्ति तांश्च, ग्रन्थिभेदा ये घुघुरककर्तिकादिना ग्रन्थि भिन्दन्ति तांश्थ, तथा तस्करान् सर्वदा चौर्यकारिणो निवार्येति शेषः । नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ! अनेन च यो न्यायी नृपः स चौरादीन्निगृह्णाति, न्यायी नृपश्च त्वमिति सूचितमिति सूत्रार्थः ॥ २८ ॥
नवमाध्ययनम् गा२५-२८
Page #448
--------------------------------------------------------------------------
________________
उत्तराध्ययन
नवमाध्य
शयनम् (९)
॥२२४॥
गा२९-३२
मूलम्-एअमटं निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ २९ ॥ मूलम्-असइं तु मणुस्सेहिं, मिच्छादंडो पजुज्जए। अकारिणोत्थ वझंति, मुच्चइ कारगो जणो ॥३०॥|| | व्याख्या-असकृदनेकधा तुरेवकारार्थे, ततोऽसकृदेव मनुष्यैर्नर्मिथ्या व्यलीकोऽनपराधिष्वपि अज्ञानाभिनिवे-15
शादिभिर्दण्डो देशत्यागविग्रहनिग्रहादिः प्रयुज्यते व्यापार्यते, कथमित्याह-अकारिण आमोषणादेरविधायिनोऽत्रेत्यस्मिन् लोके बध्यन्ते निगडादिभिः, मुच्यते कारको विधायकः प्रक्रमादामोषणादेरेव जनो लोकः । अनेन च यदुक्तं । प्रागामोषकादीनिवार्य नगरस्य क्षेमं कृत्वा गच्छेति तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणमप्यशक्यमुक्तमिति सूत्रार्थः मूलम्-एअमटुं निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी॥ ३१ ॥ | व्याख्या–प्राग्वन्नवरमियद्भिः प्रश्नः खजनान्तःपुरपुरप्रासादनृपधर्मविषयः किमस्य रागोस्ति नवेति परीक्ष्य सम्प्रति द्वेषाभावपरीक्षायै विजिगीषुतामूलत्वाद्वेषस्य तामेव परीक्षितुमनाः शक्र इदमवदत् ॥ ३१॥
-जे केइ पत्थिवा तब्भं.न नमति नराहिवा। वसे ते ठावडत्ताणं, तओगच्छसि खत्तिआ!॥३२॥ व्याख्या-ये केचित् पार्थिवा नृपास्तुभ्यं न नमन्ति हे नराधिप ! हे राजन् ! वशे आत्मायत्तौ तान् नृपान् स्थापयित्वा वशीकृत्येत्यर्थः, ततो गच्छ क्षत्रिय ! । अनेन च यः समर्थो राजा सोऽनमन्नपान् नमयति, समर्थपार्थिवश्च त्वमिति सूचितमिति सूत्रार्थः ॥३२॥
॥२२४॥
Page #449
--------------------------------------------------------------------------
________________
*
नवमाध्यकनम्
RICHAR
मूलम्-एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३३ ॥ मूलम्-जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एगं जिणिज अप्पाणं, एस से परमो जओ॥३४॥
व्याख्या-यः सहस्रं सहस्राणां दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि संग्रामे दुर्जये जयेदभिभवेत् , स चेदेकं जयेदात्मानमनाचारप्रवृत्तमिति गम्यते । एपोनन्तरोक्तः 'से इति' तस्स जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन एवातिदुर्जयत्वमुक्तम् ॥ ३४ ॥ ततश्चमूलम्-अप्पाणमेव जुज्झा हि, किं ते जुज्झेण बज्झओ। अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥३५॥
व्याख्या-'अप्पाणमवत्ति' द्वितीयायास्तृतीयार्थत्वादात्मनैव सह युध्यख, किं ? न किञ्चिदित्यर्थः, ते तव युद्धेन बाह्यत इति बाह्यपार्थिवानाश्रित्य, एवञ्च 'अप्पाणमेवत्ति' आत्मानं 'जइत्तत्ति' जित्वा सुखं ऐकान्तिकं मुक्तिसुखरूपमेधते प्राप्नोति ॥ ३५ ॥ कथमात्मन्येव जिते सुखावाप्तिरित्याहमूलम्-पंचिंदिआणि कोहं, माणं मायं तहेव लोभं च । दुजयं चेव अप्पाणं, सबमप्पे जिए जिअं॥३६॥ | व्याख्या–पञ्चेन्द्रियाणि श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च 'दुज्जयं चेवत्ति' दुर्जयं इति विशेषणं । सर्वत्र सम्बध्यते, चः समुच्चये, एवः पूतों, अतति गच्छति अनेकान्यध्यवसायान्तराणीति आत्मा मनः, नपुंसकनि
Page #450
--------------------------------------------------------------------------
________________
उत्तराध्ययन
नवमाध्ययनम् (९) गा३७-४०
॥२२५॥
देशस्तु सर्वत्र सूत्रत्वात् , सर्वमेतदिन्द्रियादि उपलक्षणत्वान्मिथ्यात्वादि च आत्मनि जीवे जिते जितं, ततो बाद्यारिजयमुपेक्ष्यात्मन एव जये प्रवृत्तोस्म्यहमिति सूत्रत्रयार्थः ॥ ३६ ॥ मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥३७॥ __ व्याख्या-स्पष्टं, नवरमेतावता तस्य रागद्वेषाभावं निश्चित्याधुना जिनधर्मस्थैर्य परीक्षितुमिन्द्र इदमवादीत् ॥३७॥ मूलम्-जइत्ता विउले जण्णे, भोइत्ता समणमाहणे। दच्चा भुच्चा य जहाय, तओ गच्छसि खत्तिआ ! ३८ । | व्याख्या--'जइत्तत्ति' याजयित्वा विपुलान् विस्तीर्णान् यज्ञान् , भोजयित्वा श्रमणब्राह्मणान् , दत्वा द्विजादि-8 भ्यो गोभूमिखर्णादि, भुक्त्वा च मनोज्ञशब्दादीन् , इष्ट्वा च खयं यागान् , ततो गच्छ क्षत्रिय ! अनेन यद्यत् प्राणि-13 प्रीतिकरं तत्तद्धर्माय, विप्रादिप्राणिप्रीतिकरश्च यागादि इति सूचितमिति सूत्रार्थः ॥ ३८॥ मूलम्-एअमह निसामित्ता, हेउकारण चोईओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३९॥ मूलम्-जो सहस्सं सहस्साणं,मासे मासे गवं दए। तस्सावि संजमो सेओ,अदितस्सावि किंचणं॥४०॥5 __ व्याख्या-यः सहस्रं सहस्राणां दशलक्षाणीत्यर्थः, मासे मासे गवां दद्यात्, तस्याप्येवंविधदातुरपि संयमो हिंसाद्याश्रवविरमणात्मकः श्रेयानतिप्रशस्यः, अददतोपि किञ्चन खल्पमपि वस्तु । एवञ्च संयमस्य प्रशस्यतरत्वं
5555
॥२२५॥
Page #451
--------------------------------------------------------------------------
________________
नवमाध्ययनम् गा४१-४२
वदता यज्ञादीनां सावद्यत्वमर्थात् ज्ञापितं । यदुक्तं याज्ञिकैः-“षट् शतानि नियुज्यन्ते, पशूनां मध्यमेहनि ॥ अश्वमेधस्य वचना-न्यूनानि पशुभिस्त्रिभिः ॥१॥” ततः पशुहिंसात्मकत्वात्सावद्या एव यागाः। तथा दानान्यपि अशनादीनां धर्मोपकरणानाञ्च धर्माय भवन्ति, स्वर्णगोभूम्यादीनां तु दानानि प्राण्युपमर्दहेतुत्वात्सावधान्येव सावद्यत्वाच यागादीनि न प्राणिप्रीतिकराणीतिभाव इति सूत्रार्थः ॥ ४०॥ मूलम्-एअमटं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥४१॥
व्याख्या-प्राग्वन्नवरं जिनधर्मस्थैर्यमवधार्य व्रतं प्रति दाढ्य परीक्षितुमिदमाचचक्षे हर्यश्वः ॥ ४१॥ मूलम्-घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं। इहेव पोसहरओ, भवाहि मणुआहिवा ! ॥ ४२ ॥3 | व्याख्या-घोरोत्यन्तदुरनुचरः सचासावाश्रमश्च घोराश्रमो गार्हस्थ्यं, तस्यैवाल्पसत्त्वैर्दुष्करत्वात् । उक्तञ्च"गृहाश्रमपरो धर्मो, न भूतो न भविष्यति ॥ पालयन्ति नराः शूराः, क्लीबाः पाषण्डमाश्रिताः॥१॥" तं त्यक्त्वा अन्यं प्रार्थयसे ? आश्रमं दीक्षालक्षणं, नेदं हीनसत्त्वोचितं भवाशां युक्तं । तर्हि किं युक्तमित्याह-इहास्मिन्नेव गृहाश्रमे स्थित इति गम्यते, पोषधोऽष्टम्यादितिथिषु व्रतविशेषस्तत्र रतः पौषधरतो भव हे मनुजाधिप ! अणुव्रताधुपलक्षणञ्चैतत्, अस्यैवोपादानं तु पौषधदिनेष्ववश्यम्भावात्तपोनुष्ठानख्यापकं । इह च यद्यघोरं तत्तद्धर्मार्थिनाऽनुष्ठेयं, घोरश्चायं गृहाश्रम इति घोरपदेन सूचितमिति सूत्रार्थः ॥ ४२॥
-SACRECER-CRORRRRRRE
Page #452
--------------------------------------------------------------------------
________________
मूलम् - एअमहं निसामित्ता, हेउकारण चोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ४३ ॥ | मूलम् - मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए।न सो सुअक्खायधम्मस्स,कलं अग्घइ सोलसिं ॥ ४४ ॥ व्याख्या - मासे मासे एव तुशब्दस्यैव कारार्थत्वान्नत्वर्थमासाद्रौ यः कश्चिद्वालो निर्विवेकः कुशाग्रेणैव दर्भायेणैव भुंक्ते, न तु कराङ्गुल्यादिभिः । न नैव स तादृशतपोनुष्ठायी, सुष्ठु शोभनः सर्वसावद्यविरतिरूपत्वादाख्यातस्तीर्थकरैः कथितः खाख्यातो धर्मो यस्य स स्वाख्यातधर्मो मुनिः तस्य कलां भागमर्घति अर्हति षोडशीं षोडशांश| समोपि न स्यादितिभावः । ततो यत्खाख्यातं न स्यात् तद्घोरमपि धर्मार्थिना नानुष्ठेयं, आत्मघातादिवत् । खाख्यातश्च मुख्यतया मुनिधर्म एव, न तु गृहाश्रमस्ततो गृहाश्रमादयमेव श्रेयानिति । ननु ? पूर्वसूत्रे इहैव 'पोस - हरओ भवाहीति' वाक्येन देशविरतेः कर्तव्यता शक्रेणोक्ता, देशविरतश्च बालपण्डित उच्यते, 'समणोवासया बालपंडिआ' इति वचनात्, तत्कथमिह बालशब्देन देशविरतो व्यपदिष्ट इतिचेदुच्यते - देशविरतस्य बालपण्डितत्वे सत्यपि एकादशाविरतिमत्तापेक्षया वाल्यांशस्य प्राधान्यविवक्षयैवमुक्तं सम्भाव्यते । दृश्यते हि समये साखादनवतां ज्ञानांशवत्त्वेऽपि तत्प्राधान्यविवक्षया ज्ञानित्वव्यपदेश इति सूत्रार्थः ॥ ४४ ॥
६
मूलम् - एअमहं निसामित्ता, हेउकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ४५ ॥ व्याख्या - पुनर्नीरागतामेव परीक्षितुमदोऽवददिन्द्रः ॥ ४५ ॥
उत्तराध्ययन
॥ २२६ ॥
३
९
१२
नवमाध्य.
यनम् (९)
गा४३-४५
॥२२६॥
Page #453
--------------------------------------------------------------------------
________________
नवमाध्य
यनम् गा४६-४८
मूलम्-हिरण्णं सुवण्णं मणिमुत्तं, कंसं दूसं च वाहणं ।
कोसं वड्डावइत्ता णं, तओ गच्छसि खत्तिआ !॥ ४६॥ व्याख्या-हिरण्यं घटितवर्ण, सुवर्णं ततोऽन्यत् , मणयश्चन्द्रनीलाद्या मुक्ताश्च मौक्तिकानि मणिमुक्तं, कांस्यं कांस्यभाजनादि, दुष्यं वस्त्रं, चकारः खगतानेकभेदसूचकः, वाहनं रथाश्वादि, कोशं भाण्डागारं, वर्धयित्वा वृद्धि नीत्वा ततो गच्छ क्षत्रिय ! अयं भावः यो यः साकांक्षः स स धर्मानुष्ठानायोग्यः, साकांक्षश्च भवान् , आकांक्षणीयखर्णादिवस्तूनां सम्पूर्णत्वाभावादिति सूत्रार्थः ॥ ४६॥ मूलम्-एयमट्ट निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥१७॥ मूलम्-सुवण्णरुप्पस्स उ पवया भवे, सिआ हु केलाससमा असंखया।
नरस्स लद्धस्स न ते हिं किंचि, इच्छा ह आगास समा अणंतिआ॥४८॥ व्याख्या-सुवर्ण च रूप्यं च सुवर्णरूप्यं तस्य, तुः पूत्तौ, पर्वताः पर्वतप्रमाणा राशयः ‘भवेत्ति' भवेयुः स्यात्क-2 दाचित् , हुरवधारणे भिन्नक्रमश्च, ततः कैलाससमा एव, न तु लघुगिरिप्रमाणाः, कैलासश्चात्र मेरुरिति वृद्धाः, तेप्यसंख्यकाः संख्यारहिता न तु द्वित्राः, नरस्य लुब्धस्य न तैः तादृशैरपि स्वर्णरूप्यपर्वतैः किञ्चिदपि खल्पमपि
Page #454
--------------------------------------------------------------------------
________________
उत्तराध्ययन
नवमाध्ययनम् (९) गा४९-५१
॥२२७॥
परितोषकारणं स्यादिति गम्यं । कुत इत्याह-इच्छा अभिलाषो हुरिति यस्मात् आकाशेन समा आकाशसमा अनन्तिका अन्तरहिता । उक्तञ्च-"न सहस्राद्भवेत् तुष्टि-न लक्षान्न च कोटितः॥न राज्यान्नैव देवत्वा-नेन्द्रत्वादपि देहिनाम् ॥ १॥” इति ॥४८॥ तथा
मूलम् -पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह। पडिपुण्णं नालमेगस्स, इइ विजा तवं चरे॥४९॥ KI व्याख्या-पृथ्वी भूमिः, शालयो लोहितशाल्यादयः, यवाः प्रतीताः, चः शेषधान्यसमुचयार्थः, एवोऽवधारणे|| भिन्नक्रमोऽग्रे योक्ष्यते, हिरण्यं, सुवर्ण, रूप्याद्युपलक्षणमेतत् , पशुभिर्गवादिभिः सह प्रतिपूर्ण समस्तं नैव अलं समर्थ प्रक्रमादिच्छापूर्तये एकस्य जन्तोरिति शेषः । इत्येतत्पूर्वोक्तं 'विजत्ति' विदित्वा तपो द्वादशविधं चरेत्तत एव
। एवाकाक्षापोहे क्षमो न तु खादीत्युक्तं । ततः सन्तुष्टस्य मे| खर्णादौ साकांक्षत्वमेव नास्तीति तद्वर्धनोद्यमो दूरापास्त एवेति सूत्रद्वयार्थः ॥ ४९॥ मूलम्-एयमदं निसामित्ता, हेउकारणचोइओ। तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ५०॥ मूलम्-अच्छेरगमब्भुदए, भोए चयसि पत्थिवा! । असंते कामे पत्थेसि, संकप्पेण विहण्णसि!॥५१॥
व्याख्या-आश्चर्यमिदं वर्तते यत् त्वमेवंविधोपि 'अब्भुदएत्ति' अद्भुतकानाश्चर्यरूपान् भोगान् त्यजसि हे पार्थिव ! तथाऽसतोऽविद्यमानान् कामान् प्रार्थयसे! तदप्याश्चर्यमिति सम्बन्धः। अथवा कस्तवात्र दोषः ?
॥२२७॥
Page #455
--------------------------------------------------------------------------
________________
१२
सङ्कल्पेनोत्तरोत्तरभोगाभिलाषरूपेण विकल्पेन विहन्यसे वाध्यसे, अनन्तत्वादेवंविधसङ्कल्पस्य । परं यो विवेकी स प्राप्तान् कामानप्राप्तकामाकांक्षया न त्यजेद्विवेकी च भवानिति सूत्रार्थः ॥ ५१ ॥
मूलम् - एअमहं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ५२ ॥ | मूलम् —सलं कामा विसं कामा, कामा आसी विसोवमा । कामे पत्थेमाणा, अकामा जंति दुग्गई ॥ ५३ ॥
व्याख्या - शल्यमिव शल्यं कामाः शब्दादयः, विषमिव विषं कामाः, कामा आशीविषोपमाः, आशीविषः | सर्पस्तदुपमाः । किञ्च कामान् प्रार्थयमाना अपेर्गम्यत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामाभावाद्यान्ति दुर्गतिं, ततः कथं तत्परिहार आश्चर्य ? असद्धोगप्रार्थनमपि यद्भवता सम्भावितं तदप्ययुक्तं, मुमुक्षूणां क्वचिदपि कांक्षाया अभावात् । उक्तं हि - "मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः" इति ॥ ५३ ॥ कथं पुनः कामान् प्रार्थयमाना दुर्गतिं यान्तीत्याह
मूलम् - अहे वयइ कोहेणं, माणेणं अहमा गई। माया गइपडिग्घाओ, लोहाओ दुहओ भयं ॥ ५४ ॥
व्याख्या - अधो नरकगतौ व्रजति क्रोधेन, मानेन अधमा गतिः, 'मायत्ति' सुब्व्यत्ययान्मायया गतेः प्रस्तावात्सुगतेः प्रतिघातो विनाशो गतिप्रतिघातो, लोभात् 'दुहओत्ति' द्विप्रकारमैहिकं पारत्रिकं च भयं स्यादिति सर्वत्र
*%++
नवमाध्ययनम् गा५२-५४
Page #456
--------------------------------------------------------------------------
________________
8
उत्तराध्ययन
॥२२८॥
गा५५-५६
ASAS DISAISISSA SASA
| गम्यं । कामेषु च प्रार्थमानेष्ववश्यं भाविनः क्रोधादयस्ते चेदृशा इति कथं न तत् प्रार्थनया दुर्गतिरिति सूत्रद्वयार्थः 8 नवमाध्य. ॥ ५४ ॥ इत्थमनेकैरप्युपायैतं क्षोभयितुमशक्तः शक्रः किमकरोदित्याह
यनम् (९) मूलम्-अवउज्झिऊण माहणरूवं विउरूविऊण इंदत्तं ।
वंदइ अभित्थुणंतो इमाहिं महुराहिं वग्गूहि ॥ ५५ ॥ ___ व्याख्या-अपोह्य त्यक्त्वा ब्राह्मणरूपं 'विउरूविऊणत्ति' विकृत्य इन्द्रत्वं उत्तरवैक्रियमिन्द्ररूपं वन्दते नमति अभिष्टुवन् स्तुतिं कुर्वन् इमाभिर्वक्ष्यमाणाभिर्मधुराभिर्मनोहराभिर्वाग्भिर्वाणीभिरिति सूत्रार्थः ॥ ५५ ॥ तथा हि
मूलम्-अहो ते निजिओ कोहो, अहो ते माणो पराजिओ।
अहो ते निरकिआ माया, अहो ते लोहो वसीकओ ॥५६॥ ___ व्याख्या--अहो ! इति विस्मये ते त्वया निर्जितः क्रोधः, यतस्त्वमनमन्नृपवशीकरणाय प्रेरितोपि न क्षुभितः !
तथा अहो! ते मानः पराजितो यस्त्वं मन्दिरं दह्यत इत्याधुक्तोपि कथं मयि जीवतीदं स्यादिति नाहऋतिं कृतवान् ! | ॥२२८॥ | अहो! ते निराकृता माया, यस्त्वं पुररक्षाहेतुपु मायाजन्येषु प्राकाराहालकोत्सूलकादिषु मनो न विन्यस्तवान् ! तथाऽहो ! ते लोभो वशीकृतो यस्त्वं हिरण्यादिवर्द्धनाय नोदितोपि इच्छाया आकाशसमत्वमेवाभिहित-8 वान् ! ।। ५६॥ तथा
Page #457
--------------------------------------------------------------------------
________________
नवमाध्य.
यनम्
गा५७-६०
SARASSASSISKUSIRI03
मूलम्-अहो ते अज्जवं साहु, अहो ते साहु महवं ।अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा॥५७॥ | व्याख्या- स्पष्टं, नवरमार्जवं मायाभावः, साधु शोभनं, मार्दवं मानाभावः, शान्तिः क्रोधाभावः, मुक्तिनिर्लोभ- तेति सूत्रद्वयार्थः ॥ ५७ ॥ इत्थं गुणैः स्तुत्वा फलोपदर्शनद्वारेण स्तुतिमाहमूलम्-इहंसि उत्तमो भंते, पेच्चा होहिसि उत्तमो।लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ॥५८॥
व्याख्या-इहास्मिन् लोके असि वर्तसे उत्तमः उत्तमगुणान्वितत्वात् , हे भदंत ! हे पूज्य ! 'पेचत्ति' प्रेस पर-31 लोके भविष्यसि उत्तमः, कथमित्याह-'लोगुत्तमुत्तमंति' लोकस्य उत्तमोत्तमं अतिशयप्रधानं लोकोत्तमोत्तमं स्थानं, किं तदित्याह-सिद्धिं मुक्तिं 'गच्छसित्ति' सूत्रत्वाद्गमिष्यसि, नीरजा निष्कर्मेति सूत्रार्थः ॥ ५८ ॥ उपसंहरतिमूलम्-एवं अभित्थुणतो,रायरिसिं उत्तिमाइ सद्धाए। पायाहिणं कुणंतो, पुणो पुणो वंदए सको॥५९॥ व्याख्या-एवमुक्तन्यायेन अभिष्टुवन् राजर्षि उत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनर्वन्दते प्रणमति शक्रः॥५९॥
मूलम्-तो वंदिऊण पाए, चकंकुसलक्खणे मुनिवरस्स ।
आगासेणुप्पइओ, ललिअचवलकुंडलतिरीडी ॥ ६॥ न्याख्या-ततस्तदनन्तरं वन्दित्वा पादौ चक्राङ्कुशलक्षणौ मुनिवरस्य आकाशेन उत्पतितः खर्गाभिमुखं गतः
उ०३९
Page #458
--------------------------------------------------------------------------
________________
-
-
उत्तराध्ययन
॥२२९॥
-*
ललिते च ते सविलासतया चपले चञ्चलतया ललितचपले तादृशे कुण्डले यस्य स ललितचपलकुण्डलः सचासौ नवमाध्यकिरीटी च मुकुटवान् ललितचपलकुण्डलकिरीटीति सूत्रार्थः ॥ ६०॥ शक्रेणैवं स्तूयमानः स मुनिः किमुत्कर्ष यनम् (९) व्यधादुत नेत्याहमूलम्-नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ। चंइऊण गेहं वइदेही,सामण्णे पजुवडिओ ॥६॥
व्याख्या-नमिर्नमयति खतत्त्वभावनया प्रबं करोत्यात्मानं खं नतूत्सेकं नयति । उक्तञ्च-"संतगुणकित्तणेणवि* पुरिसा लजंति जे महासत्ता ॥ इअरा पुण अलिअपसंसणेवि हिअए न मायंति ॥१॥" किम्भूतो नमिः ? साक्षाप्रत्यक्षीभूय शक्रेण चोदितः प्रेरितः त्यक्त्वा गेहं 'वइदेहित्ति' सूत्रत्वाद्विदेही विदेहदेशाधीशः श्रामण्ये पर्युपस्थितः उद्यतो न तु तत्प्रेरणयापि धर्माद्विच्युतोऽभूदिति भाव इति सूत्रार्थः ॥६१॥ अथामुष्य मुनिमुख्यस्य दृष्टान्तेनोपदेशमाहमूलम्-एवं करिंति संबुद्धा, पंडिआ पविअक्खणा ।
॥२२९॥ विणिअति भोगेसु, जहा से नमी रायरिसित्ति बेमि ॥ ६२ ॥ व्याख्या-एवमिति यथामुना नमिनाम्ना मुनिना निश्चलत्वं कृतं तथाऽन्येपि कुर्वन्ति, कीदृशाः ? संबुद्धा अव-| गततत्वाः, पण्डिता निश्चितशास्त्रार्थाः, प्रविचक्षणा अभ्यासातिशयाक्रियाम्प्रति प्रवीणाः, तादृशाश्च सन्तो विनिवर्तन्ते
Page #459
--------------------------------------------------------------------------
________________
रित्रम्
उपरमन्ते 'भोगेसुत्ति' भोगेभ्यो यथा स नमी राजर्पिस्तेभ्यो निवृत्त इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ ६२ ॥|| नवमाध्यइति समाप्तोऽध्ययनसूत्रार्थः, अथ प्रक्रान्तशेष प्रस्तूयते, तच्चेदं
यनम्
नग्गतिचAL अथ नग्गतिसंज्ञस्य, सम्बुद्धस्याम्रपादपात् ॥ तुर्यप्रत्येकबुद्धस्य, कथां वक्ष्यामि तद्यथा ॥ १॥ अत्रैव भरतक्षेत्रे, देशे गान्धारसंज्ञके ॥ श्रीपाण्डुवर्धनपुरे, राजा सिंहरथोऽभवत् ॥ २॥ अन्यदा तस्य भूभर्तु-विश्वावुत्तरापथात् ॥
१-१३ उपायने समायातौ, शक्रवाजिविजित्वरौ ॥३॥ तयोर्मध्ये बभूवैक-स्तुरङ्गो वक्रशिक्षितः ॥ तमारोहन्नृपो दैवाट्वितीयं तु तदङ्गजः ॥ ४॥ ततः सैन्यान्वितो राजा, निर्गत्य नगरादहिः ॥ वाहकेलीगतो वाह-वाहनार्थ प्रचक्रमे ॥५॥ प्रकृष्टां तद्गतिं द्रष्टुं, कशया प्राहरच तम् ॥ ततः स तुरगः सिन्धु-पूरादप्यचलद्रुतम् ॥ ६ ॥ तं रक्षितुं नृपो वल्गा-माचकर्ष यथा यथा ॥ तथा तथा हयो जज्ञे, जवनः पवनादपि ॥७॥ गच्छन्नेवं योजनानि, द्वादशातिगतो हयः ॥ तमरण्येऽनयन्नद्याः, पूरस्तरुमिवोदधौ ॥८॥ आकृष्याकृष्य निर्विण्णो, वल्गां तत्रामुचन्नृपः ॥ तुरङ्गमोपि तत्रैव, तस्थौ तत्क्षणमात्मना ॥९॥ ततस्तं वाजिनं ज्ञात्वा, भूशको वक्रशिक्षितम् ॥ बवा क्वापि द्रुमे भ्राम्यन् , प्राणवृत्तिं व्यधात्फलैः॥१०॥रात्रिवासाय चारूढो, गिरिमेकं महीपतिः॥ ददर्शकं दर्शनीय, प्रासादं सप्तभूमिकम् |॥ ११॥ तस्य मध्ये प्रविष्टश्चा-द्राक्षीदेकां मृगेक्षणाम् ॥ रूपलावण्यतारुण्य-तिरस्कृतरतिश्रियम् ॥ १२॥ ससम्भ्रमं समुत्थाय, प्रमोदभरमेदुरा ॥ ददौ साप्यासनं तस्मै, सोऽपि तस्मिन्नुपाविशत् ॥ १३ ॥ मिथस्तावन्वरज्येतां,
Page #460
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२३०॥
नवमाध्ययनम् (९) नग्गतिचरित्रम् १४-२८
क्षणाइतीकृतेक्षणौ ॥ अन्योन्यदर्शनोद्भूत-स्नेहावेशहतत्रपौ ॥ १४ ॥ कासि त्वं ? सुभगे ! किञ्च, तिष्ठस्येकाकिनी बने ? ॥ अथेति भूभुजा पृष्टा, सोत्कण्ठं सैवमब्रवीत् ॥ १५ ॥ भवनेस्मिन्वेदिकायां, पूर्वमुद्वह मां प्रभो ! ॥ पश्चा- त्वस्थमनाः सर्व, वक्ष्ये वृत्तान्तमात्मनः ॥ १६ ॥ तत्कर्णामृतमाकर्ण्य, वाक्यं तस्या धराधिपः ॥ सरसं भोजनं प्राप्य, बुभुक्षुरिव पिप्रिये ॥ १७॥ भवने तत्र सानन्दं, प्रविष्टश्च जिनालयम् ॥ सोऽपश्यत्तस्य तु पुरो, वेदिकां शुभवेदिकाम् ॥ १८॥ ततो नत्वा जिनं सन्ध्या-समये वेदिकां गतः॥गान्धर्वेण विवाहेनो-वीशस्तामुवाह सः॥१९॥ ततो वासगृहे गत्वा, विलासैर्विविधैः सुखम् ॥ अतिवाह्य निशां प्रात-स्तौ जिनेन्द्र प्रणेमतुः॥२०॥ राज्ञः सिंहासनस्थस्यो-पविष्टार्धासने मुदा ॥ साथ राज्ञी जगौ राजन् !, वार्ता मे श्रूयतामिति ॥ २१॥ | अत्रैव भरतक्षेत्रे, शालिलक्ष्मीविभूषिते॥क्षितिप्रतिष्ठितपुरे-ऽभवद्विजितशत्रुराट् ॥२२॥ स चान्यदा सभामेकां, कारयित्वा मनोहराम् ॥ सर्वां चित्रकरश्रेणी-माहूयैवमवोचत ॥ २३ ॥ यावन्ति वो गृहाणि स्यु- गैस्तावन्मितैरियम् ॥ |चित्रणीया सभा चित्र-श्चित्रश्चित्रैकहेतुभिः॥२४॥ प्रमाणमाज्ञेत्युक्त्वाथ, नेके चित्रकृतोपि ताम् ॥आरेभिरे चित्रयितुं, करस्तेषां स एव हि ॥२५॥तत्र चैको जरी चित्र-करश्चित्राङ्गदाभिधः ॥ अचित्रयत्सभां नित्य-मसहायः सुतोज्झितः ॥२६॥तस्य चैकाभवत्पुत्री, नाम्ना कनकमंजरी॥ रूपयौवनचातुर्य-कलासर्वखसेवधिः ॥ २७॥ सा प्रत्यहं सभास्थस्य, गत्वा भक्तमदात् पितुः ॥ स तु तस्यामागताया-मगान्नित्यं बहिर्भुवि ॥ २८ ॥ अन्येद्युभक्तमादाय, प्रस्थिता सा
३०॥
Page #461
--------------------------------------------------------------------------
________________
रित्रम्
जनाकुले ॥ राज्यमार्गे ययौ याव-त्कनी मन्थरगामिनी ॥ २९ ॥ तावत्तत्र जवेनाद्रि-वाहिनीपूरजिष्णुना ॥ वाह- नवमाध्ययन्तं हयं भूप-मश्चवारं ददर्श सा ॥ ३०॥ ततो भीता प्रणष्टा सा, गते तत्र सभामगात् ॥ सभक्तामागतां तां च, कनम् वीक्ष्य वृद्धो बहिर्ययौ ॥३१॥ तस्य पुत्री तु तत्रस्था, कौतुकात्कुहिमेऽलिखत् ॥ विविधैर्वर्णकैरेकं, केकिपिच्छं यथा-15
नग्गतिच|स्थितम् ॥ ३२॥ अत्रान्तरे सभां द्रष्टुं, तत्रायातो महीपतिः ॥ तत्केकिपिच्छमादातुं, चिक्षेप करमञ्जसा ॥ ३३॥
२९-४३ तत्पिच्छं तत्करे नागा-नखभङ्गस्त्वजायत ॥ प्रवृत्तिर्हि विना तत्त्व-ज्ञानं स्यान्निष्फला नृणाम् ॥ ३४ ॥ ततो विलक्षं 18|मापालं, वीक्षमाणमितस्ततः ॥ सविलासं विहस्पति, प्रोचे कनकमअरी ॥ ३५ ॥ मञ्चको हि त्रिभिः पादैः, सु-18
स्थितो न भवेदिति ॥ पश्यन्त्यास्तुर्यपादं मे, तुर्यमूर्योऽमिलद्भवान् ॥ ३६ ॥ केऽन्ये त्रयः कथञ्चाहं, तुर्यः ? इत्यवनीभृता ॥ पृष्टा सा पुनरित्यूचे, तं राजानमजानती ॥ ३७॥ अहं चित्राङ्गदाहस्य, वृद्धचित्रकृतः सुता ॥ इहस्थस्य पितुर्हेतो-रायान्यादाय भोजनम् ॥ ३८ ॥ रंहसा भूयसा वाहं, वाहयन्तं चतुष्पथे ॥ अद्यैकं मर्त्यमद्राक्षं, स मूर्खः । प्रथमो मतः ॥ ३९ ॥ [ युग्मम् ] राजमार्गो हि बालस्त्री-वृद्धाद्यैः सङ्कलो भवेत् ॥ इति तत्र जवेनाश्वान् , वाह-8 यन्ति न धीधनाः॥४०॥ निर्दयः स तु तत्रापि, रंहसा वाहयन् हयम् ॥ खदायामादिमः पादः, कथ्यते वालिशाग्रणीः!॥४१॥ द्वितीयस्तु महीपालो-ऽविज्ञातपरवेदनः ॥ शिल्पिनां वेश्मतुल्यांशै-योऽदाच्चित्रयितुं सभाम् ॥४२॥ सन्ति चित्रकृतोऽनेके-ऽन्येषु सर्वेषु वेश्मसु ॥ मम तातस्तु निष्पुत्रो, दुःस्थो वृद्धश्च विद्यते ॥४३॥
ACHAR
९
Page #462
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२३॥
नवमाध्य. यनम् (९) नग्गतिचरित्रम् ४४-५७
तस्याप्यन्यैः सह समं, भूपो भागं प्रकल्पयन् ॥ द्वितीयः प्रोच्यते मूढ-स्तृतीयस्तु पिता मम ! ॥ ४४ ॥ स हि पूर्वा-15 र्जितं सर्व, बुभुजे चित्रयन् सभाम् ॥ विनार्जनां भुज्यमानं, वित्तं हि स्थात्कियच्चिरम् ? ॥४५॥ अथ यत्किञ्चिदादाया-गतायां मयि भोजनम् ॥ स याति देहचिन्तायै, न तु पूर्व करोति ताम् ॥४६॥ ततश्च शीतलीभूतं, तोज्यं विरसं भवेत् ॥ सदन्नेपि हि शीते स्या-द्वैरस्यं किं पुनः परे ? ॥ ४७ ॥ तादृशं च विधायान्नं, भुञ्जानो मत्पिताऽनिशम् ॥ तृतीयः प्रोच्यते जाल्म-श्चतुथेस्तु भवान्मतः! ॥४८॥ आगमो हि कदाप्यत्र, न सम्भवति केकिनाम् ॥ तत्स्यात्कौतस्कुतः पात-स्तत्पिच्छस्येह कुट्टिमे ? ॥४९॥ अथात्रापि तदानीतं, स्यात्केनापीति चेत्तदा ॥ तस्य प्राग् निर्णयः कार्य-स्तद्रोमस्फुरणादिना ॥ ५० ॥ तं विना तु क्षिपन् पाणि-मस्मिंस्त्वं मूढ एव हि ! ॥ ततो-18 वादीन्नृपः सत्य-महं पादस्तुरीयकः ॥ ५१॥ दध्यौ च भूपतिरहो !, अस्या वचनचातुरी ॥ अहो बुद्धिरहोरूप-14 महो लावण्यमद्भुतम् ॥५२॥ पाणौकृत्य तदेनां खं, करोमि सफलं जनुः ॥ ध्यायन्निति निजं धाम, ययौ नृपतिरुत्सुकः ॥ ५३॥ तातं प्रभोज्य तस्याश्च, गतायां खगृहे नृपः ॥ प्रैषीचित्राङ्गदाभ्यणे, श्रीगुप्ताभिधधीसखम् ॥५४॥ तेनार्थितः पार्थिवार्थ, कनी कनकमञ्जरीम् ॥ चित्राङ्गदोवदधुक्त-मदः किन्त्वस्मि निर्धनः ॥५५॥ तद्विवाहोत्सवं राज्ञः, पूजाञ्च विदधे कथम् ? ॥ दुःस्थानां खुदरापूर्ति-रपि कृच्छ्रेण जायते ! ॥ ५६ ॥ सचिवेनाथ तद्वाक्ये, राज्ञः प्रोक्ते नृपोपि हि ॥ धनधान्यहिरण्याथै-स्तस्य गेहमपूरयत् ॥ ५७ ॥ शुभे चाहि महीशस्ता-मुपयेमे महामहैः ॥
॥२३॥
Page #463
--------------------------------------------------------------------------
________________
दिदौ च तस्यै प्रासादं, दासाद्यं च परिच्छदम् ॥ ५८ ॥ तस्य राज्ञोऽभवन् राज्यो, बहुलास्तासु चान्वहम् ॥ भूपते-1 नवमाध्य
यनम् सिसौधेगा-देकैका खखवारके ॥ ५९॥ तस्मिन्दिने तु भूपेना-दिष्टा कनकमंजरी ॥ ययौ दास्या समं राज्ञो, गेहं ||२||
नग्गतिचभूषणभूषिता ॥ ६० ॥ तत्रागमयमाना सा, नृपं तस्थौ तु विष्टरे ॥ राझ्यागते च विनय-मभ्युत्थानादिकं व्यधात्
रित्रम् ॥६१॥ भूपेऽथ सुप्ते शय्याया-मेवं मदनिकाभिधा ॥ पूर्वसङ्केतिता दासी, जगौ कनकमंजरीम् ॥ ६२॥स्वामिनि ५८-७२ त्वं कथां ब्रूहि, काञ्चित्कौतुककारिणीम् ॥ सा प्रोचे राज्ञि निद्राणे, कथयिष्यामि तामहम् ॥ ६३ ॥ तच्छ्रुत्वा भू
धयो दध्या-वस्याश्चातुर्यपेशले ॥ वचने श्रूयमाणे हि, शर्करा कर्करायते ॥ ६४ ॥ ततोऽनया वक्ष्यमाण-माख्यान-12 | महमप्यहो ! ॥ शृणोमीति नृपो ध्यायन् , सुष्वापालीकनिद्रया ॥६५॥ अथोचे मदना देवि !, सुप्तो राट् कथ्य-18 तां कथा ॥ साऽवदत्सावधाना त्वं, शृणु तां वच्मि तद्यथा ॥६६॥ श्रीवसंतपुरे श्रेष्ठी, वरुणाख्यो दृषन्मयम् ॥ अचीकरदेवकुल-मेकमेककरोच्छ्रयम् ॥ ६७ ॥ तत्र देवकुले देवं, चतुर्हस्तं न्यधत्त सः॥ तदाकर्ण्य जगी जात-कोतुका मदनेति ताम् ॥ ६८॥ एकहस्ते सुरगृहे, चतुर्हस्तः सुरः कथम् ? ॥ मातीति संशयं छिन्धि, स हि खाटकु-| रुते हृदि ॥ ६९ ॥ देवी माहाधुनायाति, निद्रा में तत्परेचवि ॥ इदं वक्ष्यामि ते को हि, निद्रासुखमुपेक्षते ? ॥७॥ एवमस्त्विति जल्पन्ती, ततोऽगान्मदना गृहम् ॥ अथो यथोचितस्थाने-ऽस्वपीत्कनकमंजरी ॥७१ ॥ भूपस्त्वचिन्तयदियं, वार्ता सङ्गच्छते कथम् ?॥ तस्या रहस्यं पृच्छामि, तदेनामधुनैव हि ॥७२॥ यद्वा वक्ष्यत्यसौ
पति जल्पन्ती, ततोऽयात्रा में तत्परेचवि ॥ इदं जमातीति संशयं छिन्धि, म
Page #464
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२३२॥
SASAROSAROSALM AUSA
जाल्म-मस्मिन् प्रश्ने कृते हि माम् ॥ अर्थोदिता च वार्ता सा-द्वल्लभातोपि वल्लभा॥ ७३ ॥ श्वस्तनेपि दिने दास्ये, नवमाध्य तदस्या एव वारकम् ॥ यथार्थकथिता वार्ता, श्रूयते खयमेव सा ॥ ७४ ॥ ध्यात्वेत्यदान्नृपस्तस्यै, द्वितीयेप्यहि वार- यनम् (९)
नग्गतिचकम् ! । तथैव राज्ञि सुप्ते ता-मदो मदनिकाऽवदत् !॥ ७५ ॥ तामोक्तां कथां हि, तयेत्युक्ते च साऽब्रवीत् ॥
रित्रम् त देवश्चतुर्भुजः सोऽभू-न तु तन्मानभूघनः ॥७६ ॥ अथाख्याहि कथामन्या-मेवं मदनयोदिता ॥ राज्ञी जगौ वने ७३-८६ क्वापि, रक्ताशोकट्ठमोऽभवत् ॥ ७७ ॥ शाखाशताकुलस्यापि, तस्य छाया तु नाभवत् ॥ जंगाद मदना तस्य, छाया न स्यात्तरोः कथम् ? ॥७८ ॥ साख्यत्तन्द्राकुलास्मीति, कल्ये वक्ष्याम्यदस्तव ॥ ततस्त भूप-स्तृतीयेप्यह्नि वारकम् ॥ ७९॥ प्राग्वन्मदनया पृष्टा, साथ प्रोचे महाशया ॥ तरोस्तस्याभवच्छाया-ऽधस्तादूद्धन्तु नाऽभवत् ॥८॥ आख्यानमन्यदाख्याही-त्युक्ता मदनया पुनः ॥ सावादीत काप्यभूदामे, कोपि दासेरपालकः ॥८१॥ तस्य चैको महाकायो, रवणोन्तर्वणं चरन् ॥ एकं बबूलमद्राक्षीत् , फलपुष्पभराकुलम् ॥ ८२ ॥ ततः स तं द्रुममभि-ग्रीवां प्रासारयन्मुहुः ॥ पत्रमात्रमपि प्राप, न तु तस्य महातरोः ॥८३॥ जातकोपस्ततस्तस्य, द्रुमस्योद्ध क्रमेलकः ॥
॥२३२॥ विण्मूत्रे व्यसृजत्को वा, कदर्येभ्यो न कुप्यति ? ॥ ८४ ॥ मदनाख्यन्मुखेनापि, यं न प्राप महाद्रुमम् ॥ तस्योपरि है शकृन्मूत्रे, स दासेरो व्यधात्कथम् ? ॥ ८५ ॥ राज्ञी जगाविदं कल्ये, वक्ष्ये निद्रामि साम्प्रतम् ॥ तुर्येप्यहि ततो है
राजा, तस्यै वारकमार्पयत् ॥ ८६॥ ततो दास्या तया पृष्टा, प्रोचे कनकमंजरी ॥ बबूलः स हि कूपेभू-तत्तं प्सातुं ।
Page #465
--------------------------------------------------------------------------
________________
स नाशकत् ॥ ८७ ॥ प्राग्वत्कथान्तरं पृष्टा, तया सा चैवमब्रवीत् ॥ भूपेन कापि केनापि, गृहीती द्वौ मलिम्लुचौ नवमाध्य४॥ ८८॥ मञ्जूषा निहिती ती च, नृपो नद्यामवाहयत् ॥ दयाद्रचेता न पुनरियामास तौ खयम् ॥ ८९॥ या- यनम्
नग्गतिचदन्ती नदीजले वीक्ष्य, तां पेटां केप्यकर्षयन् ॥ तां समुद्घाट्य ते चैव-मपृच्छंस्तौ विनिर्गतौ ॥९०॥ युवयोः क्षिप्त-दारित्रम
योरत्र, जज्ञिरे कति वासराः॥ अद्य तुर्य दिनमिति, तयोरेकोब्रवीत्तदा॥ ९१॥ कथं तुर्यमहर्जात-मिति पृष्टा भुजि- ८७-१०१ प्यया ॥ देब्यूचे श्व इदं वक्ष्ये, निद्राकालो धुपस्थितः ॥९२॥ पञ्चमेपि दिने राज्ञा, कौतुकादत्तवारका ॥ तथैव 5
दास्या पृष्टा चे-त्यूचे कनकमंजरी ॥९३ ॥ तृतीयज्वरवानासी-दित्यज्ञासीत्स तं दिनम् ॥ इत्युक्त्वा सा कथामन्यां, है दास्या पृष्टैवमत्रवीत् ॥ ९४ ॥ जज्ञिरे बहुला राज्यो, राज्ञः कस्यापि कुत्रचित् ॥ तासु चैकाभवत्तस्य, खप्राणेभ्योपि
वल्लभा ॥९५॥ राजीनां शङ्कयान्यासां, कलादैर्भूगृहस्थितैः ॥ स च तस्याः कृते छन्न-मलङ्कारानकारयत् ॥९६॥ को हि कालोधुनास्तीति, कलादास्तांश्च कौतुकात् ॥ कोप्यपृच्छत्तदा चैको, रात्रिरस्तीत्यभाषत ॥ ९७ ॥ तत्र रात्रिः कथं ज्ञाते-त्युक्ता राज्ञी भुजिष्यया॥प्रोचे प्रमीलाभ्येतीति, वक्ष्येऽनेधुरिदं तव ॥९८॥ षष्ठप्यहि नृपप्राप्त-वारका साथ
तांजगी॥भूगृहेपि निशान्धत्वा-त्स क्षपांज्ञातवानिति ॥९९॥ कथान्तरश्च पृष्टैवं, साख्यत्कस्यापि भूपतेः॥पेटांभूषणसइम्पूर्णा,निश्छिद्रां कोप्यढौकयत्॥१०॥ तस्यां चानुद्घाटिताया-मेवापश्यन्नृपोऽखिलान् ॥ तन्मध्यस्थानलंकारा-न्दा
स्याख्यत्स्यादिदं कथम् ? ॥१.१॥राज्ञी माह तवेदं श्वो, वदिष्यामि शयेऽधुना ॥प्राप्ताच वारकं प्राग्व-च्चेट्या पृष्टै
NARRAG
Page #466
--------------------------------------------------------------------------
________________
नवमाध्य
यनम् (९)
नग्गतिच
रित्रम्
१०२-११६
उत्तराध्ययन वमभ्यधात् ॥ १०२॥ बभूव पेटिका सा हि, स्वच्छस्फटिकनिर्मिता ॥ तत्तस्यां पिहितास्याया-मपि भूषा ददर्श ॥२३३॥
राट् ॥१०३॥ आख्यानैरीदृशैर्यावत् , षण्मासान् सा नरेश्वरम् ॥ व्यमोहयत्ततः सोभू-त्तस्यामेव रतो भृशम् ॥१०४॥ नृपाङ्गजा अप्यन्यास्तु, राज्ञी जल्पयन्नृपः ॥ ततस्ताः कुपिता नित्यं, तस्याश्छिद्राण्यमार्गयन् ॥ १०५ ॥ ऊचूश्चैवमयं भूपो-ऽनया नूनं वशीकृतः॥ कुलीना अपि नस्त्यक्त्वा, यदस्यामेव रज्यते ॥ १०६ ॥ चित्रकृत्तनया सा तु, सुधीमध्यंदिनेन्वहम् ॥ स्थित्वा गर्भगृहे हित्वा, वस्त्रभूषा नृपार्पिताः॥१०७॥ आमुच्य पितृसत्कानि, वस्त्राण्याभरणानि च ॥ एकाकिनी खमात्मान-मेवमुच्चैरबोधयत् ॥ १०८॥ [युग्मम् ] रे जीव ! मा मदं कार्षी-मा विधा
ऋद्धिगौरवम् ॥ मा विस्मापनिजां पूर्वा-वस्था प्राप्तोपि सम्पदम् ॥ १०९ ॥ अलङ्कारास्त्रपुमया, जीर्णानि वसनानि 18च ॥ निजानीमानि जानीहि, सर्वमन्यत्तु भूपतेः ॥११०॥ तदर्पमपहाय त्व-मात्मन् ! शान्तमना भव ॥ यथा
सुचिरमेतासां, पदं भवसि सम्पदाम् ॥ १११॥ अन्यथा तु नरेन्द्रस्त्वां, गृहीत्वा गलकन्दले ॥ निष्काशयिष्यति गृहात् , कुथिताङ्गी शुनीमिव ॥ ११२॥ तच्च तचेष्टितं दृष्ट्वा, दुष्टास्तुष्टाश्छलान्विषः॥ इत्यूचिरेऽपरा राइयो, जनेशं विजने स्थितम् ॥ ११३॥ यद्यपि त्वं प्रभोऽस्मासु, निःस्नेहोसि तथापि हि ॥ रक्षामस्त्वां वयं विघ्नात् , स्त्रियो हि पतिदेवताः ॥ ११४ ॥ त्वत्प्रिया सा हि कुरुते, कार्मणं किञ्चिदन्वहम् ॥ तया वशीकृतस्त्वं तु, न जानासि तदप्यहो! ॥ ११५॥ अथ राज्ञा कथमिद-मित्युक्तास्ताः पुनर्जगुः ॥ यदि प्रत्येषि न तदा, त्वं निरूपय केनचित्
॥२३३॥
Page #467
--------------------------------------------------------------------------
________________
नवमाध्ययनम् नग्गतिच
रित्रम्
११७-१२९
SARSWARORARBA%
PI॥११६ ॥ सा हि स्थित्वापवरके, पिधाय द्वारमन्वहम् ॥ कृत्वा कुवेपं मध्याह्ने, किञ्चिन्मुणमुणायते ! ॥११७॥
तन्निशम्य नृपस्तत्र, गतस्तद्वीक्षितुं खयम् ॥ प्राग्वत्खनिन्दां कुर्वत्या-स्तस्याः शुश्राव तां गिरम् ॥ ११८ ॥ ततस्तुष्टो नृपोध्यासी-दहो ! अस्याः शुभा मतिः ॥ अहो विवेकच्छेकत्व-महो मानापमाननम् ! ॥ ११९ ॥ मदोन्मत्ता भवन्त्यन्ये, खल्पायामपि सम्पदि ॥ असौ तु सम्पदुत्कर्ष, सम्प्राप्तापि न माद्यति !॥ १२०॥ तदस्याः सन्ति सर्वेपि, गुणा एवेति निश्चितम् ॥ राज्यस्त्वेता गुणमपि, दोषं पश्यन्ति मत्सरात् ! ॥ १२१॥ उक्तञ्च-"जाड्यं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम् ॥ शूरे निघृणता ऋजो विमतिता दैन्यं प्रियालापिनि ॥ तेजखिन्यवलिप्तता
मुखरता वक्तर्यशक्तिः स्थिरे ॥ तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ? ॥ १२२ ॥ध्यात्वेति भूपतिरस्तुष्टः, पट्टराज्ञी चकार ताम् ॥ गुणैर्महत्वमाप्नोति, जनो न तु कुलादिभिः ॥ १२३ ॥ नृपो विमलचन्द्राख्य- सूरि
पार्श्वे स चान्यदा ॥ समं कनकमअर्या, श्राद्धधर्ममुपाददे ! ॥१२४॥ साथ चित्रकृतः पुत्री, क्रमान्मृत्वा दिवं ययौ ॥ अविराधितधर्माणः, सुरेष्वेव ब्रजन्ति हि ॥ १२५॥ वैतात्ये तोरणपुरे, दृढशक्तिमहीपतेः ॥ सुता कनकमालाख्या, जज्ञे खर्गाच्युता तु सा ॥ १२६ ॥ तां प्राप्तयौवनां प्रेक्ष्य, रूपाढ्यां मोहितोन्यदा ॥ हृत्वानैपीदिह गिरौ, खेचरो वासवाभिधः ॥ १२७ ॥ विद्यया विहिते सद्यः, प्रासादेस्मिन् विमुच्य ताम् ॥ स व्यधाद्वेदिकामेना, यावदुद्वोढुमुद्यतः ॥ १२८ ॥ तावदत्रागतस्तस्या, अग्रजस्तां गवेषयन् ॥ योद्धमाङ्खास्त कनक-तेजास्तं खेचरं क्रुधा ॥ १२९ ॥ विद्या
।
Page #468
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२३४॥
SISUSTUSSRUSAASAASAARIS
बलोर्जितौ युद्धं, कुर्वन्तौ तुल्यविक्रमौ ॥ तावन्योन्यप्रहारेण, सद्योभूतां यमातिथी ॥ १३० ॥ खं तद्विनाशकी-1 नवमाध्यनाशं, निन्दन्ती वीक्ष्य तौ मृतौ ॥ चिरं रुरोद कनक-माला भ्रातृशुचाकुला ॥ १३१॥ तदा चात्रागतो वान- यनम् (९) मन्तराख्यः सुरोत्तमः॥ वत्से ! त्वं मम पुत्रीति, प्रेम्णा यावदुवाच ताम् ॥ १३२ ॥ सुतामन्वेषयंस्ताव-दृढशक्ति
| नग्गतिच| रिहाययौ ॥ ततः कनकमालां द्राक्, शबरूपां सुरोकरोत् ॥ १३३ ॥ अथ तान् पतितान् पृथ्व्यां, खपुत्रीपुत्रवास-15१३०-१४३ वान् ॥ विपन्नान् वीक्ष्य संविग्नो, दृढशक्तिरचिन्तयत् ॥ १३४ ॥ वासवेन सुतो नूनं, जन्ने तेन च वासवः ॥ सुता तु वासवेनैव, मार्यमाणेन मारिता ॥ १३५॥ तत्संसारेत्र दुःखाये, कृती को नाम रज्यते ? ॥ध्यात्वेति प्राब्रजद्विद्या-धरराजस्तदैव सः॥ १३६ ॥ मायां हत्वा ततो देवः, समं कनकमालया ॥ ननाम श्रमणं सोऽपि, किमेत-|| |दिति पृष्टवान् ? ॥ १३७॥ अथोक्ते भ्रातृपञ्चत्वो-दन्ते कनकमालया ॥ मया शबत्रयं दृष्टं, कथमित्यवदन्मुनिः ||8| ॥ १३८ ॥ सुरोथाचीकथन्माया, मयासौ तब दर्शिता ! ॥ मुनिः स्माह कुतो हेतो-माया मे दर्शिता त्वया ? ॥ १३९॥ देवोवादीत्तत्र हेतुं, दृढशक्तिमुने! शृणु ॥ क्षितिप्रतिष्ठितपुरे, जज्ञे विजितशत्रुराट् ॥१४०॥ स च चित्रकृतः
CIR॥२३४॥ पुत्री, नाम्ना कनकमंजरीम् ॥ उपयेमेन्यदा सा च, परमश्राविकाभवत् ॥ १४१॥ तया पञ्चनमस्कारा-दिना निया-मितो मृतः॥ तत्पिता चित्रकृद्वान-मन्तराख्यःसुरोभवत् ॥१४२॥सोहमत्राधुनायातो-ऽपश्यं शोकाकुलामिमाम् ॥ उत्पन्नभूरिप्रेमा चो-पयोगमवधेरदाम् ॥१४३॥असौ मे प्राग्भवसुते-त्यज्ञासिषमहं ततः॥ त्वाञ्च तत्क्षणमायान्तं, निरी-1
Page #469
--------------------------------------------------------------------------
________________
नवमाध्य. यनम् नग्गतिचरित्रम्
३
श्यैवमचिन्तयम् ॥१४४॥ पित्रा सहासौ गंत्रीति, भावी मे विरहोनया ॥ ध्यात्वेत्यदर्शयमिमां, मायया ते शबोपमाम् | ॥ १४५॥ त्वां च प्रव्रजितं प्रेक्ष्य, माया द्राक् संहृता मया ॥ तन्मे दुश्चेष्टितमिदं, सोढव्यं सुमुने! त्वया ॥१४६॥ धर्महेतुतया मे त्व-मुपकर्तासि तत्कुतः? ॥ इत्थमात्थेति सअल्पन्न-त्पपात मुनिस्ततः ॥ १४७॥ तदा कनकमालापि, श्रुत्वा वृत्तान्तमात्मनः॥ प्राप्ता जातिस्मृति सद्यो, ददर्श प्राग्भवं निजम् ॥ १४८ ॥ मत्पितायमिति प्रेम, सुरे सातत्र 8 विभ्रती ॥ तात! को मे वरो भावी-त्यप्राक्षीत्तं दिवौकसम् ॥ १४९ ॥ सुरोथावधिना ज्ञात्वा, प्रोचे प्राच्यस्तव प्रियः॥ राजा विजितशत्रुः स, देवीभूय च्युतो दिवः ॥ १५० ॥ दृढसिंह महीनेतुः, सुतः सिंहरथाह्वयः॥ जातो|स्ति मेदिनीभर्ता, भर्ता भावी स ते सुते ! ॥ १५१॥ [युग्मम् ] तत्सङ्गो मे कथमिह, भावीत्युक्तस्तया पुनः ?॥ सुरोवादीदिहागन्ता, वाजिनापहृतो हि सः ॥ १५२ ॥ तदुद्वेगं विहाय त्व-मिह तिष्ठ यथासुखम् ॥ अहं त्वदादेशकारी, स्थास्यामि तव सन्निधौ ॥ ५३॥ इत्युक्त्वा सपरीवारः, प्रासादेऽस्थादिहामरः ॥ तस्थौ कनकमालापि, तदभ्यणे सुरीवृता ॥ १५४ ॥ स्वामिन् ! कनकमालां तां, मामवेहि गुणोदधे !॥ स देवस्तु ययौ मेरु, चैत्यनत्यै गतेऽहनि ॥ १५५ ॥ ततस्त्वमपराह्ने म-त्पुण्याकृष्ट इहागमः॥ मन्मनोनयनाम्भोज-विभासनविभाकरः ॥ १५६ ॥ मया तूत्कण्ठया ताता-गमं यावत्प्रतीक्षितुम् ॥ अशक्तया त्वया साकं, खयमात्मा विवाहितः॥१५७ ॥ एप स्वामिन् खवृत्तान्तो, मया तुभ्यं निवेदितः ॥ इति तद्वाक्यमाकर्ण्य, जातिं सस्मार पार्थिवः ॥ १५८॥
उ.४०
Page #470
--------------------------------------------------------------------------
________________
उत्तराध्ययन अत्रान्तरे सुरवधू-युतस्तत्रागतः सुरः॥ प्रणेमे भूभुजा सोपि, तमुच्चैरभ्यनन्दयत् ॥१५९ ॥ ततो विवाहवृत्तान्ते, नवमाध्र॥२३५॥ शाप्रोक्ते कनकमालया॥ अत्यर्थ मुदितो देव-श्चिरं भूपमवार्तयत् ॥ १६० ॥ दिव्यं भोज्यं च मध्याहे, सभार्यो| नए)
नग्गतिच३ बुभुजे नृपः ॥ इत्थं स्थित्वा मासमेकं, सोन्यदेत्यवदत्प्रियाम् ॥-१६१ ॥ अरक्षकं भोज्यमिव, द्विका राज्यं ममारित्रम्
द्विषः ॥ उपद्रोष्यन्ति तद्न्तु-मनुमन्यख मां प्रिये !॥ १६२ ॥ सावदत्त्वत्पुरं दूरे, पादचारेण तत्कथम् ॥ इतो, १५९-१७२
यास्यसि तत्र त्वं, ततो वात्रागमिष्यसि ? ॥ १६३ ॥ तत्प्रज्ञप्ती महाविद्यां, गृहाण त्वं मदन्तिकात् ॥ ततो राजा ६ गृहीत्वा तां, विधिपूर्वमसाधयत् ॥ १६४ ॥ अगाच व्योममार्गेण, प्रियां पृष्ट्वा निजं पुरम् ॥ लोकैः पृष्टश्च सकलं, || यथावृत्तमचीकथत् ॥ १६५ ॥ ततः कृतोत्सवाः पौराः, प्रोचुरेवं सविस्मयाः॥ अहो ! भूमीविभोर्भाग्या-भ्युदयो ||
भुवनाद्भुतः ॥ १६६ ॥ सम्पदामास्पदेप्यन्ये, विन्दन्ति विपदं विशः ॥ असौ तु भाग्यवान् व्याप-दास्पदेप्याप । सम्पदम् ॥ १६७ ॥ भूप्रियस्तु प्रियां ध्यायन् , पञ्चमेहि ययौ नगम् ॥ दिनानि कतिचित्तत्र, स्थित्वायासीत्पुनः पुरे ||४|| ४॥ १६८॥ एवं मुहुर्मुहुः शैले, ब्रजन्तं तं नृपं प्रजाः ॥ नगेस्मिन् गतिरस्येति, नाम्ना नग्गतिमूचिरे ॥ १६९ ॥
॥२३५ |तं चान्यदा गतं तस्मि-नद्रावित्यवदत्सुरः॥ आदेशं खप्रभोः कर्तु, यास्याम्यहमितोधुना ॥ १७०॥ यद्यप्येनां |विहायाहं, कापि नो गन्तुमुत्सहे ॥ अनुलंध्यां प्रभोराज्ञां, तथाप्युलंघये कथम् ॥ १७१ ॥ कालक्षेपश्च मे भूयान्, भविता तत्र भूपते ! ॥ इतः स्थानाच नान्यत्र, सुता मे लप्स्यते रतिम् ॥ १७२ ॥ तद्यथैकाकिनी न स्या-दसौ
Page #471
--------------------------------------------------------------------------
________________
रित्रम्
कार्य तथा त्वया ॥ मद्वियोगेन्यथा दुःख-मस्या भूरि भविष्यति ॥ १७३ ॥ इत्युदीर्य गते देवे, तस्या धृतिकृते नृपः॥ नवमाध्यअकारयन्नगे तत्र, नगरं नव्यमुत्तमम् ॥ १७४ ॥ प्रलोभ्य लोकांश्चानेकान् , पुरे तत्र न्यवासयत् ॥ चैत्यान्यचीक-|| यनम्
नग्गतिचरत्तेप. जिना श्च न्यवीविशत् ॥ १७५ ॥ ग्रामान् सहस्रशस्तत्रा-रण्ये चावासयन्नपः॥ तच राज्यद्वयं सम्यक, शशा-13 सोदप्रशासनः ॥ १७६ ॥ न्यायेन पालयन् राज्यं, क्रीडन् कनकमालया ॥ जिनांश्च पूजयन्नित्यं, स त्रिवर्गमसाधयत् १७३-१८७ ॥ १७७ ॥ सोथ कार्तिकराकाया-मन्यदा सैन्यसंयुतः॥ नरेन्द्रो नगराद्राज-पाटिकायै विनिर्ययौ ॥ १७८॥ तदा च पल्लवातानं, मञ्जरीपुअपिञ्जरम् ॥ माकन्दमेकमद्राक्षी-च्छत्राकारं सदाफलम् ॥ १७९॥ चूतस्य तस्य कान्तस्य, मङ्गलार्थमिलापतिः ॥ आददे मजरीमेकां, शेषामिव सुधाभुजः ॥ १८० ॥ सैन्यलोकास्ततः सर्वे, पत्रपल्लवमञ्जरीः ॥ आदाय दारुशेषं तं, सहकारं वितेनिरे ॥ १८१ ॥ गत्वारामं निवृत्तोथ, तत्रायातः क्षणान्तरे ॥ आम्रः कम्रः स कुत्रेति, राजा पप्रच्छ मंत्रिणम् ॥ १८२ ॥ मंत्रिणा च तरौ तस्मिन् , काष्ठशेषे प्रदर्शिते ॥ ईदृशोसौ । कथमभू-दित्यपृच्छत् पुनर्नृपः॥ १८३॥ उवाच सचिवो वाचं, खामिन्नस्य महातरोः ॥ जगृहे मजरी पूर्व-मेका युष्माभिरुत्तमा ॥ १८४ ॥ इत्यमुं सैनिकाः सर्वे, पत्रपुष्पफलादिकम् ॥ गृहीत्वा चक्रुरश्रीकं, धनिनं तस्करा इव ॥ १८५ ॥ तदाकर्ण्य नृपो दध्यौ, चञ्चलत्वमहो! श्रियाम् ॥ यत्तादृशोप्यसौ चूतः, क्षणान्निःश्रीकतां ययौ ! ॥ १८६ ॥ यदेव तुष्टि कृत्पूर्व, स्यात्तदेव क्षणान्तरे ॥ जायतेऽनीदृशं वान्ति-समये भोजनं यथा ! ॥ १८७ ॥ यथा हि
९
१२
Page #472
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२३६॥
बुद्धदाटोपः, सन्ध्यारागश्चन स्थिरः ॥ सम्पदोपि तथा सर्वा, न स्थिरा इति निश्चितम् ॥१८८॥ यस्तु मोहेन जानाति, नवमाध्यवालिशः सम्पदं स्थिराम् ॥ शाश्वतीं मन्यते मन्दः, स हि सौदामिनीमपि ॥ १८९ ॥ ततो दुष्कर्मतामिस्र-तमिस्रा- यनम् (९)
नग्गतिचकल्पयानया॥ आयतौ दुःखदायिन्या, कृतं मे राज्यसम्पदा ॥१९०॥ एवं विमृश्यादृतसाधुधर्मः, प्रत्येकबुद्धश्चतुरश्चतुर्थः ॥
| रित्रम् गान्धारराड़ नग्गतिनामधेयः, पृथ्व्यां व्यहार्षीत्सुरदत्तवेषः ।। १९१ ॥ इति नग्गतिनृपकथा ॥ ४ ॥ ततश्च- १८८-१९१ | राज्येषु न्यस्य पुत्रांस्ते, चत्वारोप्यातव्रताः ॥ क्षितिप्रतिष्ठितपुरे, विहरन्तोन्यदा ययुः ॥१॥ तत्र चाभूचतु- प्रत्येकबुद्धार-मेकं यक्षनिकेतनम् ॥ तस्मिंश्च व्यन्तरो मूर्ति-स्थितः पूर्वामुखोभवत् ॥ २ ॥ करकण्डुमुनिस्तत्र, पूर्वद्वारा वक्तव्यता प्रविष्टवान् ॥ अपाचीसंमुखद्वारा, द्विमुखश्च महामुनिः॥३॥ पराङ्मखः कथं साधो-स्तिष्ठामीति विचिन्तयन् ॥ १-१० तदापरं व्यधाद्यक्षो, दक्षिणाभिमुखं मुखम् ॥ ४॥ नमिस्तु पश्चिमद्वारा, प्राविशद्यक्षमन्दिरे॥ ततोपि वदनं प्राग्वतृतीयमकरोत्सुरः ॥ ५॥ नग्गतिस्त्वविशत्तत्रो-त्तरद्वारा गुणोत्तरः॥ यक्षश्चके ततोप्यास्यं, ततश्चाभूचतुर्मुखः ॥६॥ करकण्डोस्तु सा रूक्ष-कण्डूदेहे तदाप्यभूत् ॥ ततः स कण्डूयनकं, लात्वाऽकण्डूयत श्रुतिम् ॥ ७ ॥ तेन सङ्गो-|| प्यमानं च, तद्वीक्ष्य द्विमुखोब्रवीत् ॥ त्यक्तं राज्यादि चेत्सर्व, तदादः सञ्चिनोषि किम् ? ॥ ८॥ तेनेत्युक्तोपि ॥२३६॥ नो किञ्चित् , करकण्डुर्यदावदत् ॥ तदा द्विमुखराजर्षि, नमिसाधुरदोभ्यधात् ॥९॥ त्यतराज्यादिकार्यापि, निग्रेन्थोपि भवान् खयम् ॥ करोति कार्य चेदन्य-दोषप्रेक्षणलक्षणम् ॥१०॥ किमर्थं तर्हि राज्यस्थो-धिकृतान् कृत
*
*
Page #473
--------------------------------------------------------------------------
________________
वान् भवान् ॥ परापराधवीक्षायै, क्रियन्ते हि नियोगिनः ॥ ११ ॥ इदानीं तु नियोगित्वं, निःसङ्गस्योचितं न ते ॥ तच्छ्रुत्वा नमिमित्यूचे, नग्गतिर्गतदुर्गतिः ॥ १२ ॥ यदि सर्व विहाय त्वं, मोक्षायोद्यच्छसे मुने ! ॥ तदा किमर्थ - ३ मन्यस्य, निन्दां वितनुषे वृथा ? ॥ १३ ॥ करकण्डुरथाचख्यौ, मोक्षाकांक्षिषु भिक्षुषु ॥ वारयन्नहितं साधु-निन्दकः कथ्यते कथम् ? ॥ १४ ॥ या रोषात्परदोषोक्तिः, सा निन्दा खलु कथ्यते ॥ सा तु कस्यापि नो कार्या, मोक्षमार्गानुसारिभिः ॥ १५ ॥ हितबुद्ध्या तु या शिक्षा, सा निन्दा नाभिधीयते ॥ अत एव च सान्यस्य, कुप्यतोपि प्रदीयते ॥ १६ ॥ यदार्थ - "रूसऊ वा परो मा वा विसं वा परिअत्तउ || भासिअवा हिआ भासा सपक्खगुणकारिआ ॥ १७ ॥" अनुशिष्टिमिमां शिष्टा- मुदितां करकण्डुना ॥ ते त्रयोप्युररीचक्रु - विजहुश्च यथारुचि ॥ १८ ॥ पुष्पो त्तरविमानात्ते, चत्वारोपि सहच्युताः ॥ सहोपात्तत्रता मोक्षं, सहैवासादयन् क्रमात् ॥ १९ ॥ इति प्रत्येकबुद्धानां, चतुर्णा शमशालिनाम् ॥ सम्प्रदायानुसारेण, चरितं परिकीर्तितम् ॥ २० ॥ कल्याणकारि नरकारि विकारहारि, प्रत्येकबुद्धचरितं दुरितापहारि ॥ इत्थं निशम्य शमशाखिघनानुकारि, भव्या भजन्तु सुकृतं भुवनोपकारि ॥ २१ ॥ इति समाप्ता प्रसङ्गागता प्रत्येकबुद्धवक्तव्यता ॥
६
ॐॐॐॐॐॐ - BB BF এ2-2-এ22 এर और घर-घर घर-घर - 2 2 52. এF - এॐ ॐ ॐ ४
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्री मुनिविमलगणिशिष्य भुजिष्योपाध्यायश्रीभावविजयगणि समर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ नवमाध्ययनं सम्पूर्णम् ॥ ९ ॥
Birobato codovabrao abvab anvayabababoo on an abvp के कककक ovarobar avasvarapraavana
नवमाध्य. कनम् प्रत्येकबुद्ध
वक्तव्यता
११-२१
Page #474
--------------------------------------------------------------------------
________________
"सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । “आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥"
॥ इति नवमाध्ययनं सम्पूर्णम् ॥
"वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥"
Page #475
--------------------------------------------------------------------------
________________
॥ अथ दशमाध्ययनम् ॥
दशमाध्ययनम्
गौतमवKI ॥ अर्हम् ॥ व्याख्यातं नवमाध्ययनं, सम्प्रति द्रुमपत्रकाख्यं दशममारभ्यते, अस्यचायं सम्बन्धः, इहानन्तराध्ययने धर्म- व्यता
प्रति निष्कम्पत्वमुक्तं, तच्चानुशासनादेव स्यादिति अनुशासनाभिधायकमिदमारभ्यते, अनेन सम्बन्धेनायातस्यास्याध्यय-8] १-८ नस्य प्रस्तावनार्थ गौतमं प्रति श्रीमहावीरेणेदमुक्तमिति इहोपयोगिनी गौतमवक्तव्यता तावत्काचिदुच्यते। तथा हि
अत्राभूद्भरतक्षेत्रे, खलक्ष्मीनिर्जितालका ॥ समग्रनगरीप्रष्ठा, पृष्ठचम्पाभिधा पुरी ॥ १॥ तस्यां सालमहासालनामानौ सोदरावुभौ ॥ राजराजिगुणौ राज-युवराजौ बभूवतुः ॥ २ ॥ जामियशोमती संज्ञा, पिठरो भगिनीपतिः॥ गागिलि गिनेयश्चा-मेयबुद्धिस्तयोरभूत् ॥ ३॥ तस्याञ्च पुर्यामन्येद्यु-विहरन् जगदीश्वरः ॥ श्रीवीरः समवासापी-10 व्याम्भोजनभोमणिः ॥ ४ ॥ ततः सालमहासालौ, सार्वं वन्दितुमुद्यतौ ॥ महा जग्मतुः प्राज्य-प्रमोदभरमेदुरौ ॥ ५॥ जिनं नत्वा च सद्भक्त्या यथास्थानं न्यषींदताम् ॥ सर्वज्ञोपि जगौ धर्म, संसाराम्भोधितारकम् ॥ ६॥ तमाकर्ण्य विरक्तात्मा, जिनं नत्वा गृहं गतः ॥ राज्यमेतद्गृहाणेति, सालः सोदरमब्रवीत् ॥ ७ ॥ सोवादीन्मम || राज्येन, कृतं दुर्गतिदायिना ॥ प्रव्रजिष्याम्यहमपि, भवोद्विग्नस्त्वया समम् ॥ ८॥ जामेयं गागिलिं राज्ये, स्थाप
Page #476
--------------------------------------------------------------------------
________________
S
३
उत्तराध्ययन थायित्वा महोत्सवैः ॥ ततः सालमहासालौ, प्राब्राजिष्टां जिनान्तिके ॥९॥ विहरन्तौ च तौ नित्यं, श्रीवीरवामिना दशमाध्य. समम् ॥ एकादशाङ्गीमन्यूनां, पेठतुः शुद्धधीनिधी ॥ १० ॥ अन्यदा प्रस्थितं चम्पां, प्रति राजगृहात् पुरात् ॥ प्रभु
हायनम् (१०) ॥२३८॥
गौतमवसालमहासालौ, प्रणिपत्येत्यवोचताम् ॥ ११॥ नगयों पृष्टचम्पायां, प्रतिबोधयितुं निजान् ॥ खामिन्नावां यिया
क्तव्यता सावो, यद्यनुज्ञां प्रयच्छसि ॥१२॥ अमूढलक्ष्यो भगवां-स्ततस्तौ गौतमान्वितौ ॥ आदिशत्तां पुरी गन्तुं, तेपि ९.२३
तत्र ययुः क्रमात् ॥१३॥ तत्र काञ्चनपाथोजे, निविष्टो नाकिनिर्मिते ॥ श्रीगौतमश्चतुर्ज्ञानी, प्रारंभे धर्मदेशनाम् 18|॥ १४ ॥ श्रुत्वा गागलिभूपोपि, तमायातं समातुलं ॥ यशोमतीपिठरयुग , ययौ वन्दितुमुत्सुकः ॥१५॥ हर्षो
त्कर्षोल्लसद्रोम-हर्षो नत्वाथ तान्नपः ॥ उपविश्य यथास्थान-मश्रौषीद्धर्मदेशनाम् ॥ १६ ॥ संसारासारतासारां, ताञ्चाकर्ण्य विरक्तधीः॥ गागलिनगरी गत्वा-गजं राज्ये न्यवीविशत् ॥ १७॥ पितृभ्यां सहितः प्राज्य-रुत्सवै|श्चाददे व्रतम् ॥ गौतमखामिपादान्ते, दान्तात्मा मेदिनीपतिः॥१८॥ ततःसालमहासाल-गागल्यादिभिरन्वितः॥ |गणी गन्तुं जिनाभ्यर्णे-ऽचलच्चम्पापुरी प्रति ॥ १९॥ तदा सालमहासाला-वित्यचिन्तयतां मुदा ॥ यद्भवात्तारितान्येता-न्येतद्भव्यमभूदृशम् ॥ २०॥ तदा च दध्युरित्यन्त-र्गागल्याद्या अपि त्रयः ॥ अहो ! सालमहासालावस्माकमुपकारिणौ ॥ २१॥ एताभ्यां हि वयं पूर्व, राज्यश्रीभाजनीकृताः ॥ इदानीं तु महानन्द-प्रापकं प्रापितं व्रतम् ॥ २२ ॥ इत्यादिध्यानदावाग्नि-ध्वस्तकल्मषभूरुहः ॥ मुक्तिमन्दिरनिश्रेणिं, क्षपकश्रेणिमाश्रिताः ॥२३॥
ASSAMSUNSORRHOREOG
॥२३८॥
Page #477
--------------------------------------------------------------------------
________________
दशमाध्य
यनम् गौतमवकव्यता २४-३६
मोहमत्तेभपञ्चत्व-पञ्चास्या मार्ग एव ते ॥ चञ्चत्प्रपञ्चं पञ्चापि, पञ्चमज्ञानमासदत् ! ॥ २४ ॥ [ युग्मम् ] जिना| भ्यणं गतास्तेथ. गौतमखामिना समम् ॥ प्रदक्षिणीकृत्य जिनं, जग्मुः केवलिपर्पदि ॥ २५॥ ततस्तान् गौतमः प्रोचे-ऽनभिज्ञा इव भोः ! कथम् ? ॥ यूयं यात समायात, वन्दध्वं भुवनप्रभुम् ॥ २६ ॥ जिनान्माऽऽशातयेत्युक्तः,
श्रीवीरेणाथ गौतमः ॥ तत्क्षणं क्षमयित्वा ता-निति दध्यौ निजे हृदि ॥ २७॥ दुर्भगं हरिणाक्षीव, भजतेद्यापि |मां न हि ॥ केवलज्ञानलक्ष्मीस्त-हिं सेत्स्यामि नाथवा ? ॥ २८ ॥ इति चिन्तयतः श्रीम-दिन्द्रभूतिगणेशितुः ॥ असौ सुराणां संलापः, कर्णजाहमगाहत ॥ २९ ॥ जिनेनाद्योदितं यो हि, जिनान्नमति भूचरः॥ खलब्ध्याष्टापदं गत्वा, स हि तद्भवसिद्धिकः ॥ ३० ॥ इति देववचः श्रुत्वा-ऽष्टापदं गन्तुमुद्यतः॥ पप्रच्छ गौतमः सार्व-सार्वभौम कृताञ्जलिः ॥ ३१॥ ततस्तापसबोधाय, तस्य स्थैर्याय च प्रभुः ॥ तत्र गन्तुं तमादिक्ष-दमोघाज्ञा हि पारगाः ॥३२॥ निधानं सर्वलब्धीनां, ततः श्रीगौतमप्रभुः ॥ भक्त्याभिवन्ध तीर्थेशं, प्रतस्थेष्टापदं प्रति ॥ ३३ ॥ | इतश्च कोडिन्नदिन्न-सेवालास्तापसास्त्रयः ॥ तापसानां पञ्चशत्या, प्रत्येकं परिवारिताः ॥ ३४ ॥ मुक्तिरष्टापदारोहा-द्विशामीति विभोर्वचः ॥ श्रुत्वा जनाननात्पूर्व, प्रस्थिताः सन्ति तं प्रति ॥ ३५ ॥ [ युग्मम् ] उपवासतपास्तेषु, प्रथमः सपरिच्छदः ॥ कन्दादिभोजनो भेजे, तस्याद्ररादिमेखलाम् ॥ ३६॥ षष्ठकारी द्वितीयस्तु, पक्कपत्रादि
NAGACASRANAGAROCAR
Page #478
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२३९॥
दशमाघ्ययनम् (१०) गातमय क्तव्यता ३७-४९
भोजनः॥ द्वितीयां मेखलां प्राप, सतंत्रस्तस्य भूभृतः ॥ ३७॥ तृतीयस्त्वष्टमतपाः, शुष्कशेवालपारणः ॥ तस्याद्रेः सपरीवार-स्तृतीयां प्राप मेखलाम् ॥ ३८ ॥ न तु कोपि गिरेस्तस्य, क्लिश्यमानोप्यगाच्छिरः॥ गम्यं गरुत्मतो मेरु- शृङ्गं किं यान्ति केकिनः ? ॥ ३९ ॥ अथ ते तापसाः सर्वे, खतेजोविजितारुणम् ॥ आयान्तं गौतमं प्रेक्ष्या-चिन्त- यन्निति विस्मिताः!॥४०॥ तपःकृशाङ्गा अपि नो, यत्रारोढुं-क्षमा वयम् ॥ गरिष्ठकायस्तत्राय-मारोक्ष्यति कथं यतिः ? ॥४१॥ उचैर्मुखेषु तेष्वेवं, चिन्तयत्खेव गौतमः ॥ जङ्घाचारणलब्ध्यार्क-रश्मीनालम्ब्य सञ्चरन् ॥४२॥
तेषामुपर्यागा-क्षणाचागाददृश्यताम् ॥ जवनैः पवनैः प्रेय-माणो मेघ इवोच्चकैः ॥४३॥ [युग्मम् ] तापसास्ते तु तं प्रोचैः, प्रशंसन्तो व्यचिन्तयन् ॥ अस्य शिष्या भविष्यामो-ऽमुष्मादुत्तरतो गिरेः॥४४॥ गौतमस्तु गतः शैल-मौलौ भरतकारितम् ॥ हृतावसादं प्रासादं, दर्शनीयं ददर्श तम् ॥४५॥ मानवान्वितानादि-जिनादीन् स्थापनाजिनान् ॥ ननाम नित्यप्रतिमा-प्रतिमांस्तत्र च प्रभुः ॥४६॥ साक्षादिव जिनांस्तांश्च, दर्शदर्श प्रमोदभाक्॥ | सन्तुष्टावातिसन्तुष्ट-चेता इति गणाधिपः ॥४७॥ “जगचिंतामणि जगनाह जगगुरु जगरक्खण, जगबंधव जगसत्थवाह जगभावविअक्खण ॥ अट्टावयसंठविअरूव कम्मट्ट विणासण, चउवीसं वि जिणवर जयंतु अप्पडिहयसासण ॥४८॥ इति स्तुत्वा च नत्वा च, चैत्यान्निर्गत्य गौतमः ॥ उवास रात्रिवासाया-ऽशोकोऽशोकतरोस्तले ॥४९॥
१ शाश्वतप्रतिमातुल्यान् ॥
॥२३९॥
Page #479
--------------------------------------------------------------------------
________________
दशमाध्ययनम् गौतमवक्तव्यता ५०-६४
*SHREG455555
__ इतश्च धनदः शक्र-दिक्पालो नन्तुमर्हतः ॥ तत्रायातो जिनान्नत्वा, ववन्दे गणिनं मुदा ॥ ५० ॥ देशनायां गणेशोपि, तत्त्वत्रयनिरूपणे ॥ इति साधुगुणानूचे, गुरुतत्त्वं प्ररूपयन् ॥ ५१ ॥ "महाव्रतधरास्तीत्र-तपः शोषितविग्रहाः ॥ अन्तप्रान्ताशनास्तुल्य-शत्रुमित्रा जितेन्द्रियाः ॥ ५२ ॥ निष्कषाया महात्मानः, साधयो गुरवः स्मृताः ॥ तारयन्ति परं ये हि, तरन्तः पोतवत्खयम् ! ॥५३॥ [युग्मम् ]" तकृत्वा गणिगात्रं च, वीक्ष्यातिमृदु पीवरम् ॥
श्रीदो दध्यौ विसंवादि, वचोस्य खवपुष्यपि ॥ ५४ ॥ अन्तप्रान्ताशनत्वे हि, नेदृक् स्यादङ्गसौष्ठवम् ॥ इति वैश्रमणः ४ किञ्चि-जहास विकसन्मुखः !॥ ५५ ॥ ततो ज्ञात्वा तदाकूतं, चतुर्ज्ञानी जगौ प्रभुः ॥ ध्यानमेव प्रमाणं स्यात् , | तनुत्वं न तनोःपुनः ॥ ५६ ॥ अस्य संशयपङ्कस्य, क्षालनाय जलोपमम् ॥ श्रीपुण्डरीकाध्ययनं, शृणु वित्तेश ! तद्यथा ॥ ५७ ॥ विजये पुष्कलावत्यां, विदेहावनिमण्डने ॥ नगर्या पुण्डरीकिण्यां, महापद्मनृपोभवत् ॥५८॥ तस्य पद्मावतीराज्ञी-कुक्षिजौ सुन्दराकृती ॥ पुण्डरीककण्डरीका-भिधौ पुत्रौ बभूवतुः ॥ ५९॥ तस्यां नगर्यामन विराः समवासरन् ॥ उद्याने नलिनवने, त्रिदशा इव. नन्दने ॥६०॥ तान् प्रणम्य महापद्मः, श्रुत्वा धर्म विरक्तधीः ॥ गत्वा पुर्या पुण्डरीकं, न्यधाद्राज्य महामहः ॥६१॥ कण्डरीकञ्च संस्थाप्य, यौवराज्यग्रहीद्वतम् ॥ पुण्डरीकमहाराज-कृतदीक्षामहो नृपः ॥६२॥ अधीत्य सर्वपूर्वाणि,क्रमात्सम्प्राप्तकेवलः॥ मासिकानशनेनागा-त्स राजर्षिः परं पदम् ॥ ६३॥ अथान्येयुः पावयन्तो, धरां चरणरेणुभिः॥त एव स्थविरास्तत्र, भूयोपि समवासरन् ॥६॥
SASHARA
Page #480
--------------------------------------------------------------------------
________________
PR
उत्तराध्ययन तांश्च श्रुत्वाऽऽगतान् हृष्टः, पुण्डरीकः प्रणम्य च ॥ निशम्य देशनां सम्यक, श्राद्धधर्ममुपाददे ॥६५॥ कण्डरी
| दशमाध्य. कोपि तान्नत्वा, श्रुत्वा धर्ममदोवदत् ॥ आदास्येहं भवोद्विग्नः, प्रव्रज्यां युष्मदन्तिके ॥ ६६ ॥ तद्यावद्भूपमापृच्छया
शयनम् (१०) ॥२४॥
गौतमवगच्छाम्यहमिह प्रभो ! ॥ तावत्पूज्यैरिह स्थेयं, कुर्वाणैर्मय्यनुग्रहम् ॥ ६७ ॥ प्रतिबन्धं मा कृथास्त्व-मित्युक्तो गुरु- कव्यता भिस्ततः॥ कण्डरीको द्रुतं गत्वा, पुर्यामित्यग्रजं जगौ ॥ ६८॥-मया गुरोर्जिनवचो, लब्धमधेरिवामृतम् ॥ आरो- ६५-७९ ४ ग्यमिव वैराग्यं, तत्प्रभावान्ममाभवत् ॥ ६९ ॥ तद्युष्माभिरनुज्ञातो, व्रतमादातुमुत्सहे ॥ नृजन्म हारयेत्को हि,
प्रमादेन धुरत्नवत् ? ॥ ७० ॥ पुण्डरीकोऽब्रवीन्मास्मा-धुनाकापीव्रतग्रहम् ॥राज्यं ददामि ते मुंव, भोगान् गृह्णाम्यहं व्रतम् ॥ ७१॥ कण्डरीकोभ्यधाद्भोगै, राज्येन च कृतं मम ॥ व्रतमेव हि मेभीष्टं, बुभुक्षोरिव भोजनम् ॥७२॥ पुण्डरीकोवदद्वत्स !, साधुधर्मोतिदुष्करः ॥ त्याज्यानि वतिनां पाप-स्थानान्यष्टादश ध्रुवम् ॥ ७३ ॥ ब्रह्मव्रतं च धर्तव्यं, दुर्धरं सुरशैलवत् ॥ मनो निधेयं सन्तोष, विधेयं च गुरोर्वचः ॥ ७४ ॥ बाहुभ्यां वार्द्धितरण-मिव तहुकरं व्रतम् ॥ त्वञ्चातिसुकुमारोसि, शीतोष्णादिव्यथासहः ॥ ७५॥ दीक्षादानं ततो वत्स!, साम्प्रतं साम्प्रतं न ते ॥ ॥२४॥
भुक्तभोगो बताभोग-मगीकुर्या यथासुखम् ॥ ७६ ॥ कण्डरीकोलपत् क्लीव-नराणां दुष्करं व्रतम् ॥ परलोकार्थिनां 1-धीर-पुंसां तन्नैव दुष्करम् ॥ ७७ ॥ तन्मे दत्त व्रतानुज्ञां, द्रुतमित्यनुजो वदन् ॥ भूभुजा व्रतमादातुं, कथमप्यन्व-18
मन्यत ॥ ७८ ॥ कण्डकरीकस्ततः प्राज्य-रुत्सवैव्रतमाददे ॥ अधीत्यैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ ७९ ॥
Page #481
--------------------------------------------------------------------------
________________
| यनम्
अथान्यदा तस्य तना-वन्तप्रान्ताशनादिभिः ॥ दाहज्वरादयो रोगा, बभूवुरतिदुःसहाः ॥ ८॥ अनाचारैर्यश8 दशमाध्यइवा-मयैः पीडामयैश्च तैः ॥ तत्तनुस्तनुतां भेजे, वैवण्य चाहि चन्द्रवत् ॥ ८१॥ पुनरप्यन्यदा तत्र, कण्डरीकेण|
गौतमवक्तसंयुताः॥ त एवाब्दसहस्रेण, स्थविराः समवासरन् ॥ ८२ ॥ तान्निशम्यागतो भूपो, नत्वा शुश्राव देशनाम् ॥
व्यतान्तर्गकण्डरीकं नमन् भूरि-रोगं तद्वपुरैक्षत ॥ ८३॥ राजाथ स्थविरानूचे, प्रासुकैर्भपजादिभिः॥ चिकित्सां कारयि
तं पुण्डरीप्यामि, कण्डरीकमहामुनेः ॥ ८४ ॥ तद्यूयं मे यानशाला-मलकुरुत सूरयः !॥ इत्युक्ता भूभृता तेपि, तत्र गत्वा- ककण्डरीवतस्थिरे ॥ ८५ ॥ चिकित्सका नृपादिष्टा, विविधैरौषधादिभिः ॥ कण्डरीकं क्रमाचकु-निरामयकलेवरम् ॥ ८६ ॥ कवर्णनम् ततो भूजानिमापृच्छय, स्थविरा व्यहरंस्ततः ॥ श्रमणानां हि नैकत्र, स्थितिरायतिशोभना ॥ ८७ ॥ कण्डरीकस्तु
८०-९३ नाचाली-द्राजभोज्येषु गृद्धिमान् ॥ जिह्वेन्द्रियं हि जीवानां, मनोवहुजेयं स्मृतम् ॥८८ ॥ तच ज्ञात्वा पुण्डरीकस्तत्रागत्यानमच्छिराः ॥ तं त्रिप्रदक्षिणीकृत्या-वादीदेवं कृताञ्जलिः ॥ ८९॥ धन्यस्त्वं कृतकृत्यस्त्वं, त्वया सफ-15 |लितं जनुः॥ सन्त्यज्य राज्यभार्यादि, सर्व यत्स्वीकृतं व्रतम् ! ॥९॥ अहं त्वधन्यो निःसारं, भूरिदुःखजलार्ण
वम् ॥ रिपुतस्करदायादा-धीनं विद्युल्लताचलम् ॥ ९१॥ विपाककटुकानित्यं, विषयावादसुन्दरम् ॥ अप्यवश्यं परि18 त्याज्यं, राज्यं न त्यक्तुमीश्वरः ॥ ९२ ॥ [ युग्मम् ] इत्येकशो नृपेणोक्तः, स मुनिौनमाश्रयत् ॥ द्विस्त्रिरुक्तस्तु ||
मन्दाक्ष-विलक्षो व्यहरत्ततः॥ ९३॥ किञ्चित्कालं व्यहार्षीच, गुरुभिः सममुन्मनाः ॥ दुरावेश इवासाध्यः, प्राणि
Page #482
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२४॥
नां हि दुराशयः ॥ ९४ ॥ अन्यदा तु ब्रतोद्विग्नः, परिभ्रष्टशुभाशयः ॥ कण्डरीको गुरून् मुक्त्वा, जगाम नगरी | दशमाध्यनिजाम् ॥ ९५ ॥ तत्र भूपगृहोपान्त-स्थितोशोकतरोरधः ॥ न्यषीदद्गतसर्वख, इव चिन्ताशताकुलः ॥ ९६ ॥ तदानम् (१०) |च पुण्डरीकस्य, धात्री तत्र समागता ॥ शोकाम्भोनिधिमग्नं तं, दृष्ट्वा राज्ञे न्यवेदयत् ॥९७॥ ततो गुणोपि दोषाय, गीतमवक्त
व्यतान्तर्ग. जात इत्यवधारयन् ॥ सान्तःपुरपरीवारो, भूपस्तत्राययो द्रुतम् ॥ ९८ ॥ तं त्रिप्रदक्षिणीकृत्य, नत्वा चोवाच पूर्व-INIK वत् ॥ सत्वधान्मौनमेवैकं, दुष्टग्रहगृहीतवत् ॥ ९९ ॥ भूयो भूयोभ्यधात्को हि, हित्वा खर्नरकं श्रयेत् ॥ काचख- ककण्डरीण्डमुपादत्ते, को वा त्यक्त्वा मरुन्मणिम् ? ॥१०० ॥ प्राज्यं साम्राज्यमुत्सृज्य, को वा वाञ्छति निःखताम् ॥ को कवर्णनम् वा मुक्त्वा व्रतं भोगान् , कांक्षति क्षणभङ्गुरान् ॥१०१॥ सत्यप्येवं यदि स्यात्ते, भोगेच्छा तर्हि कथ्यताम् ॥ ददा-16
९४-१०८ त्यनुचितं वस्तु, प्रार्थनामन्तरा हि कः ? ॥ १०२ ॥ भोगवाञ्छा ममास्तीति, हित्वा ब्रीडां व्रती जगौ ॥ ततस्तस्मै | नृपो राज्यं, पापभारमिवार्पयत् ॥ १०३॥ लोचं कृत्वा चतुर्याम, धर्म च प्रतिपद्य सः ॥ कण्डरीकात्साधु लिङ्गं, सुखपिण्डमिवाददे ॥ १०४ ॥ गुरूपान्ते परिव्रज्य, भोक्ष्येहमिति निश्चयी ॥ सोचालीदिशमुद्दिश्य, तत्पादाम्भोजपाविताम् ॥ १०५॥ कण्डरीकस्तु तत्रैव, दिने सुबहुभोजनम् ॥ चखादादृष्टकल्याण, इवोचैद्धिमुद्वहन् ॥१०६॥8॥२४॥ प्रणीतमतिमात्रं त-न्मन्दाग्नस्तस्य भोजनम् ॥ अजीर्यमाणं विदधे, वेदनामतिदारुणाम् ॥ १०७॥ पापोयमिति नीरागैः, सचिवाद्यैरुपेक्षितः ॥ सोथ व्यथानदीपूरे, प्लवमानो व्यचिन्तयत् ॥ १०८॥ सम्प्राप्तव्यसनं नाथ-मुपेक्षन्तेत्र ये
Page #483
--------------------------------------------------------------------------
________________
जडाः ॥ विपक्षेभ्योतिरिच्यन्ते, सेवका अपि ते ध्रुवम् ॥ १०९॥ ततोहं यदि जीवामि, तदोपेक्षाविधायिनः ॥ सपु-|
दशमाध्यत्रपौत्रान मंत्र्यादीन् , घातयाम्यखिलानपि !॥ ११॥ रौद्रध्यानमिति ध्यायन् , क्रूरस्तन्दुलमत्स्यवत् ॥ राज्यादौर यनम् मूछितो बाढं, जम्बाल इव शूकरः ॥१११॥ सोभूद्विपद्य ज्येष्ठायु- रकः सप्तमावनौ ॥ अन्ते हि यादृशी बुद्धि- गौतमवक्तस्तादृश्येव गतिभवेत् ॥११२॥
व्यतान्तर्ग
तं पुण्डरी| पुण्डरीकोथ सम्प्राप्य, गुरून धर्म प्रपद्य च ॥ शीतरूक्षारसाहारै-श्चकाराष्टमपारणम् ॥११३॥ तैश्चाहारैरभूत्तस्य, कण्डरीदेहसन्देहकृयथा ॥ तथापि स्थैर्यमास्थाय, स राजर्षिरदोवदत् ॥ ११४॥ नमोहद्भयो भगवद्भ्यः, सम्प्राप्तेभ्यः परम्पदम्॥ कवर्णनम् सिद्धेभ्यः स्थविरेभ्यश्च, साधुभ्यश्च नमो नमः ॥ ११५॥ गुरूपान्ते मया पूर्व-मुपात्तास्ति चतुव्रती ॥ इदानीमपि
१०९-१२२ संसारा-र्णवनावं श्रयामि ताम् ॥ ११६ ॥ जिनादीनामदीनोहं, शरणं खीकरोमि च ॥ प्रान्ते चाभीष्टमप्येत-द्वयुत्सृजामि निजं वपुः ॥ ११७ ॥ कृतकृत्य इति प्राप्य, पञ्चत्वं स महामुनिः ॥ त्रयस्त्रिंशत्सागरायुः, सर्वार्थे त्रिदशोभवत् ॥ ११८ ॥ ततश्चयुत्वा विदेहेषु, प्राप्य नृत्वं स सेत्स्यति ॥ खयंवरा भवेत्सिद्धिः, प्राणिनां हि सधर्मणाम् ॥ ११९ ॥ तस्मात्कृशत्वपीनत्वे, नो हेतू पुण्यपापयोः ॥ कारणे तु तयोः श्रीद !, ध्याने एव शुभाशुभे| ॥ १२० ॥ कृशोपि पश्य दुर्ध्याना-त्कण्डरीको ययावधः ॥ पुष्टोपि पुण्डरीकस्तु, शुभध्यानात्सुरोभवत् ॥ १२१॥ अहो ! खामी ममाकृत-मज्ञासीदिति विस्मितः॥ धनदो जातसंवेग-स्तं नत्वा ह्याश्रयं ययौ ॥ १२२॥ श्रीदसा
Page #484
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२४२॥
मानिको वज्र-खामिजीवस्तदा मुदा ॥ सम्यक्त्वं प्राप तं चान्ये, भाषन्ते जृम्भकामरम् ॥ १२३ ॥ स च पञ्चशती- दशमाध्यमानं, तदध्ययनमग्रहीत् ॥ नत्वा च गणिनं पुण्या-शयः खाश्रयमाश्रयत् ॥ १२४ ॥ प्रभाते च गणी नत्वा, जिने- यनम् (१०) न्द्रानुत्तरन् गिरेः॥प्रोचे तैस्तापसैस्त्वं नो, गुरुः शिष्याश्च ते वयम् ॥ १२५ ॥ गौतमः स्माह युष्माक-मस्माकं च गौतमव
क्तव्यता गुरुर्जिनः ॥ ते प्रोचुः किमु युष्माक-मप्यन्यो विद्यते गुरुः ? -१२६ ॥ गणी जगाद सर्वज्ञः, सुरासुरनमस्कृतः ॥
१२३-१३६ जितरागो जयति मे, गुरुवीरो जगद्गुरुः ॥ १२७॥ तदाकर्ण्य प्रमुदिता-स्ते सर्वे तापसोत्तमाः ॥ देवार्पितयतिवेषाः, प्राजन् गौतमान्तिके ॥ १२८ ॥ तैश्च सार्धं चलन् भिक्षा-काले जातेथ तान् गणी ॥ किं भोजनं युष्मदर्थमानयामीति पृष्टवान् ? ॥१२९ ॥ प्राज्यैः पुण्यगुरुरसौ, प्राप्तोवाञ्छितदायकः ॥ तदद्य हृद्यैरशनै-स्तपैयामःक्षुधानलम् ! ॥१३०॥ इति ते मुदिताः सर्वे-प्यूचिरे त्वत्प्रसादतः ॥ परमात्मन् ! भवतु नः, परमान्नेन पारणम् ॥१३१॥ ततो गतो गणी पार्थ-ग्रामे केनापि भक्तितः ॥ खण्डाज्यपायसैः प्राज्यः, प्रासुकैः प्रत्यलम्भ्यत ॥ १३२॥ पतद्वहस्तदापूर्ण-स्तत्पाणौ दिद्युते तदा ॥ पूर्णेन्दुरिव तद्वत्र-लीलां शिक्षितुमागतः ! ॥ १३३ ॥ अथायान्तं करस्थैकपात्रं तं प्रेक्ष्य साधवः ॥ इति ते चिन्तयन्नूनं, पश्चादेष्यति पायसम् ॥ १३४ ॥ इयता त्वमुना नो नो, भावीनि ।
॥२४२॥ तिलकान्यपि ॥ यद्वाचिन्त्यप्रभावेस्मिन् , कृतं चिन्तनयानया॥ १३५ ॥ प्रभुस्त्वागत्य विधिव-त्परिपाट्या निवेश्य तान् ॥ अभोजयद्यथाकामं, पायसं परिवेषयन् ! ॥ १३६ ॥ अक्षीणमहानसया, लब्ध्या तत्पात्रसंस्थितम् ॥ नाक्षय
464907
Page #485
--------------------------------------------------------------------------
________________
त्पायसं ताव-दपि वार्द्धरिवोदकम् ॥ १३७ ॥ एकोत्तरा पञ्चशती, तदा शेवालभक्षिणाम् ॥ इति दध्यावहो भाग्यम
&ा दशमाध्यस्माक मुदितोदितम् !॥१३८॥ आश्रयं सर्वलब्धीना-मोषधीनामिवाद्रिराट् ॥ प्रवर्तकः सन्मार्गाणां, तटिनीनामिवाम्बुदः । यनम् ॥१३९ ॥ प्रशास्ता शस्तशास्त्राणां, दिग्देशानामिवार्यमा ॥ यशोभिश्च महोभिश्च, न्यञ्चयंश्चन्द्रभास्करौ ॥१४॥
गौतमव
क्तव्यता सिद्धिपुर्याः सार्थवाहो, लोकोत्तरगुणाकरः ॥ यदयं मिलितः खामी, कृपारसमहोदधिः ॥ १४१॥[ त्रिभिविशे
१३७-१५१ षकम् ] किञ्च प्रसादादस्यैव, लब्धो बोधिः सुदुर्लभः ॥ जगचिन्तामणिः श्रीमान् , वीरखामी च नंस्यते ॥ १४२॥ तदिदानी भवाम्भोधि-रस्माभिस्तीर्ण एव हि ॥ व्याप्तो जन्मजरारोग-मरणादिजलोर्मिभिः ॥ १४३ ॥ इत्यादिध्यानमाहात्म्या-द्धाना एव ते क्षणात् ॥ सौहित्यमिव सम्प्रापुः, केवलज्ञानमुज्वलम् ॥ १४४ ॥ अथ सर्वेषु तृप्तेषु, गणेशो बुभुजे स्वयम् ॥ तान् विस्मितान् सहादाय, भूयोपि प्राचलत्पुरः ॥ १४५ ॥ क्रमात्समवसरण-समीपभुवमीयुषाम् ॥ दिन्नादीनां प्रातिहार्य-लक्ष्मीमाप्तस्य पश्यताम् ॥ १४६ ॥ एकोत्तरपञ्चशती-मितानां षष्ठकारिणाम् ॥ |उत्पेदे केवलज्ञानं, पूर्वोक्तध्यानयोगतः॥ १४७॥[युग्मम् ] तावतामेव कोडिन्न-प्रमुखानां तु तत्क्षणम् ॥ सर्वज्ञं पश्यतां जज्ञे, पञ्चमज्ञानसङ्गमः ॥ १४८ ॥ अथ प्रदक्षिणीचक्रे, तैवृतो गणभृजिनम् ॥ ग्रहब्रजैः परिवृतः, सुमे
रुमिव चन्द्रमाः॥ १४९ ॥ तांश्चैवमत्रवीद्वीक्ष्य, ब्रजतो जिनपर्षदि ॥ भो भो ! यूयमिहायात, नमत त्रिजगद्गुरुम् PI॥ १५०॥ जिनान्माऽऽशातयेत्युक्त-स्ततो भगवतागणी ॥ मिथ्यादुष्कृतपूर्वतान् , क्षमयित्वेत्यचिन्तयत् ॥ १५१॥
CALCURRICROSECRESS
Page #486
--------------------------------------------------------------------------
________________
दशमाध्ययनम्(१०) गौतमव|क्तव्यता
उत्तराध्ययन है। गुरुकर्मा ह्यहं नास्मिन् , भवे प्राप्स्यामि निर्वृतिम् ॥ अमी महीक्षिता धन्या-स्तत्कालोत्पन्नकेवलाः ॥ १५२ ॥ ॥२४॥
कुर्वाणमेवमधृति-मिन्द्रभूतिगणाधिपम् ॥ इति स्माह महावीर-वामी विश्वैकवत्सलः ॥१५३॥ अष्टापदासिद्धिरिति, किं ग्राह्यं दैवतं वचः॥ यद्वा जिनानामायुष्मन् !, जिनानामिति सोप्यवक् ॥ १५४ ॥ प्रभुः स्माहाधृतिं तन्मा-कापीः स्नेहा यदङ्गिनाम् ॥ भवन्ति सुण्ठद्विदल-चर्मोण्णाकटसन्निभाः ॥ १५५ ॥ चिरन्तनात्परिचयात् , तवोर्णाकटसन्निभः ॥ प्रणयो वर्त्ततेस्मासु, प्राप्यते तन्न केवलम् ॥ १५६ ॥ यो हि वित्तवधूज्ञाति-रागत्यागनिवन्धनम् ॥ रागोहदुरुधर्मादौ, प्रशस्तः कथितो जिनैः ॥ १५७ ॥ सोप्यायुष्मन् ! यथाख्यातं, प्रतिबन्नाति संयमम् ॥ रविं विना दिनमिव, तं विना नहि केवलम् ॥ १५८ ॥ गते त्वस्मद्गते रागे, ध्रुवं ते भावि केवलम् ॥ आवामितश्युतौ तुल्यौ, भविष्यावो धृतिं कुरु ॥ १५९ ॥ इत्थमुदीर्य तदा हितशिक्षा, तस्य मुनिप्रकरस्य च दातुं ॥ अध्ययनं द्रुमपत्रकसंज्ञं, स्माह जिनो जगतीहितमेतत् ॥ १६० ॥ इत्युक्ता प्रस्तावना, साम्प्रतं सूत्रमनुस्त्रियते, तचेदम्__ मूलम्-दुमपत्तए पंडुअए जहा, निवडइ राइगणाणमच्चए।
एवं मणुआण जीविअं, समयं गोअम ! मा पमायए ॥१॥ व्याख्या-द्रुमो वृक्षस्तस्य पत्रं पर्ण द्रुमपत्रं तदेव द्रुमपत्रकं, 'पंडुअएत्ति' आपत्वात् पाण्डरकं कालपरिणामात्तथाविधरोगादेर्वा जातश्चेतभावं, यथा येन प्रकारेण निपतति शिथिलवृन्तबन्धनत्वाद्भश्यति । 'राइगणाणंति' रात्रि
॥२४३॥
Page #487
--------------------------------------------------------------------------
________________
दशमाध्ययनम्
गणानां दिनगणाविनाभावित्वाद्रात्रिंदिवसमूहानां, अत्यये अतिक्रमे 'एवंति' एवंप्रकारं मनुष्याणामुपलक्षणत्वात्सर्वजीवानां जीवितमायुः, तदपि हि रात्रिदिनगणानामतिक्रमे यथास्थित्या अध्यवसायादिकृतोपक्रमेण वा भ्रश्यतीत्येवमुच्यते । यतश्चैवमतः समयमपि आस्तामावलिकादि, अपेर्गम्यमानत्वात् , हे गौतम ! हे इन्द्रभते ! मा प्रमादीर्मा प्रमादं कृथाः, शेषशिष्योपलक्षणञ्चेह गौतमग्रहणं, सर्वेषामनुशासनार्थत्वादस्य । अत्र च पाण्डुरकपदाक्षिप्तं यौवनस्याप्यनित्यत्वं प्रकटयितुं नियुक्तिकारो गाथात्रयमाह-"परिअट्टिअलायण्णं, चलंतसंधिं मुअंतविंटागं ॥ पत्तं वसणप्पत्तं, कालप्पत्तं भणति गाहं ॥ १ ॥” परिवर्तितं कालपरिणामादन्यथाकृतं लावण्यं सौकुमार्यादिरूपमस्येति परिवर्तितलावण्यं, तथा चलत्सन्धिं, अत एव 'मुअंतविंटागंति' मुञ्चद्वन्तं त्यजद्वन्तं यस्य तत्तथा पतदित्यर्थः । पत्रं पर्ण, व्यसनमापदं प्राप्त व्यसनप्राप्त, कालं प्रक्रमात्पतनप्रस्ताव प्राप्तं कालप्रासं, भणति गाथां पल्लवान् प्रतीति शेषः ॥ १॥ तामेवाह-"जह तुम्हे तह अम्हे, तुम्भे वि अ होहिआ जहा अम्हे ॥ अप्पाहेइ पडतं, पंडुअपत्तं किसलयाणं ॥२॥" यथेति सादृश्ये ततो यथा यूयं सम्प्रति किसलयभावं प्राप्ताः स्निग्धत्वादिगुणैर्गर्वमुद्वहथ अस्मांश्चोपहसथ तथा वयमप्यतीतदशायामभवाम, तथा यूयमपि भविष्यथ यथा वयं विवर्णविच्छायतयोपसहनीयानीति भावः । 'अप्पाहेइत्ति' पुत्रस्य पितेव हितमुपदिशति, पतत्पाण्डुपत्रं किसलयानां ॥२॥ ननु किमेवं पाण्डुपत्रपल्लवानामुल्लापः सम्भवति ? येनैवमुच्यत इत्याह-"नवि अत्थि नवि अ होही
Page #488
--------------------------------------------------------------------------
________________
उत्तराध्ययन | उल्लावो किसलपंडपत्ताणं ॥ उवमा खलु एस कया, भविअजणविबोहणटाए ॥३॥" स्पष्टा । यथा चेह किसल
दशमाध्य. यानि पाण्डुपत्रेणानुशिष्यन्ते तथान्योपि यौवनगर्वितोऽनुशासनीयः। “तथा चोक्तं वाचकमुख्यैः-"परिभवसि किमिति यनम् (१०) ॥२४४॥ लोकं, जरसा परिजर्जरीकृतशरीरम् ॥ अचिरात्त्वमपि भविष्यसि, यौवनगवे किमुद्वहसि ?॥१॥" तदेवं जीवित
गा २-३ यौवनयोरनित्यतां ज्ञात्वा प्रमादो न विधेय इति सूत्रार्थः ॥ १॥ भूयोप्यायुष एवानित्यत्वमाह
मूलम्-कुसग्गे जह ओसबिंदुए, थोवं चिट्टइ लंबमाणए।
एव मणुआण जीविअं, समयं गोयम मा पमायए ॥ २॥ व्याख्या-कुशाग्रे यथा अवश्यायबिन्दुकः शरत्कालभाविश्लक्ष्णवर्षविन्दुः, खार्थे कप्रत्ययः, स्तोकमल्पं कालमिति 8 शेषः, तिष्ठति लम्बमानको मनाए निपतन् । वद्धास्पदो हि कालान्तरमपि क्षमतेत्येवं विशिष्यते, एवमनुजानामीत्यादि प्राग्वदिति सूत्रार्थः ॥२॥ उक्तार्थमुपसंहरन्नुपदेशमाहमू-इइ इत्तरिअंमि आउए, जीविअए बहुपच्चवायए। विहुणाहि रयं पुरेकडं,समयं गोयम मा पमायए ३/४
व्याख्या-इत्युक्तन्यायेन इत्वरे खल्पकालभाविनि “एति उपक्रमहेतुभिरनपवर्त्यतया यथावद्धं तथैवानुभवनी-8॥२४४॥ यतां गच्छतीति आयुः" तचैवं निरुपक्रममेव तस्मिन् , तथा अनुकम्पितं जीवितं जीवितकं, च शब्दस्य गम्यत्वात्तस्मिंश्च, अर्थात् सोपक्रमायुषि, बहवः प्रभूताः प्रत्यपाया नाशहेतवोऽध्यवसायादयो यस्मिंस्तत्तथा तस्मिन् । अनेन
1806AXBARU MARES
REXHOSASSAR
Page #489
--------------------------------------------------------------------------
________________
दशमाध्य
यनम्
गा४-५
चानुकम्प्यत्वे हेतुः सूचितः, एवञ्चोक्तरूपद्मपत्रदृष्टान्तजलबिन्दुदृष्टान्ताभ्यां मनुजायुर्निरुपक्रमं सोपक्रमं च तुच्छमित्यतोस्यानित्यतां ज्ञात्वा 'विहुणाहित्ति' विधुनीहि जीवात् पृथक्कुरु, रजः कर्म, 'पुरेकडंति' पुरा तत्कालापेक्षया पूर्व कृतं विहितं तत् विधुननोपायमाह-समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥३॥ न च पुनर्तृत्वावाप्तौ धर्मोद्यमः करिष्यत इति ध्येयं, यतः
मूलम्-दुलहे खलु माणुसे भवे, चिरकालेणवि सबपाणिणं ।
___ गाढा य विवाग कम्मुणो, समयं गोयम मा पमायए ॥ ४॥ व्याख्या-दुर्लभो दुष्प्रापः खलुर्विशेषणे, अपुण्यानामिति विशेषयति, मानुषो मनुष्यसम्बन्धीभवो जन्म, चिरकालेनापि प्रभूतकालेनापि, आस्तां स्वल्पकालेनेत्यपिशब्दार्थः, सर्वप्राणिनां सर्वजीवानां । कुत इत्याह-गाढा विना
शयितुमशक्याः, च इति यस्मात् , विपाका उदयाः कर्मणां नरगतिविघातिप्रकृतिरूपाणां, यत एवमतः समयमपीदत्यादि प्राग्वदिति सूत्रार्थः ॥४॥ कथं पुनर्मनुजत्वं दुर्लभमिति सूत्रदशकेनाहमूलम्-पुढविकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए॥५॥
व्याख्या-पृथिवीकायमतिगतः प्राप्तः 'उक्कोसंति' उत्कर्षतो जीवः, तुः पूरणे, संवसेत्तद्रूपतयैवावतिष्ठते, कालं संख्यातीतं असंख्येयोत्सर्पिण्यवसर्पिणीरूपं, अतः समयमपीत्यादि प्राग्वत् ॥ ५॥
Page #490
--------------------------------------------------------------------------
________________
उत्तराध्ययन
दशमाध्ययनम् (१०) गा ६-१२
॥२४५॥
६
मूलम्-आउक्कायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखाईयं, समयं गोयम मा पमायए ॥६॥ मूलम्-तेउकायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखाईअं, समयं गोअम मा पमायए ॥७॥ मूलम्-वाउकायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखाईअं, समयं गोयम मा पमायए॥८॥ ___ व्याख्या-इदं सूत्रत्रयं पृथ्वीसूत्रवद्याख्येयम् ॥ ६॥ ७ ॥८॥
मूलम्-वणस्सइकायमइगओ,उक्कोसंजीवो उ संवसे। कालमणंतं दुरंतं,समयं गोयम मा पमायए ॥९॥ | व्याख्या-इदमपि प्रागवत् , नवरं-अनन्तं अनन्तोत्सर्पिण्यवसर्पिणीरूपं, साधारणापेक्षश्चैतत् । दुष्टः अन्तोऽस्येति | दुरन्तस्तं,एतदपि साधारणापेक्षमेव । ते ह्यत्यन्ताल्पवोधत्वेन तत उदृत्ता अपि न प्रायो विशिष्टं मानुषादिभवमाप्नुवन्ति ९॥ मू-बेइंदिअकायमइगओ, उक्कोसंजीवो उसंवसे। कालं संखिजसण्णिअं,समयं गोयम मा पमायए १० तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे।कालं संखिज्जसपिणअं, समयं गोयम मा पमायए ११ चउरिंदियकायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखिजसण्णिअं, समयं गोयम मा पमायए १२ व्याख्या-इदमपि सूत्रत्रयं स्पष्टं,नवरं-कालं संखिजसण्णिअंति'संख्येयसंज्ञितं संख्यातवर्षसहस्रात्मकम् ।१०।११।१२॥
॥२४५॥
Page #491
--------------------------------------------------------------------------
________________
*
*
दशमाध्य
यनम् गा १३-१६
*
*
*
मूलम्-पंचिंदियकायमइगओ, उक्कोसं जीवो उ संवसे। सत्तट्ठभवग्गहणे, समयं गोयम मा पमायए १३|| __व्याख्या–पञ्चेन्द्रिया उत्तरत्र देवनारकयोरभिधास्यमानत्वान्मनुष्यत्वस्य च दुर्लभतया प्रक्रान्तत्वात्तिर्यञ्च एवेह 8 गृह्यन्ते, 'सत्तट्टत्ति' सप्त वा अष्ट वा सप्ताष्टानि भवग्रहणानि जन्मोपादानानि, तत्र सप्त भवाः संख्यातायुषि, अष्टम-11 स्त्वसंख्यातायुषीति ॥ १३॥ मूलम्-देवे नेरइए अइगओ,उक्कोसं जीवो उ संवसे।इक्किकभवग्गहणे,समयं गोयम मा पमायए १४, ___ व्याख्या-देवान्नैरयिकांश्चातिगत उत्कर्षतो जीवः संवसेत् एकैकभवग्रहणं, अतः समयमपि गौतम ! मा प्रमा-13 दीरिति सूत्रदशकार्थः ॥ १४ ॥ उक्तमेवार्थमुपसंहरन्नाहमूलम्-एवं भवसंसारे, संसरइ सुभासुभेहिं कम्मेहिं । जीवो पमायबहुलो,समयं गोयम मा पमायए १५ ।
व्याख्या-एवमुक्तन्यायेन भवास्तिर्यगादिजन्मान्येव संसारो भवसंसारस्तस्मिन् , संसरति पर्यटति, शुभाशुभैः कर्मभिः पृथ्वीकायादिभवहेतुभिः, जीवः प्रमादबहुलोऽतः समयमपीत्यादि प्राग्वदिति सूत्रार्थः ॥ १५ ॥ इत्थं नृत्वदौर्लभ्यमुक्तमथ तदवाप्तावपि उत्तरोत्तरगुणा दुर्लभा एवेति सूत्रपञ्चकेनाहमू-लद्धूणविमाणुसत्तणं,आरिअत्तं पुणरवि दुल्लहावहवे दसुआ मिलक्खुआ,समयं गोयम मा पमायए१६
**
*
Page #492
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २४६ ॥
३
१२
व्याख्या— लब्ध्वापि कथंञ्चिन्मानुषत्वं, आर्यत्वं, मगधाद्यार्यदेशोत्पत्तिरूपं पुनरपि भूयोपि दुर्लभं । कुत एवमि त्याह-यतो बहवो दस्यवो देशप्रत्यन्तवासिनचौराः, 'मिलक्खुअत्ति' म्लेच्छा अव्यक्तवाचो यदुक्तं आर्यैर्नावधार्यते, ते च शकयवनादिदेशोद्भवाः । येषु धर्माधर्मगम्यागम्य भक्ष्याभक्ष्यादिज्ञानविकलेषु पशुप्रायेष्ववाप्यापि मानुष्यं जन्तुर्न कञ्चिदप्यर्थं साधयतीति । अतः समयमपीत्यादि प्राग्वत् ॥ १६ ॥
मूलम् — लडूणवि आरिअत्तणं, अहीणपंचिंदिअया हु दुलहा । विगलिंदिया हु दीसइ, समयं गोयम मा पमाय ॥ १७ ॥
व्याख्या - इत्थमतिदुर्लभमप्यार्यत्वं लब्ध्वा अहीनपञ्चेन्द्रियता हुरवधारणे भिन्नक्रमश्च ततो दुर्लभैव, कुतः ? इत्याह - विकलानि रोगादिभिरुपहतानीन्द्रियाणि येषां ते तथा तद्भावो विकलेन्द्रियता, हुरितिनिपातो निपाता| नामनेकार्थत्वाद्वाहुल्यवाचकस्ततश्च यतो बाहुल्येन विकलेन्द्रियता दृश्यते इत्यहीनपञ्चेन्द्रियता दुर्लभैवेति । समयमित्यादि प्राग्वत् ॥ १७ ॥
मूलम् - अहीणपंचंदिअत्तंपि से लहे, उत्तमधम्मसुई हु दुलहा । कुतित्थिनिसेवए जणे, समयं गोयम मा पमायए ॥ १८ ॥
दशमाध्य यनम् (१०) गा १७-१८
॥ २४६ ॥
Page #493
--------------------------------------------------------------------------
________________
१२
उ० ४२
व्याख्या— कथमप्यहीनपञ्चेन्द्रियत्वमपि स जन्तुर्लभेत, तथाप्युत्तम धर्मश्रुतिस्तत्व श्रवणात्मिका, हुरवधारणे भिन्नक्रमश्च ततो दुर्लभैव । किमिति ? यतः कुतीर्थिनिषेवकः शाक्यादिपाखण्डिपर्युपासको जनो लोकः, कुतीर्थिनो हि लाभाद्यार्थिनो यदेव प्राणिनां प्रियं तदेवोपदिशन्ति, तत्तीर्थकराणामप्येवंविधत्वात् । उक्तञ्च - "सत्कारयशोलाभा - र्थिभिश्च मूढैरिहान्यतीर्थंकरैः ॥ अवसादितं जगदिदं प्रियाण्यपथ्यान्युपदिशद्भिः । १ ।” इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः १ ततः समयमित्यादि प्राग्वत् ॥ १८ ॥
मूलम् — लडूणवि उत्तमं सुईं, सद्दहणा पुणरवि दुलहा ।
मिच्छत्तनि सेवए जणे, समयं गोअम मा पमाय ॥ १९ ॥
व्याख्या— लब्ध्वापि उत्तमां श्रुतिं जिनप्रणीतधर्मश्रवणरूपां श्रद्धानं तत्त्वरुचिरूपं पुनरपि दुर्लभं । तत्र हेतुमाह - | मिथ्यात्वमतत्वे तत्वमिति प्रत्ययः तन्निषेवते यः स मिध्यात्वनिषेवको जनोऽनादिभवाभ्यासाद्गुरुकर्मत्वाच्च प्रायस्तत्रैव प्रवृत्तेरतः समयमित्यादि प्राग्वत् ॥ १९ ॥
मूलम् - धम्मंपि हु सद्दहंतया, दुल्लहया कारण फासया ।
इह कामगुणेसु मुच्छिआ, समयं गोअम मा पमायए ॥ २० ॥
4
दशमाध्ययनम् गा १९-२०
Page #494
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २४७ ॥
३
६
१२
व्याख्या - धर्म प्रस्तावात्सर्वज्ञोक्तं, अपिर्भिन्नक्रमः, दुर्वाक्यालङ्कारे, ततः 'सद्दहंतयत्ति' श्रद्दधतोपि कर्तुमभिलपतोपि दुर्लभकाः कायेन अङ्गेन स्पर्शकाः कर्त्तारः, हेतुमाह - इह जगति कामगुणेषु शब्दादिषु मूर्च्छिता गृद्धा जन्तव इति शेषः, प्रायेण हि रोगिणामपथ्यमिवाहितकारिणोप्यनुकूला विषयाः प्राणिनां प्रियाः स्युरित्यतो दुरापां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः ॥ २० ॥ किञ्च सति देहसामर्थ्य धर्मस्पर्शनेति तदनित्यताकथनेनाप्रमादोपदेशं सूत्रपट्केनाह
मूलम् - परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से सोअबले अ हायइ, समयं गोअम मा पमाय ए २१
व्याख्या -- परिजीर्यति सर्वप्रकारैर्वयोहानिमनुभवति ते तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्प्यमिति शरीरकं । केशाः पाण्डुरकाः, पूर्व जनमनोनयनहारिणोत्यन्तं श्यामा अपि भूत्वा साम्प्रतं वयः परिणामात् शुक्ला भवन्ति ते तव पुनस्ते शब्दोपादानं भिन्नवाक्यत्वाददुष्टं । तथा 'से इति' तत् यत् पूर्वमभूत् श्रोत्रबलं कर्णबलं दूरादपि शब्दोपादानरूपं, चः समुच्चये, हीयते जरातः स्वयमपैति । अतः शारीरसामर्थ्यस्यास्थिरत्वात्समयमित्यादि प्राग्वत् २१ मूलम् - परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते। से चक्खुब ले अ हायई, समयं गोअम मा पमायए २२ | मूलम् - परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से घाणबले अ हायई, समयं गोअम मा पमायए २३
दशमाध्ययनम् (१०) गा २१-२३
॥ २४७ ॥
Page #495
--------------------------------------------------------------------------
________________
दशमाध्य
यनम् गा२४-२७
मूलम्-परिजूरइ ते सरीरयं,केसा पंडुरया हवंति ते।से जिब्भबले अहायई,समयं गोअम मा पमायए२४
मूलम्-परिज़रइ ते सरीरयं,केसापंडुरया हवंति ते।से फासवले अहायई,समयं गोअम मा पमायए२५ ३||मूलम्-परिजूरइ ते सरीरयं,केसा पंडुरया हवंति ते।से सबबले अ हायई,समयं गोअम! मा पमायए२६ * व्याख्या-इदमपि सूत्रपञ्चकं प्राग्वन्नयं, नवरं 'सबबलेत्ति' सर्वेषां करचरणाद्यवयवानां वलं खखव्यापारसामर्थ्य
इह च प्रथमं श्रोत्रोपादानं तद्भावे शेषेन्द्रियाणां सद्भावेन पटुतरत्वेन च प्राधान्यादिति सूत्रपदकार्थः ॥ २६ ॥ जरातः शरीराशक्तिरुक्ता, अथ रोगेभ्यस्तामाह
मूलम्-अरई गंडं विसूईआ, आयंका विविहा फुसंति ते।
___ विवडइ विद्धंसइ ते सरीरयं, समयं गोयम मा पमायए ॥ २७ ॥ व्याख्या-अरतिर्वातादिजनितश्चित्तोद्वेगः, गंडं गडः, विसूचिका अजीर्णविशेषः, आतङ्काः सद्योघातिनो रोगविशेषाः, विविधा बहुप्रकाराः स्पृशन्ति ते तव शरीरमिति शेषः । ततश्च 'विवडइत्ति' विशेषेण पतति बलोपचयादिपैति, विध्वस्यति जीवमुक्तमधः पतति ते शरीरकमतो यावजरा रोगाश्च गात्रं न जर्जरयन्ति तावत्समयमित्यादि।
Page #496
--------------------------------------------------------------------------
________________
उत्तराध्ययन
दशमाध्ययनम्(१०) गा २८-२९
॥२४८॥
SHREE
प्राग्वत् । केशपाण्डुरत्वादि जराचिरं, रोगाश्च, यद्यपि गौतमे न सम्भवन्ति, तथापि तन्निश्रयाशेषशिष्यप्रतिबोधार्थत्वाददुष्टमिदमिति सूत्रार्थः ॥ २७ ॥ अथ यथा अप्रमादो विधेयस्तथाह
मूलम्—बुच्छिद सिणेहमप्पणो, कुमुअं सारइअं वा पाणिअं।
से सबसिणेहवज्जिए, समयं गोअम मा पमायए ॥ २८॥ व्याख्या-व्युच्छिद्धि अपनय स्नेहं मद्विषयमभिष्वङ्गं, आत्मनः स्वस्य, किमिव किं ? कुमुदमिव चन्द्रविकासिकमलमिव 'सारइअंति' सूत्रत्वाच्छरदिभवं शारदं, वाशब्द उपमार्थो भिन्नक्रमश्च प्राग योजितः, पानीयं जलं, ततश्च कुमुदं यथा प्रथमं जलमग्नमपि जलं विहाय वर्तते, तथा त्वमपि विरसं सृष्टमपि मद्विषयं स्नेहं छिद्धि, छित्वा 'से' इति ततः सर्वस्नेहवर्जितः सन् समयमपि गौतम मा प्रमादीः । इह च शारदपदोपादानं शारदजलस्येव स्नेहस्याप्यतिमनोरमत्वसूचनार्थमिति सूत्रार्थः ॥ २८ ॥ किञ्च
मूलम्-चिच्चा धणं च भारिअं. पवइओ हि सि अणगारिअं।
मा वंतं पुणोवि आविए, समयं गोयम मा पमायए ॥ २९ ॥ व्याख्या-त्यक्त्वा परिहत्य धनं चतुष्पदादि, च शब्दो भिन्नक्रमस्ततो भार्यां च त्यक्त्वा, प्रबजितः प्रतिपन्नो
॥२४८॥
Page #497
--------------------------------------------------------------------------
________________
अतो मा प्रान्त उनी पुनरपि भूगोपि
मात्र
हिर्यस्मात् 'सित्ति' सूत्रत्वादकार लोपे असि वर्तसे अनगारितां मुनित्वं, अतो मा वान्तं उद्गीर्ण पुनरपि भूयोपि
दशमाध्य'आविएत्ति' आपिबेः। किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ २९॥ कथं वान्तापानं न स्यादित्याह
यनम्
गा ३०-३१ मूलम्-अवउज्झिअ मित्तबंधवं, विउलं चेव धणोहसंचयं ।
मा तं बिइअं गवेसए, समयं गोअम मा पमायए ॥ ३०॥ व्याख्या-अपोह्य मुक्त्वा मित्राणि च बान्धवाश्च मित्रवान्धवं, विपुलं विस्तीर्ण, चः समुच्चये, एवः पूर्ती, धनस्य है। कनकादिद्रव्यस्य ओघः समूहः तस्य सञ्चयः कोशो धनौघसञ्चयस्तं, मा तत् मित्रादिकं द्वितीयं पुनः स्वीकारार्थमिति शेषः, गवेषय अन्वेषय । श्रामण्याश्रयणे हि तत्त्यक्तमिति वान्तोपमं, भूयोपि तद्वेषणे च वान्तापानमेव स्यादित्यभिप्रायः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३०॥ इत्थं ममत्वोच्छेदार्थमुक्त्वा दर्शनशुद्ध्यर्थमाह
मूलम्-नहु जिणे अज दीसई, बहुमए दीसई मग्गदेसिए ।
संपइ नेआउए पहे, समयं गोअम मा पमायए ॥ ३१ ॥ __ व्याख्या-नहु नैव जिनोऽर्हन् अद्यास्मिन् काले दृश्यते, यद्यपीति गम्यं, तथापि 'बहुमएत्ति' बहुमतः पन्थाः 18स च द्रव्यतो नगरादिमार्गो भावतस्तु ज्ञानादिरूपो मुक्तिमार्गः, इह च भावमार्ग एव गृह्यते, ततश्च मुक्तिमार्गा|
Page #498
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२४९॥
दृश्यते । कीदृशः ? इत्याह-'मग्गदेसिएत्ति' मार्यमाणत्वान्मार्गो मोक्षस्तस्य 'देसिएत्ति' सूत्रत्वाद्देशकः प्रापको मार्ग-18 दशमाध्यदेशकः । अयं भावः-यद्यप्यधुनाहन्नास्ति परं तदुपदिष्टो मार्गस्तु दृश्यते । न चेदृशोयमतीन्द्रियार्थदर्शिनं जिनं विनायनम्(१०)
गा ३२ सम्भवतीत्यसन्दिग्धचेतसो भाविनोपि भव्या न प्रमादं विधास्यन्ति, ततः सम्प्रति अधुना सत्यपि मयीति भावः। नैयायिक निश्चितमुक्त्याख्यलाभप्रयोजने पथि मार्गे केवलानुत्पत्तिसंशयेन समयमपि गौतम! मा प्रमादीरित्यञ्च व्याख्या सूत्रस्य सूचकत्वादीति सूत्रार्थः ॥ ३१॥ तथा
मूलम्--अवसोहिआ कंटगापहं, उइण्णोसि पहं महालयं ।
गच्छसि मग्गं विसोहिआ, समयं गोयम मा पमायए ॥ ३२ ॥ | व्याख्या-अवशोध्य परिहृत्य 'कण्टगापहंति' आकारोऽलाक्षणिकः, कण्टकाश्च द्रव्यतो बुबूलकण्टकाद्याः, भावतश्चरकादिदर्शनानि, इह च भावकण्टकैरेवाधिकारः, तैराकुलः पन्थाः कण्टकपथस्तं, ततश्च अवतीर्णोसि अनुप्रविटोसि पन्थानं सम्यग्दर्शनादिकं भावमार्ग 'महालयंति' महान्तं, कश्चिदवतीर्णोपि मार्ग न गच्छेदत आह-गच्छसि यासि मार्ग, न पुनः स्थित एवासि, सम्यग्दर्शनादेरुत्सर्पणेन मार्गगमनप्रवृत्तत्वाद्भवतः । किं कृत्वा ? विशोध्य निश्चित्य मार्गमेवेति प्रक्रमः, तदेवं प्रवृत्तः सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३२ ॥ उक्ता मार्गप्र-४ | तिपत्तिस्तत्प्रत्तिपत्तौ च कस्याप्यनुतापोपि स्यादिति तं निराकर्तुमाह
॥२४९॥
Page #499
--------------------------------------------------------------------------
________________
दशमाध्य
यनम् गा ३३-३४
मूलम्-अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिआ।
पच्छा पच्छाणुतावए, समयं गोअम मा पमायए ॥ ३३ ॥ व्याख्या-अवलो देहसामर्थ्यहीनो यथेत्यौपम्ये भारवाहकः, मा निषेधे 'मग्गेत्ति' मार्ग 'विसमेत्ति' विषमं, अवगाह्य प्रविश्य, त्यक्ताङ्गीकृतभारः सन्निति गम्यं, पश्चात्तत्कालानन्तरं, पश्चादनुतापकः पश्चात्तापकरोभूदिति शेषः । अयं भावः-यथा कश्चिद्दुःस्थो देशान्तरं गतो बहुभिरुपायैः स्वर्णादिकमुपायं खगृहमागच्छन्नतिभीरुतया वस्त्वन्तरान्तहितं स्वर्णादिकं खशिरस्यारोप्य कतिचिद्दिनानि समुत्पाट्य क्वचिदुपलादिसङ्कले पथि अहो अहमनेन भारेणाक्रान्त इति तमुत्सृज्य गृहमागतोत्यन्तनिर्धनतयानुतप्यते, किं मया निर्भाग्येन त्यक्तमिति । एवं त्वमपि प्रमादेन त्यक्तसंयमभारः सन्नेवंविधो मा भूः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३३॥ अथाल्पं तीर्ण बहु च तरणीयमिसभिप्रायेणोत्साहभङ्गो मा भूदित्याह
मूलम्-तिण्णोहुसि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ।
अभितुर पारं गमित्तए, समयं गोयम मा पमायए ॥ ३४ ॥ व्याख्या-तिण्णोहुसित्ति' तीर्ण एवासि, अर्णवमिवार्णवं संसारं, महान्तं गुरुं, किमिति प्रश्ने, पुनरिति वाफ्योप
Page #500
--------------------------------------------------------------------------
________________
उत्तराध्ययन|
दशमाध्य. यनम् (१०) गा ३५-३६
॥२५०॥
न्यासे, ततः किं पुनस्तिष्ठसि ? तीरमागतः प्राप्तः। भावतो हि अर्णवो भवः कर्म वा, स च द्विविधोपि त्वया तीर्णप्राय एवेति कथं तीरं प्राप्तोपि औदासीन्यं भजसे ? नैवेदं तवोचितमिति भावः । किन्तु 'अभितुरत्ति' आभिमुख्येन वरख शीघ्रो भव, पारं परतीरं, भावतो मुक्तिपदं 'गमित्तएत्ति' गन्तुं। ततश्च समयमित्यादि प्राग्वदिति सूत्रार्थः॥३४॥ न च मम पारप्राप्तियोग्यता नास्तीत्यपि ध्येयं, यतः
मूलम्-अकलेवरसेणिमूसिआ, सिद्धिं गोअम लोअं गच्छसि।
खेमं च सिवं अणुत्तरं, समयं गोअम मा पमायए ॥ ३५॥ व्याख्या-न विद्यते कलेवरं वपुर्येषां ते अकलेवराः सिद्धास्तेषां श्रेणिं उत्तरोत्तरशुभाध्यवसायरूपां क्षपक श्रेणिं 'ऊसिअत्ति' उच्छ्रित्य उत्तरोत्तरसंयमस्थानावाप्त्या उच्छ्रितामिव कृत्वा हे गौतम ! त्वं सिद्धिं सिद्धिसंज्ञं लोकं 'गच्छसित्ति' विभक्तिव्यत्ययाद्गमिष्यसि, कीदृशं ? सिद्धिलोकमित्याह-क्षेमं परचक्रादिभयहीनं, चः समुच्चये, शिवमशेषदुरितोपशान्तिकलितं, अनुत्तरं सर्वोत्कृष्टं, ततः समयमित्यादि प्राग्वदिति सूत्रार्थः ॥३५॥ अथ निगमयन्नपदेशसर्वखमाह
मूलम्बु द्धे परिनिवुडे चरे, गाम गए नगरे व संजए।
संतिमग्गं च वूहए, समयं गोअम मा पमायए ॥ ३६ ॥
|॥२५॥
म
Page #501
--------------------------------------------------------------------------
________________
दशमाध्ययनम् गा ३७
व्याख्या-बुद्धो ज्ञातहेयादिविभागः, परिनिर्वृतः कषायाग्निशान्त्या शीतिभूतः सन् चरेरासेवख संयममिति शेषः, 'गामत्ति विभक्तिलोपात् ग्रामे गतः स्थितो नगरे वा उपलक्षणत्वादरण्यादिषु वा सर्वत्रापि नीराग इति भावः, संयतः सम्यकपापस्थानेभ्यो निवृत्तः शान्तिमार्ग मुक्तिमागे च शब्दो भिन्नक्रमस्ततो बृहयेश्च भव्यजनेभ्य उपदेशनादृद्धिं नयेः, ततः समयमपि गौतम मा प्रमादीरिति सूत्रार्थः ॥३६॥ इत्थं जिनोक्तमाकर्ण्य गौतमो यदकात्तिदाह
मूलम्-बुद्धस्स निसम्म भासिअं, सुकहिअमट्टपओवसोहिअं।
रागं दोसं च छिंदिआ, सिद्धिं गई गए भयवं गोयमेत्ति बेमि ॥ ३७॥ व्याख्या-बुद्धस्य केवलालोकालोकितलोकालोकखरूपस्य श्रीवर्धमानखामिनो निशम्याकर्ण्य भाषितं वचः, सुष्ठ शोभनेन उपमादर्शनादिप्रकारेण कथितं, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, रागद्वेषं च छित्त्वा | सिद्धिं गतिं गतो भगवान् गौतमः प्रथमगणधर इति सूत्रार्थः ॥ ३७ ॥ इति ब्रवीमीति प्राग्वत् ॥१०॥ അയാളുമായ കാറ്റായ്
1 इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-टि 2 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ दशमाध्ययनं सम्पूर्णम् ॥ १०॥ मान्छन्
Page #502
--------------------------------------------------------------------------
________________
MSACROSSASRAGRAGRAMRAGRACRACROGRASSAGRA
Mob
RRORERROR
"सूरि श्रीविजयानन्द, विजयानन्दकारकम् । "आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥"
ASHOK
॥ इति दशमाध्ययनं सम्पूर्णम् ॥
"वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥"
DGC
G
Page #503
--------------------------------------------------------------------------
________________
६
॥ अथैकादशमध्ययनम् ॥
॥ अर्हम् ॥ उक्तं दशममध्ययनं, अथ बहुश्रुतपूजाख्यमेकादशमारभ्यते । अस्य चार्य सम्बन्धः, इहानन्तराध्ययनेऽप्रमादार्थमनुशिष्टिरुक्ता सा च विवेकिनैव सम्यगवधार्यते, विवेकश्च बहुश्रुतपूजातो भवतीत्यत्र बहुश्रुतपूजोच्यते, | इत्यनेन सम्बन्धेनायातस्य अस्येदमादिमं सूत्रम् -
| मूलम् - संजोगा विप्पमुक्कस्त, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुत्रिं सुणेह मे ॥१॥ व्याख्या - संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोः, आचारमुचितविधिं बहुश्रुतपूजारूपं, प्रादुष्करिष्यामि आनुपूर्व्या क्रमेण श्रृणुत मे मम वदत इति शेष इति सूत्रार्थः ॥ १ ॥ इह हि बहुश्रुतपूजा प्रक्रान्ता, बहुश्रुतखरूपञ्चाबहुश्रुत
खरूपे प्ररूपिते सुखेनैव ज्ञायत इति तत्खरूपं तावदाह
मूलम् — जे आवि होइ निविज्जे, थद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ॥२॥
व्याख्या—यः कश्चित्, चापिशब्दौ भिन्नक्रमावग्रे योक्ष्येते, भवति निर्विद्यः सम्यक्शास्त्रावगमविनाकृतः, अपि | शब्दस्येह सम्बन्धात्सविद्योपि यः स्तब्धोऽहङ्कारी, लुब्धो रसादिषु गृद्धः, न विद्यते निग्रह इन्द्रियमनोनिरोधात्म
एकादशमध्ययनम्
गा १-२
Page #504
--------------------------------------------------------------------------
________________
उत्तराध्ययन
कोऽस्येत्यनिग्रहः, अभीक्ष्णं पुनः पुनः उत् प्राबल्येनासम्बद्धभाषितादिरूपेण लपति वक्ति उल्लपति, अविनीतश्च विन-5 | एकादशमयरहितः, 'अबहुस्सुएत्ति' यत्तदोर्नित्याभिसम्बन्धात्सोऽबहुश्रुत उच्यते इति शेषः । इह च सविद्यस्याप्यबहुश्रुतत्वं
ध्ययनम् ॥२५२॥ बहुश्रुतत्वफलाभावादिति ध्येयं, एतद्विपरीतस्तु बहुश्रुत इति सूत्रार्थः ॥२॥ अथेशमबहुश्रुतत्वं बहुश्रुतत्वञ्च
गा ३-४ कथं स्यादित्याहमूलम्-अह पंचहि ठाणेहिं, जेहिं सिक्खा न लब्भई।थंभा कोहा पमाएणं, रोगेणालस्सएण य॥३॥ | व्याख्या-अथेत्युपन्यासे, पञ्चभिः स्थानैः प्रकारैर्वक्ष्यमाणैः शिक्षा ग्रहणासेवनात्मिका न लभ्यते तैरीशमबहुश्रुतत्वं प्राप्यत इति शेषः । कैः पुनः सा न लभ्यते ? इत्याह-स्तम्भात् मानात् , क्रोधात् कोपात् , प्रमादेन मद्यादिना, रोगेण गलत्कुष्टादिना, आलस्येनानुत्साहात्मना, शिक्षा न लभ्यत इति प्रक्रमः। चशब्दः समस्तानां व्यस्ता
नाश्चैषां हेतुत्वं द्योतयति ॥ ३॥ एवमबहुश्रुतत्वहेतूनुक्त्वा बहुश्रुतत्वहेतूनाहI मूलम्-अह अहहिं ठाणेहि, सिक्खासीलेत्ति वुच्चइ ।अहस्सिरे सया दंते, न य मम्ममुदाहरे ॥ ४॥
___ व्याख्या-अथाष्टभिः स्थानैः शिक्षां शीलयत्यभ्यस्थतीति शिक्षाशील इति उच्यते, जिनादिभिरिति शेषः । तान्येवाह-'अहस्सिरेत्ति' अहसनशीलो न सहेतुकमहेतुकं वा हसन्नेवास्ते, सदा सर्वकालं दान्त इन्द्रियनोइन्द्रियदमवान् , न च मर्म परापभाजनकारि उदाहरेत् उच्चारयेत् ॥४॥
|॥२५२॥
P
Page #505
--------------------------------------------------------------------------
________________
एकादशमध्ययनम् गा५-६-७
CREAK
मूलम्-नासीले न विसीले अ, न सिआ अइलोलुए।अक्कोहणे सच्चरए, सिक्खासीलेत्ति वुच्चइ ॥५॥
व्याख्या-न नैव अशीलः सर्वथाशीलविकलः, न विशीलो न विरूपशीलोऽतीचारकलुषितव्रतः, न स्यान्न भवेदतिलोलुपोऽत्यन्तं रसलम्पटः, अक्रोधनः क्षमावान् , सत्यरतस्तथ्यवचनासक्तः, 'सिक्खासीलेत्ति' इत्येवमनन्तरोक्तगुणवान् शिक्षाशील इत्युच्यत इति सूत्रत्रयार्थः ॥५॥ किञ्चाबहुश्रुतत्वबहुश्रुतत्वयोरविनयविनयावेव मूलहेतू ततो यैः स्थानैरविनीतो यैश्च विनीतस्तानि दर्शयितुमाहमूलम्-अह चउदसहिं ठाणेहिं, वट्टमाणे उ संजए । अविणीए वुच्चई सो उ, निवाणं च न गच्छइ॥६॥ _ व्याख्या-अथेति प्राग्वत् , चतुर्दशसु स्थानेषु, सूत्रे सप्तम्यर्थे तृतीया सूत्रत्वात् , वर्तमानस्तिष्ठन् , तुः पूरणे, |संयतो मुनिरविनीत इत्युच्यते, 'सो उत्ति' स पुनरविनीतो निर्वाणं मोक्षं न गच्छति ॥ ६ ॥ चतुर्दशस्थानान्याह
मूलम्-अभिक्खणं कोही हवइ, पबंधं च पकुबई । मित्तिज्जमाणो वमइ, सुअं लखूण मज्जइ ॥ ७ ॥ ___ व्याख्या-अभीक्ष्णं पुनः पुनः क्रोधी भवति, सहेतुकमहेतुकं वा कुप्यन्नेवास्ते १ । प्रबन्धं च कोपस्यैवाविच्छेदरूपं 'पकुवइत्ति' प्रकर्षण करोति, कुपितः सन्ननेकैरपि सान्त्वनैर्नोपशाम्यति २। 'मित्तिजमाणोत्ति' मित्रीयमाणोपि | मित्रं ममायमस्त्वितीष्यमाणोपि अपेलप्तस्य दर्शनाद्वमति त्यजति, प्रस्तावान्मैत्री, अयं भावः-यदि कोपि साधुर्धा
Page #506
--------------------------------------------------------------------------
________________
एकादशमध्ययनम् (११)
गा८-९
उत्तराध्ययनल र्मिकतया वक्ति, यथाहं तव पात्रलेपादि कार्य कुर्वे इति, ततोसौ प्रत्युपकारभीरुतया प्रतिवक्ति, ममालमनेनेति ।
यद्वा कृतमपि कृतघ्नतया न मन्यते इति वमतीत्युच्यते ३ । तथा 'सुअंति' अपगम्यत्वात् श्रुतमप्यागममपि लब्ध्या ॥२५३॥
माद्यति, दर्प याति । श्रुतं हि मदापह, स तु तेनापि दृप्यतीति भावः ४॥७॥ मूलम्-अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ । सुप्पिअस्तावि मित्तस्स, रहे भासइ पावगं॥८॥
व्याख्या-अपिः सम्भावने, पापैः कथञ्चित्समित्यादिषु स्खलितलक्षणैः परिक्षिपति निन्दतीत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति शेषः । गुरूणां समित्यादौ स्खलितलक्षणं पापं पुरस्कृत्य तानिंदतीत्यर्थः ५। अपिभिन्नक्रमस्ततो मित्रेभ्योपि सुहृयोपि कुप्यति क्रुध्यति, सूत्रे सप्तमी चतुर्थ्यर्थे ६ । तथा सुप्रियस्याप्यतिवल्लभस्यापि मित्रस्य रहसि एकान्ते भाषते, पापमेव पापक, अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रतिसेवकोयमित्यादिकं तद्दोषमेवाविकरोतीति भावः ७॥८॥ मूलम्-पइण्णवाई दुहिले, थद्धे लुद्धे अणिग्गहे।असंविभागी अविअत्ते, अविणीएत्ति वुच्चई ॥९॥
व्याख्या-प्रतिज्ञया इदमित्थमेवेत्येकान्तवादरूपया वदनशीलः प्रतिज्ञावादी, यद्वा प्रकीर्णमसम्बद्धं वदतीति प्रकीर्णवादी ८ । 'दुहिलेत्ति' द्रोहणशीलो द्रोग्धा, मित्रस्यापीति शेषः ९ । स्तब्धस्तपस्यहमित्याद्यहङ्कतिमान् १० । लुब्धो भोज्यादिष्वभिकांक्षावान् ११ । अनिग्रहः प्राग्वत् १२ । असंविभागी आहारादिकं प्राप्यातिगर्द्धनो नान्यस्मै
।।२५३॥
Page #507
--------------------------------------------------------------------------
________________
१२
| स्वल्पमपि यच्छति, किन्त्वात्मानमेव पोपयति १३ । 'अविअत्तेत्ति' अप्रीतिकरो दृश्यमानो भाष्यमाणो वा सर्वस्या - प्यप्रीतिमेवोत्पादयति १४ । एवंविधदोषान्वितोऽविनीत इत्युच्यते इतिनिगमनम् ॥ ९ ॥ इत्थमविनीतस्थानान्युक्त्वा विनीतस्थानान्याह -
मूलम् - अह पण्णरसहिं ठाणेहिं, सुविणीपत्ति बुच्चई । नीआवित्ती अचवले, अमाई अकुऊहले ॥ १० ॥
व्याख्या -अथ पंचदशभिः स्थानैः सुष्ठु शोभनो विनीतो विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह - 'नीआवित्तीत्ति' नीचमनुद्धतं यथास्यादेवं वर्त्तत इत्येवंशीलो नीचवर्त्ती, गुरुषु न्यग्वृत्तिमान् । यदुक्तं - "नीअं सिजं गई ठाणं, नीयं च आसणाणि अ ॥ नीअं च पाए वंदिजा, नीअं कुज्जा य अंजलिं ॥ १ ॥ " तथा न चपलोऽचपलस्तत्र चपलो गतिस्थानभाषाभावभेदाच्चतुर्धा । तत्र गतिचपलो द्रुतद्रुतचारी, स्थानचपलो यस्तिष्ठन्नपि हस्तादिभिश्चलनेवास्ते, भाषाचपलोऽसदस भ्यासमीक्ष्यादेश कालप्रलापिभेदाच्चतुर्धा । तत्रासदविद्यमानमस्ति खपुष्पमित्यादि, असभ्यं खरपरुषादि, असमीक्ष्यानालोच्य प्रलपन्तीत्येवंशीला असद सभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी तु चतुर्थो योऽतीते कार्ये वक्ति, यदीदं तत्र देशे काले वाऽकरिष्यत्तदा सुन्दरमभविष्यदिति । भावचपलस्तु सः, यः प्रस्तुते सूत्रेऽर्थे वाऽसमाप्त एवान्यद् गृह्णाति २ । अमायी, न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः ३ । अकुतूहलो नेन्द्रजालादिकौतुकविलोकनतत्परः ४ ॥ १० ॥
एकादशमध्ययनम्
गा १०
Page #508
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥२५४॥
मूलम्-अप्पं चाहिक्खिवइ, पबंधं च न कुबई । मित्तिजमाणो भयइ, सुअं लद्धं न मजइ ॥ ११ ॥|| एकादशम
व्याख्या-अत्राल्पशब्दोऽभाववाची, ततश्चाल्पमिति नैव कञ्चनाधिक्षिपति तिरस्करोति ५। प्रबन्धञ्च कोपावि- ध्ययनम् च्छेदरूपं न करोति ६। मित्रीयमाणः पूर्वोक्तन्यायेन भजते, मित्रीयितारमुपकुरुते, प्रत्युपकारम्प्रत्यशक्तो वा कृतघ्नो
गा११-१३ न स्यात् ७ । श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानात्सुतरामेव नमति ८॥११॥ मूलम् न य पावपरिक्खेवी, न य मित्तेसु कुप्पई।अप्पिअस्सावि मित्तस्स, रहे कल्लाण भासई ॥१२॥ । व्याख्या-न च पापपरिक्षेपी, पूर्वोक्तरूपः ९। न च कथञ्चित्सापराधेभ्योपि मित्रेभ्यः कुप्यति १० । अप्रिय-14 स्यापि मित्रस्य रहसि कल्याणं भाषते, अयं भावः मित्रमितियःप्रतिपन्नः स यद्यप्यपकृतिशतानि कुरुते तथाप्येकमपि तत्कृतमुपकारमनुस्मरन् न रहस्यपि तद्दोषं वक्ति । आह च-"एकसुकृतेन दुष्कृत-शतानि ये नाशयन्ति ते धन्याः , न त्वेकदोपजनितो, येषां रोषः शतकृतघ्नः॥१॥" इति ॥ ११ ॥१२॥ मूलम्-कलहडमरवजए, बुद्धे अभिजाइगे । हिरिमं पडिसंलीणे, सुविणीएत्ति वुच्चई ॥ १३ ॥ .. | व्याख्या-कलहश्च वाचिको विग्रहः, डमरञ्च पाणिघातादिनं तद्वर्जकः कलहडमरवर्जकः १२ । बुद्धो बुद्धि- २५४॥ मानेतच्च सर्वत्रानुगम्यत एवेति न प्रकृतसंख्याविरोधः । अभिजातिं कुलीनतां गच्छति जात्यवृषभ इवोत्क्षिप्तभारनिवहणादित्यभिजातिगः १३ । ह्रीमान् लज्जावान् , स हि कलुषाशयत्वेप्यकार्यमाचरन् लज्जते १४ । प्रतिसंलीनो गुरु
Page #509
--------------------------------------------------------------------------
________________
एकादशम
ध्ययनम्
गा १४-१५
पार्थेऽन्यत्र वा स्थितो न हि कार्य विना यतस्ततश्चेष्टते १५ । प्रस्तुतमुपसंहरति, 'सुविणीएत्ति' स एवंविधगुणा
|न्वितः सुविनीत इत्युच्यते इति सूत्राष्टकार्थः ॥ १३॥ यश्चैवं विनीतः स कीकू स्यादित्याह३ मूलम्-वसे गुरुकुले णिचं, जोगवं उवहाणवं। पिअंकरे पिअंवाई, से सिक्खं लडुमरिहई ॥ १४ ॥
व्याख्या-वसेत्तिष्ठेद्गुरुकुले गच्छे नित्यं सदा गुर्वाज्ञोपलक्षणश्चैतत्ततो यावजीवमपि गुर्वाज्ञायामेव तिष्ठेदित्यर्थः। योगो व्यापारो धर्मस्य तद्वान् , उपधानमङ्गोपाङ्गाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान् , प्रियङ्करः
कथञ्चित्केनचिदपकृतोपि न तत्प्रतिकूलं करोति, किन्तु ममैव कर्मणोऽसौ दोष इति ध्यायन् अप्रियकारिण्यपि प्रियतिमेव चेष्टत इत्यर्थः । अत एव 'पिअंबाइत्ति' केनचिदप्रियमुक्तोपि प्रियमेव वदतीत्येवंशीलः प्रियंवादी । आह च
"करयलमलिअस्सवि दमणयस्स महमहइ पेसलो गंधो । तविअस्सवि सजणमाणुसस्स महुरा समुल्लावा ॥१॥ | तथा चास्य को गुणः ? इत्याह-स एवंविधगुणवान् शिक्षा शास्त्रार्थग्रहणतदासेवनादिरूपां लब्धुमवाप्समर्हति योग्यो भवति, न तु तद्विपरीतोऽविनीतः। यश्च शिक्षा लभते स बहुश्रुतोऽपरस्त्वबहुश्रुत इति भाव इति सूत्रार्थः ॥ १४ ॥
एवं सविपक्षं बहुश्रुतं सप्रपञ्चमभिधाय तस्यैव स्तुतिद्वारेण पूर्वप्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारमाह१२ मूलम्-जहा संखंमि पयं निहितं,दुहओवि विरायइ। एवं बहुस्सुए भिक्खू , धम्मो कित्ती तहा सुयं १५
व्याख्या-यथेति दृष्टान्ते, शंखे पयो दुग्धं निहितं न्यस् 'दुहओवित्ति' खसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन
LACEMARAC
ASSESSUAASTASA
%
Page #510
--------------------------------------------------------------------------
________________
उत्तराध्ययन | प्रकारद्वयेनापीत्यपिशब्दार्थः, विराजते शोभते, तत्र हि तन्न कलुपीभवति, न चाम्लतां भजते, नापि च परिश्रवति, एकादशमएवमनेन प्रकारेण बहुश्रुते 'भिक्खूत्ति' भिक्षी मुनौ, धर्मो मुनिधर्मः, कीर्तिः श्लाघा, तथा श्रुतमागमो विराजते इति
ध्ययनम् ॥२५५॥
४ा (११) सम्बन्धः । अयंभावः-यद्यपि धर्मकीर्तिश्रुतानि निरुपलेपतादिगुणेन खयं शोभावन्ति तथापि मिथ्यात्वादिकालुष्याप
गा१६-१७ दगमान्नमल्यादिगुणैः शंखसदृशे बहुश्रुते स्थितान्याश्रयगुणेन विशेषात् शोभन्ते, न च तत्र तानि मालिन्यमन्यथाभावं || ||
हानिञ्च कदाचित् प्रयान्तीति सूत्रार्थः ॥ १५॥ पुनबेहुश्रुतस्तवमेवाहमूलम्-जहा से कंबोआणं, आइण्णे कंथए सिआ। आसे जवेण पवरे, एवं भवइ बहुस्सुए॥१६॥ | व्याख्या-यथा स इति प्रसिद्धः, काम्बोजानां कम्बोजदेशोद्भवानां अश्वानां मध्ये आकीर्णो गुणैरिति शेषः, कन्थकः प्रधानोऽश्चो यः किल दृषच्छकलभृतकुतपनिपातध्वनेन संत्रस्यति, स्यात् भवेदश्वो जवेन वेगेन प्रवरः प्रधानः, एवमित्युपनये, तत ईदृशो भवति बहुश्रुतः, जैना हि मुनयः परतीर्थिकेभ्यः सकलगुणैः काम्बोजा इवान्याश्वेभ्यो विशिष्यन्ते, अयं त्वाकीर्णकन्थकाश्ववत्तेभ्योप्यधिकः शीलादिगुणैः प्रवर इति सूत्रार्थः ॥ १६ ॥
मूलम्-जहाइण्णसमारूढे, सूरे दढपरकमे । उभओ नंदिघोसेणं, एवं भवति बहुस्सुए ॥ १७॥ A व्याख्या-यथा आकीर्ण जात्यादिगुणोपेतमश्वं समारूढोऽध्यासितः आकीर्णसमारूढः शूरचारभटो दृढपराक्रमो |
गाढवलः 'उभओत्ति' उभयतो वामतो दक्षिणतश्च नान्दीघोषेण द्वादशतूर्यनिनादेन उपलक्षितो भाति, एवं भवति ।
Page #511
--------------------------------------------------------------------------
________________
एकादशमध्ययनम् गा१८-१९
बहुश्रुतः। अयं भावः-यथैवंविधः शूरो न केनाप्यभिभूयते, न चान्यस्तदाश्रितस्तथायमपि जिनागमाश्चमाश्रितो दृप्तपरवादिदर्शनेपि चात्रस्तस्तजयम्प्रति समर्थ उभयतश्च दिनरात्र्योः खाध्यायघोषात्मकेन नान्दीघोषेणोपलक्षितो दृसैरपि परैर्न पराभूयते, न च तदाश्रितोन्योपीति सूत्रार्थः ॥ १७ ॥ मूलम्-जहा करेणुपरिकिण्णे, कुंजरे सट्ठिहायणे।बलवंते अप्पडिहए, एवं भवति बहुस्सुए ॥१८॥ ___ व्याख्या-यथा करेणुपरिकीर्णो हस्तिनीभिः परिवृत्तः कुञ्जरो हस्ती पष्टिहायनः पष्टिवर्षप्रमाणः तस्य ह्येतावत्कालं यावत्प्रतिवर्ष बलोपचयस्ततस्तदपचय इत्येवमुक्तं, अत एव च 'बलवंतेति' बलं वपुःसामर्थ्यमस्यास्तीति बलवान् , अप्रतिहतो न मदोत्कटैरपि परगजैः पराङ्मुखीक्रियते, एवं भवति बहुश्रुतः, सोपि हि करेणुभिरिव औत्पत्तिक्यादिबुद्धिभिर्विविधविद्याभिश्च वृतः षष्टिहायनतया स्थिरमतिरत एव च बलवत्तया अप्रतिहतो भवति, न हि दर्शनोपहन्तृभिः प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ १८ ॥ मूलम्-जहा से तिक्खसिंगे, जायखंधे विरायई । वसहे जूहाहिवई, एवं भवइ बहुस्सुए ॥ १९ ॥ __ व्याख्या--यथा स तीक्ष्णशृङ्गो निशितविषाणःजातोऽत्यन्तमुपचितः स्कन्धोस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचयोपलक्षणञ्चैतत् , विराजते वृषभो यूथाधिपतिर्गोसमूहखामी सन् , एवं भवति बहुश्रुतः । सोपि परपक्षक्षोद
Page #512
--------------------------------------------------------------------------
________________
भ
SAS
एकादशम ध्ययनम्
(११) गा २०.२२
४
उत्तराध्ययन , कतया तीक्ष्णाभ्यां खशास्त्रपरशास्त्ररूपाभ्यां शृङ्गाभ्यां शोभितो गच्छादिगुरुकार्यधुराधरणधुरीणतया च जातस्कन्ध
इ व जातस्कन्धः । अत एव यूथस्य साध्वादिसमूहस्याधिपतिराचार्यत्वं गतः सन् विराजते इति सूत्रार्थः ॥ १९ ॥ ३||मूलम्-जहा से तिक्खदाढे, उदग्गे दुप्पहंसए । सीहे मिआण पवरे, एवं भवइ बहुस्सुए ॥ २०॥
व्याख्या--यथा स तीक्ष्णदंष्ट्र उदग्र उत्कट अत एव 'दुप्पहंसएत्ति' दुष्प्रधर्षकोऽन्यः पराभवितुमशक्यः सिंहः
केसरी मृगाणामारण्यजन्तूनां प्रवरो भवति, एवं भवति बहुश्रुतः । अयमपि हि परपक्षभेदकत्वात्तीक्ष्णदंष्ट्रादेश्यनै६|| गमादिनयैः प्रतिभादिगुणोदप्रतया च दुरभिभव इत्यन्यतीर्थ्यानां मृगतुल्यानां प्रवर एवेति सूत्रार्थः ॥ २०॥ I मूलम्-जहा से वासुदेवे, संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए ॥ २१ ॥
| व्याख्या-यथा स वासुदेवः, शंखं पाञ्चजन्यं, चक्र सुदर्शनं, गदां च कौमोदकीं, धरतीति शङ्खचक्रगदाधरः । ६ अप्रतिहतबलः अस्खलितसामर्थ्यः, अयं भावः-एकं सहजसामर्थ्यवानन्यच्च तथाविधायुधान्वित इति योधः सुभटः, एवं भवति बहुश्रुतः। सोपि ह्येकं सहजप्रतिभाप्रागल्भ्यवानपरञ्च शंखचक्रगदातुल्यैः सम्यग्ज्ञानदर्शनचारित्रैरुपेत इति योधः कर्मवैरी पराभवं प्रतीति सूत्रार्थः ॥ २१॥ मूलम्-जहा से चाउरते, चक्कवट्टी महिडिए । चउदसरयणाहिवई, एवं भवइ बहुस्सुए ॥ २२ ॥
USMSALORG
२५६॥
Page #513
--------------------------------------------------------------------------
________________
व्याख्या-यथा स चतुर्भिहयगजरथनरात्मकैः सैन्यैरन्तः शत्रुविनाशरूपो यस्य स तथा, चक्रवर्ती पट्खण्डभर-18|एकादशम ताधिपो महर्द्धिको दिव्यलक्ष्मीवान् चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि-"सेणावइ १ गा ध्ययनम् हावई २, पुरोहि ३ गय ४ तुरय ५ वडई ६ इत्थी ७। चकं ८ छत्तं ९ चम्मं१०,मणि ११ कागिणि १२ खग्ग १३
गा २३ दंडो १४ अ।१। ति" तेषामधिपतिः खामी चतुर्दशरत्नाधिपतिः । एवं भवति बहुश्रुतः, सोपि हि दानादिभिचतुर्भिर्धरेन्तः कर्मवैरिणामस्येति चतुरन्तः, ऋद्धयश्चामपोषध्याद्या महत्य एवास्य भवन्ति, सम्भवन्ति च चतुर्दश-1 रत्नोपमानि पूर्वाणि तस्येति सूत्रार्थः ॥ २२ ॥ मूलम्-जहा से सहस्सक्खे, वजपाणी पुरंदरे । सक्के देवाहिवई, एवं भवई बहुस्सुए ॥ २३ ॥ व्याख्या-यथा सहस्राक्षः सहस्रलोचनः, कथमिति चेदुच्यते, इन्द्रस्य हि पंच मंत्रिशतानि तन्नेत्राणां च सहस्रं इन्द्रकार्य एव व्याप्रियते इति, यद्वा यदन्ये नेत्राणां सहस्रेण पश्यन्ति तदसौ द्वाभ्यां नेत्राभ्यां साधिकं पश्यतीति
क्ष इत्युच्यते, इति सम्प्रदायः । तथा वजं प्रहरणविशेषः पाणावस्येति वज्रपाणिः, लोकोक्त्या च असुराणां पूर्दारणात् पुरन्दरः, शक्रो देवाधिपतिरेवं भवति बहुश्रुतः।सोपि श्रुतज्ञानेन सकलातिशयनिधानेन लोचनसहस्रेणेव
जानीते, ईदृशस्य च प्रशस्यलक्षणतया वज्रलक्षणमपि पाणौ सम्भवतीति वज्रपाणिः, पूः शरीरमप्युच्यते तच दुस्तपत1 पोनुष्ठानेन दारयति कृशीकरोतीति पुरन्दरः, दृढधर्मतया चायं सुरैरपि पूज्यत इति तत्पतिरप्युच्यत इति सूत्रार्थः॥ २३॥
Page #514
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२५७॥
६
मूलम् जहा से तिमिरविद्धंसे, उत्तिहँते दिवायरे । जलंते इव तेएणं, एवं भवइ बहुस्सुए ॥२४॥
एकादशम| व्याख्या- यथा स तिमिरविध्वंसस्तम स्तोमविनाशकः उत्तिष्ठन्नद्रच्छन् दिवाकरः सूर्यः, स हि ऊर्द्ध नभोभा-2
ध्ययनम् गमाक्रामन् भृशं तेजसितां भजते न त्ववतरन्नित्येवं विशिष्यते, ज्वलन्निव ज्वालां मुञ्चन्निव तेजसा महसा, एवं | (११) भवति बहुश्रुतः । सोपि हि अज्ञानधान्तविध्वंसी संयमस्थानेषु शुद्धशुद्धतमाद्यध्यवसायत उत्सर्पस्तपस्तेजसा गा २४-२६ ज्वलन्निव भवतीति सूत्रार्थः ॥ २४॥ मूलम्-जहा से उडुवइ चंदे, नक्खत्तपरिवारिए। पडिपुण्णे पुण्णमासीए, एवं भवइ बहुस्सुए॥२५॥ __ व्याख्या-यथा स पौर्णमास्याः पूर्णिमायाः उडुपतिनक्षत्राधिपश्चन्द्रो नक्षत्रैरश्चिन्यादिभिरुपलक्षणत्वाग्रहतारकाभिश्च परिवारितः, पतिरपि कश्चिदेकाक्येव स्यान्मृगपतिवदिति उडुपतिरित्युक्तेऽपि नक्षत्रपरिवारित इत्युक्तं, प्रतिपूर्णः सकलकलाकलितः, एवं भवति बहुश्रुतः । सोपि नक्षत्रकल्पानां साधूनां पतिस्तत्परिवारितः सकलकलाकलितत्वेन प्रतिपूर्णश्च स्यादिति सूत्रार्थः ॥ २५॥ मूलम्-जहा से सामाइआणं, कोटागारे सुरक्खिए।नाणाधनपडिपुण्णे, एवं भवइ बहुस्सुए॥२६॥
॥२५७॥ 5 व्याख्या-यथा स 'सामाइआणंति' समाज समूहं समवयन्तीति सामाजिकाः समूहवृत्तयो लोकास्तेषां कोष्ठा
गारो धान्याश्रयः सुष्ठ प्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितश्चौरमूषकादिभ्य इति सुरक्षितः, नाना अनेकप्रका
Page #515
--------------------------------------------------------------------------
________________
राणि धान्यानि शाल्यादीनि तैः प्रतिपूर्णो भृतो नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि सामाजिका-एकादशमनामिव गच्छवासिनामुपयोगिभिर्नानाधान्योपमैरङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्णः प्रवचनाधार- ध्ययनम् |तया सुरक्षितश्च परवादिरोगादिभ्यो भवति । उक्तं हि-"जेण कुलं आयत्तं, तं पुरिसं आयरेण रक्खेह ॥ न हु गा २७-२८ |तुंबंमि विणहे, अरया साहारया हुंति । १। ति" सूत्रार्थः ॥ २६ ॥ मूलम्-जहा सा दुमाण पवरा, जंबू नाम सुदंसणा।अणाढिअस्स देवस्स, एवं भवइ बहुस्सुए ॥२७॥
व्याख्या-यथा सा द्रुमाणां प्रवरा जम्बूर्नाम्नाभिधानेन सुदर्शना, न हि यथेयममृतफला देवाद्याश्रयश्च तथान्यः | | कोपि द्रुमोस्ति, दुमत्वं फलव्यवहारश्चास्यास्तत्प्रतिरूपतयैव, वस्तुतस्तु पार्थिवतयोक्तत्वात् , सा च कस्येत्याह-अनादृतस्य अनाहतनाम्नो देवस्य जम्बूद्वीपाधिपतेर्व्यन्तरसुरस्य आश्रयतया सम्बन्धिनी, एवं भवति बहुश्रुतः । सोपि हि | अमृतफलोपमश्रुतान्वितो देवानामपि पूज्यतयाभिगम्यः शेषगुमोपमसर्वसाधुपु च प्रवर इति सूत्रार्थः ॥ २७॥
मूलम्-जहा सा नईण पवरा, सलिला सागरंगमा। सीआ नीलवंतप्पवहा, एवं भवइ बहुस्सुए॥२८॥ | ___ व्याख्या-यथा सा नदीनां प्रवरा सलिला नदी सागरं समुद्रं गच्छतीति सागरङ्गमा समुद्रपातिनी, न तु क्षुद्रनदीवदन्तरा विशीर्यते इत्यर्थः । शीता नाम्नी नीलवान्मेरोरुत्तरदिशि वर्षधरस्ततः प्रबहतीति नीलवत्प्रवहा, एवं भवति बहुश्रुतः। सोपि हि सरित्समानामन्यमुनीनां वरेण्यो निर्मलजलकल्पश्रुतज्ञानान्वितः सागरदेश्यां मुक्तिमेव |
Page #516
--------------------------------------------------------------------------
________________
उत्तराध्ययन
।। २५८ ॥
३
१२
गच्छति, तदनुष्ठान एव तस्य प्रवृत्तेः । न हि तस्य विवेकिनो देवत्वादिवाञ्छा, तथा च कथमस्यान्तरावस्थानं स्यात् ? तस्य च महाभागस्य नीलवत्कल्पादुच्छ्रितोच्छ्रितकुलादेव प्रसूतिरिति सूत्रार्थः ॥ २८ ॥ मूलम् — जहा
नगाण पवरे, सुमहं मंदरे गिरी। नाणोसहिपज्जलिए, एवं भवइ बहुस्सुए ॥ २९ ॥ व्याख्या--यथा स नगानां प्रवरः सुमहानत्यन्तं गुरुर्मन्दरो गिरिर्मेरुपर्वतः नानौषधिभिरनेकसमहिमवनस्पतिभिः प्रकर्षेण ज्वलितो दीप्तो नानौषधिप्रज्वलितः, औषधयो यतिशायिन्यो दीपिका इव प्रज्वलन्त्य एव स्युस्ततो गिरिरपि प्रज्वलन्निव स्यात् एवं भवति बहुश्रुतः । सोपि श्रुतमहिम्नात्यन्तं स्थिरोऽपरशैलकल्पान्यसाध्यपेक्षया प्रवरोऽन्धकारेऽपि प्रकाशनिदानामर्षौषध्यादिलब्धिसहितश्च स्यादिति सूत्रार्थः ॥ २९ ॥ किं बहुना ?
मूलम् — जहा से सयंभुरमणे, उदही अवखओदए । नाणारयणपडिपुण्णे, एवं भवइ बहुस्सुए ॥ ३० ॥ व्याख्या- यथा स स्वयम्भूरमण उदधिः समुद्रः, अक्षयमविनाशी उदकं जलं यत्र स तथा नानारत्लैर्मरकतादिभिः प्रतिपूर्णो नानारत्त्रप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नाढ्यश्च भवतीति सूत्रार्थः ॥ ३० ॥ अथोक्तगुणानुवादेन फलोपदर्शनेन च तस्यैव माहात्म्यमाह -
मूलम् - समुद्दगंभीरसमा दुरासया, अचक्किआ केणई दुप्पधंसया ।
सुअस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया ॥ ३१ ॥
एकादशम
ध्ययनम्
(११) गा२९-३१
॥ २५८ ॥
Page #517
--------------------------------------------------------------------------
________________
व्याख्या-'समुहगंभीरसमत्ति' आपत्वाद्गाम्भीर्येणालब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः, समुद्रस्य गाम्भी-1 यसमाः समुद्रगाम्भीर्यसमाः, समुद्रवद्गम्भीरा इत्यर्थः । 'दुरासयत्ति' दुःखेनाश्रीयन्ते पराभवबुद्ध्या केनापीति दुरा
ध्ययनम्
गा ३२ श्रयाः, अत एवाचकिता अत्रस्ताः केनचित् परीपहपरवाद्यादिना, तथा दुःखेन प्रधय॑न्ते केनापीति दुष्प्रधर्षकाः, 'सुअस्स पुण्णा विउलस्सत्ति' सुप्व्यत्ययात् श्रुतेनागमेन पूर्णा भृता विपुलेन अङ्गानङ्गप्रविष्टादिभेदैविस्तीर्णेन बहुश्रुता इत्यर्थः । त्रायिणः त्रातारः, स्वस्य परस्य दुर्गतिपाताद्यपायेभ्यः। क्षपयित्वा विनाश्य कर्म ज्ञानावरणादि गतिमुत्तमा मुक्तिरूपां गताः प्राप्ता उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च । इहैकवचनप्रक्रमेपि बहुवचननिर्देशो व्याप्ति-18 प्रदर्शनायेति सूत्रार्थः ॥ ३१ ॥ इत्थं बहुश्रुतगुणवर्णनरूपां पूजामुक्त्वा शिष्योपदेशमाहमूलम्-तम्हा सुअमहिद्विज्जा, उत्तिमहगवेसए।जेणप्पाणं परं चेव, सिद्धिं संपाउणिज्जासित्ति बेमि ॥३२॥ | व्याख्या-तम्हत्ति' यस्मादमी मुक्तिगमनावसाना बहुश्रुतस्य गुणास्तस्मात् श्रुतमागममधितिष्ठेत् , अध्ययनश्रवणचिन्तनादिना श्रयेत, उत्तमः प्रधानोऽर्थो मोक्ष एव तं गवेषयत्यन्वेषयतीत्युत्तमार्थगवेषकः, येन श्रुताश्रयणेनात्मानं परञ्चैव सिद्धिं मुक्तिं सम्प्रापयेदिति सूत्रार्थः ॥ ३२॥ इति ब्रवीमीति प्राग्वत् ॥
RODARADADAGDIASPASPAEDIEDANDEDIDIODOGS DGPIDIODIODEREDATERANDIDASDARPANDERIEDANDASTRATPAGEIGDEPATDADGETM । इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रवोपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकादशमध्ययनं सम्पूर्णम् ॥११॥ Prasvaavaavaavaavaavatavaasrmavasyapraavaraaaaaaaaaaaaaaaaaaaaaaaaaaaaa000000000000raat
&
१.४४
Page #518
--------------------------------------------------------------------------
________________
"सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । "आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥"
॥ इति एकादशमध्ययनं सम्पूर्णम् ॥
"वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥१॥"
Page #519
--------------------------------------------------------------------------
________________
॥ अथ द्वादशमध्ययनम् ॥
द्वादशमध्ययनम् हरिकेशबल चरितम्
१-९
॥ अहम् ॥ उक्तमेकादशमध्ययनमधुना हरिकेशबलमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यतनीयमिति ख्यापनार्थ तपः| समृद्धिर्वर्ण्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थ हरिकेशबलचरितं तावदुच्यते । तथा हि। मथुरायां महापुर्या, शंखनामा महीधवः ॥ भुक्त्वा राज्यं विरक्तात्मा, परिव्रज्यामुपाददे ॥१॥ क्रमागीतार्थतां प्राप्तो, विहरन् वसुधातले ॥ सोगाद्रजपुरं भिक्षा-निमित्तं तत्र चाविशत् ॥ २॥ एका रथ्या हुतवह- रथाङ्का तत्र चाभवत् ॥ सा हि ग्रीष्मार्कसन्तप्ता, तप्तायस्पात्रतां दधौ ॥३॥ ताश्चातिगन्तुं पादाभ्यां, मुसुरोपमवालुकाम् ॥ नाभूत्कोपि प्रभुर्वज्र-वालुकामिव निम्नगाम् ॥४॥ यश्चाज्ञानाजनस्तस्यां, रथ्यायां प्रविशेत्तदास द्राक् म्रियेत चनको, भृज्यमान इवोच्छलन् ॥५॥ ताञ्च प्राप्तो भ्रमन् साधुर-सञ्चारां समीक्ष्य सः॥ पप्रच्छासन्नसौधस्थं, सोमदेवपुरोधसम् ॥ ६॥ मार्गेणानेन गच्छामि, न वेति वद सन्मते ! ॥ न ह्यज्ञातखरूपेणा-ध्वना गच्छन्ति धीधनाः ॥७॥ दन्दह्यमानं मार्गेऽस्मिन् , विलुठन्तमितस्ततः॥ पश्याम्येनमिति विष्टः, सोप्यूचे गम्यतामिति ॥८॥ ततस्तेनैव मार्गेण, गन्तुं प्रववृते व्रती ॥ तन्महिना स मार्गोऽभू-त्सलिलादपि शीतलः॥९॥ पुरोहितोपि तं द्रष्टु-मारोह
Page #520
--------------------------------------------------------------------------
________________
उत्तराध्ययन
द्वादशम
ध्ययनम
॥२६०॥
(१२) हरिकेशबल चरितम् १०-२३
देहकुट्टिमम् ॥ तञ्चोपयुक्तं तत्रापि, यान्तमद्रुतमैक्षत ॥ १०॥ ततः स विस्मितो विप्र-स्तस्मिन्मार्गे ययौ खयम् ॥ तुषारशीतलस्पर्श, तश्च वीक्ष्येत्यचिन्तयत् ॥ ११॥ पापेन पापकर्मेदं, किमहो विहितं मया!॥ करीपाग्निसमस्पर्श. मार्गसौ यत्प्रवेशितः ॥ १२ ॥ अहो! अस्य तपः शक्ति-र्यदध्वा तादृशोप्यसौ ॥ सुधारसैः सिक्त इव, प्राप शैत्यं वचोतिगम ! ॥ १३॥ तस्मान्महाप्रभावोयं, महात्मा श्रमणाग्रणीः॥ वन्दनीयो जगद्वन्द्यः, शमामृतमहोदधिः। ॥ १४ ॥ इति ध्यात्वा नवाम्भोद-सिक्तस्तापमिवाचलः ॥ उद्विरन् स्वमनाचार-मनमत्तं मुनिं द्विजः ॥१५॥ ततस्तस्मै शंखसाधुः, साधुधर्ममुपादिशत् ॥ तदाकोरुवैराग्यः, पर्यत्राजीत्पुरोहितः॥ १६ ॥ जातिरूपमदो चक्रे, स व्रतं पालयन्नपि ॥ मदो हि प्राणिनां मत्त- गजेन्द्र इव दुर्जयः ॥ १७ ॥ तौ च प्रान्तेप्यनालोच्य, मदौ मृत्वा दिवङ्गतः ॥ समं सुरीभिर्बुभुजे, भोगान् पुण्यद्रुपल्लवान् ॥ १८॥ [ इतश्च ] ___ मृतगङ्गातीरवासी, श्वपचानामधीश्वरः ॥ बलकोट्टाख्यजातीनां, बलकोट्टाभिधोऽभवत् ॥ १९ ॥ तस्याभूतामुभे गौरी-गान्धारीसंज्ञके प्रिये ॥ सोथ देवश्च्युतः खर्गा-गौयोंः कुक्षाववातरत् ॥ २० ॥ वसन्तसङ्गसम्भूतप्रभूतनवपल्लवम् ॥ खप्ने गौरी तदाऽपश्य-त्सहकारमहीरहम् ॥ २१॥ तथा पृष्टः स्वप्नफल-मित्यूचे खानपाठकः ॥ खप्नेनानेन भद्रे ! त्वं, सुतं श्रेष्ठमवाप्स्यसि ॥ २२ ॥ साथ तुष्टा दधौ गर्भ-मर्भश्च सुषुवे क्रमात् ॥ बलकोदृस्ततस्तस्य, बल इत्यभिधां व्यधात् ॥ २३॥ स हि जातिमदात्याच्या-लेमे जन्माधमे कुले ॥ रूपदर्पाच
Page #521
--------------------------------------------------------------------------
________________
द्वादशमध्ययनम् हरिकेशबल | चरितम् २४-३८
वैरूप्यं. खेषामपि विषादकृत् ! ॥ २४ ॥ स च भण्डनशीलोऽन्या-सहनः कटुवाक्पटुः ॥ उद्वेजकोऽभूत्सर्वेषां, वर्धमानो विषवत् ॥ २५॥ स्वजनेष्वन्यदाऽऽपान-गोष्ठीस्थेषु मधूत्सवे ॥ डिम्भरूपैः समं भण्ड-चेष्टां चक्रे महर्बलः॥ २६ ॥ ततः स सर्वैरापाना-भोजनादिव कुन्तलः ॥ बहिष्कृतो वलो बालो, वाढं दुरमनायत ॥२७॥ तदा च निर्गतस्तत्रा-अनपुअद्युतिः फणी ॥ जन्ने द्राक् श्वपचैर्दुष्ट-विषोऽयमिति भाषिभिः ॥ २८ ॥क्षणान्तरे च तत्रागा-नागो दीपकजातिजः॥ मुमुचे स तु चाण्डालै-निर्विषोयमिति खयम् ॥ २९ ॥ तन्निरीक्ष्य बलो दध्यौ, खदोषैरेव जन्तवः ॥ लभन्ते विपदं खीय-गुणैरेव च सम्पदम् ॥ ३०॥ सदोषत्वादेव सर्वे, बाधन्ते बन्धवोपि माम् ॥ त्यज्यते मलवत्प्राज्ञै-र्दोषवानङ्गजोपि हि ॥३१॥ मारितः सविषः सर्पो, निर्विषस्तु न मारितः॥ तद्दोषविषमुत्सृज्य, निर्विषत्वं श्रयाम्यहम् ॥३२॥ ध्यायन्नित्यादि तत्कालं, प्राप्तो जातिस्मृतिं बलः ॥ नरदेवभवौ प्राच्यौ, स्मृत्वा संवेगमासदत् ॥ ३३ ॥ अहो ! मदस्य दुष्टत्व-मिति चान्तर्विभावयन् ॥ मुनीनामन्तिके धर्म, श्रुत्वा व्रतमुपाददे ॥ ३४ ॥ तप्यमानस्तपस्तीत्रं, विहरन् सोन्यदा ययौ ॥ वाराणसी पुरीं धर्म-विहङ्गममहाद्रुमः॥ ३५ ॥ तत्राभूत्तिन्दुकोद्याने, गण्डीतिन्दुकयक्षराट् ॥ तमनुज्ञाप्य तचैत्ये, तस्थौ खस्थमना मुनिः ॥ ३६ ॥ तच प्रेक्ष्य गुणाम्भोधि, यक्षस्तत्रान्वरज्यत ॥ परोपि प्रियते हार, इव चारुगुणो हृदि ॥ ३७॥ सेवमानो मुनिं तश्चा-निशं | हंस इवाम्बुजम् ॥ कदाचिदपि नान्यत्र, यक्षराजो जगाम सः ॥ ३८॥ तत्रायातोन्यदा यक्षः, कश्चिदन्यवनस्थितः॥
Page #522
--------------------------------------------------------------------------
________________
उत्तराध्ययन]
॥२६॥
नाधुना दृश्यसे किं त्व-मिति पप्रच्छ तिन्दुकम् ॥ ३९॥ महात्मानममुं साधु, सेवे मित्राहमन्वहम् ॥ इति सम्प्रति
द्वादशमऽभ्यर्ण, नागच्छामीति सोप्यवक् ॥४०॥ सोथ तचरितं वीक्ष्य, सम्बुद्धस्तिन्दुकं जगौ ॥ कृतार्थस्त्वं यदुद्याने,
ध्ययनम् वसत्येष महामुनिः॥४१॥ ममोद्यानेपि यतयः, सन्ति भूयांस ईदृशाः॥ तदेहि तत्र गच्छावो, भजावस्तानपि (१२) क्षणम् ॥ ४२ ॥ तिन्दुकोथ ययौ तेन, यक्षेण सह तद्वनम् ॥ विकथानिरतांस्तांश्च, निरीक्ष्यैवमभाषत ॥४३॥
हरिकेशवल
चरितम् स्त्रीभक्तराजदेशानां, जायन्त इह सङ्कथाः॥ रम्यं महर्षिणा तेन, यामस्तिन्दुकमेव तत् ॥४४॥ सुकरं मुण्ड
३९-५३ मौलित्वं, सुकरं वेषधारणम् ॥ बाह्या क्रियापि सुकरा, समाधानं तु दुष्करम् ! ॥४५॥ इत्युक्त्वा स प्रतिगतस्तत्रैवारज्यताधिकम् ॥ आम्रमिष्टतरं निम्बे, बनुभूते भवेद्भशम् ॥ ४६॥ अहो! धर्मस्य माहात्म्यं, यदाराध्योपि | भूस्पृशाम् ॥ यक्षः सिषेवे तं साधु-मपि श्वपचवंशजम् ! ॥४७॥ राज्ञः कोशलिकाख्यस्य, सुता भद्राभिधाऽन्यदा॥ ययौ पूजयितुं यक्षं, तचैत्ये सपरिच्छदा ॥४८॥ सा प्रदक्षिणयन्ती च, यक्षं तं मुनिमैक्षत ॥ मलाप्लुतवपुर्वस्त्रं, कुरूपं शुष्कभूघनम् ॥ ४९ ॥ अहो ! निन्द्यस्वरूपोसौ, सर्वथापीति सा ततः ॥ थूचकार विमूढा हि, तत्त्वं । पश्यन्ति नान्तरम् ॥ ५० ॥ ततो रुष्टेन यक्षेण, सा कनी विवशीकृता ॥ असमञ्जसमाख्यातु-मारेभे दुष्टचेष्टिता ॥५१॥ सा विषण्णेन तंत्रण, निन्ये नृपनिकेतनम् ॥ नृपोपि तां तथा वीक्ष्य, विषादाद्वैतमासदत् ॥५२॥
॥२६१॥ राज्ञाथ कारिता वैद्य-मांत्रिकादिप्रतिक्रियाः॥ मोघास्तत्राभवन् सर्वाः, सत्क्रिया इव दुर्जने ॥५३॥ किर्तव्यवि
1
Page #523
--------------------------------------------------------------------------
________________
द्वादशमध्ययनम् हरिकेशबल
चरितम् |५४-६७
मूढेऽथ, जाते राज्ञि सधीसखे ॥ पात्रमेकमधिष्ठाय, यक्षोध्यक्षमदोवदत् ॥ ५४ ॥ निन्दा निदानं दुःखानां, यन्मुनेनिमितानया ॥ तद्यदीयं दीयतेऽस्मै, तदा मुञ्चामि नान्यथा ॥ ५५ ॥ जीवत्वसाविति क्षमापः, प्रत्यपद्यत तद्वचः॥ ततः सा सुस्थतां प्राप, तमोमुक्तेव चन्द्रिका ॥ ५६ ॥ साथ राज्ञाभ्यनुज्ञाता, सतंत्रागात्सुरालयम् ॥ महत्तरीभिश्वादिष्टा, निश्यगान्मुनिसन्निधौ ॥ ५७ ॥ तञ्च साधुं प्रणम्योचे, खामिन् ! पाणिं गृहाण मे ॥ स्माह व्रती कृतं भद्रे !, वार्त्तयाप्यनया मया !॥ ५८॥ न ये स्त्रीभिः सहेच्छन्ति, वासमप्येकसद्मनि ॥ कुर्वन्ति पाणिग्रहणं, तासां ते श्रमणाः कथम् ? ॥ ५९॥ नारीष्वशुचिपूर्णासु, मुक्तिस्त्रीसङ्गमोत्सुकाः ॥ ग्रैवेयकादिसुरव-द्रज्यन्ते नो महपेयः ! ॥६०॥ श्रुत्वेति बलमाना सा, व्यूढा यक्षेण साधा ॥ आच्छाद्य शमिनो रूपं, रूपान्तरविधायिना ॥६१॥ मुहुर्मुहुर्मुने रूपं, दिव्यं रूपञ्च दर्शयन् ॥ यक्षो विडम्बयामास, तां कनीमखिलां निशाम् ॥ ६२॥प्रभाते च मुनिन त्वा-मिच्छतीत्यामरं वचः॥ श्रुत्वा सा विमनास्तात-गेहेऽगात्सपरिच्छदा ॥ ६३॥ ताञ्चायान्तीं वीक्ष्य रक्तो, रुद्रदेवपुरोहितः ॥ ज्ञाततत्पूर्ववृत्तान्तः, पृथ्वीकान्तमदोऽवदत् ॥ ६४ ॥ खामिन्नसौ मुनिवधू-स्त्यक्ता तेनेति | साम्प्रतम् ॥ द्विजानां कल्पते देवा-र्चकानामिव तद्वलिः ॥६५॥ युज्यतेऽथैवमेवेति, ध्यात्वा भूपोपि तां कनीम् ॥ तस्मायेव ददौ गौरी-मिवेशाय हिमाचलः ॥ ६६ ॥ मुनिवान्तामपि प्राप्य, तां जहर्ष पुरोहितः ॥ क्षुद्रो बसारम-|| प्याप्य, वस्तु श्वेवास्थि मोदते ! ॥ ६७ ॥ अथ भोगसुखं तया समं, बुभुजे भूरि मुदा पुरोहितः ॥ स च यज्ञवधूं
SAROSAROSE
१२
Page #524
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२६२॥
१२
विधाय तां नृपपुत्रीं मखमन्यदा व्यधात् ॥ ६८ ॥ इत्युक्तः सम्प्रदायः । सम्प्रदायशेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रमेवानुत्रियते । तच्चेदम्
मूलम् — सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नामं, आसि भिक्खू जिइंदिओ ॥ १ ॥ व्याख्या - श्वपाककुलं चाण्डालवंशस्तत्र सम्भूत उत्पन्नः श्रपांककुलसम्भूतः, उत्तरान् प्रकृष्टान् गुणान् ज्ञानादीन् धरतीति उत्तरगुणधरः, सूत्रे तु पूर्वापरनिपातः प्राकृतत्वात्, मुनिः साधुः, श्वपाककुलोत्पन्नोपि कश्चित्संवासादिना पूर्व मेतार्य इवान्यथापि प्रतीतः स्यादत आह- हरिकेशो हरिकेश इति चाण्डाल इति सर्वत्र प्रतीतो वलो नाम वलाभिधः, आसीद्भिक्षुर्जितेन्द्रिय इति सूत्रार्थः ॥ १ ॥ स कीदृशः किञ्च चकारेत्याहमूलम् - - इरिएसणभासाए, उच्चारेसमिईसु अ । जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ॥ २ ॥
व्याख्या - ईर्ष्या च एषणा च भाषा च उच्चारश्च ईर्येषणाभाषोचाराः, एकारस्तूभयत्रापि सूत्रेऽलाक्षणिकः । तत्रोचारः पुरीषं तत् परिष्ठापनमपीहोचार उक्तः, उपलक्षणञ्श्चैतत् प्रश्रवणादिपरिष्ठापनस्य तद्विषयाः समितयः | सम्यक्प्रवर्तनरूपा ईयपणाभाषोच्चारसमितयस्तासु यतो यत्नवान् । प्राच्यचशब्दस्य भिन्नक्रमत्वादादाननिक्षेपे च पीठफलकादिग्रहणस्थापने च यतः । किम्भूतः सन्नित्याह- संयतः संयमयुक्तः, सुसमाहितः सुष्ठु समाधिमानिति सूत्रार्थः ॥ २॥
-
द्वादशम
ध्ययनम् (१२) हरिकेशबल
चरितम्
गा १-२
ર૬રા
Page #525
--------------------------------------------------------------------------
________________
द्वादशम
मूलम्-मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। भिक्खट्टा वंभइजमि, जण्णवाडमुवडिओ॥३॥81 __ व्याख्या--मनो गुप्तमशुभाध्यवसायेभ्यो निवृत्तमस्येति मनोगुप्तः, एवं वागगुप्तः, कायगुप्तश्च, जितेन्द्रियः पुन- ध्ययनम् रस्योपादानमतिशयख्यापकं, 'भिक्खट्टत्ति' भिक्षार्थ 'बंभइजंमित्ति' ब्रह्मणां ब्राह्मणानां इज्या यजनं यस्मिन् स ब्रह्मेज्यस्तस्मिन् , 'जण्णवाउंति' यज्ञपाटे उपस्थितः प्राप्त इति सूत्रार्थः ॥ ३ ॥ तदा च
मूलम्-तं पासिऊणमेजंतं, तवेण परिसोसिअं । पंतोवहिउवगरणं, उवहसंति अणारिआ ॥ ४॥ | व्याख्या-तं बलमुनि 'पासिऊणंति' दृष्ट्वा 'एजंतंति' आयान्तं, तपसा पठाष्टमादिना परिशोषितं कृशीकृतं, तथा प्रान्तो जीर्णत्वमालिन्यादिना असार उपधिर्वांकल्पादिरौधिकः, उपकरणञ्च दण्डकादि औपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं, उपहसन्यनार्या अशिष्टा इति सूत्रार्थः ॥ ४ ॥ कथं पुनरनार्याः कथञ्चोपाहसन्नित्याहमूलम्--जाईमयपडित्थद्धा, हिंसगा अजिइंदिआ। अबंभचारिणा वाला, इमं वयणमब्बवी ॥५॥ | व्याख्या-जातिमदेन ब्राह्मणा वयमित्यादिरूपेण प्रतिस्तब्धाः जातिमदप्रतिस्तब्धाः, हिंसकाः प्राणिप्राणापहारिणः, अजितेन्द्रियाः, अत एव अब्रह्मचारिणो मैथुनसेविनः ।वयेते हि तन्मते मैथुनमपि धर्माय-"धर्मार्थ पुत्रकामस्य, खदारेवधिकारिणः ॥ ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥१॥” तथा “अपुत्रस्य गति स्ति, वर्गो नैव च नैव च ॥
Page #526
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २६३ ॥
३
१२
6
तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्वर्ग गमिष्यति ॥ २ ॥ इत्यादिकथनादत एव वाला वालक्रीडाकल्पेष्वग्निहोत्रादिषु प्रवृत्तत्वात् इदं वक्ष्यमाणं वचनं 'अब्बवित्ति' अब्रुवन्निति सूत्रार्थः ॥ ५ ॥ किं तदित्याह -
मूलम् — कयरे आगच्छइ दित्तरुवे, काले विकराले फोक्कनासे । ओमचेल सुपिसायभूए, संकरदूसं परिहरिअ कंठे ॥ ६ ॥
व्याख्या -- ' कयरेत्ति' कतरः, एकारः प्राकृतत्वात्, आगच्छति, दीप्तरूपो बीभत्साकारः, कालो वर्णतः, विक| रालो दन्तुरत्वादिना भीषणः, 'फोक्कत्ति' देशीपदं, ततश्च फोक्का अग्रे स्थूला उन्नता च नासाऽस्येति फोक्कनासः । अवमचेलो निकृष्टचीवरः, पांशुना रेणुना पिशाच इव भूतो जातः पांशुपिशाचभूतः, पिशाचो हि लोके दीर्घश्मश्रुनखरोमा:- पांशुगुण्डितश्च रूढस्ततः सोपि निष्प्रतिकर्मतया रजोदिग्धतया चैवमुच्यते । तथा 'संकरदूसंति' संकरस्तृणभस्म गोमयादिराशिरुत्कुरुडिकेतियावत् तस्य दूष्यं वस्त्रं संकरदूष्यं तत्र हि यदतीवनिकृष्टं निरुपयोगि स्यात्तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायं वस्त्रं परिधृत्य निक्षिप्य कण्ठे गले । स हि अनिक्षिप्तोपधितया स्वमुपकरण - मादायैव भ्रमतीत्येवमुक्तमिति सूत्रार्थः ॥ ६ ॥ इत्थं दूरादागच्छन्नुक्तः, आसन्नं चैनं किमूचुरित्याह
मूलम् — कयरे तुमं इअ अदंसणिजे, का एव आसा इह मागओसि ।
ओमचेगा पंसुपिसायभूआ, गच्छ खलाहि किमिह द्विओसि ? ॥ ७ ॥
द्वादशम
ध्ययनम् (१२)
गा ६-७
॥ २६३ ॥
Page #527
--------------------------------------------------------------------------
________________
गा८
व्याख्या-कतरस्त्वं [ पाठान्तरे च 'को रे !' त्वं ? तत्राधिक्षेपे 'रे' शब्दः ] 'इअत्ति' इति अमुना प्रकारेणादर्शनी- द्वादशमयोऽद्रष्टव्यः, 'का एवत्ति' कया वा 'आसाइहमागओसित्ति' प्राकृतत्वादेकारलोपो मकारश्चागमिकस्तत आशया
ध्ययनम् वाञ्छया इह यज्ञपाटे आगतः प्राप्तोसि वर्तसे ? अवमचेलक ! पांशुपिशाचभूत ! पुनरनयोग्रहणमत्यन्तनिन्दासूचकं, गच्छ ब्रज ‘खलाहित्ति' देशीभाषया अपसर अस्मद्दष्टिपथादिति शेषः । किमिह स्थितोसि त्वं? नैवेह त्वया स्थेयमिति सूत्रार्थः ॥७॥ एवमधिक्षिप्ते साधौ शान्ततया किञ्चिदजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यचके तदाहमूलम्-जक्खो तहिं तिंदुअरुक्खवासी, अणुकंपओ तस्स महामुणिस्स ।
पच्छायइत्ता निअयं सरीरं, इमाई वयणाई उदाहरित्था ॥ ८॥ ___ व्याख्या-यक्षः 'तहिति' तस्मिन्नवसरे इति शेषः, तिन्दुकवृक्षवासी, तिन्दुकवनमध्ये हि महांस्तिन्दुकवृक्षस्तत्रासौ | वसति, तस्यैव च तरोरधस्तात्तचैत्यं, तत्र स यतिस्तिष्ठतीति वृद्धाः । अनुकम्पकोऽनुकूलप्रवृत्तिः, कस्सेत्साह- तस्य | हरिकेशबलस्य महामुनेः, प्रच्छाद्य आवृत्य निजकं खकीयं शरीरं मुनिदेह एव प्रविश्य खयमनुपलक्ष्यः सन्नित्यर्थः, इमानि वक्ष्यमाणानि वचनानि 'उदाहरित्थत्ति' उदाहृतवानिति सूत्रार्थः॥८॥ तान्येवाह
Page #528
--------------------------------------------------------------------------
________________
उत्तराध्ययन
द्वादशम. ध्ययनम्
॥२६४॥
गा ९-१०
मूलम्-समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ।
परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इह मागओम्हि ॥ ९॥ व्याख्या-श्रमणः साधुरहं, संयतः सम्यगुपरतः पापव्यापारेभ्य इति शेषः, अत एव ब्रह्मचारी, तथा विरतो | निवृत्तो धनपचनपरिग्रहात्, तत्र धनं चतुष्पदादि, पचनमाहारपाकः, परिग्रहो द्रव्यादिमूर्छा, अत एव परस्मै परार्थ प्रवृत्तं निष्पन्नं परप्रवृत्तं, तुशब्दोऽवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थ निष्पन्नस्य, भिक्षाकाले अन्नस्य अशनस्य 'अत्ति' अर्थाय इह यज्ञपाटे आगतोस्मीति सूत्रार्थः ॥९॥ अथ ते कदाचिदित्यं ब्रूयुर्यन्नात्र किञ्चित्क|स्मैचिद्दीयत इत्याहमूलम्-विअरिजइ खजइ भुजइ अ, अन्नं पभूअं भवयाणमेअं।
जाणाह मे जायणजीविणोत्ति, सेसावसेसं लहऊ तवस्सी ॥१०॥ व्याख्या-वितीर्यते दीयते दीनादिभ्यः, खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अन्नमशनं, प्रभूतं भूरि, भवतां युष्माकं सम्बन्धि, एतत्प्रत्यक्षं । तथा जानीतावगच्छत 'मेत्ति' मां 'जायणजीविणोत्ति' याचनजीवितं याचनेन जीवनशीलं, सूत्रे च द्वितीयार्थे षष्ठी, इत्यतो हेतोः शेषावशेषमुद्धरितादप्युद्धरितं, अन्तप्रान्तमित्यर्थः,
॥२६४॥
१२
Page #529
--------------------------------------------------------------------------
________________
१२
Deva
लभता तपखी यतिरिति सूत्रार्थः ॥ १० ॥ इति यक्षेणोक्ते द्विजा एवं स्माहुः—
मूलम् — उवक्खर्ड भोअण माहणाणं, अत्तट्ठिअं सिद्धमिगपक्खं ।
न हु वयं एरिसमन्नपाणं, दाहामु तुम्भं किमिहं ठिओसि ? ॥ ११ ॥
व्याख्या - उपस्कृतं संस्कृतं भोजनं माहनानां ब्राह्मणानां 'अत्तद्विअंति' आत्मार्थे भवं आत्मार्थिकं ब्राह्मणैरपि स्वयमेव भोज्यं न त्वन्यस्मै देयं किमिति ? यतः सिद्धं निष्पन्नं इह यज्ञे एकः पक्षो ब्राह्मणरूपो यस्य तदेकपक्षं, अयं भावः - यदत्रोपस्क्रियते न तद्ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शुद्राय । यत उक्तं - " न शूद्राय मतिं दद्यानोच्छिष्टं न हविः कृतम् ॥ न चास्योपदिशेद्धर्म, न चास्य व्रतमादिशेत् ॥ १ ॥” यतश्चैवमतो न तु नैव वयमीदृशं उक्तरूपं अन्नपानं दास्यामस्तुभ्यं किमिह स्थितोसीति सूत्रार्थः ॥ ११ ॥ यक्षः प्राह -
मूलम् - थलेसु बीआई वपंति कासगा, तहेव निन्नेसु अ आससाए ।
एआइ साइ दलाहि मज्झं, आराहए पुण्णमिणं खु खित्तं ॥ १२ ॥ व्याख्या - स्थलेषूच्चभागेषु बीजानि मुद्गादीनि वपन्ति ' कासगत्ति' कर्षकाः कृषीवलाः, तथैव स्थलवदेव निम्नेषु च नीचभूभागेषु 'आससाएत्ति' आसंशया यदि भूयसी वृष्टिस्तदा स्थलेषु फलप्रासिरथ स्तोका तदा निम्नेषु इत्येवंरूपया
द्वादशमः ध्ययनम् गा ११-१२
Page #530
--------------------------------------------------------------------------
________________
ो
उत्तराध्ययन
द्वादशमध्ययनम् (१२)
॥२६५॥
गा १३
वान्छया एतया कर्षकाशंसाकल्पया श्रद्धया 'दलाहित्ति' ददध्वं मह्यं, अयं भावः-यद्यपि यूयं निम्नक्षेत्रतुल्यमात्मानं से मन्यध्वे, माञ्च स्थलतुल्यं, तथापि मह्यमपि दातुमुचितं, न चैवं दत्तेपि न फलावाप्तिरिति ध्येयमित्याह-आराहए। पुण्णमिणं खुत्ति' खुशब्दस्य एवकारार्थस्य भिन्नक्रमत्वादाराधयेदेव साधयेदेव, नानान्यथाभावः, पुण्यं शुभमिदं दृश्यमानं क्षेत्रंदानस्थानं, पुण्यसस्यप्ररोहहेतुतया आत्मानमेव एवं स्माहेति सूत्रार्थः ॥१२॥इति यक्षेणोक्ते ते स्माहुः
मूलम्-खेत्ताणि अम्हं विइआणि लोए, जहिं पकिण्णा विरुहंति पुण्णा।
जे माहणा जाइविज्जोववेआ, ताई तु खित्ताई सुपेसलाई ॥ १३ ॥ व्याख्या-क्षेत्राणि अस्माकं विदितानि ज्ञातानि, सन्तीति शेषः, लोके जगति 'जहिंति' वचनव्यत्ययायेषु त |क्षेत्रेषु प्रकीर्णानि दत्तानि, अशनादीनीति शेषः, विरोहन्ति जन्मान्तरे प्रादुर्भवन्ति पूर्णानि समस्तानि, न चाहमपि तन्मध्यवत्यैवेति त्वया ध्येयं, यतो ये ब्राह्मणाः, जातिश्च ब्राह्मणजातिरूपा, विद्या च चतुर्दशविद्यास्थानात्मिका, ताभ्यां 'उववेअत्ति' उपपेताः अन्विताः जातिविद्योपपेताः, 'ताई तुत्ति' तान्येव क्षेत्राणि सुपेशलानि शोभनानि, न तु भवाशानि शूद्रजातीनि विद्याविकलानि । यदुक्तं-“सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे ॥ सहस्रगुणमाचार्य, अनन्तं वेदपारगे॥१॥” इति सूत्रार्थः ॥ १३ ॥ यक्षः स्माह
SHEHRESORCE
॥२६५॥
Page #531
--------------------------------------------------------------------------
________________
१२
मूलम् — कोहो अमाणो अ वहो अ जेसिं, मोसं अदत्तं च परिग्गहो अ । ते माणा जातिविज्जाविहीणा, ताई तु खित्ताइं सुपावगाई ॥ १४ ॥
व्याख्या— क्रोधश्च, मानश्च च शब्दान्मायालोभौ च वधश्च येषामिति प्रक्रमाद्भवतां ब्राह्मणानां 'मोसंति' मृषा अलीकभापणं, अदत्तं अदत्तादानं, चशब्दान्मैथुनं च परिग्रहश्च गोभूम्यादि स्वीकारोस्तीति सर्वत्र गम्यते, ते इति क्रोधाद्युपेता यूयं जातिविद्याविहीनाः । कथमिति चेदुच्यते - क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था । यदुक्तं"एकवर्णमिदं सर्व, पूर्णमासीद्युधिष्ठिर ! ॥ क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥ १ ॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः ॥ अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत् ॥” न चेदृशी क्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु युष्मासु तत्वतः सम्भवत्यतो न तावज्जातिसम्भवः, तथा विद्यापि सम्यग्ज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानज्ञापकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनात् किञ्च सम्यग्ज्ञानस्य फलं विरतिरेव, ज्ञानस्य फलं विरतिरिति वचनात्, न च युष्मासु विरतिसम्भवोस्ति, तदभावे च ज्ञानं सदप्यसदेवेति स्थितं । 'ताई तुत्ति' तुरव - धारणे भिन्नक्रमश्च ततस्तानि भवद्विदितानि द्विजरूपाणि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, कोपादिपापस्थानकलितत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ १४ ॥ अथ कदाचित्ते ब्रूयुर्वेदविद्याविदो वयं ब्राह्मणजातयश्च तत्कथं जातिविद्याविहीना इत्यत्रवीरित्याह
द्वादशमध्ययनम्
मा १४
Page #532
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२६६॥
मूलम्-तुब्भेत्थ भो भारधरा गिराणं, अहं न याणाह अहिज वेए ।
द्वादशम
ध्ययनम् उच्चावयाइं मुणिणो चरंति, ताइं तु खित्ताई सुपेसलाइं ॥ १५ ॥ व्याख्या-यूयं 'इत्यत्ति' अत्र लोके भो इत्यामंत्रणे, भारधरा भारवहा गिरां वाचां प्रक्रमाद्वेदसम्बन्धिनीनांगा १५-१६ भारश्चेह तासां भूयस्त्वमेव, कुतो भारधराः ? इति चेदुच्यते-यतः अर्थमभिधेयं न जानीथ, 'अहिजत्ति' अपेर्गम्यत्वादधीत्यापि वेदान् , अथ चेदर्थ जानीथ तदा "न हिंस्यात्सर्वभूतानि" इत्यादिवेदवाचामर्थ विदन्तोपि किमर्थ |पशुहिंसात्मकान् यागान् कुरुथ ? तत्करणे तु तत्त्वतो वेदविद्याविदोपि भवन्तो न स्युः, तत्कथं जातिविद्यासम्पनत्वेन क्षेत्रभूताः स्युः ? कानि तर्हि क्षेत्राणि ? इत्याह-'उच्चावयाइंति' उच्चान्युत्तमानि अवचान्यधमानि उच्चावचानि, गृहाणीति शेषः, मुनयश्वरन्ति भिक्षार्थ पर्यटन्ति, न तु युष्मद्वत्पचनाद्यारम्भप्रवृत्ताः ! त एव तत्त्वतो वेदार्थ विदन्ति, तत्रापि भिक्षावृत्तरेव समर्थितत्त्वात् , तथा च वेदान्तानुवादिनः-"चरेन्माधुकरी वृत्ति-मपि म्लेच्छकुलादपि ॥ एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥" ततस्तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति सूत्रार्थः ॥ १५॥ इत्थमध्यापकं यक्षेणाधिक्षिप्तं वीक्ष्य तच्छात्राः स्माहुः
॥२६६॥ मूलम्-अज्झावयाणं पडिकूलभासी, पभाससे किं नु सगासि अम्हं ।
अवि एअं विणस्सउ अन्नपाणं, न य णं दाहामु तुमं निअंठा ॥१६॥
१
,
Page #533
--------------------------------------------------------------------------
________________
द्वादशमध्ययनम् गा १७
व्याख्या-अध्यापकानां उपाध्यायानां प्रतिकूलभाषी सन् त्वं प्रभाषसे प्रकर्षण ब्रूषे. किमिति क्षेपे. क्षमायां, ततश्च धिग भवन्तं, न वयं क्षमामहे यदेवं भवान् ब्रूते सकाशे पार्थेऽस्माकं । अपिः सम्भावने.. विनश्यतु कुथितादिभावं प्राप्नोतु अन्नपानं, न च नैव ‘णं' वाक्यालङ्कारे 'दाहामुत्ति' दास्यामस्तव निर्ग्रन्थ ! निष्किचन ! गुरुप्रत्यनीको हि भवानिति भाव इति सूत्रार्थः ॥ १६ ॥ यक्षः माह
मूलम्-समईहिं मज्झं सुसमाहिअस्स, गुत्तीहिं गुत्तस्स जिइंदिअस्स।
जइ मे न दाहित्थ अहेसणिजं, किमज जण्णाण लहित्थ लाभं ॥ १७ ॥ ___व्याख्या-समितिभिरीर्यासमित्यादिभिर्मह्यं सुसमाहिताय सुष्टुसमाधिमते, गुप्तिभिर्मनोगुप्त्यादिभिर्गुप्ताय, जितेन्द्रियाय, यदि मे मा, पूर्वोक्तं 'मज्झति'पदस्य व्यवहितत्वात्पुनमें इति ग्रहणमदुष्टं, न दास्यथ, अथेत्युपन्यासे, एषणीयं एषणाविशुद्धमन्नादि तर्हि किं न किंचिदित्यर्थोऽद्य प्रज्ञानां 'लहित्थत्ति' सूत्रत्वालप्स्यध्वे प्राप्स्यथ ? लाभं पुण्यप्राप्तिरूपं । पात्रदानादेव हि विशिष्टपुण्यप्राप्तिरन्यत्र तु तादृशफलाभावादीयमानस्य हानिरेव । यदुक्तं-"दधिमधुधतान्यपात्रे, क्षिप्तानि यथाशु नाशमुपयान्ति ॥ एवमपात्रे दत्तानि, केवलं नाशमुपयान्ति ॥१॥” इति सूत्रार्थः ॥१७॥ एवं तेनोक्ते यदध्यापकः माह तदाह
Page #534
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २६७ ॥
३
१२
मूलम् — के इत्थ खत्ता उवजोइआ वा, अज्झावया वा सह खंडिएहिं । एअं तु दंडेण फलेण हंता, कंठमि घित्तूण खलेज्ज जो णं ॥ १८ ॥
व्याख्या -- के ' इत्थत्ति' अत्रास्मिन् स्थाने क्षत्राः क्षत्रियजातयः, 'उवजोइअत्ति' उपज्योतिषोऽग्निपार्श्ववर्त्तिनो महानसिका इत्यर्थः, अध्यापकाः पाठकाः, सर्वत्र वा विकल्पे, 'सहेति' युक्ताः खण्डिकैः छात्रैः सन्तीति शेषः, ये किमित्याह - एतं मुनिं दण्डेन यष्टयादिना, फलेन बिल्वादिना, यद्वा दण्डेन कूर्पराभिघातेन, फलेन मुष्टिप्रहारेणेति वृद्धाः, 'हंतत्ति' हत्वा ताडयित्वा ततश्च कण्ठे गले गृहीत्वा 'खलेज्जत्ति' स्खलयेयुर्निष्काशयेयुः, 'जोत्ति' वचनव्यत्ययात् ये 'मिति' वाक्यालङ्कार इति सूत्रार्थः ॥ १८ ॥ तदा च तत्र यदभूत्तदाह
मूलम् - अज्झायाणं वयणं सुणित्ता, उद्धाइआ तत्थ बहू कुमारा । दंडेहिं वेत्तेहिं कसेहिं चेव, समागया तं इसिं तालयंति ॥ १९ ॥
व्याख्या – अध्यापकानां पाठकानां वचनं श्रुत्वा उद्धाविता वेगेन धावितास्तत्र बहवः कुमारारछात्रादयः, ते हि अहो ! क्रीडनकमागतमिति रभसतो दण्डैर्वैशदण्डाद्यैर्वत्रैर्जलवंशरूपैः कशैश्चैव वत्रविकारैः समागता मिलितास्तं ऋषिं मुनिं ताडयन्तीति सूत्रार्थः ॥ १९ ॥ तदा च
द्वादशम ध्ययनम् (१२)
गा १८-१९
॥ २६७ ॥
Page #535
--------------------------------------------------------------------------
________________
१२
मूलम् - रण्णो तहिं कोसलिअस्स धूआ, भद्दत्ति नामेण अणिदिअंगी । तं पासिआ संजयं हम्ममाणं, कुद्धे कुमारे परिनिवेइ ॥ २० ॥
व्याख्या– राज्ञो नृपतेस्तत्र यज्ञपाटे कोशलायां भवः कौशलिकस्तस्य 'धूअत्ति' सुता भद्रेति नाम्ना अनिन्दिताङ्गी मनोज्ञदेहा तं हरिकेशवलं 'पासिअत्ति' दृष्ट्वा संयतं तस्यामप्यवस्थायां हिंसादेर्निवृत्तं हन्यमानं क्रुद्धान् कुमारान् परिनिर्वापयति क्रोधाग्निविध्यापनेन शीतीकरोतीति सूत्रार्थः॥ २० ॥ सा च तान्निर्वापयन्ती तस्य प्रभावमतिनिःस्पृहताञ्चाह - मूलम् — देवाभिओगेण निओइएणं, दिण्णासु रण्णा मणसा न झाया । नरिंददेविंदभिवंदिएणं, जेणामि वंता इसिणा स एसो ॥ २१ ॥
व्याख्या - देवस्याभियोगो बलात्कारो देवाभियोगस्तेन नियोजितेन व्यापारितेन 'दिण्णासुत्ति' दत्तास्मि अहं राज्ञा प्रक्रमात्कौशलिकेन तथापि 'मणसत्ति' अपेर्गम्यमानत्वान्मनसापि चित्तेनापि न ध्याता न कामिता येनेति सम्बध्यते, नरेन्द्रदेवेन्द्राभिवन्दितेन येनास्म्यहं वान्ता त्यक्ता ऋषिणा साधुना स एष युष्माभिः कदर्थयितुमारब्धस्ततोऽनुचितमेतदिति सूत्रार्थः ॥ २१ ॥ इममेवार्थ समर्थयितुमाह-
मूलम् — एसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओ बंभयारी ।
जो मे तया निच्छइ दिज्जमाणिं, पिउणा सयं कोसलिएण रण्णा ॥ २२ ॥
द्वादशमध्ययनम् गा २०-२२
Page #536
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२६८॥
व्याख्या-एसो हु सोत्ति 'एष एव स उग्रतपा अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यो 'मेत्ति'
द्वादशम. मां तदा नेच्छति दीयमानां पित्रा जनकेन खयं आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राज्ञेति सूत्रार्थः ॥२२॥
ध्ययनम्
(१२) इत्थं निःस्पृहतामुक्त्वा पुनर्माहात्म्यमाह--
गा २३-२४ मूलम्-महाजसो एस महाणुभागो, घोरवओ घोरपरक्कमो अ।
___ मा एअं हीलह अहीलणिजं, मा सवे तेएण भे निदहिज्जा ॥ २३ ॥ । व्याख्या-महायशा एष मुनिमहानुभागोऽतिशयाचिन्त्यशक्तिः, घोरव्रतो धृतदुर्धरमहाव्रतः, घोरपराक्रमश्च कषायादिवैरिजयम्प्रति रौद्रसामर्थ्यः, यतश्चायमीशस्ततो मा एनं मुनि हीलयत अहीलनीयं, किमिति ? यतो मा सास्तेजसा तपोमाहात्म्येन भवतो निर्धाक्षीत् भस्मसात्कार्षीत् , अयं हि रुष्टो भस्मसादेवकुर्यादिति भाव इति | सूत्रार्थः ॥ २३ ॥ तदा च मा भूदस्या वचो विफलमिति यक्षो यचक्रे तदाहमूलम् एताइं तीसे वयणाई सुच्चा, पत्तीइ भद्दाइ सुभासिआई।
॥ २६८॥ इसिस्स वेआवडिअट्टयाए, जक्खा कुमारे विनिवारयति ॥ २४ ॥ व्याख्या-एतानि पूर्वोक्तानि वचनानि तस्याः श्रुत्वा पल्या भार्याया रुद्रदेवपुरोहितस्पेति शेषः, भद्रायाः ।
Page #537
--------------------------------------------------------------------------
________________
सुभाषितानि सूक्तानि वचनानीति योज्यते, ऋषयावृत्त्यार्थ यक्षा यक्षपरिवारस्य बहुत्वाद्बहुवचनं, कुमारान् ।
द्वादशमवारयन्ति, उपद्रवान् कुर्वतो निराकुर्वन्तीति सूत्रार्थः ॥ २४ ॥ कथं निवारयन्तीत्याह
ध्ययनम्
गा २५-२७ मूलम्-ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति ।
ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुजो ॥ २५ ॥ व्याख्या--ते यक्षा घोररूपा रौद्राकारधारिणः 'ठिअत्ति' स्थिता अन्तरिक्षे नभसि असुरा आसुरभावान्वितत्वात् । तस्मिन् यज्ञपाटे तं उपद्रवकरं जनं ताडयन्ति, ततश्च तान् कुमारान् भिन्नदेहान् विदारिताङ्गान् यक्षप्रहारैरिति गम्यं, तथा रुधिरं वमतो दृष्ट्वा भद्रा इदं वक्ष्यमाणं 'आहुत्ति'वचनव्यत्ययादाह ब्रूते, भूयः पुनरिति सूत्रार्थः॥२५॥ तद्यथामू-गिरि नहेहिं खणह, अयं दंतेहिं खायह । जायतेअं पाएहिं हणह, जे भिक्खुं अवमन्नह ॥ २६॥ | व्यख्या-गिरि नखैः खनथ, इह सर्वत्रेवार्थो द्रष्टव्यस्ततः खनथेव खनथ, तथा अयो लोहं दन्तैः खादथ,
जाततेजसं अग्निं पादैहन्यथ ताडयथ, ये यूयं भिक्षु प्रक्रमादेनं अवमन्यध्वे अवधीरयथ, अनर्थफलत्वाद्भिश्वपमान|स्वेति सूत्रार्थः ॥ २६ ॥ कथमिदमित्याह
मूलम् आसीविसो उग्गतवो महेसी, घोरवओ घोरपरक्कमो अ।
अगणिं व पक्खंद पयंगसेणा, जे भिक्खु भत्तकाले वहेह ॥ २७ ॥
Page #538
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २६९ ॥
३
६
१२
व्याख्या— आशीर्विष आशीर्विपलब्धिमान् शापानुग्रहसमर्थः, कुत इत्याह-यतोसौ उग्रतपा महर्षिर्घोरत्रतो घोरपराक्रमश्च ततश्च 'अगणिवत्ति' अग्निं वह्निं वाशब्द इवार्थो भिन्नक्रमश्च ततः प्रस्कन्दथेव आक्रामथेव, केव १ 'पयंग सेणति' इवशब्दस्य गम्यत्वात् पतङ्गसेनेव शलभ श्रेणिरिव यथा हि सा तमाक्रामन्ती सद्यो नाशमश्नुते तथा यूयमपीति भावः, ये यूयं भिक्षुकं भक्तकाले भोजनावसरे, तत्र हि दीनादीनामवश्यं देयमिति शिष्टाचारः, यूयं तु केवलं न दत्तेति न, किन्तु तत्रापि 'वहेहत्ति' विध्यथ ताडयथेति सूत्रार्थः ॥ २७॥ इत्थं तन्माहात्म्यमावेद्य कृत्योपदेशमाह - मूलम् — सीसेण एअं सरणं उवेह, समागया सबजणेण तुम्भे ।
जइ इच्छह जीविअं वा धणं वा, लोअंपि एसो कुविओ डहेजा ॥ २८ ॥ व्याख्या - शीर्षेण मूर्द्धा एतं मुनिं शरणं त्राणमुपेताभ्युपगच्छत, शिरोनमनपूर्व त्वमेव नः शरणमिति प्रतिपद्य - ध्वमिति भावः । समागताः मिलिताः सर्वजनेन सह यूयं यदीच्छत जीवितं वा धनं वा, अस्मिन् हि कुपिते नापरं जीवितादिरक्षाक्षमं शरणमस्ति, कुत इत्याह-यतो लोकमपि जगदप्येष कुपितो दहेदिति सूत्रार्थः ॥ २८ ॥ अथोपाध्यायस्तान् यादृशान् दृष्ट्वा यदकरोत्तदाह
मूलम् — अवहेडिअपिस उत्तमंगे, पसारिआबाहुअकम्मचिट्ठे । निब्भेरितच्छे रुहिरं वमंते, ऊडुंमुहे निग्गयजीहनेते ॥ २९ ॥
द्वादशमध्ययनम् (१२)
गा २८-२९
॥ २६९ ॥
Page #539
--------------------------------------------------------------------------
________________
९
ते पासिआ खंडिअ कट्टभूए, विमणो विसण्णो अह माहणो सो ।
इसिं पसादेति सभारिआओ, हीलं च निंदं च खमाह भंते ! ॥ ३० ॥
व्याख्या -- अवहेठितानि अधोनमितानि 'पिट्ठत्ति' पृष्ठं यावत्सन्ति शोभनानि उत्तमाङ्गानि शिरांसि येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः, मध्यमपदलोपी समासस्तान्, प्रसारिता बाहवो येषां ते तथा, कर्माण्यग्नौ समित्क्षेपादीनि तद्विपया चेष्टा कर्मचेष्टा, न विद्यते कर्मचेष्टा येषां ते तथा, ततः कर्मधारये प्रसारितबाहूकर्मचेष्टास्तान्, 'निब्भेरियत्ति ' | प्रसारितान्यक्षीणि नयनानि येषां ते तथा तान्, रुधिरं वमतः, 'उहुंमुहेत्ति' उर्द्धमुखान् निर्गतजिह्वानेत्रान् ॥ २९ ॥ 'ते पासिआ इति' तान् दृष्ट्वा 'खंडिअत्ति' खण्डिकान् छात्रान् काष्ठभूतान् अत्यन्तनिश्चेष्टतया काष्ठकल्पान्, विमना विचित्तो विषण्णः कथममी सज्जा भविष्यन्तीति विषादं प्राप्तः, अथेति दर्शनानन्तरं ब्राह्मणः स इति रुद्रदेवाख्यः ऋषिं प्रसादयति सभार्याको भार्यायुक्तः कथमित्याह - हीलां चावज्ञां, निंदां च दोषोद्भावनरूपां, क्षमध्वं भदन्तेति सूत्रार्थः ॥ ३० ॥ पुनः प्रसादनामेवाह
मूलम् - बालेहिं मूढेहिं अयाणएहिं, जं हीलीआ तस्स खमाह भंते ! ।
महसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ ३१ ॥
द्वादशम. ध्ययनम् गा ३०-३१
Page #540
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२७॥
(१२)
द्वादशमव्याख्या--बालैः शिशुभिर्मूढैः कषायोदयाद्विचित्ततांगतैरत एवाहिताहितविवेकविकलैर्यत् हीलिताः 'तस्सत्ति
ध्ययनम् सूत्रत्वात् तत् क्षमध्वं भदन्त ! न ह्यमी शिशवो मूढाः सतां कोपार्हाः, किन्त्वनुकम्पार्हा एव । यदुक्तं-"आत्म| दुहममर्यादं, मूढमुज्झितसत्पथम् ॥ सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥ १॥” किञ्च महाप्रसादा ऋषयो गा ३२-३३ भवन्ति, 'न हुत्ति' न पुनर्मुनयः कोपपरा भवन्तीति सूत्रार्थः ॥ ३१ ॥ मुनिराह
मूलम्-पुत्विं च इण्हि च अणागयं च, मणप्पओसो न मे अस्थि कोई ।
जक्खा हु वेआवडिअं करेन्ति, तम्हा हु एए निहया कुमारा ॥ ३२ ॥ __ व्याख्या-पूर्व च पुरा, इदानीश्चाधुना, अनागते च भविष्यति काले, मनःप्रद्वेषो न मे अस्ति, उपलक्षणत्वादासीद्भविष्यति च, कोपीयल्पोपि । तर्हि कथममी ईदृशा जाताः ? इत्याह- यक्षाः 'हुरिति' यस्माद्वैयावृत्त्यं । कुर्वन्ति, तस्मात् हुरवधारणे, ततस्तस्मादेव हेतोरेते प्रत्यक्षा निहताः कुमाराः, न तु मम प्रद्वेषोऽत्र हेतुरिति सूत्रार्थः ॥ ३२ ॥ ततस्तद्गुणाकृष्टचित्ता उपाध्यायादय इदमाहुः
॥२७॥ मूलम्-अत्थं च धम्मं च विआणमाणा, तुब्भे णवि कुप्पह भूइपण्णा।
तुभं तु पाए सरणं उवेमो, समागया सवजणेण अम्हे ॥ ३३ ॥
Page #541
--------------------------------------------------------------------------
________________
द्वादशम
ध्ययनम्
गा ३४-३५
CARROSAROROSSES
व्याख्या-अथ च शास्त्राणामभिधेयं, धर्म च यतिधर्म क्षान्त्यादिकं विजानन्तो विशेषेणावगच्छन्तो यूयं नापि नैव कुप्यथ, 'भूइपण्णत्ति' भूतिर्मङ्गलं १ वृद्धिः २ रक्षा ३ वेति वृद्धाः, ततो भूतिमङ्गलं सर्वमङ्गलोत्तमत्वेन, वृद्धिर्वा वृद्धिविशिष्टत्वेन, रक्षा वा सर्वप्राणिरक्षकत्वेन, प्रज्ञा बुद्धिर्येषां ते भूतिप्रज्ञाः, अत एव 'तुभं तुत्ति' युष्माकमेव पादौ शरणं उपेमः खीकुर्मः समागताः सर्वजनेन वयमिति सूत्रार्थः ॥ ३३ ॥ तथामूलम्-अञ्चेमु ते महाभाग!, न ते किंचि न अचिमो। भुंजाहि सालिमं कूर, नाणावंजणसंजुअं॥३४॥
व्याख्या-अर्चयामः पूजयामः 'ते' इति सुबूव्यत्ययात्त्वां हे महाभाग ! न नैव ते तव किञ्चिचरणरेवादिकमपि नार्चयामः, तथा मुंश्व इतो गृहीत्वा 'सालिमंति' शालिमयं शालिनिष्पन्नं कूरं ओदनं नानाव्यअनैर्दध्यादिभिः संयुतमिति सूत्रार्थः ॥ ३४ ॥ अन्यच्च
मूलम-इमं च मे अत्थि पभूअमन्नं, तं भुंजसू अम्हमणुग्गहट्ठा।
बाढंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ! ॥३५॥ व्याख्या-इदं च प्रत्यक्षत एव दृश्यमानं मे मम अस्ति प्रभूतं भूरि अन्नं मण्डकखण्डखाद्यादि भोजनं तद्भव अस्माकमनुग्रहार्थे, एवं तेनोक्ते मुनिराह-बाढमेवं कुर्म इतीत्येवं वाण इति शेषः, प्रतिच्छति द्रव्यादिभिः शुद्ध
Page #542
--------------------------------------------------------------------------
________________
उत्तराध्ययन में मिति गृह्णाति भक्तपानं 'मासस्स उत्ति' मासस्यैव मासक्षपणस्यैवान्ते इति गम्यं, पार्यते पर्यन्तः क्रियते निय- द्वादशम
मस्यानेनेति पारणं, तदेव पारणकं, भोजनमित्यर्थः, तस्मिन्महात्मेति सूत्रार्थः ॥३५॥ तदा च तत्र यदभुत्तदाह-- ध्ययनम् ॥२७१॥
(१२) मूलम्-तहि गंधोदयपुप्फवासं, दिवा तहिं वसुहारा य बुट्टा।
13 गा ३६-३७ पहयाओ दुंदुहीओ सुरेहिं, आगासे अहो दाणं च घुटं ॥ ३६ ॥ व्याख्या-'तहिति' तत्र यज्ञपाटे गन्धोदकं च पुष्पाणि च गन्धोदकपुष्पाणि तेषां वर्ष वर्षणं गन्धोदकपुष्पवर्ष सुरैरिति सम्बन्धात्कृतमिति गम्यते, नपुंसकलिङ्गनिर्देशश्चेह वर्षशब्दस्य पुनपुंसकलिङ्गत्वात् । दिव्या | श्रेष्ठा 'तहिति' तत्र वसु द्रव्यं तस्य धारा सततनिपातजनितासंततिर्वसुधारा, सा च वृष्टा पातिता सुरैरिति इहापि योज्यते । तथा प्रहता दुन्दुभयो देवानकाः सुरैः। तथा तैरेवाकाशे अहो ! इत्याश्चर्ये कोन्यः किलैवं दानं दातुं शक्तः ? इत्यहोदानं च घुष्टं संशब्दितमिति सूत्रार्थः ॥ ३६ ॥ तच प्रेक्ष्य विस्मिता विप्रा अप्येवमाहुःमूलम्-सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेसु कोई।
॥२७१॥ सोवागपुत्तं हरिएससाहुं, जस्सेरिसा इड्डि महाणुभागा ॥ ३७॥ व्याख्या-'सक्खं खुत्ति' खुशब्दोऽवधारणे, ततः साक्षादेव दृश्यते तपसो विशेषो माहात्म्यं तपोविशेषः, न
ALSACRICALARAKAR
Page #543
--------------------------------------------------------------------------
________________
द्वादशमध्ययनम् गा३८-३९
4-******
दृश्यते जातिविशेषो जातिमाहात्म्यरूपः कोपि खल्पोपि । कुतः? इत्याह-यतः श्वपाकपुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्येशी दृश्यमानरूपा ऋद्धिर्देवसान्निध्यलक्षणा संपन्महानुभागा सातिशयमाहात्म्या! जातिविशेषे हि सति द्विजातीनामस्माकमेव देवाः सान्निध्यं विदध्युरिति सूत्रार्थः ॥ ३७ ॥ अथ स एव मुनिस्तानुपशान्तमिथ्यात्वानिव पश्यन्निदमाह
मूलम्-किं माहणा जोईसमारभंता, उदएण सोहिं बहिआ विमग्गह ।
____ जं मग्गहा बाहिरिअं विसोहिं, न तं सुदिदं कुसला वयंति ॥ ३८॥ व्याख्या--किमिति क्षेपे, ततो न युक्तमिदं हे माहनाः ब्राह्मणाः ! ज्योतिरमिस्तं समारभमाणाः प्रस्तावाद्यागं | कुर्वन्त इत्यर्थः, उदकेन जलेन शोधि विशुद्धिं 'बहिअत्ति' वाह्यां विमार्गयथान्वेषयथ । किमेवमुपदिश्यते ? इत्याहयद्यूयं मार्गयथ बाह्यां स्नानादिबाह्यहेतुजां विशुद्धिं निर्मलतां न तत् सुदृष्टं सुष्ठ प्रेक्षितं कुशलास्तत्त्वविदो बदन्तीति सूत्रार्थः ॥ ३८ ॥ एतदेव स्पष्टयति
मूलम्-कुसं च जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फुसंता ।
पाणाइं भूआई विहेडयंता, भुजोवि मंदा पकरेह पावं ॥ ३९ ॥
**
*
Page #544
--------------------------------------------------------------------------
________________
ध्ययनम्
४०
उत्तराध्ययन | व्याख्या-कुशं च दर्भ, यूपं यज्ञस्तम्भ, तृणं च वीरणादि+काष्ठं च इन्धनादि, तृणकाष्ठं । अग्निं वहि, सर्वत्र |
द्वादशमप्रतिगृह्णन्त इति शेषः । सायं सन्ध्यायां, चशब्दो भिन्नक्रमस्ततः 'पायति' प्रातश्च प्रभाते उदकं जलं स्पृशन्त आच॥२७२॥
मनादिषु परामृशन्तः 'पाणाइंति' प्राणिनो द्वीन्द्रियादीनुदकादौ भूतान् तरून् पृथिव्याधुपलक्षणश्चैतत् विहेठमानाः (१२) विविधं बाधमानाः भूयोपि पुनरपि न केवलं पुरा किन्तु शुद्धिकालेपि जलानलादिजीवोपमर्दनेन मन्दा जडाः सन्तः प्रकुरुथ प्रकर्षेण उपचिनुथ पापमशुभकर्म । अयं भावः-कुशला हि कर्ममलविगमात्मिका तात्त्विकीमेव शुद्धिं मन्यन्ते, भवदभिमते यागनाने च यूपादिपरिग्रहजलस्पर्शादिभिर्जन्तूपमर्दहेतुतया प्रत्युत कर्ममलोपचयनिवन्धने एव, तत्कथं तद्धेतुकशुद्धिमार्गणं सुदृष्टं विदो वदेयुः? आह च वाचकमुख्यः-"शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्ध्यात्मकं शुभम् ॥ जलादिशौचं यत्रेदं, मूढविस्मापनं हि तत् ॥ १॥” इति सूत्रार्थः ॥ ३९ ॥ इत्थं तद्वाचा जातसन्देहास्ते यागमाश्रित्यैवमप्राक्षुः
मूलम्-कहं चरे भिक्खु वयं जयामो, पावाइं कम्माइं पणोल्लयामो।
अक्खाहि णो संजय जक्खपूइआ, कहं सुइडं कुसला वयंति ॥ ४०॥ व्याख्या-कथं केन प्रकारेण 'चरेत्ति' सूत्रत्वाचरामो यागार्थ प्रवामहे वयं, हे भिक्षो । तथा यजामो यागं| कुर्मः १ कथमिति योगः, पापान्यशुभानि कर्माणि 'पणुल्लयामोत्ति' प्रणुदामः प्रेरयामो येनेति गम्यते, आख्याहि |
Page #545
--------------------------------------------------------------------------
________________
द्वादशमध्ययनम् गा४१.४२
कथय नोऽस्माकं संयत यक्षपूजित ! । यो यस्मद्विदितः कर्मप्रणोदनोपायो यागः स तु युष्माभिषित इति भवन्त एवापरं यागमुपदिशन्त्विति भावः । ततः कथं खिष्टं शोभनयजनं कुशला वदन्तीति सूत्रार्थः ॥४०॥ मुनिराह
मूलम्-छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा।
परिग्गहं इथिओ माण मायं, एअं परिणाय चरंति दंता ॥४१॥ व्याख्या-षड्जीवकायान् पृथिव्यादीन् असमारभमाणा अनुपमर्दयन्तः, 'मोसंति' मृषां अलीकं, अदत्तं च अदत्तादानमसेवमानाः, 'परिग्गहं' मूच्छी, स्त्रियो मानं माया तत्सहचरात्कोपलोभौ च एतदनन्तरोक्तं परिज्ञाय ज्ञपरिज्ञया दुष्कर्मनिवन्धनमिति ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्याय चरन्ति यागे प्रवर्तन्ते दान्ताः । यतश्च | दान्ता एवं चरन्ति ततो भवद्भिरप्येवं चरितव्यमिति सूत्रार्थः ॥४१॥ अनेन कथं चरामो यागायेति प्रश्नस्योत्तरमुक्तं, अथ कथं यजाम इति द्वितीयप्रश्नस्योत्तरमाह--
मूलम्-सुसंवुडा पंचहिं संवरेहि, इह जीविअं अणवकंखमाणा।
- वोसट्टकाया सुइचत्तदेहा, महाजयं जयइ जण्णसिढें ॥ ४२ ॥ व्याख्या-सुसंवृताः स्थगिताश्रवद्वाराः पञ्चभिः संवरैः प्राणातिपातविरमणादिवतः, इहेत्यस्मिन्मनुष्यजन्मनि, उपलक्षणत्वात्परलोके च जीवितं प्रस्तावादसंयमजीवितमनवकांक्षन्तोऽनिच्छन्तः, अत एव व्युत्सृष्टकायाः परीषहो
Page #546
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२७३॥
पसर्गसहिष्णुतया त्यक्तकायाः, शुचयोऽकलुषव्रतास्ते च ते त्यक्तदेहाश्चात्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहाः, महान्
द्वादशमजयः कर्मारिपराजयरूपो यत्र स महाजयस्तं 'जयइत्ति' वचनव्यत्ययाद्यजन्ति यतय इति गम्यं । ततो भवन्तोप्येवं ध्ययनम् यजन्तां 'जण्णसिटृति' प्राकृतत्वात् श्रेष्ठयज्ञं श्रेष्ठशब्देन च एतद्यजनं खिष्टं कुशला वदन्ति, एष एव च कर्मप्रणो
गा ४३ दनोपाय इति सूचितमिति सूत्रार्थः ॥ ४२ ॥ अथ यद्ययं यज्ञः श्रेष्ठस्तदामुं यजमानस्य कान्युपकरणानि ? को वा यजनविधिः? इति ते प्रश्नयामासुः--
मूलम्-के ते जोई किं व ते जोइठाणं, का ते सुआ किं व ते कारिसंग ।
एहा य ते कयरा संति भिक्खू , कयरेण होमेण हुणासि जोइं ॥ ४३ ॥ व्याख्या-'के इति' किं ते तव ज्योतिरग्निः ? किं वा ते तव ज्योतिःस्थानं ? यत्राग्निनिधीयते, कास्ते सुचो है। घृतादिक्षेपिका दर्व्यः ? किं वा ते करीष एवाङ्गं अनलोद्दीपनहेतुः करीषाङ्गं ? येनाग्निः सन्धुक्ष्यते, एधाश्च समिधोमा याभिरग्निः प्रज्वाल्यते ते तव कतराः काः ? 'संतित्ति' चस्य गम्यत्वाच्छान्तिश्च दुरितोपशमहेतुरध्ययनपद्धतिः? कतरेति प्रक्रमः, हे भिक्षो! कतरेण होमेन हवनविधिना जुहोषि ? आहुतिभिस्तर्पयसि ? ज्योतिराग्निं । षड्जीवकायारम्भनिषेधे ह्यस्मदिष्टो होमस्तदुपकरणानि च पूर्व निषिद्धानि तत्कथं तव यज्ञसम्भवः ? इति सूत्रार्थः॥४३॥ मुनिराह
९
॥२७३॥
Page #547
--------------------------------------------------------------------------
________________
द्वादशमध्ययनम् गा४४-४५
मूलम् तवो जोई जीवो जोइठाणं, जोगा सुआ सरीरं कारिसंग।।
कम्मे एहा संजमजोगसंती, होमं हुणामि इसिणं पसत्थं ॥ ४४॥ _ व्याख्या-तपो बाह्याभ्यन्तरभेदभिन्नं ज्योतिरमिस्तस्यैव कर्मलक्षणभावेन्धनदाहकत्वात् , जीवो ज्योतिःस्थान | तपोज्योतिषस्तदाश्रितत्वात् , योगा मनोवाकायाः स्रुचस्तैर्हि शुभव्यापाराः स्नेहस्थानीयास्तपोज्वलनप्रज्वलनहेतवस्तत्र संस्थाप्यन्त इति, शरीरं करीषांगं तेनैव हि तपोज्योतिरुद्दीप्यते तद्भावभावित्वात्तपसः, कर्म एधास्तस्यैव तपसा भस्मीभवनात् , संयमयोगाः संयमव्यापाराः शान्तिः, सर्वजीवोपद्रवापहारित्वात्तेषां, तथा 'होमंति' होमेन जुहोमि तपोज्योतिरिति शेषः, ऋषीणां मुनीनां सम्बन्धिना 'पसत्थंति' प्रशस्तेन जीवघातरहिततया विवेकिभिः श्लाषितेन सम्यक् चारित्ररूपेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः॥४४॥ इत्थं यज्ञखरूपं ज्ञात्वा स्नानखरूपं पृच्छन्तस्ते इदं स्माहुः
__ मूलम्-के ते हरए के अ ते संतितित्थे, कहिंसि पहाओ व रयं जहासि।
___अक्खाहि णो संजयजक्खपूइआ, इच्छामु नाउं भवओ सगासे ॥ ४५ ॥ व्याख्या-कस्ते तव हृदो नदः १ 'के अतेत्ति' किं च ते शान्यै पापोपशमार्थ तीर्थ ? 'कर्हिसि पहाओ वत्ति'
Page #548
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २७४ ॥
३
१२
वाशब्दस्य भिन्नक्रमत्वात्कस्मिन्वा स्रातः शुचीभूतो रज इव रजः कर्म जहासि त्यजसि ? गम्भीराशयो हि त्वं, तत्कि - मस्माकमिव तवापि हृदतीर्थमेव शुद्धिस्थान मन्यद्वेति न विद्म इति भावः । आचक्ष्व वद नोऽस्माकं संयतयक्षपूजित ! इच्छामो ज्ञातुं भवतः सकाशे समीपे इति सूत्रार्थः ॥ ४५ ॥ मुनिराह-
मूलम् - धम्मे हर बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे ।
जहिंसि हाओ विमलो विसुद्धो, सुसीतिभूओ पजहामि दोसं ॥ ४६ ॥
व्याख्या-धर्मः अहिंसादिरूपो हृदस्तस्यैव कर्मरजोपहारित्वात् ब्रह्मेति ब्रह्मचर्य शान्तितीर्थ, तदासेवने हि सकलमलमूलं रागद्वेषावुन्मूलितावेव तदुन्मूलने च न पुनर्मलसम्भव इति, सत्याद्युपलक्षणं चैतत्तथा चाह-" ब्रह्मचर्येण सत्येन तपसा संयमेन च ॥ मातङ्गर्षिर्गतः शुद्धिं न शुद्धिस्तीर्थयात्रया ॥ १ ॥" किं च भवदिष्टतीर्थानि प्राणिपीडाहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ? यदुक्तं - "कुर्याद्वर्षसहस्रं तु, अहन्यहनि मज्जनम् ॥ सागरेणापि कृच्छ्रेण, वधको नैव शुद्ध्यति ॥ १ ॥” हृदशान्तितीर्थे एव विशिनष्टि, अनाविले | मिथ्यात्वगुप्तिविराधनादिभिरकलुषे, अत एवात्मनो जीवस्य प्रसन्ना मनागप्यकलुषां लेश्या पीताद्यन्यतरा यस्मिं - स्तदात्मप्रसन्नलेश्यं तस्मिन् धर्महदे ब्रह्माख्यशान्तितीर्थे च 'जहिंसित्ति' यस्मिन् स्त्रात इव स्नातो विमलो भाव
द्वादशमध्ययनम् (१२)
गा ४६
॥ २७४ ॥
Page #549
--------------------------------------------------------------------------
________________
द्वादशम. ध्ययनम् गा४७
मलरहितः, अत एव विशुद्धो गतकलङ्कः, सुशीतीभूतो रागाद्युत्तप्तिमुक्तः प्रजहामि प्रकर्षण त्यजामि दूषयति आत्मानं 8 विकृति नयतीति दोषः कर्म।तदेवं ममापि हृदतीर्थ एव शुद्धिस्थानं, परमीदृशे एवेति सूत्रार्थः॥४६॥ निगमयितुमाह-1
मूलम्-एअं सिणाणं कुसलेहिं दिटुं, महासिणाणं इसिणं पसत्थं ।
__ जहिंसि णाया विमला विसुद्धा, महारिसी उत्तमठाणं पत्तत्ति बेमि ॥४७॥ | व्याख्या-एतदनन्तरोक्तं स्नानं कुशलैदृष्टं, इदमेव च महास्नानं, न तु युष्मत्प्रतीतमस्यैव सकलमलापहारित्वात् , अत एव ऋषीणां प्रशस्तं प्रशंसास्पदं न तु जलस्नानवत् सदोषतया निंद्यं, अस्यैव फलमाह-'जहिंसित्ति' सुपव्यत्ययात् येन साता विमला विशुद्धा इति प्राग्वत् , महर्षय उत्तमस्थानं मुक्तिरूपं प्राप्ता गता इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥४७॥ एवं द्विजेषु मुनिमुपसम्पन्नेषु यक्षेण प्रगुणीकृताश्छात्राः ततस्तत्कालोचितधर्मदेशनया विप्रान् प्रतिबोध्य साधुः खस्थानमाययौ ययौ च क्रमान्मुक्तिम् ॥
യമുയരായ രാജ
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रयोपाध्याय-टि 24 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वादशमध्ययनं सम्पूर्णम् ॥ १२॥ MS
न्छन्मान्मन्छ
Page #550
--------------------------------------------------------------------------
________________
PARRIAGRAMRAGNERGARAGRAPHIR GRANAGES
LONAL
RRORORS
NALCOE FI65) RG
RRORDER "सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । “आत्माराम” इति ख्यातं, वन्दे सद्गुणलब्धये ॥ १॥"
॥ इति द्वादशमध्ययनं सम्पूर्णम् ॥
"वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ १॥"
Page #551
--------------------------------------------------------------------------
________________
॥ अथ त्रयोदशमध्ययनम् ॥
त्रयोदशमः ध्ययनम् गा १-२
॥ अहम् ॥ व्याख्यातं द्वादशमध्ययनं, अथ त्रयोदशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने तपसि यत्नो विधेय इत्युक्तं, तपः कुर्वता च निदानं त्याज्यमिति निदानदोषं चित्रसम्भूतोदाहरणेन दर्शयितुं चित्रसम्भूतीयाख्यमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्वेदमादौ सूत्रत्रयम्
मूलम्-जाई पराजिओ खलु, कासि निआणं तु हत्थिणपुरंमि ।
चुलणीइ बंभदत्तो, उववन्नो पउमगुम्माओ ॥१॥ ___ व्याख्या-जात्या प्रक्रमाचाण्डालाख्यजात्या पराजितः पूर्वभवे पराभूतो जातिपराजितः, खलुक्यालङ्कारे 'कासित्ति' अकार्षीनिदानं चक्रवर्तिपदप्राप्तिम भूयादित्येवं रूपं, तुः पूत्तों, हस्तिनापुरे नगरे । तदनु च चुलन्यां ब्रह्मदत्त उपपन्न उत्पन्नः पद्मगुल्मानलिनीगुल्मविमानाच्युत्वेति शेषः। चुलन्यां ब्रह्मदत्त उत्पन्न इत्युक्तं, स च केत्याह
मूलम्-कंपिल्ले संभूओ चित्तो, पुण जाओ पुरिमतालंमि ।
सिट्टिकुलंमि विसाले, धम्मं सोऊण पवईओ ॥२॥
६
Page #552
--------------------------------------------------------------------------
________________
.
गा३ .
उत्तराध्ययन
व्याख्या-काम्पील्ये काम्पील्यनाम्नि नगरे सम्भूतः प्राग्भवे सम्भूताभिधः, चित्रस्य का वार्तेत्याह-चित्रः पुन- त्रयोदशम॥२७६॥दर्जातः पुरिमताले पुरिमतालपुरे श्रेष्टिकुले विशाले पुत्रपौत्रादिभिर्विस्तीर्णे, प्राप्तयौवनश्च तथाविधाचार्यसमीपे धर्म ध्ययनम् श्रुत्वा प्रव्रजितः॥२॥ ततः किमित्याह
(१३) मूलम्-कंपिल्लंमि अ णयरे, समागया दोवि चित्तसंभूआ ।
सुहदुक्खफलविवागं, कहति ते इक्कमिक्स्स ॥३॥ ६ व्याख्या-काम्पील्ये च नगरे समागतौ मिलितौ द्वावपि चित्रसम्भूतौ पूर्वभवनाम्ना सुखदुःखफलविपाकं सुकृ
तदुष्कृतकर्मानुभवरूपं कथयतस्तौ 'एकमेक्कस्सत्ति' एकैकस्य अन्योन्यं, सर्वत्र वर्तमाननिर्देशस्तत्कालापेक्षयेति सूत्रजात्रयाक्षरार्थो भावार्थस्तु कथानकादवसेयस्तत्र चायं सम्प्रदायः । तथाहिअस्ति पुरंसाकेतं, सङ्केतनिकेतनं शुभश्रीणाम् । तत्र मुनिचन्द्रोऽभू-द्भपश्चन्द्रावतंससुतः॥१॥स च सागरचन्द्रगुरोः, पार्थे |
चित्रसम्भूप्रव्रज्य भवविरक्तमनाः ॥ देशान्तरे विहतु, गुरुणा सममन्यदाचालीत्॥२॥ भिक्षार्थमथ क्वापि,ग्रामे गतवति महामुनौ
तचरित्रम्
१-५ तस्मिन् ॥ सार्थेन समं चेलु-गुरवः स तु सार्थवियुतोऽभूत्॥३॥ तमटन्तमटव्यन्तः,क्षुत्तृष्णाबाधितं तृतीयदिने॥प्रति-13
MI॥२७६॥ चेरुबन्धव इव, चत्वारो वलवाश्चतुराः॥४॥ प्रत्युपकर्तुमिवोचे, तेभ्यो वाचंयमोपि जिनधर्मम् ॥ तं श्रुत्वा सम्बुद्धाः प्रवत्रजुस्तेपि भवभीताः ॥५॥ तेषु च धर्मजुगुप्सा-मुभौ व्यधत्तां व्रतप्रभावाच ॥ दिवि देवत्वं प्राप्तौ, ततश्चयुतौ |
.
-164
-
Page #553
--------------------------------------------------------------------------
________________
वाचायुषि क्षीणे ॥ ६ ॥ दशपुरनगरे शाण्डिल्य-विप्रदास्याः सुतौ युगलजातौ ॥ जातौ तौ जयवत्याः, प्राकृतनित्रयोदशमदाविपाकवशात् ॥ ७ ॥ तौ सम्प्राप्तौ तारुण्य-मन्यदा क्षेत्ररक्षणाय गतौ ॥ सुषुपतुरधो वटतरो-निरगात्तत्को
ध्ययनम्
चित्रसम्भूटराच फणी ॥ ८॥ तेन च दष्टे दुष्टे-नैकस्मिंस्तं गवेषयन् भुजगम् ॥ अपरोप्यदंशि तेनैव, भोगिना पूर्वरिपुणेव चरित्रम् ॥९॥ तौ चाप्राप्तचिकित्सौ, विपद्य कालिञ्जराचलोपान्ते ॥ हरिणीकुक्षिप्रभवौ, सञ्जातौ युग्मजौ हरिणौ ॥१०॥ ७-१८ स्नेहातू सह विहरन्ती, मुक्तैकशरण मृगयुणा तौ च ॥ व्यापादितौ वराको, क्षिप्ताशनिना घनेनेव ॥ ११॥ अथ मृतगङ्गातटिनी-तटस्थहंसीसुतावभूतां तौ ॥ बाल्यादपि भ्रमन्तौ, सममेव दृढानुरागेण ॥ १२॥ जालेन तौ | निबध्या-न्यदाऽवधीजालिको गलं भक्त्वा ॥ विषवल्लेरिव दारुण-महो ! फलं धर्मनिन्दायाः॥ १३॥ अथ तौ वाणारस्यां, प्रभूतवित्तस्य भूतदत्तस्य ॥ तनयावुभावभूतां, श्वपचपतेश्चित्रसम्भूतौ ॥ १४ ॥ वाणारयां च तदा, बभूव शंखाभिधो धराधिपतिः ॥ तस्य च दुर्मतिसचिवः, सचिवोऽभून्नमुचिरिति नाम्ना ॥ १५॥ अपराधे स च । महति, प्रछन्नवधाय भूतदत्ताय ॥ दत्तोऽन्यदा नृपतिना, तं चेत्यूचे श्वपचनाथः ॥ १६ ॥ त्वां जीवयामि यदि मे, पुत्रौ पाठयसि भूमिगेहस्थः॥ नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ॥ १७ ॥ अध्यापयच्च सततं, कला विचित्राः स चित्रसम्भूतौ ॥ मातङ्गपतेः पत्नी-मनुरक्तामरमयच कुधीः ॥ १८॥ तचावबुद्धय रुष्टे, श्वपचपतौ
२०४७
Page #554
--------------------------------------------------------------------------
________________
उत्तराध्ययन हन्तुमुद्यते नमुचिम् ॥ त्वरितमनाशयतामुप-कारित्वाचित्रसम्भूतौ ॥ १९ ॥ निर्गत्य ततो नमुचि-द्रुतं ययौ हस्ति-18 त्रयोदशमसूनापुरे नगरे ॥ तत्र च सनत्कुमार-श्चक्री तं धीसखं चक्रे ॥२०॥
ध्ययनम् ॥२७७॥
(१३) | इतश्च रूपमनिन्द्यं, लावण्यमद्भुतं यौवनं च तौ नव्यम् ॥ प्राप्तौ श्वपचसुतौ स्मर-मधुसमयाविव युतौ बभतुः
चित्रसम्भू॥२१॥ वीणावेणुकलक्वण-सम्बन्धसुबन्धुरं च तौ गीतम् ॥ गायन्तौ नृत्यन्तौ, जगतोपि मनो व्यपाहरताम् है तचरित्रम् ॥ २२ ॥ अन्येयुः पुरि तस्यां, मधूत्सवः प्रववृते महः प्रवरः ॥ तत्राविगीतगीता, विनिर्ययुः पौरचच्चर्यः ॥ २३॥ १९-३१ निरगाच चचरी तत्र, चित्रसम्भूतयोरपि प्रवरा ॥ तत्र च जगतुर्गीतं, किन्नरमदहारि तौ स्फीतम् ॥ २४ ॥ आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममत्रम् ॥ त्यक्तान्यचचरीकाः, पौराः पौर्यश्च तत्र ययुः ॥ २५॥ सर्वस्मिन्नपि लोके,
तद्दीतगुणेन मृगवदाकृष्टे ॥ गातारोन्ये भूपं, व्यजिज्ञपन्नित्यमर्षवशात् ॥ २६ ॥ मातंगाभ्यां खामिन् !, गीतेनाकृष्य 88 पौरलोकोयम् ॥ सकलोपि कृतो मलिन-स्तत इत्यलपन्नृपः कोपात् ॥ २७ ॥ पुर्या प्रवेष्टुमनयो-नों देयं वेश्मनीव
कुर्कुरयोः॥ तत आरभ्य वृकाविव, तौ दूरमतिष्ठतां पुर्याः ॥ २८ ॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहेडनेद्यः ॥ उल्लंघ्य नृपतिवचनं, प्राविशतामजितकरणौ तौ ॥ २९॥ विहितावगुण्ठनौ तौ, छन्नमटन्तौ महं च पश्यन्तौ ॥ क्रोष्टरवैः क्रोष्टारा-विव गानोको प्रजागीतैः ॥ ३० ॥ अवगणितभूपभीती, अगायतामतिमनोहरं गीतम् ॥ तच निशम्य जनास्ती, परिवत्रुमक्षिका मधुवत् ॥३१॥ [युग्मम् ] कावेताविति लोकै-आतुं|
-RRCOSMASTEORA
Page #555
--------------------------------------------------------------------------
________________
३
कृष्टावगुण्ठनावथ तौ ॥ उपलक्षितौ नृपाज्ञा-विलोपकत्वादृशं निहतौ ॥ ३२ ॥ नश्यन्तौ पश्यन्ती, दीनं भयवि- त्रयोदशमहलो स्खलत्पादौ ॥ लोकैश्च हन्यमानौ, कथमपि तौ निर्गतौ पुर्याः ॥३३॥ गम्भीरोद्यानं च, प्राप्तौ ताविति ध्ययनम्
ध्य
चित्रसम्भूमिथो व्यचिन्तयताम् ॥ धिग् नौ कुलदोषहतान् , रूपकलाकौशलादिगुणान् ॥ ३४ ॥धातव इव क्षयरुजा, दोष
तचरित्रम् णानेन दूषिता हि गुणाः ॥ जाता विपत्तये नौ, पत्तय इव भेदिता द्विषता ॥ ३५ ॥ व्यसनैरिव नौ व्यसनं, जज्ञे ३२-४४ |कुलदोषदूषितैर्हि गुणैः ॥ स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥ ३६ ॥ ध्यात्वेति मर्तुकामौ, यान्तौ प्रति
दक्षिणामुभावपि तौ ॥ दूरं गतौ महीधर-मपश्यतामेकमतितुङ्गम् ॥ ३७॥ तं चारोहन्तौ तौ, भृगुपातचिकीर्षया । |श्रमणमेकम् ॥ ध्यानस्थममानगुणं, प्रेक्ष्य प्रोचैर्मुदमधत्ताम् ॥ ३८ ॥ छायातरुमिव पथिको, तं प्राप्यापगतसकलसन्तापौ ॥ तावनमतां वमन्तौ, प्राग् दुःखमिवाश्रुजलदम्भात् ॥ ३९ ॥ ध्यानं समाप्य मुनिना, कुत आयातौ || युवामितकि पृष्टौ ।प्राकाशयतां खाशय-मुत्त्वा निजवृत्तमखिलं तौ ॥४०॥ तत इत्यूचे श्रमणो, विलीयते देह | एव भृगुपातात् ॥ न तु पातकं ततोऽसौ, न युज्यते दक्षयोयुवयोः ॥४१॥ दुःखानां बीजमघं, तपसैव क्षीयते न मरणेन ॥ तदिदं हेयं देहं, सफलीक्रियतां तपश्चरणैः ॥४२॥ ग्लानाविव वैद्यवच-स्तत्साधुवचः प्रपद्य तौ सद्यः ॥ प्राब्रजतां तत्पार्थे, क्रमादभूतां च गीतार्थों ॥ ४३ ॥ षष्ठाष्टमादितपसा, क्रशयन्तौ विग्रहं समं पापैः ॥ मूर्ती शमाविव, सममेव विजहतुर्भुवि तौ ॥४४॥ विहरन्तौ तौ जग्मतु-रन्येधुर्हस्तिनापुरे नगरे ॥ बहिरुद्यानस्थौ
SAGAR
Page #556
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२७८॥
रतुर्दश्चरं च तपः ॥ ४५ ॥ सम्भूतमुनिनगरे, मासक्षपणस्य पारणेऽन्येयुः ॥ भिक्षार्थमटन् ददृशे, दुरात्मना नमुचि त्रयोदशमसचिवेन ॥ ४६ ॥ मातङ्गसुतः सोयं, मम वृत्तं वक्ष्यतीति साशङ्कः ॥ निष्काश्यतां पुरादय-मित्यूचे निजभटान्नमुचिः ध्ययनम् ॥४७॥ यमदूतैरिव चण्डै-स्तैर्लकुटादिप्रहारदानपरैः ॥ विधुरीकृतोथ साधु-द्रुतं न्यवर्तत ततः स्थानात् ॥४८॥
(१३)
चित्रसम्भूनिर्गच्छन्नपि स मुनि-नमुचिभटैन मुमुचे यदाऽपदयैः ॥ शान्तोपि चुकोप तदा, स्यादुष्णं जलमपि बनलात् ॥४९॥
तचरित्रम् तद्वदनान्निरगादथ, धूमस्तोमः समन्ततः प्रसरन् ।। तदनु च तेजोलेश्या, ज्वालापटलैर्नभःस्पृशती ॥५०॥ तद्वीक्ष्य ४५-५८ सभयकौतुक-मेयुः पौरा मुनि प्रसादयितुम् ॥ आयासीत्पुरनाथः, सनत्कुमारश्च चक्रिवरः॥५१॥ नत्वा चैवमवोचत्, भगवन्नेतन्न युज्यते भवतः ॥ दग्धः कृशानुनापि हि, नागुरुरुविरति दुर्गन्धम् ॥ ५२॥ क्रियतामस्मासु कृपा, संह्रियतामाशु कोपफलमेतत् ॥ व्यभिचरति सतां कोपः, फले खलानामिव स्नेहः ॥ ५३॥ उक्तं च“न भवति भवति च न चिरं, भवति चिरं चेत् फले विसंवदति॥कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥५४॥"|| तन्मुंच मुंच कोपं, नीचजनोचितमनंचितं मुनिभिः ॥ इत्युक्तोपि न यावत् , प्रससाद स साधुरतिकुपितः ॥ ५५ ॥ तावत्तत्रायातः, चित्रस्तं व्यतिकरं जनात् श्रुत्वा ॥ इत्यूचे भ्रातस्त्यज, रोषमिमं चरणवनदहनम् ॥५६॥ देशोन
॥२७८॥ पूर्वकोट्या, यदर्जितं भवति विमलचारित्रम् ॥ तदपि हि कषायकलुषो, हारयति यतिर्मुहूर्तेन ॥ ५७॥ सुलभा हि बालसङ्गा-दाक्रोशाघातमरणधर्मगमाः॥ एषु च यथोत्तरस्या-भावे मनुते मुनिर्लाभम् ॥ ५८॥ अपकृतिकारिषु
९
Page #557
--------------------------------------------------------------------------
________________
***
***
कोपः, क्रियते चेत्कोप एव सक्रियताम् ॥ यो हरति धर्मवित्तं, दत्ते चानन्तदुःखभरम् ॥ ५९ ॥ इत्यादिचित्रवाक्यैः, त्रयोदशम
ध्ययनम् श्रुतानुगामिभिरशामि तत्कोपः ॥ पाथोधरपाथोभि-र्गिरिदावानल इव प्रबलः ॥६०॥तं चोपशान्तमनसं, प्रणम्य
चित्रसम्भूलोका ययुनिजं स्थानम् ॥ तौ च श्रमणौ जग्मतु-रुद्यानं दध्यतुश्चैवम् ॥ ६१ ॥ आहारार्थं प्रतिगृह-मटद्भिरासा-8 तचरित्रम् द्यते व्यसनमुच्चैः॥ गात्रं चैतद्गत्वर-माहारेणापि कृतपोषम् ॥ ६२॥ तत्कृतसंलेखनयो-राहारैरावयोः कृतमिदा- ५९.७१ नीम् ॥ इति तौ चतुर्विधाहा-रमनशनं चक्रतुः कृतिनौ ॥६३॥ कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनान् राज्ञः ॥ केनाप्यूचे नमुचि-स्तमथ नृपोऽवन्धयत्कुपितः ॥ ६४ ॥ पुनरप्येवं माऽन्यो, मान्यानपमानयत्विति महीमान् ॥ पुरमध्येनानैषी-दुपमुनि तं दस्युमिव बद्धम् ॥ ६५ ॥ तौ चावन्दत भूपो-ऽङ्करयन्निव मेदिनी मुकुटकिरणैः ॥ तं चानन्दयतां चारु-धर्मलाभाशिषा श्रमणौ ॥ ६६ ॥ लभतामपराधी वः, स्वकर्मफलमयमिति त्रुवन्नृपतिः॥ शमिनोरदर्शयदथो-पस्थितमरणं नमुचिसचिवम् ॥ ६७॥ मोक्तव्य एव राज-नयमित्युदितस्ततो नृपस्ताभ्याम् ॥ निर्वास्य पुरादमुच-गुरुवचनाद्वध्यमपि तं द्राक् ॥ ६८॥ तौ नन्तुमथायासी-स्त्रीरत्नं चक्रिणः सुनन्दाख्या ॥ देवीभिरिवेन्द्राणी, वृता सपत्नीभिरखिलाभिः ॥६९ ॥ तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः॥ सम्भूतोभूद्रक्तो-नङ्गस्यापि प्रबलताहो ! ॥ ७० ॥ दध्यौ चैवं यस्या, वेणिस्पर्शोपि सृजति सुखमतुलम् ॥ तस्या नलिना-| स्थायाः, कायस्पर्शस्य का वार्ता ? ॥ ७१॥ अन्तःपुरमन्तःपुरयुक्ते, राजनि गतेथ तौ नत्वा ॥ सम्भूतमुनिर्विदधे,
*
***
Page #558
--------------------------------------------------------------------------
________________
माध्ययनम् .
उत्तराध्ययन निदानमिति कामरागान्धः ॥७२॥ अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा ॥ स्त्रीरत्नस्य त्रयोदशम॥२७९॥ खामी, भूयासं भाविनि भवेऽहम् ॥७३॥ तच श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जेयत्वमहो !॥ विदितागमोपि
(१३) ३ निपतति, यदयं संसारवारिनिधौ ॥ ७४ ॥ तद्बोधयाम्यमुमिति, प्रोचे चित्रः करोपि किं ? भ्रातः ! ॥ तपसोमुष्मा-चित्रसम्भू
किमिदं, कामयसे तृणमिव घुमणेः ? ॥ ७५ ॥ क्षणिकाक्षणिकान् कांक्षति, भोगानपहाय निवृतिसुखं यः ॥ स तचरित्रम्
हि काचर्सकलमुररी-करोति सुररत्नमपहाय ! ॥ ७६ ॥ तदुःखनिदानमिदं, मुंच निदानं विमुह्यसि कृतिन् ! ७२-८५ ६ किम् ?॥ इत्युक्तोपि स मुमुचे, न निदानं धिग् विषयतृष्णाम् ॥ ७७ ॥ तावथ पूर्णायुष्को, सौधर्मे निर्जरावजाये
ताम् ॥ चित्रस्ततश्च्युतोभू-दिभ्यसुतः पुरिमतालपुरे ॥ ७८ ॥ सम्भूतोपि च्युत्वा, काम्पील्यपुरे महर्द्धिभररुचिरे ॥
लनीकुक्षिप्रभवो, ब्रह्मनृपस्याभवत्तनयः ॥७९॥ तस्य चतुर्दशसुखप्न-सूचितागामिसम्पदो मुदितः ॥ विदधे सोत्सवमभिधां, ब्रह्मनृपो ब्रह्मदत्त इति ॥ ८॥ ववृधे सोथ कुमारः, सितपक्षशशीव शुभकलाशाली ॥ जगदानन्दं जनयन् , वचोमृतेनातिमधुरेण ॥ ८१॥ अभवन् वयस्य भूपा-श्चत्वारो ब्रह्मणोथ तेष्वाद्यः ॥ कटकः काशीशोऽन्यः,
॥२७९॥ कणेरुदत्तो गजपुरेशः ॥ ८२॥ दीर्घश्च कोशलेश-श्चम्पानाथश्च पुष्पचूलनृपः ॥ सामान्यमिव व्यक्तिषु, तेषु स्नेहोभ-3
वद्यापी॥८३॥ पञ्चापि ब्रह्माद्या-स्तन्योन्यं विरहमक्षमाः सोढुम् ॥ एकैकपुरे न्यवसन् , प्रतिवर्ष संयुतः क्रमशः Hin८४॥ काम्पील्यपुरेऽन्येधुः, सममायातेषु तेषु परिपाट्या ॥ ब्रह्मनृपस्य कदाचि-च्छिरोव्यथा दुस्सहा जज्ञे ॥८५॥
Page #559
--------------------------------------------------------------------------
________________
१२
जातद्वादशवर्ष, न्यस्यां के ब्रह्मदत्तमथ सुहृदाम् || सोचे कारयितव्यं, राज्यमिदमनेन युष्माभिः ॥ ८६ ॥ इत्युक्तत्वा राज्ञि मृते कृत्वा तत्प्रेतकर्म तत्सुहृदः ॥ दध्युर्मित्रस्य सुतः, शैशवमवगाहते यावत् ॥ ८७ ॥ तावद्राज्यमिदं रक्षणीयमारक्षकैरिवास्माभिः ॥ इति दीर्घ रक्षार्थ, मुक्तत्वाऽन्ये खखनगरमगुः ॥ ८८ ॥ दीर्घोथ राज्यमखिलं, बुभुजेऽ| रक्षकमिवौदनं काकः ॥ मार्जारो दुग्धमिवान्वैषीत्कोशं च चिरगूढम् ॥ ८९ ॥ मध्ये शुद्धान्तमगा - दनर्गलः पूर्व| परिचयादनिशम् ॥ रहसि च चुलनीदेवी - मवार्त्तयन्न र्मनिपुणगिरा ॥ ९० ॥ सोथावमत्य लोकं, ब्रह्मनृपतिसौहृदं कुलाचारम् ॥ अरमयदनिशं चुलनी - महो ! अजय्यत्वमक्षाणाम् ॥ ९१ ॥ ग्रहिलापटमिव मुमुचे, चुलन्यपि प्रेम रमणविषयं द्राक् ॥ तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान् व्रजतः ॥ ९२ ॥ तच्च तयोर्दुश्चरितं ब्रह्मनृपस्य द्विती| यमिव हृदयम् ॥ ज्ञात्वा सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः ॥ ९३ ॥ कुरुतामकार्यमेत- चुलनी जातिख| भावचपलमतिः ॥ न्यासेर्पितमपि सकलं, दीर्घो विद्रवति तदयुक्तम् ॥ ९४ ॥ तदसौ किमपि विदध्याद्भूपभुवोपि व्यलीकमतिदुष्टः ॥ नीचो हि पोषकस्या- प्यात्मीयः स्यान्न भुजग इव ॥ ९५ ॥ ध्यात्वेति ज्ञापयितुं तत्सकलं सेवितुं कुमारं तम् ॥ वरधनुसंज्ञं निजसुत - मादिशदतिनिपुणमतिविभवम् ॥ ९६ ॥ तेनाथ तयोश्चरिते, निवेदिते ब्रह्मसुस्तदसहिष्णुः ॥ अन्तःपुरान्तरगम-द्वद्वा द्विककोकिले कुपितः ॥ ९७ ॥ वध्याविमौ यथा वर्ण - सङ्करादीदृशः परोपि तथा ॥ हन्तव्यो मे निश्चित - मित्युचैस्तत्र चावादीत् ॥ ९८ ॥ काकोहं त्वं च पिकी - त्यावां खलु हन्तुमिच्छति
त्रयोदशमध्ययनम् चित्रसम्भूतचरित्रम्
८६-९८
Page #560
--------------------------------------------------------------------------
________________
त्रयोदशमध्ययनम्
(१३) चित्रसम्भूतचरित्रम् | ९९-१११
उत्तराध्ययन । सुतस्ते ॥ तत इति दीर्पोक्ते, देव्यूचे शिशुगिरा का भीः १ ॥ ९९ ॥ भद्रकरेणुमृगेभौ, नीत्वा तत्रान्यदा तथैव
पुनः ॥ नृपभूः प्रोचे तच, श्रुत्वा दीर्घोवदचुलनीम् ॥१००॥ शृणु सुभगे सुतवाणी, साभिप्रायां हलाहलप्रायाम् ॥ ॥२८॥
देव्यवदद्भवतु तथा-प्यनेन किं जायते शिशुना? ॥१.१॥ हंस्या सममन्येधु-र्वकमादायावरोधमायातः॥ नृपभूरुवाच नैवं, कस्याप्यनयं सहिष्येऽहम् ॥ १०२॥ तत इत्यवदद्दीर्घः, शृणु देवि ! शिशोः सुतस्य वचनमिदम् ॥ अनुमापयति मनःस्थं, कोपं यद्धूम इव वह्निम् ॥ १०३ ॥ वृद्धिं गतो हि भावी, सुखविघ्नायावयोरसौ नियतम् ॥ तदयमुदयनिवामय, उच्छेद्यः शिशुरपि दुरात्मा ! ॥ १०४ ॥ देव्यूचे राज्यधरं, हन्मि कथं तनयमौरसं खामिन् ! ॥ पशवोपि प्राणानिव, निजान्यपत्यानि रक्षन्ति ॥१०५॥ भूयोप्यूचे दीर्घो, रिपुमेवावेहि सुतममुं सुतनो ! ॥ तत्किं मुह्यसि | मयि सति, बहवस्तव भाविनस्तनयाः॥१०६ ॥ तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा ॥ केनोपायेना|स्मि-निहते वचनीयता न स्यात् ॥ १०७॥ दीर्घोब्रवीत्कुमारो, विवाह्यतां तस्य वासगृहदम्भात् ॥ गूढप्रवेशनिगेम-मेकं लाक्षागृहं कार्यम् ॥ १०८ ॥ तत्र च सवधूकेस्मिन् , सुप्ते रात्री हुताशनो ज्वाल्यः ॥ इति तो विमृश्य जतुगृह-मारम्भयतामसारमती ॥ १०९ ॥ वृत्वा ब्रह्मसुतार्थ, पुष्ववतीं पुष्पचूलनृपतिसुताम् ॥ सामग्री च समग्रां, विवाहसक्तामकारयताम् ॥ ११० ॥ जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोर्विदन् भावम् ॥ ब्रह्मभुवो हितमिच्छुगत्वाख्यहीर्घनृपमेवम् ॥ १११॥ अस्ति सुतो मे वरधनु-नामा युष्मन्निदेशकरणचणः॥ तदहं जरी चिकीर्षे, पर
ADSAXCLASSOCIOS
॥२८
॥
२
Page #561
--------------------------------------------------------------------------
________________
१२
लोकहितं कचिद्गत्वा ॥ ११२ ॥ कुर्यात्कमप्यनर्थ, गतः परत्रायमिति धृताशङ्कः ॥ दीर्घः कृतावहित्थ - स्तमित्यवो - चित्ततो दम्भात् ॥ ११३ ॥ त्वामन्तरा हि राज्यं, न भाति नभ इव विना निशानाथम् ॥ तदलं परत्र गमनैः, कुरुधर्ममिहैव दानाद्यम् ॥ ११४ ॥ गङ्गातटेथ कृत्वा, सद्बुद्धिः सत्रमण्डपं मंत्री ॥ दीनादीनां दानं ददौ यथाकाममनादेः ॥ ११५ ॥ प्रत्ययितनरैर्दानो-पकारमानैर्वशीकृतैः सचिवः ॥ द्विक्रोशां च सुरङ्गा-मचीखनज्जतुगृहं यावत् ॥ ११६ ॥ वार्त्ता तां च छन्नं न्यवेदयत् पुष्पचूलभूपतये ॥ सोपि ततो दासेरीं, प्रैषीद्दुहितुः पदे रुचिराम् ॥ ११७ ॥ भूषणभृतेति सुपरि-च्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनकमिवाभाति 'रीतिरपि ॥ ११८ ॥ गणिकाप्रेमेव मनो, बाह्यं कृत्वा महोत्सवं चुलनी ॥ तामथ पुरे प्रविष्टां व्यवाहयह्मदत्तेन ॥ ११९ ॥ लोकं विसृज्य तनयं प्रैषीदथ सनुषं जतुगृहे सा ॥ सोपिवधूवरधनुयुग्, विसृष्टतंत्रो ययौ तस्मिन् ॥ १२० ॥ तस्य च गते - र्द्धरात्रे, वार्त्ताभिः सचिवसूनुरचिताभिः ॥ तत्राज्यलयज्ज्वलनं, जतुवेश्मनि निजनरैश्रुलनी ॥ १२१ ॥ दीर्घचुलन्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् ॥ तत्स्पर्द्धयेव परित - स्तत्सदनं व्यापदनलोपि ॥ १२२ ॥ सम्भ्रान्तोथ कुमारः, किमेतदिति मंत्रिनन्दनमपृच्छत् ॥ सोप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ॥ १२३ ॥ सत्रं याव - त्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् ॥ तद्वारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ॥ १२४ ॥ छन्नमुदन्तममुं मम,
१ पित्तलम् ।
त्रयोदशमध्ययनम् चित्रसम्भूतचरित्रम्
|११२-१२४
Page #562
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥२८१॥
३
पिता न्यवेदयदतस्तव श्वसुरः ॥ प्रेषीहासीमेनां, तत् प्रतिबन्धं विमुंचास्याः ॥ १२५ ॥ तेनेत्युक्तो नृपभू-भूपुटमा- त्रयोदशमस्फोट्य पार्णिघातेन ॥ सुहृदा समं सुरंगां, विवेश योगीव भूविवरम् ॥ १२६ ॥ प्राप्तौ च सुरंगान्ते, तुरगावारुह्य है।
ध्ययनम् मंत्रिणा दत्तौ ॥ तौ जग्मतुः कुमारी, पंचाशद्योजनानि द्राक् ॥ १२७ ॥ तत्र च विहाय वाहौ, गुरुमाईतिक्रमश्रमेण
चित्रसम्भूमृतौ ॥ क्रोष्टकसंज्ञमगातां, ग्रामं ती पादचारेण ॥ १२८ ॥ स्माहाथ भूपभूरिति, मां पीडयतः सखे ! क्षुधोदन्ये
तचरित्रम् क्षणमिह तिष्ठ खामि-नित्यूचे तं च सचिवसुतः ॥ १२९ ॥ किंचिच्च विचार्य दिवा-कीर्ति ग्रामात्ततः समाकार्य ॥ १२५-१३७ तो वपनमकारयता, चूडामात्रं त्वधारयताम् ॥ १३०॥ सन्ध्याभ्राणीव रवि-श्वेतरुची धातुरक्तवसनानि ॥ परि|धाय न्यक्षिपता, स्वकण्ठयोब्रह्मसूत्रं तौ ॥ १३१ ॥ वरधनुरथभूपभुवः, श्रीवत्सालङ्कृतं हृदयपट्टम् ॥ चतुरङ्गुलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् ॥ १३२ ॥ वेषान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते न्यमंत्रय-दभोजयच्चातिगौरवतः ॥ १३३ ॥ अथ मूर्ध्नि ब्रह्मभुवो-ऽक्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् ॥ सितवसनयुगं कन्यां, चोपानिन्येऽप्सरःकल्पाम् ॥ १३४ ॥ ऊचेऽथ वरधनुः किं, ददास्यमूमस्य निष्कलस्य बटोः ? ॥ नह्यति नबतिरुचिरां, हारलतां कोपि करभगले!॥ १३५ ॥ तत इत्यवदद्विप्रो, 'बन्धुमती' संज्ञका मम सुतासौ ॥
॥२८१॥ | अस्याश्च वरश्चक्री, भावीत्युक्तं निमित्तज्ञैः ॥ १३६ ॥ पट्टाच्छादितहृदयो, भुंक्ते यस्तव गृहे समित्रस्तम् ॥ जानीया दुहितुर्वर-मिति तैरेव च मम प्रोक्तम् ॥ १३७ ॥ योग्याय सुविद्यामिव, ददे तदेनां कनीमहममुष्मै ॥ प्राणप्रियां
Page #563
--------------------------------------------------------------------------
________________
SHAREKHA
सुतां खलु, यच्छामि यथातथा न सखे !॥ १३८ ॥ तामथ परिणीय कनी, नृपभूः स्थित्वा च तत्र तां रजनीम् ॥ त्रयोदशमसद्भावं भार्यायै, प्रोच्य समित्रोचलत्प्रातः ॥ १३९ ॥ दूरग्रामं च गतौ, शुश्रुवतुस्ताविदं जनश्रुत्या ॥ सर्वेऽध्यानो
ध्ययनम्
काचित्रसम्भूरुद्धा, दीर्पण ब्रह्मदत्तकृते ॥ १४॥ प्राणत्राणकृते ती, गच्छन्तावुत्पथेन तच्छ्रुत्वा ॥प्रापतुरटवीमेकां, तत्र च नृपभू- चरित्रम रभूत्तृषितः॥१४१॥ तमथ वटाधो मुक्त्वा , द्रुतं गतो वरधनुः कृते पयसः॥ उपलक्ष्य दीर्घपुरुषैः, सायं रुरुधे च १३८-१५० जगृहे च ॥ १४२॥ सोथ पलायनसंज्ञां, ब्रह्मभुवो व्यधित हन्यमानस्तैः ॥ तूर्ण ततः कुमारो, ननाश पारद इवाज्ञातः॥ १४३ ॥ वेगावजंश्च पतितः, कान्तारे धूर्त्तचित्त इव गहने ॥ विरसफलानि स बुभुजे, दुरवस्थायां हि किमभक्ष्यम् ॥ १४४ ॥ भ्राम्यंश्चैकं तापस-महि तृतीये ददर्श नृपतिसुतः॥प्रवहणमिवाब्धिपतित-स्तं च प्राप्याधिकं मुमुदे॥१४५॥ कुत्रास्ति भदन्ताना-माश्रम इति तं वदन्तमथ स मुनिः॥ नीत्वाश्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सद्यः ॥ १४६ ॥ तं च प्रणतं प्रणया-दित्यलपत्कुलपतिः कृपाजलधिः ॥ कस्त्वं किमिहायासी-योरपि दुर्गमे गहने ? ॥१४७ ॥ नृपभूस्ततः खवृत्तं, स्माह यथावृत्तमखिलमपि तस्मै ॥ तच श्रुत्वा कुलपति-रित्यवदत्प्रमदगदगदगीः॥१४८॥ ब्रह्मनृपस्य भ्राता, लघुरहमस्मि त्वदीयतातस्य ॥ तत्प्राप्तोसि खगृहं, तिष्ठ सुखं वत्स ! मा भैषीः ॥ १४९ ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽस्थात् ॥ आगाच जलदकालः, काल इव निदाघदाहस्य ॥१५० ॥ तमथ पितृव्यः प्रेम्णा, सविशेषमपाठयत्कलाः सकलाः ॥ पात्रे दत्ता श्रीरिव, विद्या हि स्यादन
PA343040ASX***
१२
Page #564
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २८२ ॥
३
१२
न्तफला ॥ १५१ ॥ जातेथ शरत्काले, कन्दादिकृते वनं ययुर्मुनयः ॥ ब्रह्मसुतोपि समं तै- र्ययौ निषिद्धोपि कुलप - तिना ॥ १५२ ॥ तत्र च फलकुसुमभरै - र्नमितानमितान् स भूरुहः पश्यन् ॥ वनगजमेकमपश्य - युवराजमिवाद्रिराजस्य ॥ १५३ ॥ तस्यानुपदमयासी - न्निवार्यमाणोपि तापसैर्नृपभूः ॥ तेनाहूतः सद्यो, ववले व्यालोपि रोषान्धः ॥ १५४ ॥ तटिनीपूरमिव द्रुतमायान्तं तं च वञ्चयितुं मनसा || प्रक्षिप्तमुत्तरीयं, क्रीडारसिकेन भूपभुवा ॥ १५५ ॥ तत्तु करेण गृहीत्वा प्राक्षिपदन्तर्नभः क्रुधा कुम्भी ॥ निपतच्च ततो नृपभू-स्तदाददे वञ्चितद्विरदः ॥ १५६ ॥ क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः ॥ जलधाराभिर्जलदः शरैरिवोपाद्रवत्तमिभम् ॥ १५७ ॥ तस्मिंस्ततः प्रणष्टे, द्विपे कुमारोपि जातदिग्मोहः ॥ भ्राम्यन्नितस्ततः शैल - निम्नगामुत्ततारकाम् ॥ १५८ ॥ तस्याश्च तटे नगरं पुराणमुद्वसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशन्नेकं, वंशकुडंगं ददर्श घनम् ॥ १५९ ॥ तत्पार्थे फलकासी, दृष्ट्वा शस्त्रप्रियोऽगृहीन्नृपभूः ॥ तं वंशकुडंगं चा- सिनाच्छिनत्तत्परीक्षायै ॥ १६० ॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुटं समीक्ष्य शिरः ॥ सम्भ्रान्तो ब्रह्मसुतः सम्यगवालोकयद्यावत् ॥ १६१ ॥ उद्धांघेर्धूमं पिवतः कस्यापि | तावदतिपीनम् ॥ दृष्ट्वा कबन्धमुच्चै - रवापदनुतापसन्तापम् ॥ १६२ ॥ निर्मन्तुरपि हतोयं, हा ! विद्यासाधको मया - कश्चित् ॥ तन्मां क्रीडारसिकं, धिगिति निनिन्दायमात्मानम् ॥ १६३ ॥ पुरतो गच्छंश्चैकं प्रासादं सप्तभूमिकमपश्यत् ॥ अतिनन्दनेन परितः परीतमुद्यानवलयेन ॥ १६४ ॥ साक्षाद्दिवीव तस्मिन्नारूढो निर्जरीमिव सुरूपाम् ॥
त्रयोदशम
ध्ययनम्
(१३)
चित्रसम्भूतचरित्रम् १५१-१६४
॥ २८२ ॥
Page #565
--------------------------------------------------------------------------
________________
१२
४० ४८
| कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ॥ १६५ ॥ सोथ शुभे ! कासि त्वं तिष्ठसि वा कथमिहेत्यपृच्छत्ताम् १ ॥ धृतसाध्वसा ततः सा ऽप्यदोऽवदद्गद्गदैर्वचनैः ॥ १६६ ॥ वृत्तान्तोस्ति महान्मे, तद्वद कोसि त्वमिह किमायासीः ? ॥ इति तद्विरास मुदितो, वचनेनायोजयद्वदनम् ॥ १६७ ॥ पाञ्चालपतेर्ब्रह्म - प्रभोः सुतो दत्तनामाहम् ॥ इति सोवादीद्यावन्मुदिता सा तावदुत्तस्थौ ॥ १६८ ॥ नयनाञ्जलितो गलितैः, सा प्रमदा प्रमदवाष्पसलिलभरैः ॥ रचयन्ती पाद्यमिव न्यपतच्च तदङ्घ्रिनलिनयुगे ॥ १६९ ॥ अत्राणयात्र मयका, दिष्ट्या शरणं शरण्य ! लब्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, सुदती साश्वासी भूपभुवा ॥ १७० ॥ पृष्टा च का ? त्वमिति सा प्रोचेऽहं पुष्पचूलभूजानेः ॥ त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ॥ १७१ ॥ परिणयदिनोत्सुकां रम-माणामारामदीर्घिकापुलिने | हत्वाऽन्येद्युर्विद्या - धराधमो मामिहानषीत् ! ॥ १७२ ॥ कालमियन्तं बन्धुजन - विरहदावाग्नितप्तगात्राहम् ॥ त्वदृष्ट्याऽमृतवृष्ट्या, क्लिन्ना निर्वापिताद्य विभो ! ॥ १७३ ॥ क्व गतोस्ति ? स मे रिपुरिति, पृष्टा सा नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा - ऽर्पितास्ति मे शाङ्करी विद्या ॥ ९७४ ॥ सा हि स्मृता विधत्ते, परिच्छदीभूय कृत्यमखिलमपि ॥ विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्त्ताम् ॥ १७५ ॥ तां पृष्ट्वेदं वच्मीत्युक्त्वा स्मृत्वा च तां पुनः साख्यत् ॥ येनाहृतास्मि नाट्यो-न्मत्तः सं हि खेचरो नाम्ना ॥ १७६ ॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकृतेत्र धामनि माम् ॥ विद्यां साधयितुमगा - द्वंशकुडङ्गे स्वयं गहने ॥ १७७ ॥ तस्योपदो धूमं पिवतो
त्रयोदशमध्ययनम् चित्रसम्भू तचरित्रम् १६५-१७७
Page #566
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २८३ ॥ १५
१८
२१
२४
विद्याद्यसेत्स्यति स्वामिन्! ॥ विद्यावलोर्जितबलः, परिणेष्यति मा ततः स कुधीः ॥ १७८ ॥ अथ तद्वधव्यतिकरे, तेनोक्ते साधु कृतमिति ब्रुवती ॥ मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् ॥ १७९ ॥ अथ तामुदुख कन्यां गान्धर्वविवाहरचनया नृपभूः ॥ रमयन् विविधैः सुरतै - स्तां क्षणदां क्षणमिवाक्षपयत् ॥ १८० ॥ प्रातश्च खेचरीणां, ध्वनिमवनिधवाङ्गजोऽम्बरे श्रुत्वा ॥ वियति भवति कस्यायं ध्वनिरिति पप्रच्छ पुष्पवतीम् ॥ १८९ ॥ सा प्रोचे प्रिय ! नाट्यो-न्मत्ताह्वत्वद्रिपोरिमे जामी ॥ भ्रातुः कृते विवाहो-पस्करमादाय सकलमपि ॥ १८२ ॥ ' खण्डा' 'विशाखिका' ssख्ये, खेचरकन्ये मुधा समायातः ॥ कार्य ध्यातमितरथा, दैवेन ह्यन्यथा घटितम् ! ॥ १८३ ॥ [ युग्मम् ] तत्तावदपसर त्वं, यावत्सङ्कीर्त्य तव गुणान् प्रगुणान् ॥ जानाम्यनयोर्भावं, त्वयि रागविरागयोः स्वामिन् ! ॥ १८४॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः ॥ रागाभावे तु सितं, तञ्च प्रेक्ष्यान्यतो गच्छेः ॥ १८५ ॥ अभयोपि ततो नृपभू-स्तस्थौ गत्वान्यतस्तदनुवृत्या ॥ अथ पुष्पवती श्वेतं, चलयामास क्षणात् केतुम् ॥ १८६ ॥ तं च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽन्यतो गन्तुम् ॥ उल्लंध्य वनं दुर्गम-मेकमविन्दत सरः सायम् ॥ १८७ ॥ तत्र स्नात्वा सलिलं, निपीय पीयूपसरसमथसरसः ॥ निर्गत्य ब्रह्मसुत-स्तरमुत्तरपश्चिमं भेजे ॥ १८८ ॥ तत्र च कन्यां काञ्चित्समीक्ष्य जलदेवतामिवाध्यक्षाम् ॥ सफलं जन्म ममाभू-दद्येति नृपाङ्गजो दध्यौ ॥ १८९ ॥ तद्दर्शनामृतरसं,
त्रयोदशमध्ययनम्
(१३) चित्रसम्भूतचरित्रम् १७८-१८९
॥ २८३ ॥
Page #567
--------------------------------------------------------------------------
________________
දි
१२
पायं पायं व्यपायविकलं सः ॥ ग्रीष्मे पयः पिवन्मरु - पान्थ इव प्राप नो तृप्तिम् ॥ १९० ॥ सापि च तं पश्यन्ती, कटाक्षविक्षेपक्षचक्षुर्भ्याम् ॥ दास्या समं च किञ्चिद्वदन्त्यगादन्यतः कन्या ॥ १९९ ॥ तन्मार्गदत्तदृष्टिः, प्रास्थित यावत्ततोन्यतो नृषभूः ॥ सा दास्याऽऽगात्तावत्, पटयुगताम्बूलकुसुमधरा ॥ १९२ ॥ तच्च प्रदाय तस्मै, जगौ त्वया या सरस्तटे दृष्टा ॥ निजचित्तमिव तयेदं प्रेषितमस्ति प्रभो ! तुभ्यम् ॥ ९९३ ॥ प्रोक्तं च तया यदसौ, सुभगः पितृमंत्रिमन्दिरे नेयः ॥ स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तत्त्वम् ॥ १९४ ॥ सोथागमत्सह तथा सदनं सचिवस्य नागदत्तस्य ॥ अभ्युत्तस्थौ सोपि, तमतिथिं चिरमिलितमिष्टमिव ॥ १९५ ॥ प्रहितोस्ति वो गृहेसौ, सुभगः श्रीकान्तया नृपतिपुत्र्या ॥ प्रोच्येति ययौ दासी, भेजे सचिवोपि तं प्रभुवत् ॥ १९६ ॥ दोषात्यये च निन्ये, | राजकुले धीसखः कुमारं तम् ॥ भूपोपि तमर्घादिभि - रुपतस्थे तरणिमिव बालम् ॥ १९७ ॥ आतिथ्यमिदं क्रियते, तवातिथेरिति वदन्नथ क्ष्मापः ॥ तस्मै ददौ सुतां ता - मुदुवाह मुदा कुमारोपि ॥ १९८ ॥ अज्ञातकुलस्यैकाकिनोपि दत्तासि मे कथं पित्रा ? ॥ इत्यन्यदा रहसि तां, रमयन् पप्रच्छ नृपतिसुतः ॥ १९९ ॥ सावादीज्जनको मे, वसन्तपुरराजशवरसेनसुतः ॥ उन्मीलितः खराज्या - गोत्रिभिरागादिमां पल्लीम् ॥ २०० ॥ भिल्लान् विधाय वशगानत्रत्यान् सबलवाहनस्तिष्ठन् ॥ ग्रामादिलुण्टनैः स्वं पुष्णाति परिच्छदं तातः ॥ २०९ ॥ तनयचतुष्कस्योपरि, पितु
१ विघ्नरहितम् ॥
त्रयोदशमध्ययनम् चित्रसम्भूतचरित्रम् १९०-२०१
Page #568
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥२८॥
चित्रसम्भू
रिह वसतः सुतास्म्यहं जाता ॥ देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ॥ २०२॥मा प्राप्तयौवनां चा- त्रयोदशमवदत् पिता मम नृपा द्विषो निखिलाः ॥ तदिहस्था वीक्ष्य वरं, निवेदयेर्मे मनोभीष्टम् ॥ २०३॥ पश्याम्यखिलान् ध्ययनम् पान्थां-स्ततोन्वहमिह स्थिता सरस्तीरे ॥ त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः ॥ २०४॥ इति किंचिदनापृच्छया-ऽर्पितास्म्यहं तुभ्यमीश ! तातेन ॥ उदितस्तयेति मुदित-श्चिक्रीड तया समं नृपभूः ॥ २०५॥ पल्लीशःINITINE सोन्येधु-मिं हन्तुं जगाम सैन्ययुतः ॥ तेन सह भूपभूरपि, गत्वाञ्जसरस्तटे तस्थौ ॥ २०६ ॥ ग्रामेथ लुण्ट्यमाने, २०२.२१४ पपात वरधनुरुपेत्य तत्क्रमयोः ॥ आलम्ब्य च तत्कण्ठं, विमुक्तकण्ठं रुरोदोच्चैः ॥ २०७ ॥ ब्रह्मात्मजेन वचनैरमृतद्रवसोदरैरथाश्चास्य ॥ पृष्टो वरधनुरूचे, खवृत्तमिति गद्गदैर्वचनैः ॥ २०८॥ मुक्त्वा तदा वटाध-स्त्वामम्भोर्थ गतोहमब्जसरः॥ किञ्चिदपश्यं तज्जल-मजदलपुटेन जगृहे च ॥ २०९ ॥ वलितश्च दीर्घपुरुषै-रुदायुधैर्हतहतेति जल्पद्भिः ॥ सन्नद्धै रुद्धोहं, हंसः काकैरिव कठोरैः ॥ २१॥ ? ब्रह्मदत्त इति तैः, पृष्टश्चात्रवमहं न वेनीति ॥ गाढमथ ताडितस्तै-वदं व्याघ्रण जग्ध इति ॥२११॥ दर्शय तं देशमथे-त्युक्तो भ्राम्यन्नितस्ततो दम्भात् ॥ त्वदर्शनपथमेत्य, व्यधां पलायनकृते संज्ञाम् ॥ २१२ ॥ खमुखे तु परिव्राजक-दत्तां गुटिकां ततोऽक्षिपं क्षिप्रम् ॥
॥२८४॥ तस्याः प्रभावतो गत-चेष्टस्त्यक्तोस्मि मृत इति तैः ॥ २१३॥ तेषु च गतेषु दूर, कृष्ट्वा गुटिकां मुखात्त्वदर्थमटन् । ग्रामं कमपि गतोहं, कश्चिदपश्यं परिवाजम् ॥ २१४ ॥ सोप्यवददवनतं मां, बसुभागाबोस्मि तव पितुर्मित्रम् ॥
EARSHAN
Page #569
--------------------------------------------------------------------------
________________
त्रयोदशम। ध्ययनम्
तचरित्रम् |२१५.२२७
*KAASAIRAAKASHI
तदहि वरधनो! त्वं, कुत्रास्ति ब्रह्मदत्त इति ? ॥ २१५॥ विश्वस्य तस्य विश्वां, त्वद्वाती सूनृतामहमवोचम् ॥ दुःखाविष्टः स ततः, पाश्चात्यं वृत्तमित्यूचे ॥ २१६ ॥ दग्धे तदा जतुगृहे, दीघेः प्रातदेंदशे शबमेकम् ॥ तां सत्रगा|
सुरंगां, तुरगपदानि च पुरस्तस्याः॥२१७॥ नष्टौ युवां धनुधिया, ज्ञात्वा कुपितस्ततो नृपस्तस्मै ॥ प्रत्याशमश्ववाहैरान् , युष्मन्निग्रहकृते प्रैषीत् ॥ २१८ ॥ नष्टो धनुरिति जननी, तवाक्षिपत् श्वपचपाटके दीर्घः ॥ सा नरकावास
इवा-नुभवति तत्र व्यथाः प्रचराः॥ २१९॥ तेनोदन्तेनोच्चै-दुःखोपरिजायमानदुःखातः ॥ उद्धत्ते व्यसनाब्धेजननीं काम्पील्यनगरमगाम् ॥ २२० ॥ तत्र च कपालिरूपं, कृत्वाटं श्वपचपाटके कपटात् ॥ तस्मिन् भ्रमणनिदानं, लोकैः पृष्टोत्रवं चैवम् ॥ २२१ ॥ मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र ॥ तत्रैवमटन मैत्रीमकार्षमारक्षकेण समम् ॥ २२२ ॥ कुरुतेऽभिवादनमसौ, कौण्डीन्यमहाव्रतीसुतसुहृत्ते ॥ इत्यन्यदा च जननी-मवोचमारक्षकमुखेन ॥ २२३ ॥ गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य ॥ तद्भक्षणेन साजनि, निश्चेष्टा काष्ठमूर्तिरिव ॥ २२४ ॥ आरक्षकोथ राज्ञे, गत्वोचे तां मृतां ततो नृपतिः॥ तां संस्कत्तुं प्रैषी-भृत्यानथ तेपि तत्रागुः ॥ २२५ ॥ सम्प्रति संस्कारेऽस्याः, कृते महान् भाव्युपद्रवो भवताम् ॥ नृपतेश्चेत्युदितास्ते, मया यथागतमगुर्मीताः ॥ २२६ ।। आरक्षकं चावोचं, साहाय्यं चेत्करोषि तदमुष्याः ॥ कुणपेन लक्षणवता, मंत्रमहं साधया-| म्येकम् ॥ २२७ ॥ तत्प्रतिपन्नेन समं, तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवन-गुरुमण्डलमालिखं
Page #570
--------------------------------------------------------------------------
________________
माध्ययनम्
त्रयोदशम
(१३) चित्रसम्भूतचरित्रम् २२८-२४१
उत्तराध्ययन दम्भात् ॥ २२८ ॥ शून्यं विधिं च कश्चि-विधाय दातुं बलिं पुरसुरीणाम् ॥ प्रेष्यारक्षं गुटिका-मार्पयमपरामहं ॥२८५॥
मातुः॥ २२९ ॥ अथ तत्क्षणमुत्तस्था-वपगतनिद्रेव लब्धसंज्ञा सा ।। आवेद्य खं तामथ, निवार्य रुदतीं ततोचलयम् ॥ २३०॥ मुक्त्वा कच्छग्रामे, तातसुहृद्देवशर्मवेश्मनि ताम्॥ त्वामन्वेष्टं भ्राम्य-निहागमं भाग्ययोगेन ॥२३॥ नाथ ! त्वयानुभूतं, सुखदुःखं यत्ततःपरं वद तत् ॥ तेनेत्युक्तोवादी-खं वृत्तं ब्रह्मदत्तोपि ॥ २३२ ॥ अथ को.
प्यागत्योचे, ताविति भो ! दीर्घनृपभटा ग्रामे ॥ युष्मत्समरूपाङ्कित-पटयुगदर्शनपरा ब्रुवते ॥ २३३ ॥ ईशरूपौ हैपुरुषो, दृष्टौ कापीति तन्निशम्याहम् ॥ कथयामि वामथ युवां, यथोचितं तनुतमात्महितम् ॥ २३४ ॥ प्रोच्येति
गते तस्मि-नश्यन्ती तावरण्यमध्येन ॥ क्रमयोगात्कौशाम्बी-पुयों उपवनमुपागाताम् ॥ २३५॥ तत्र पणीकृतलक्षं, चरणायुधरणमपश्यतां धनिनोः ॥ बुद्धिलसागरदत्ता-भिधयोः शस्त्रायितांघ्रिनखम् ॥ २३६ ॥ तत्र च बुद्धिलचरणा-युधेन जायेपि कुकुटेऽन्यस्मिन् ॥ भने वरधनुरसम-असाऽसहः सागरमदोऽवक् ॥ २३७ ॥ जायोपि कुक्कुटोसौ, भग्नस्तव सागरामुनापि कथम् ? ॥ तद्यदि वदसि तदाहं, विलोकयाम्येनमादाय ॥ २३८ ॥ सोथ जगी | भ्रातस्त्वं, प्रसद्य मयि सद्य एव पश्येदम् ॥ मानापगमो व्यथयति, मामन्तन तु धनापगमः ॥ २३९ ॥ वरधनुरथ तं पश्यन् , ददर्श तच्चरणयोरयःसूचीः ॥ तच ज्ञात्वा तं द्रुत-मुपेत्य बुद्धिल इति प्रोचे ॥ २४० ॥ यदि मे छम न वक्ष्यसि, लक्षार्द्ध तव तदा प्रदास्येहम् ॥ तेनेत्युक्तो वरधनु-रूचे तद्रहसि भूपभुवे ॥ २४१॥ सूचीः कृष्ट्वा स तत
.
454CCESS
॥२८५।
Page #571
--------------------------------------------------------------------------
________________
१२
स्तं सागरकुक्कुटेन योजितवान् ॥ अपसूचिकं च बुद्धिल - कुक्कुटमपरो द्रुतमजैषीत् ॥ २४२ ॥ तुष्टोथ सागरस्ता - वारोप्य रथं स्वमन्दिरमनैषीत् ॥ स्वगृह इव तद्गृहे ता - वपि तस्थतुरुचितलीलाभिः ॥ २४३ ॥ बुद्धिलदासस्तत्रा - गतो - न्यदा वरधनुं रहसि नीत्वा ॥ प्रोचे यत्तव कथितं लक्षार्द्ध बुद्धिलेन तदा ॥ २४४ ॥ तत्स्थाने तेनासौ, हारः प्रहितोस्ति चतुरयुतमूल्यः ॥ इत्थं प्रोच्य करण्डं दत्त्वा च यथागतः सोगात् ॥ २४५ ॥ वरधनुरपि गत्वा तन्निवेद्य निखिलं करण्डमुद्घाट्य || मौक्तिकरुचिजितसितरुचि - मदीदृशन्नृपभुवे हारम् ॥ २४६ ॥ हारे हारिणि तत्राव - लम्बितं लेखमात्मनामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं कस्यासौ लेख इत्यूचे ॥ २४७ ॥ को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भावी ॥ तेनेत्युदितो गाढो-त्सुको भवद्भूपभूर्ज्ञातुम् ॥ २४८ ॥ लेख तमथो वरधनु - रुन्मुद्रयति | स्म नलिनमिव तरणिः ॥ आर्यामेकां लिखितां, तत्र ददर्शालिपंक्तिमिव ॥ २४९ ॥ सा चेयं - " यद्यपि जनोर्थ्यते सौ, जनेन संयोगजनितयलेन ॥ त्वामेव हि रत्नवती, तथापि मानयितुमभिलषति ॥ २५० ॥ भावार्थोऽस्या ज्ञेयः, | कथमित्यथ वरधनौ विचिन्तयति ॥ आगाद्वितीय दिवसे, तदन्तिके तापसी वत्सा | २५१ ॥ आशीर्वादं दत्त्वा क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः ॥ नीत्वान्यतो वरधनुं, निगद्य किञ्चिच सापि ययौ ॥ २५२ ॥ आगतमथ सुहृदं नृप-पुत्रः प्रोचेनया किमुक्तमिति ? ॥ सोऽवददयाचदेषा, प्रतिलेख प्राच्यलेखस्य ॥ २५३ ॥ श्रीब्रह्मदत्त
१-४०००० ॥
त्रयोदशमध्ययनम् चित्रसम्भू
तचरित्रम् २४२-२५३
Page #572
--------------------------------------------------------------------------
________________
उत्तराध्ययन में नामा-ङ्कितो असौ लेख इति वद त्वं मे ॥ को ब्रह्मदत्त इति ? सा, मयानुयुक्तेति पुनरवदत् ॥ २५४ ॥ अत्रास्ति त्रयोदशम॥२८६॥ श्रेष्ठिसुता, 'रलवती'नाम सुन्दरीरत्नम् ॥ आबाल्यादपि सा म-य्यनुरक्ता प्राप तारुण्यम् ॥२५५॥ तामन्यदा विम
ध्ययनम्
(१३) नसं, दृष्ट्वा गत्वा तदन्तिकमवोचम् ॥ का ते चिन्तेति ? ततो, मामिति तत्परिजनोवादीत् ॥ २५६ ॥ अस्या हि
चित्रसम्भूदौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मातः!॥ अथ पृष्टा सा पुनरपि, जगी न किमपि हिया यावत् ॥ २५७ ॥ अव-दतचरित्रम दत्तावत्तस्याः, प्रियङ्गुलतिकाह्वया प्रियवयस्या ॥ न हि वक्ति लजयासो, तदहं ते वच्मि मातरिदम् ॥ २५८ ॥ भ्रातु- २५४-२६६ बुद्धिलनाम्नः, सागरनाम्नश्च ताम्रचूडरणे ॥ इयमुपवनं गतैकं, कुमारमुत्तमतममपश्यत् ॥२५९ ॥ ईदृश्यभूत्ततोसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् ॥ निश्चित्य तामवोचं, सद्भावं ब्रूहि मे वत्से ! ॥ २६०॥ अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गुलतयोक्तः॥ स ब्रह्मदत्तनामा, पतिर्न चेन्मे तदा मरणम् ॥२६१॥ घटयिष्ये तव कामितमित्यधृति मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किंचित्खस्थेति पुनरूचे ॥ २६२ ॥ भाव्यखिलमीहितं 8 मे, मातर्देव्या इव प्रसादात्ते ॥ तस्मै ज्ञापयितुमद-स्तदपि क्रियतामुपायोयम् ॥ २६३॥ शिवा करण्डमध्ये,
॥ २८६॥ हारममुं युतमनेन लेखेन ॥ प्रेषय तस्मै क्षिप्रं, व्यपदेशाद्बुद्धिलभ्रातुः ॥ २६४ ॥ तन्नाम्ना दत्तममुं, लास्यति सद्योन्यथा तु लाति न वा ॥ लक्षार्द्ध युक्तमभू-तत्सुहृदो बुद्धिलेन तदा ॥ २६५ ॥ प्रोच्येति तया दत्तौ, हारो लेखश्च । दासहस्तेन ॥ प्रहितौ मया गतेहनि, तत्प्रतिलेखोर्ण्यतामधुना ॥ २६६ ॥ उक्त्वेति तस्थुषी सा, त्वत्प्रतिलेखे ।
HOSSEISURSLAR
6
+
Page #573
--------------------------------------------------------------------------
________________
४ामयापिते न ययौ॥ आर्या तत्र च लेखे, लिखितासौ वर्तते खामिन् ! ॥ २६७ ॥ "उचितत्वाद्वरधनुना, सुहृदोक्तो त्रयोदशमब्रह्मदत्तनामापि ॥ स्त्रीरत्नं रत्नवती-मिच्छति गोविन्द इव कमलाम् ॥ २६८॥" श्रुत्वेति मित्रवचनं, तां द्रष्टुं| ध्ययनम् भूपभूरभूदुत्कः ॥ अन्येधुराकुलतया, वरधनुरागत्य तं प्रोचे ॥ २६९ ॥ अत्रावामन्वेष्टुं, प्रहिता दीर्पण सन्ति निज
चित्रसम्भू
तचरित्रम् पुरुषाः॥ तद्वचनादत्रयो, नृपोपि तदुपक्रमं कुरुते ॥ २७॥ तत्किं कर्तव्यमिति, ध्यायन्ती सागरोऽवनिगृहे तो॥
२६७-२७८ क्षिप्त्वा जुगोप निधिव-द्रविरप्यपराम्बुधावविशत् ॥ २७१ ॥ निशि निर्गममिच्छन्ती, तो रथमारोप्य कमपि पन्थानम् ॥ नीत्वा सागरदत्तो, ववले बाष्पायिताक्षियुगः ॥२७२ ॥ तावथ पुरः प्रयान्तौ, शस्त्राढ्यरथस्थितां वने वनिताम् ॥ ददृशतुरियती वेला, किंवा लग्नेति जल्पन्तीम् ॥ २७३॥ कावावां वेत्सि च कथ-मिति पृष्टा नृपभुबाथ सावादीत् ॥ धनसञ्चयाधिनाथः, श्रेष्ठ्यासीदिह धनप्रवरः ॥ २७४ ॥ अष्टानां तनयाना-मुपर्यहं तस्य नन्दनाभूवम् ॥ प्राप्ता च यौवनं ना-पश्यं कंचिद्वरं प्रवरम् ॥ २७५॥ स्थितमस्मिन्नद्याने, तदर्थमाराधयं ततो यक्षम् ॥ सोपि हि भक्त्या तुष्टः, प्रत्यक्षीभूय मामवदत् ॥ २७६ ॥ श्रीब्रह्मदत्तनामा, चक्री वत्से ! तव प्रियो भावी ॥ खामिन् ! . स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे ॥२७७ ॥ यः सागरबुद्धिलयो-रायास्यति कुक्कुटाहवे स सखा ॥ विश्वमनोहररूपः, श्रीवत्सी स त्वया ज्ञेयः ॥ २७८ ॥ स च मच्चै त्यसमीपे, प्रथमं ते मेलितान्यतो गच्छन् ॥ इति यक्षगिरा
१ भूमिगृहे ॥
SEARCANCELECRECRUICICROCALCAS
Page #574
--------------------------------------------------------------------------
________________
उत्तराध्ययन
त्रयोदशमध्ययनम्
॥२८७॥
१५
चित्रसम्भूतचरित्रम २७९-२९१
खामिन्!, जानामि त्वामहं नियतम् ॥ २७९ ॥ तन्मे मन इव रथममु-मारोह विमो! द्रुतं तयेत्युदितः ॥ रथमारुह्य समित्रः, क ? गम्यमिति तां जगौ नृपभूः ॥ २८० ॥ साख्यन्मगधपुरे मम, वसति पितृव्यो धनावहःश्रेष्ठी ॥ स हि कर्ता प्रतिपत्ति, प्रचुरां तत्तत्र गम्यमितः ॥ २८१ ॥ इति रत्नवतीवचना-त्सुहृदा सूतेन वाहयन् वाहान् ॥ प्रापाटवीं कुमारः, कौशांबीविषयमुलंध्य ॥ २८२ ॥ तत्र सुकण्टककण्टक-संज्ञौ चौराधिपो प्रबलसैन्यौ ॥ तं रुरु- धतुरपहर्तुं, रथादि विशिखान् प्रवर्षन्तौ ॥ २८३ ॥ चापमुपादाय ततः, प्रहरन्नृपनन्दनः शरप्रकरैः ॥ तदस्युवल- | मनाशय-दहर्पतिस्तम इवांशुभरैः ॥ २८४ ॥ तमथोचे सचीवसुतः, श्रान्तोसि रणेन तद्रक्षेत्रैव ॥ खपिहि क्षणं ततः सो-ऽप्यशेत सह रत्नवत्या द्राग ॥ २८५॥ प्रातश्चैकां तटिनी, प्राप्यातिष्ठन् हयाः खयं श्रान्ताः॥ तत्रच जागरितो ना-पश्यत्सुहृदं रथे नृपभूः ॥ २८६ ॥ भावी जलाय गत इति, मुहुमुहुरशब्दयत्कुमारस्तम् ॥ न त्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ॥ २८७ ॥ व्याकुलचेताः स ततो, बाष्पजलाविलशा दिशः पश्यन् ॥ रक्ताभ्यक्तमपश्यत् , स्यन्दनवदनं नरेन्द्रसुतः॥ २८८ ॥ हाऽहं हत इति जल्पं-स्ततोऽपतन्मूछितो रथोत्सङ्गे ॥ अधिगतसंज्ञस्तु भशं, व्यलपत्कुत्रासि ? मित्रेति ॥ २८९ ॥ तमथाख्यद्रत्नवती, प्रभो! सखा ज्ञायते न हि मृतस्ते ॥ तत्तस्येदममङ्गल-मुचितं वाचापि नो कर्त्तम् ॥ २९० ॥ नूनमपृष्ट्वापि त्वां, त्वत्कार्यायैव स हि गतो भावी ॥ स्थाने गतास्तु शुद्धिं, तख नरैः कारयिष्यामः ॥ २९१ ॥ परमिह गहने स्थातुं, नो चिरमुचितं यमोपवनकल्पे ॥ इति तद्विरा स तुरगा-बद
HAR
॥
७॥
Page #575
--------------------------------------------------------------------------
________________
+AX
नगादप्रतो व्यप्रः ॥ २९२ ॥ उलंघ्यानुलंघ्या-मपि तामटवीं ययौ स मगधानाम् ॥ सीमग्रामं भवतति-मतीत्य त्रयोदशम
| ध्ययनम् मोक्षं मुमुक्षरिव ॥ २९३ ॥ तत्र ग्रामसभास्थो,ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् ॥ पुरुषोत्तमोयमिति हृदि, निरणेपी-13
चित्रसम्भूहमनपीच ॥ २९४ ॥ किं भृशमुद्विग्न इवा-सीत्यथ तेनोदितो वदन्नपभूः ॥ चौरैः सह कुर्वन् रण-मगाद्वयस्यो || तचरित्रम मम कापि ॥ २९५ ॥ तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कृथास्त्वमुद्वेगम् ॥ तत इत्युक्त्वा प्रामा-धिपोऽटवीं ताम-18 २९२-३०४ वजगाहे ॥२९६ ॥ आगत्य चैवमवद-द्वनेत्र मनुजो न कोप्यदर्शि मया ॥ किन्तु शरोसौ प्राप्तः, प्रहारपतितो रुधिरलिसः ॥ २९७ ॥ श्रुत्वेति हतो वरधनु-रवश्यमिति सोभवद्धृशं व्यग्रः ॥ रविरप्यस्ताद्रिमगा-त्तहुःखं द्रष्टुमसह इव ॥ २९८ ॥ यामे तुर्येथ निशो, ग्रामे न्यपतन् मलिम्लुचो बहवः ॥ तांस्तु बमा कुमार-स्ततोऽस्तुवंस्तं जनास्तुष्टाः ॥ २९९ ॥ पृष्ट्वाथ ग्रामपर्ति, चलितः सोगात्क्रमेण राजगृहम् ॥ रत्नवती च व्यमुच-त्तद्वाह्ये तापसावसथे ॥ ३०० ॥ प्रविशन् स्वयं च नगरं, सदनगवाक्षस्थिते युवत्यौ द्वे ॥ नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति |तम् ॥ ३०१॥ सस्नेहमपि जनं य-त्यक्त्वागास्त्वं तदा तदुचितं किम् ? ॥ सोवादीत्कः स्निग्धो, जनः कदा चात्य
जमहं तम् ? ॥ ३०२॥ एहि प्रसीद विष्टर-माश्रय विश्राम्य विश्रमदशा नः॥ ताभ्यामथेति कथिते, विवेश तद्वे|श्मनि कुमारः॥३०३॥ नानाशनादिभक्तिं, कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताट्याबोस्ति | रजतगिरिः॥३०४ ॥ शिवमन्दिरमिति नगरं, विराजते तस्य दक्षिणश्रेण्याम् ॥ तत्र नृपो ज्वलनशिखः, प्रिया च
A
+
45
Page #576
--------------------------------------------------------------------------
________________
C4AM
उत्तराध्ययन | विद्युच्छिखा तस्य ॥ ३०५ ॥ नाट्योन्मत्ताख्यसुता-नुजे तयोः प्राणवल्लभे पुत्र्यौ । अभवाव वल्लभावां, क्रमेण त्रयोदशम॥२८८॥
| खंडाविशाखाख्ये ॥ ३०६ ॥ निजसोधकुटिमस्थः, सुहृदाग्निशिखेन सह सृजन् गोष्ठीम् ॥ व्रजतोऽष्टापदममरान्, ध्ययनम् ददर्श गगनेऽन्यदा तातः ॥ ३०७ ॥ नन्तुं ततो जिनेन्द्रा-नावां सुहृदं च तं सहादाय ॥ अष्टापदमौलिस्थं, चैत्यं (१३)
चित्रसम्भूसोगाद्विमानस्थः ॥ ३०८ ॥ तत्र च जैनीः प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य ॥ अनमाम मानवर्णा-न्विता
त तचरित्रम् नवयं मणिमयाः सर्वाः ॥ ३०९॥ चैत्याच निर्गता द्वौ, चारणशमिनावशोकवृक्षाधः॥प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथा
४३०५-३१७ वयममृतकल्पाम् ॥ ३१०॥ अथ पप्रच्छाग्निशिखः, को बनयोः कन्ययोः प्रियो भावी?॥ तौ ज्ञानिनाववदतां, सोदरममुयोर्हनिष्यति यः ॥ ३११ ॥ वचनेन तेन तातो, म्लानिमगाहुर्दिनेन दिनकरवत् ॥ आवामपि वैराग्यात्तदैवमवदाव निजतातम् ॥ ३१२ ॥ अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः ॥ तद्विषयसुखेनैवं-विधेन पर्याप्तमस्माकम् ॥ ३१३ ॥ प्राव वहि सोदर-रक्षायै तत्प्रभृत्यनिशमावाम् ॥ स त्वन्यदक्षताटन् , पुष्पवतीं पुष्पचूलसुताम् ॥ ३१४ ॥ तद्रूपापहृतमना-स्ततः स द्रुतमपाहरजडधीः ॥ तत्तेजोऽसहमानो, विद्या साधयितुमगमञ्च ॥३१५॥ यदभूत्ततः परं त-घूयं खयमेव वित्थ सकलमपि ॥ अथ चाख्यत्पुष्पवती, तदावयोः सोदरविनाशम्
॥ २८८॥ ॥३१६ ॥ शोकं च व्यपनिन्ये-ऽस्माकं धर्मानुगैर्मधुरवाक्यैः॥ शङ्करविद्याशक्त्या, ज्ञात्वास्मद्वृत्तमिति च जगौ॥३१७॥
१ हे वल्लभ ! आवामिति छेदः ॥
१
.
Page #577
--------------------------------------------------------------------------
________________
१२
०४९
स्मरतं युवां गुरुगिरा - मिहागतं ब्रह्मदत्तमथ वृणुतम् ॥ न हि जातुचिद्विघटते, ज्ञानिवचो ग्रावरेखेव ॥ ३१८ ॥ तत्खी - कृतमावाभ्यां, राभस्यवशेन सा तु सितकेतुम् ॥ प्राचीचलत्ततस्त्वं हित्वा वामन्यतो गतवान् ॥ ३१९ ॥ नागास्त्वं तत्र यदा त्वामन्वेष्टुं ततो बनानीं ताम् ॥ चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ ३२० ॥ तदनु दनुजमनुजामर - जेता नेता व नौ समेतासौ ? ॥ इति पृष्टाया विद्या- देव्या वचनादिहैवावाम् ॥ ३२१ ॥ अस्मत्पुण्याकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् ॥ पुष्पवतीवत्पाणौ - कृत्य कृतार्थय जनुरिदं नौ ॥ ३२२ ॥ गान्धविवाहेनो- दुवाह ते अपि ततो नरेन्द्रसुतः ॥ रममाणः सह ताभ्यां निमेषमिव तां निशां व्यनयत् ॥ ३२३ ॥ | स्थातव्यं पुष्पवती - पार्श्वे तावत्सुखं खलु युवाभ्याम् ॥ यावन्मे राज्याप्तिः स्यादित्युक्त्वा च ते व्यसृजत् ॥ ३२४ ॥ | ओमित्युक्त्वा गतयो -स्तयोस्तिरोभूद्गुहादि तत्सकलम् ॥ रत्नवतीमन्वेष्टुं ततो ययावाश्रमे नृपभूः ॥ ३२५ ॥ तत्र च तां सोऽपश्यन्, नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह वशा, त्वया गतदिनेऽद्य वा प्रवरा ॥ ३२६ ॥ तेन च किं रलवती - कान्तस्त्वमसीति सादरं पृष्टः १ ॥ ओमित्यवदन्नृपभू-स्ततः स मुदितः पुनः प्रोचे ॥ ३२७ ॥ सा रुदती ह्यो दृष्टा, का त्वं किं रोदिषीति च मयोक्ता ॥ किंचिदवोचत याव - तावद् ज्ञाता खदौहित्री ॥ ३२८ ॥ गत्वा च | पितृव्याया - ऽज्ञपयं तस्यास्ततः समुदितस्ताम् ॥ स्वगृहेनयद्भवन्तं त्वविन्दतान्वेषयन्नपि नो ॥ ३२९ ॥ अद्यापि
१ वचनात् इह ऐव आवामितिच्छेदः ॥
त्रयोदशमध्ययनम्
चित्रसम्भू तचरित्रम् ३१८-३२९
Page #578
--------------------------------------------------------------------------
________________
Ch उत्तराध्ययन
शुभमभूध-म्मिलितस्त्वमिति ब्रुवन्नृपसुतं सः॥ निन्ये धनावहगृहे, तं दृष्ट्वा सोपि बहु मुमुदे ॥ ३३० ॥ सोत्सवमथ त्रयोदशम॥२८९॥1 रनवतीं, व्यवाहयन्नृपभुवा सह श्रेष्ठी ॥ मृतकार्यमन्यदा वर-धनोरुपाक्रस्त नृपतिसुतः ॥ ३३१ ॥ लुब्धत्वावेशव- ध्ययनम् शा-द्विजेष कुर्वत्स भोजनमतृप्त्या ॥ तत्रागत्यावादी-दूरधनुरिति विप्रवेषधरः ॥ ३३२॥ यदि मे दत्तादन मिहान
चित्रसम्भूसाक्षाद्वरधनोर्भवति नूनम् ॥ तचाकर्ण्य कुमार-स्ससम्भ्रममगाबहिर्गेहात् ॥३३३॥ तं च प्रविलोक्य दृढं, परिर-IMA भ्यानन्दबाष्पजलपूरैः ॥ नपयन्निव गेहान्त-नीत्वा पप्रच्छ तद्वार्ताम् ॥ ३३४ ॥ सोवादीत्त्वयि सुप्ते, द्रुमान्तरस्थेन ||३३०-३४२ तस्करेण तदा ॥ इपुणा हतोहमपतं,भुव्यन्तरधां च गहनान्तः ॥३३५॥ तेषु च गतेषु दस्युपु, मीन इवान्तर्जलं तरुग-18 णान्तः॥ अन्तर्हितश्चरनह-मापं ग्रामं तमतिकृच्छ्रात् ॥ ३३६ ॥ ग्रामपतेस्त्वद्वात्ती, ज्ञात्वा चागममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्ट्या, सुखप्नमिवेहितार्थकरम् ॥३३७॥ अथ भूपसुतोऽवादी-द्विना पुरुषकारमेवमावाभ्याम् ॥ स्थातव्यं नश्यद्भयां, दस्युभ्यामिव कियत्कालम् ! ॥ ३३८ ॥ प्रादुर्भवनोपायं, चिन्तयतोरिति तयोरथान्येयुः ॥रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ॥ ३३९ ॥ द्विरदस्तदा च मत्तः, स्तम्भं भक्त्वापशृंखलो नृपतेः॥ निरगात्रा
सितलोक-स्ततश्च भूयानभूत्तुमलः ॥३४०॥ व्यालस्तु कनी कांचि-नितम्बवक्षोजभारमन्दगतिम् ॥भयवेपमानवपुष, २८९ ॥ २४|वीक्ष्याधावहीतुं द्राक् ॥३४१॥ धीरः कोपि धरायां, यद्यस्ति तदा स पातु मां सद्यः ॥ मृत्योरिव मत्तेभा
दस्मादिति सा तदाक्रन्दत् ॥ ३४२॥ तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति,
Page #579
--------------------------------------------------------------------------
________________
त्रयोदशम| ध्ययनम् चित्रसम्भूतचरित्रम् ३४३-३५५
३
SERECASS495544
जने च तत्परिजने च भृशम् ॥ ३४३ ॥ तत्क्षणमेत्य ब्रह्मा-गजो गजं हक्कयाम्बभूवोच्चैः ॥ सोपि ततस्तां त्यक्त्वा. दधाव तं प्रति रुषा परुषः॥३४४॥ [युग्मम् ] प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च ॥ तत्र प्रहर्तमवनत-मारोहहन्तदत्तांघिः ॥ ३४५॥ वचनक्रमाङ्कशकरै-स्तं च वशीकृत्य हस्तिनं सद्यः॥ स्तम्भे बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥ ३४६ ॥ तत्रागतोथ भूप-स्तं तत्तेजश्च वीक्ष्य विस्मितवान् ॥ कोयं छन्नो रविरुत, हरिः शशी वेति चापृच्छत् ? ॥ ३४७ ॥ तद्वृत्तेथ पितृव्येन, रत्नवत्या निवेदिते नृपतिः ॥ सोत्सवमष्टौ खसुता, दिक्श्रिय इव दत्तवांस्तस्मै ॥३४८॥ ताः परिणीय मुहूर्ते, शुभेऽवसत्तत्र भूपभूः ससुखम् ॥ तं चान्येधुर्जरती, समेत्य काचिजगादैवम् ॥ ३४९ ॥ वैश्रवणाख्यो वैश्रवण-देश्यसंपत्पुरेत्र वसतीभ्यः॥ वार्द्ध श्रीरिव तस्य, श्रीमत्याहास्ति वरतनया ॥ ३५० ॥ सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् ॥ चित्रलिखितेव दृष-दुल्लिखितेवाभूत्त्वदेकमनाः ॥३५१॥ कथमपि च परिजनेना-नीता सद्मनि न भोजनं कुरुते॥न खपिति न च क्रीडति, पश्यति च त्वन्मयं विश्वम् ॥३५२॥ पृष्टाथ मया धात्र्या, सा प्रोचे येन रक्षितास्मि गजात् ॥ स हि नरमणिर्न रमणो, यदि मे स्यात्स्यात्तदा मरणम् ॥ ३५३ ॥ तद् ज्ञापितोथ तस्या-स्तातो मां प्राहिणोत्तव समीपे ॥ तदरक्षि यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ॥ ३५४ ॥ तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे ॥ वरधनुरपि नन्दाह्वा-मुदुवाह सुबुद्धिसचिवसुताम् ॥ ३५५ ॥ अथ तो तत्र वसन्ती, प्रथितौ पृथ्व्यां गुणैरजायेताम् ॥ वाणारसीं प्रति ततः,
Page #580
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥२९०॥
१५
१८
२१
२४
सोत्साही प्रास्थिपातां च ॥ ३५६ ॥ आयान्तं ब्रह्मसुतं ज्ञात्वा वाणारसीपतिः कटकः ॥ अभ्येत्य सोत्सवं निज- गृहमनयहाराजमिव ॥ ३५७ ॥ निजतनयां कटकवतीं, चतुरंगं कटकमुत्कटं कटकः ॥ प्रकटं विसङ्कटमदा-द्वनं च तस्मै मुदि | तचेताः ॥ ३५८ ॥ अथ तद्दृताहूता, धनुसचिवकणेरुदत्तचम्पेशाः ॥ भगदत्तचन्द्रसिंहा- दयः परेप्याययुर्भूपाः ॥ ३५९ ॥ वरधनुमथ सेनान्यं कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने नेतुम् ॥ ३६० ॥ दीर्घप्रहितो दूतोऽथागत्यैवं जगाद कटकादीन् ॥ दीर्घेण समं सख्यं त्यक्तुं युक्तं न वः प्राच्यम् ॥ ३६१ ॥ ते प्रोचुर्ब्रहायुताः, पञ्चवयस्याः पुरा भवाम वयम् । ब्रह्मणि तु गते खर्ग, मैत्रीं प्राग्र दीर्घ एव जहौ ॥ ३६२ ॥ यद्ब्रह्मणोपि पुत्रे, | राज्ये च त्रातुमर्पिते दीर्घः ॥ चिरमकृत कर्म वैशस - मनुतिष्ठति नान्त्यजोपि हि तत् ! ॥ ३६३ ॥ तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूस्ततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ॥ ३६४ ॥ काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणैर्द्राग् ॥ सैन्यै रुरोध परितो, नीरनीरधिरिव द्वीपम् || ३६५ ॥ चुलनी तदा विरक्ता, गत्वा पूर्णाप्रवर्तिनीपार्श्वे ॥ प्रव्रज्य तपस्तीत्रं, विधाय निर्वृत्तिमगात्क्रमतः ॥ ३६६ ॥ दीर्घोपि पुरान्निरगा - द्रणार्थमवलस्व्य साहसं सबलः ॥ युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ॥ ३६७ ॥ भग्नमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः ॥ योद्धुमढौकत गर्जन्, घन इव मुञ्चन् शरासारम् ॥ ३६८ ॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्धुसुदुषितरोषः, ॥ प्राज्यवलौ तौ च मिथः, शस्त्रैः शस्त्राणि चिच्छिदतुः ॥ ३६९ ॥ ब्रह्मसुतस्याथ करे, तदाययौ चक्रमर्क
त्रयोदशमध्ययनम् _(१३) चित्रसम्भू
तचरित्रम्
३५६-३६९
॥२९०॥
Page #581
--------------------------------------------------------------------------
________________
६
इव नभसः ॥ स तु तेन द्रुमफलमिव, दीर्घशिरोऽपातयत् पृथिव्याम् ॥ ३७० ॥ जयतादयमुदयदयो, द्वादशचक्रीति वादिनो देवाः ॥ तच्छिरसि कुसुमवृष्टिं तदा व्यधुः समवसरण इव ॥ ३७१ ॥ पौरैः पितेव दृष्टो वन्दिभिरिव जयजयेति वचनपरैः ॥ सोत्सवमविशच्चक्री, काम्पील्यं त्रिदिवमिव मघवा ॥ ३७२ ॥ नृपतिः प्राक् परिणीताः, पत्नीरानाययत्ततः सकलाः ॥ भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलकलितः ॥ ३७३ ॥ तस्याथ नृपैर्निखिले - रभिषेको द्वादशाब्दिको विदधे ॥ सोथागमयत्समयं समयभित्र समं सुखं विलसन् ॥ ३७४ ॥ अन्येद्युर्वरगीतं, सङ्गीतं तस्य | पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं ददौ कुसुमकन्दुकं दासी ॥ ३७५ ॥ तं प्रेक्ष्य चक्रवर्त्ती, दृष्टः कापीदृशो मयेत्यन्तः ॥ कुर्वन्नूहं स्मृत्वा पञ्चभवान्मूच्छितो न्यपतत् ॥ ३७६ ॥ सम्भ्रान्तैः सामन्तैः सिक्तश्चन्दनरसैर्गतः स्खा - स्थ्यम् ॥ सौधर्मेऽद्राक्षमहं, कन्दुकमीदृशमिति स बुबुधे ॥ ३७७ ॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंश्चक्री ॥ तं ज्ञातुममुं चक्रे, सार्धश्लोकं शुचिश्लोकः ॥ ३७८ ॥ " तथाहि - [ " दासा दसणे आसी, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमीए ॥ १ ॥ देवा य देवलोगंमि, आसि अम्हे महिडिआ" ] पूरयति यो द्वितीयं, लोकं तस्मै ददामि राज्यार्धम् ॥ इति चाघोषयदुच्चैः, पुरेऽखिले प्रतिदिनं चक्री ॥ ३७९ ॥ राज्यार्थी चक्रे तं श्लोकं सार्धं जनोऽखिलः कण्ठे ॥ पूरितवान्न तु कश्चिद्विपश्चिदपि पश्चिमश्लोकम् ॥ ३८० ॥ इतश्च
१ पूरितवान्न तु कश्चि- पश्चिममर्द्ध द्वितीयस्य ॥ इति "घ" संज्ञकपुस्तके ॥
१२
त्रयोदशमध्ययनम्
चित्रसम्भूतचरित्रम् ३७० - ३८०
Page #582
--------------------------------------------------------------------------
________________
उत्तराध्ययन | जीवश्चित्रस्य महेभ्य-नन्दनः पुरिमतालसंज्ञपुरे ॥जातिस्मरणाद् ज्ञात्वा, पूर्वभवानाददे दीक्षाम् ॥ ३८१ ॥ ग्रामा- त्रयोदशम॥२९॥ दिषु विहरंस्तं, सदलं श्लोकं निशम्य लोकेभ्यः ॥ प्राग्भवबान्धवबोधन-कृते स काम्पील्यनगरमगात् ॥ ३८२॥
ध्ययनम् १५ । तत्रारामे नाम्ना, मनोरमे संस्थितः स साधुस्तम् ॥ सार्धं श्लोकं श्रुत्वा-रघट्टिकमुखाददोऽवादीत् ॥ ३८३ ॥ ["इमा चित्रसम्भूजो छढिआ जाई, अन्नमन्नेण जा विणा" ] इति तेनोक्तमधीत्या-रघट्टिकः श्लोकपश्चिमदलं तत् ॥ गत्वा सपदि तचरित्रम्
३८१-३९१ नृपाने, श्लोकयुगलमब्रवीत् सकलम् ॥ ३८४ ॥ स्नेहावेशान्मूछौं, गतस्ततोऽपतदिलापतिरिलायाम् ॥ तच्च प्रेक्ष्या-18 नभ्रा-ऽशनिपातमिवाक्षुभत् परिपत् ॥ ३८५ ॥ जातेदृशी दशा नः, प्रभोगिरास्येति परिजनः कोपात् ॥ तमथारघट्टिकं मुहु-रताडयत् पार्णिघाताद्यैः ॥ ३८६ ॥ न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् ॥ मुक्तः
स कोस्य पूरक, इति पृष्टश्चाब्रवीदेवम् ॥ ३८७ ॥ श्लोकमपूरयदपरं, मुनिर्मदरघट्टनिकटभूमिष्ठः ॥ प्रापमहं तु व्यसनं २१ मुधैव राज्यस्पृहाग्रहिलः ! ॥ ३८८ ॥ अथ चन्दनरसपूरैः, संसिक्तो व्यक्तचेतनश्चक्री ॥ विज्ञातमुनिवरागम-वृत्तः 8.
|स्नेहोलसचित्तः ॥ ३८९ ॥ दत्वारघटिकाय, द्युम्नं बहु पारितोषिकं सद्यः ॥ सान्तःपुरपरिवारः, सोत्कण्ठोऽगात्तदु-18॥ २९१ ॥ द्यानम् ॥ ३९॥ [युग्मम् ] नत्वा च तं मुनिवरं, बाष्पजलाप्लुतविलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यस्नेहाधिकलेहः ॥ ३९१ ॥[ इह ब्रह्मदत्तहिण्डिमाश्रित्य श्रीउत्तराध्ययनसूत्रनिर्युक्तौ कश्चिद्विशेषो दृश्यते, स तु तत
PRIPARKASIRIKISHA
Page #583
--------------------------------------------------------------------------
________________
६
९
१२
एवावधार्यः ] इत्युक्तश्चित्रसम्भूतयोः पूर्ववृत्तान्ताख्यानेन सूत्रत्रयभावार्थः ॥ ३॥ तयोर्मिथः सम्भाषणं तु सूत्रसिद्धमित्यधुनाऽवशिष्यमाणं तदेव व्याख्यायते । तत्र चक्री यदूचे तत्सबन्धपुरस्सरं सूत्रचतुष्केनाहमूलम् - चक्कवही महिड्डीओ, बंभदत्तो महायसो । भायरं बहुमाणेणं, इमं वयणमब्बवी ॥ ४ ॥
व्याख्या - चक्रवर्त्ती महर्द्धिको ब्रह्मदत्तो महायशाः भ्रातरं पूर्वभवसोदरं बहुमानेन मानसप्रतिबन्धेन इदं वक्ष्यमाणवचनमब्रवीत् ॥ ४ ॥ तद्यथा
मूलम् - आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमन्नमणुरत्ता, अन्नमन्नहिएसिणो ॥ ५ ॥ व्याख्या – 'आसिमोत्ति' अभूवाऽऽवां भ्रातरौ द्वावपि अन्योन्यं परस्परं 'वसाणुगत्ति' वशं आयत्ततां अनुगच्छतो यौ तावन्योन्यवशानुगौ, अन्योन्यवशवर्त्तिनावित्यर्थः । तथा अन्योन्यमनुरक्तौ अतीव लेहवन्तौ, अन्योन्यं हितेषिणौ मिथः शुभाभिलाषिणौ, पुनः पुनरन्योन्यग्रहणं तु तुल्यचित्ततातिशयख्यापनार्थ, मकारश्च सर्वत्रालाक्षणिकः ॥ ५ ॥ केषु पुनर्भवेष्वित्थमावामभूवेत्याह
| मूलम् — दासा दसपणे आसि, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ॥ ६ ॥ व्याख्या - दासौ दशार्णे दशार्णदेशे 'आसित्ति' अभूव, मृगौ कालिंजरे कालिंजरनाम्नि नगे, हंसौ मृतगङ्गातीरे, श्वपाकौ चाण्डालौ काशीभूमौ काश्यभिधाने जनपदे ॥ ६ ॥
त्रयोदशम
ध्ययनम् गा ४-६
Page #584
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २९२ ॥
१५
१८
२१
२४
मूलम् — देवाय देवलोगम्मि, आसि अम्हे महिड्डिया । इमा णो छट्टिआ जाई, अन्नमन्नेण जा विणा ॥७॥ व्यख्या- देवौ च देवलोके सौधर्मा 'आसित्ति' अभूव 'अम्हेत्ति' आवां महर्द्धिकौ, न तु किल्विषकत्वादिना निन्द्यौ, 'इमा णोत्ति' इयं आवयोः षष्टिका जातिः कीदृशी येत्याह- 'अन्नमन्त्रेणत्ति' अन्योन्येन परस्परेण या विना, या परस्परसाहित्यरहितेति भाव इति सूत्रचतुष्कार्थः ॥ ७ ॥ इत्थं चक्रिणोक्ते मुनिराह -
| मूलम् - कम्मा निआणप्पगडा, तुमे राय ! विचिंतिआ । तेसिं फलविवागेणं, विप्पओगमुवागया ॥८॥
व्याख्या - कर्माणि ज्ञानावरणादीनि निदानं साभिष्वङ्गप्रार्थनारूपं तेन प्रकृतानि प्रकर्षेण रचितानि निदानप्रकृ तानि निदानवशनिबद्धानीत्यर्थः, त्वया राजन् ! विचिन्तितानि, तद्धेतुभूतार्त्तध्यानाभिध्यानेन कर्माण्यपि तथोच्यन्ते । तेषां कर्मणां फलं चासौ विपाकश्च शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन विप्रयोगं विरहमुपागतौ प्राप्तौ । अयं | भावः - यत्तदा त्वया मनिषिद्धेनापि निदानं कृतं, तस्य फलमेतद्यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ॥८॥ एवं वियोगहेतुं ज्ञात्वा चक्री पुनः प्रश्नयितुमाह
मूलम् - सच्चसोअप्पगडा, कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो, किं नु चित्तोवि से तहा ॥९॥ व्याख्या - सत्यं मृषाभाषात्यागरूपं, शौचं च निर्मायमनुष्ठानं, ताभ्यां प्रकटानि ख्यातानि सत्यशौचप्रकटानि क
त्रयोदशमध्ययनम्
(१३)
गा ७-९
॥ २९२ ॥
Page #585
--------------------------------------------------------------------------
________________
आणि प्रक्रमाच्छुभानुष्ठानानि मया पुराकृतानि यानीति शेषः, तान्यद्य अस्मिन्दिने शेषतद्भवकालोपलक्षणतत 'परि-1||त्रयोदशमभुक्षामोत्ति' परिभुजे तद्विपाकोपनतस्त्रीरत्नादिभोगद्वारेण वेदये यथाहमिति गम्यते, किमिति प्रश्ने, नु इति वितर्के,
ध्ययनम्
गा १० चित्रोपि चित्रनामापि? कोर्थो ? भवानपि 'से' इति तानि तथा परिभुंक्त ? अपि तु न परिभुक्ते, भिक्षकत्वाद्भवतः। तथा च किं तव तानि मया सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः॥९॥ इत्थं चक्रिणोक्ते खखरूपं मुनिराह
मूलम्-सवं सुचिपणं सफलं नराणं, कडाणकम्माण न मुक्खु अस्थि ।
__अत्येहिं कामेहि अ उत्तमेहि, आया ममं पुण्ण फलोववेए॥१०॥ व्याख्या-सर्व सुचीर्ण शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, कि-2 मिति यतः कृतेभ्योऽर्थादवश्यवेद्यतया रचितेभ्यः कर्मभ्यो न मोक्षो मुक्तिरस्ति, ददति हि तानि निजं फलमवश्य-18 मिति भावः । प्राकृतत्वाचेह विभक्तिव्यत्ययः, न च वाच्यं त्वयैवात्र व्यभिचार इत्याह-अद्रव्यैः कामैश्च शब्दादिभिः, उत्तमैः प्रधानरुपलक्षितः सन्नात्मा "ममंति" ममापि “पुण्णफलोववेएत्ति' अत्र 'उप' 'अप' 'इत' इतिशब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे 'उपपेत' इति द्रष्टव्यं, ततश्च पुण्यस्य शुभकर्मणः फलं पुण्यफलं तेनोपपेतो युक्तः, पुण्यफलोपपेतोऽभूदिति शेषः ॥१०॥ ततश्च
Page #586
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥२९३॥
त्रयोदशमध्ययनम्
गा११-१२
*35436400K **
'मूलम्-जाणासि संभूअ महाणुभागं, महिड्डिअं पुण्णफलोववेअं।
चित्तंपि जाणाहि तहेव रायं, इड्डी जुई तस्सवि अप्पभूआ ॥ ११ ॥ व्याख्या-जानासि अवबुध्यसे यथा त्वमात्मानमिति शेषः, हे सम्भूत ! पूर्वभवे सम्भूताभिधानमहानुभागं बृहन्माहात्म्यं महर्धिकं चक्रवर्तिपदावाप्त्या सातिशयसम्पयुक्तं, अत एव पुण्यफलोपपेतं चित्रमपि जानीहि, तथैव तादृशमेव हे राजन् ! किमित्येवमत आह-ऋद्धिः सम्पत् , द्युतिर्दीप्तिस्तस्यापि जन्मान्तरनाम्ना चित्राभिधानस्य ममापीति भावः, चशब्दो यस्मादर्थे, ततो यस्मात्प्रभूता बढी बभूवेति शेषः, गृहस्थभावे ममाप्येवंविधत्वादेवेति भावः ॥ ११ ॥ यदि तवाप्येवंविधा सम्पदभूत्तदा कथं प्रबजितः ? इत्याह
मूलम्-महत्थरूवा वयणप्पभूआ, गाहाणुगीआ नरसंगमज्झे ।
जं भिक्खुणो सीलगुणोववेआ, इहज्जयंते समणोम्हि जाओ ॥ १२ ॥ व्याख्या-महार्थरूपा अनन्तद्रव्यपर्यायात्मकतया बह्वर्थखरूपा, वचनेनाप्रभूता वचनाप्रभूता, खल्पाक्षरेत्यर्थः । कासौ ? गीयते इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अनुलोमं श्रोतुरनुकूलं गीता कथिता अनुगीता । अनेन श्रोत्रनुकूलैव देशना कार्येति ख्यापितं भवति । केत्याह- नरसङ्घमध्ये, न तु कोणके प्रविश्येति भावः,
**
॥२९३॥
*
Page #587
--------------------------------------------------------------------------
________________
त्रयोदशमध्ययनम् गा १३
यां गाथां श्रुत्वेति शेषः, भिक्षवो मुनयः शीलं चारित्रं, गुणो ज्ञानं, ताभ्यामुपपेताः शीलगुणोपपेता इह जिनप्रवचने यतन्ते यत्नवन्तो भवन्ति, सोपस्कारत्वात्सूत्रस्य, सा मयापि श्रुता, ततः श्रमणोऽस्मि अहं जातो न तु दुःखदग्धत्वादिति भाव इति सूत्रत्रयार्थः ॥ १२ ॥ एवं मुनिनोक्ते चक्री खसम्पदा निमंत्रयितुमाह
मूलम्-उच्चोदए महु कक्के अ बंभे, पवेइआ आवसहा य रम्मा।
इमं गिहं चित्तधणप्पभूअं, पसाहि पंचालगुणोववेअं ॥ १३ ॥ व्याख्या-उच्चोदयो मधुः कः चशब्दान्मध्यो ब्रह्मा चेति पञ्च प्रधानाः प्रासादाः प्रवेदिता मम वर्द्धकिपुरःसरेरुपनीता इत्यर्थः, आवसथाश्च शेषा भवनप्रकारा रम्या रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्र भवन्तीति वृद्धाः। किञ्च इदं प्रत्यक्षं गृहमवस्थितिप्रासादरूपं प्रभूतं बहु, चित्रं विविधमाश्चर्यकारिवा, धनमस्मिन्निति प्रभूतचित्रधनं, प्राकृतत्वात्पूर्वापरनिपातः, प्रशाधि पालय उप क्ष्वेति भावः। पाञ्चाला नाम देशस्तस्मिन् गुणा इन्द्रियोपकारिणो रूपादयस्तैरुपपेतमन्वितं पाञ्चालगुणोपपेतं, अयं भावः-पाञ्चालेषु यानि श्रेष्ठवस्तूनि तानि सर्वाण्यस्मिन् गृहे सन्ति, पाञ्चालानां तदातिसमृद्धत्वात्पाञ्चालग्रहणं, अन्यथा हि भरतेपि यद्विशिष्टं वस्तु तत्तदा तद्गृह एव आसीत् ॥ १३॥ किञ्च
Page #588
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥२९४॥
गा१४-१६
SSSAARESSAASAASAAR
मूलम्- नट्रेहिं गीएहि अ वाइएहिं, नारीजणाइं परिवारयंतो।
त्रयोदशम
ध्ययनम् भुंजाहि भोगाइं इमाई भिक्खू , मम रोअइ पवज्जा हु दुक्खं ॥ १४ ॥ व्याख्या-"नटेहिंति" नृत्यैर्गीतैश्चस्य भिन्नक्रमत्वाद्वादित्रैश्च नारीजनान् परिवारयन् परिवारिकुर्वन् मुंश्व भोगानिमान् प्रत्यक्षान् सूत्रत्वात्सर्वत्र लिङ्गव्यत्ययः, हे भिक्षो ! । इह च यद्गजतुरङ्गादीन् विहाय स्त्रीणामेवाभिधानं तत् । स्त्रीलोलुपत्वात्तस्य, तासामेव चात्यन्ताक्षेपकत्वज्ञापनार्थ, किमित्येवमत आह-मह्यं रोचते प्रतिभाति प्रव्रज्या हुरव-13 धारणे भिन्नक्रमश्च ततो दुःखमेव, न मनागपि सुखमिति भाव इति सूत्रद्वयार्थः ॥ १४ ॥ एवं चक्रिणोक्ते मुनिः || किं व्यधादित्याह
मूलम्- तं पुवनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं ।
धम्मस्सिओ तस्स हि आणुपेहि, चित्तो इमं वयणमुदाहरित्था ॥ १५ ॥ | व्याख्या-तं ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु विषयेषु गृद्धं, धर्माश्रितो धर्मस्थितस्तस्येति चक्रिणो | हितानुप्रेक्षी हिताकांक्षी चित्रश्चित्रजीवमुनिरिदं वचनं वाक्यमुदाहृतवानिति सूत्रार्थः ॥ १५॥ तदेव दर्शयतिमूलम्-सवं विलविअं गीअं, सवं नर्से विडंबिअं । सवे आहारणा भारा, सवे कामा दुहावहा ॥१६॥
॥ २९४॥
Page #589
--------------------------------------------------------------------------
________________
व्याख्या सर्व विलपितं विलपितकल्पं निरर्थकतया रुदितयोनितया च गीतं ! मत्तबालादिगीतवत् , सर्व नृत्यं त्रयोदशम |विडम्बितं विडम्बनाप्रायं ! यक्षाविष्टपीतोन्मत्ताद्यङ्गविक्षेपवत् , सर्वाण्याभरणानि भारास्तत्त्वतो भाररूपत्वात्तेषाम् ।।ध्ययनम् | तथाहि कस्यचित श्रेति-मतस्य श्रेष्टिसम्पदः ॥वर्यसौन्दर्यचातर्या. प्रिया प्राणप्रियाभवत ॥ सषे ।
श्रेष्ठिसुत
वधूकथा सौधमध्यात्त्वं, शिलापुत्रकमानय ॥ तामित्यूचेऽन्यदा श्वश्रूः, खयं कृत्यपरायणा ॥२॥ महाभारमहं मात-स्तमु- १-१३ दोढुं न हीश्वरी ॥ इति सा माह तच्छृत्वा, विममर्शेति तत्पतिः ॥ ३ ॥ देहरक्षापराऽलीको-त्तरमेषा ददौ शठा ॥ तत्तथा शिक्षयाम्येना, नैवं कुर्याद्यथा पुनः॥४॥ध्यात्वेति तं दृषद्गोलं, स्वर्णेनावेष्य सर्वतः॥ तत्वरूपमजानसास्तस्याः सोऽन्येधुरार्पयत् ॥५॥ सापि तुष्टा तमादाय, विदधे कण्ठभूषणम् ॥ विमुह्यन्ति स्वरूपेण, बाह्येनैवाल्पमेधसः॥६॥ ततोऽन्यदा तत्पतिस्ता-मित्यप्राक्षीदयि प्रिये ! ॥ इदं भूषणमुद्दोढे, भवत्या शक्यते न वा ? ॥७॥ साऽवादीत्किमियन्मात्र-मियतोपि चतुर्गुणान् ॥ सुखं सुवर्णालङ्कारा-नुद्वहेहं प्रदत्त चेत् ! ॥ ८॥ स्मित्वा स्माह | ततः कान्तो, यं शिलापुत्रकं तदा ॥ न त्वमुद्वोढुमीशाभूः, करेण क्षणमप्यरे !॥९॥ खर्णावृतः स एवासौ, कण्ठेन । प्रियते सुखम् ॥ खपुत्र इव वात्सल्या-जातु नोत्तार्यते हृदः॥१०॥ वल्पस्यापि सुवर्णस्य, तदहो महिमा महान् ॥ गिरिवगुरुरप्येष, येनासीत्तूलवल्लघुः ॥११॥ तेनेत्युक्ता शठत्वं मे, भा ज्ञातमिति हिया ॥ वीक्षामास विलक्षा सा, क्षमा प्रत्युत्तराक्षमा ॥१२॥ स भाररूपोपि चिरं यथाऽश्मा, मोहात्तयालोठ्यत कण्ठपीठे ॥ भूषास्तथान्या
Page #590
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २९५ ॥ १५
१८
२१
२४
अपि भारभूता, वहन्ति लोका विगलद्विवेकाः ॥ १३ ॥ इति श्रेष्ठिसुतवधूकथा ॥ तथा सर्वे कामा दुःखावहा मृगा| दीनामिवायतौ दुःखदायित्वान्नरकहेतुत्वाच्चेति ॥ १६ ॥ तथा
मूलम् - बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं ! । विरत्तकामाण तवोधणाणं, जं भिक्खुणं, सीलगुणे रयाणं ॥ १७ ॥
व्याख्या - बालानां मूढानां अभिरामा मनोहरा बालाभिरामास्तेषु दुःखावहेषु दुःखप्रापकेषु न तत्सुखं कामगुणेषु मनोज्ञशब्दादिषु सेव्यमानेष्वपि हे राजन् ! किं तदित्याह - यत्सुखं “विरत्तकामाणंति” कामविरक्तानां तपोधनानां भिक्षूणां शीलगुणे रतानां स्यादिति शेष इति सूत्रद्वयार्थः ॥ १७ ॥ अथ धर्मफलोपदर्शनेनोपदेष्टुमाहमूलम् - नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं ।
जहिं वयं सब जणस्स वेसा, वसीअ सोवागनिवेसणेसु ॥ १८ ॥
- हे नरेंद्र ! चक्रवर्त्तिन् ! जातिरधमा निकृष्टा नराणां मध्येऽभूदिति शेषः, श्वपाकजातिं "दुहओत्ति” द्वयोरप्यावयोर्गतयोः, अयं भावः - यदाऽऽवां श्वपाकजातावुत्पन्नौ तदावयोः सर्वजनगर्हिता जातिरासीत्, कदाचित्तां प्राप्यापि अन्यत्रोषितौ स्यातामित्याह-यस्यां वयमित्यावां, प्राकृतत्वाद्बहुवचनं, सर्वजनस्य द्वेष्यावप्रीतिकरौ“ वसी अत्ति” अवसाव उषिताविति यावत् श्वपाकनिवेशनेषु चाण्डालगृहेषु ॥ १८ ॥ कदाचित्तत्रापि कलाविशेषादिना अहीलनीयौ स्यातामित्याह
"
त्रयोदशम
ध्ययनम्
(१३)
गा१७-१८
॥ २९५ ॥
Page #591
--------------------------------------------------------------------------
________________
त्रयोदशमः मूलम्-तीसे अ जाईइ उ पाविआए, वुच्छा मु सोवागनिवेसणेसु ।
ध्ययनम् सवस्स लोगस्स दुगुंछणिज्जा, इहं तु कम्माइं पुरेकडाइं ॥ १९ ॥ हैगा १९-२० व्याख्या-तस्यां च जातौ श्वपचसम्बन्धिन्यां, तुर्विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैव पापिका कुत्सिता तस्यां 'वुच्छत्ति' उषितौ 'मु' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य जुगुप्सनीयौ हीलनीयौ |'इहंति' अस्मिन् जन्मनि, तुः पुनरर्थः, तत इह पुनः कर्माणि शुभानुष्ठानानि 'पुरे कडाइंति' पुराकृतानि शुभजात्यादेर्निवन्धनमिति शेषः, ततो जातप्रत्ययैः पुनरपि तदर्जनायैव यत्नः कार्यो न तु विषयाभिष्वङ्गव्याकुलैरेव स्थेयमित्याशयः ॥ १९ ॥ एतदेव दर्शयति
मूलम् सो दाणिसिं राय महाणुभागो, महिडिओ पुण्णफलोववेओ ।
_ चइत्तु भोगाइं असासयाई, आयाणहेऊ अभिनिक्खमाहि ॥ २० ॥ व्याख्या-'स' इति यः सम्भूतमुनिः पूर्वमासीत् स त्वं दाणिसिंति' इदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपपेतश्च सन् दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः, किं कृत्वेत्साह-त्यक्त्वा भोगानशाश्वतान् , आदीयते गृह्यते सद्विवेकैरित्यादानश्चारित्रधर्मस्तद्धेतोरभिनिष्काम आभिमुख्येन प्रव्रज, न हि गृहस्थतायां सर्वचारित्रसम्भव इति सूत्रत्रयार्थः ॥ २०॥ इत्थमकरणे को दोषः ? इत्याह
Page #592
--------------------------------------------------------------------------
________________
उत्तराध्ययन
त्रयोदशमध्ययनम्
॥२९॥
गा२१-२२
BAA5%25A52525
मूलम्-इह जीवीए राय असासयंमि, धणिअं तु पुण्णाई अकुबमाणो।
से सोअई मन्चुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ॥ २१ ॥ व्याख्या-इह जीविते मनुष्यसम्बन्धिन्यायुषि राजन्नशाश्वते अस्थिरे धणिअंतुत्ति' अतिशयेनैव न तु केतुप्रान्त- वचञ्चलतामात्रेण, पुण्यानि शुभानुष्ठानान्यकुर्वाणः 'सेत्ति' स पुण्यानुपार्जको जन्तुः शोचति पश्चात्तापं विधत्ते, मृत्युमुखं मरणावसरमुपनीतस्तथाविधकर्मभिरुपढौकितो मृत्युमुखोपनीतः सन् धर्ममकृत्वा 'परम्मित्ति' चस्य गम्यत्वात् परस्मिंश्च लोके जन्मान्तररूपे गत इति शेषः, नरकादौ हि असह्यासातवेदनार्दितः शशिनृपवत्किं मया तदैव पुण्यं न कृतमिति खिद्यत एवाधर्मकारीति सूत्रार्थः ॥ २१ ॥ न च मृत्युमुखोपनीतस्य परत्र वा दुःखादितस्य खजनादयस्त्राणाय भाविन इत्याह
मूलम्-जहेह सीहो व मिअंगहाय, मञ्चू नरं नेइ हु अंतकाले।
न तस्स माया व पिआ व भाया, कालंमि तम्मि सहरा भवंति ॥ २२ ॥ व्याख्या-यथेत्यौपम्ये इहलोके सिंहो मृगारिर्वेति पूरणे मृगं हरिणं गृहीत्वा प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं मृत्युर्यमो नरं मानवं 'नेइ हुत्ति' नयत्येव, अन्तकाले आयुःक्षयावसरे, न च तस्य मृत्युना नीयमानस्य माता
॥२९॥
Page #593
--------------------------------------------------------------------------
________________
त्रयोदशमध्ययनम् गा२३-२४
३
ASHRAICRORECRUARCAREERS
* वा पिता वा भ्राता वा काले तस्मिन् जीवितान्तरूपे, अंशं प्रक्रमाजीवितस्य भागं धारयन्ति, मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि नृपादौ खजनसर्वखं हरति खधनदानात्वजनैस्तद्रक्ष्यते, नैवं खजीवितांशदानेन तज्जीवितं धार्यते इति भावः, ॥ २२ ॥ न च जीवितारक्षणेपि दुःखांशहारिणो भाविन इत्यपि ध्येयमित्याह
मूलम् न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा ।
___इक्को सयं पच्चणु होइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ २३ ॥ व्याख्या-न तस्य मृत्युना नीयमानस्य दुःखं शारीरं मानसं वा विभजन्ते विभागीकुर्वन्ति जातयो दरवर्तिनः खजनाः, न मित्रवर्गाः सुहृत्समूहाः, न सुताः पुत्राः, न बान्धवा निकटवर्तिनः खजनाः, किन्तु एकः खयं प्रत्यनुभवति वेदयते दुःखं, किमिति ? यतः कर्तारमेव अनुयाति कर्म ॥२३॥ इत्थमशरणभावनामुक्त्वा एकत्वभावनामाह
मूलम्-चिच्चा दुपयं च चउप्पयं च, खित्तं गिहं धण्ण धन्नं च सवं ।
सकम्मप्पबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ २४ ॥ __ व्याख्या-त्यक्त्वा द्विपदं च भार्यादि, चतुष्पदं च हस्त्यादि, क्षेत्रमिभुक्षेत्रादि, गृहं धवलगृहादि, धनं कनकादि, धान्यं च शाल्यादि सर्व, खकर्मैवात्मनो द्वितीयं यस्य स खकर्मात्मद्वितीयः, अवशोऽवतंत्रः, प्रयाति परमन्यं भवं जन्म सुन्दरं वर्गादिकं, पापकं वा नरकादिकं खकृतकर्मानुरूपमिति भावः ॥२४॥ अथ जीवत्यक्तशरीरस्य का वा”त्याह
१२
Page #594
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥२९७॥
त्रयोदशमध्ययनम्
गा२५-२७
मूलम्-तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं ।
भज्जा य पुत्तोवि अ नायओ वा, दायारमन्नं अणुसंकसंति ॥ २५॥ व्याख्या-तदिति यत्तेन त्यक्तं एक अद्वितीयं तुच्छमसारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि चितिगतं चिताप्राप्तं दग्ध्वा तुः पूरणे पावकेनाग्निना भार्या च पुत्रोपि च ज्ञातयश्च दातारमन्यं अनुसंक्रामन्ति उपसर्पन्ति, ते हि गृहमनेनापावनमिति तद्वहिर्निष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा, कृत्वा चलौकिककृत्यानि, आनंद्य च कतिचिद्दिनानि पुनः खार्थसिद्ध्यै अन्यमनुवर्त्तन्ते, न तु तद्वार्तामपि पृच्छतीत्याशय इति सूत्रचतुष्कार्थः ॥२५॥ किञ्च
मूलम्-उवनिजइ जीविअमप्पमायं, वण्णं जरा हरइ नरस्स रायं।
पंचालराया वयणं सुणाहि, मा कासि कम्माइं महालयाइं ॥ २६ ॥ व्याख्या-उपनीयते ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिर्जीवितं अप्रमादं प्रमादं विनैव अवीचिमरणेनेति भावः, वर्ण सुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् ! यतश्चैवमतः पाञ्चालराज! वचनं शृणु, किन्तदित्याहमा कार्षीः कर्माणि महालयानि अतिशयमहान्ति पञ्चेन्द्रियवधादीनीति सूत्रार्थः॥२६॥ एवं मुनिनोक्ते चक्री स्माह
मूलम्-अहंपि जाणामि जहेह साहू, जं मे तुमं साहसि वक्कमेअं।
भोगा इमे संगकरा हवंति, जे दुच्चया अजो ! अम्हारिसेहिं ॥ २७ ॥
॥२९७॥
Page #595
--------------------------------------------------------------------------
________________
३
६
९
१२
व्याख्या - अहमपि जानामि तथेति शेषः, यथा येन प्रकारेण इह जगति साधो ! यन्मे मम त्वं साधयसि कथयसि वाक्यमुपदेशरूपं वचः एतदनन्तरोक्तं, तत्किं भोगान्न जहासीत्याह - भोगा इमे प्रत्यक्षाः सङ्गकराः प्रतिबन्धोत्पादका भवन्ति, ये दुस्त्यजा आर्य ! अस्मादृशैर्गुरुकर्मभिरिति सूत्रार्थः ॥ २७ ॥ किञ्च -
| मूलम् — हत्थिणपुरंमि चित्ता, दहूणं नरवई महिड्डिअं । कामभोगेसु गिद्धेणं, निआणमसुहं कडं ॥ २८ ॥ तस्स मे अप्पडिकंतस्स, इमं एआरिसं फलं । जाणमाणेवि जं धम्मं, कामभोगेसु मुच्छिओ ॥ २९ ॥ [जुयलं]
व्याख्या - हस्तिनापुरे हे चित्र ! प्राग्भवे चित्राह्नमुने ! दृष्ट्वा नरपतिं सनत्कुमारसंज्ञं तुर्यचक्रिणं महर्द्धिकं कामभोगेषु गृद्धेन मयेति शेषः, निदानमशुभमशुभानुबन्धि कृतम् ॥ २८ ॥ ' तस्सत्ति' सुवूव्यत्ययात्तस्मान्निदानान्मे ममाप्रतिक्रान्तस्याऽप्रतिनिवृत्तस्य तदा हि त्वया बहूक्तेपि न मन्मनसो निवृत्तिरभूदितीदं एतादृशं अनन्तरवक्ष्यमाणरूपं फलं कार्य जातमिति शेषः, यत्कीदृशमित्याह - जानन्नपि यदहं धर्म श्रुतधर्मादिकं कामभोगेषु मूच्छितो गृद्धः तदेतत्कामभोगेषु मूर्च्छनं मम निदानस्य फलमिति सूत्रद्वयार्थः ॥ २९ ॥ पुनर्निदानफलमेवोदाहरणेन दर्शयितुमाहमूलम् - नागो जहा पंकजलावसण्णो, दहुं थलं नाभिसमेइ तीरं ।
एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुवयामो ॥ ३० ॥
त्रयोदशम
ध्ययनम् गा२८-३०
Page #596
--------------------------------------------------------------------------
________________
गा३१-३२
उत्तराध्ययन * व्याख्या-नागो हस्ती यथेत्यौपम्ये, पङ्कप्रधानं जलं पङ्कजलं तत्रावसन्नो निमग्नः सन् दृष्ट्वा स्थलं न नैवाभिसमेति त्रयोदशम
ध्ययनम् ॥२९८॥ प्राप्नोति तीरं पारं, अपेर्गम्यत्वात्तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धा न भिक्षोः साधोाग
(१३) १५६ सदाचाररूपं अनुव्रजामोऽनुसराम इति सूत्रार्थः ॥ ३०॥ पुनरनित्यतां दर्शयितुं मुनिराह
मूलम्-अच्चेइ कालो तरंति राईओ, नयावि भोगा पुरिसाण निच्चा ।
उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ ३१॥ व्याख्या अत्येति अतिक्रामति कालो यथायुष्ककालः, किमिति ? यतस्त्वरन्ते शीघ्रं गच्छन्ति रात्रयो रजन्यो ६ दिनोपलक्षणश्चैतत्ततोऽनेनायुषोऽस्थिरत्वमुक्तं, उक्तञ्च-"क्षणयामदिवसमास-च्छलेन गच्छन्ति जीवितदलानि ॥ इति । |विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ ॥१॥" न च भोगा अपि अपेरत्र सम्बन्धात् पुरुषाणां नित्याः शाश्वताः, यत उपेत्य खप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति, कमिव क इवेत्याह- द्रुमं यथा क्षीणफलं, वेत्यौपम्ये भिन्नक्रमश्च, ततः पक्षिण इव विहगा इव फलोपमानि हि पुण्यानि ततस्तदपगमे क्षीणफलं वृक्षमिव |पुरुषं पक्षिण इव भोगा मुञ्चन्तीति सूत्रार्थः ॥ ३१॥ यत एवमतः
IC ॥२९८॥ मूलम्-जइ तंसि भोगे चइउं असत्तो, अजाई कम्माई करेहि रायं ।
धम्मठिओ सवपयाणुकंपी, तो होहिसि देवो इओ विउवी ॥ ३२ ॥
GALLOCALAMROSAGAR
२४
Page #597
--------------------------------------------------------------------------
________________
१२
व्याख्या– यदि त्वमसि भोगांस्त्यक्तुमशक्तः ततः किमित्याह - आर्याणि शिष्टजनोचितानि कर्माणि कार्याणि कुरु हे राजन् ! धर्मे प्रक्रमाद्गृहस्थधर्मे सम्यग्दृष्ट्याद्याचारलक्षणे स्थितः सन् सर्वप्रजानुकम्पी समस्तप्राणीदयापरः, ततः किं फलमित्याह - तत आर्यकर्म करणाद्भविष्यसि देवो वैमानिक इतोऽस्मान्मनुष्यभवादनन्तरं 'विउबित्ति' वैक्रियशरीखानिति सूत्रार्थः ॥ ३२ ॥ एवमुक्तोपि यदासौ न किञ्चित्प्रत्यपद्यत तदा मुनिः स्माह
मूलम् — न तुज्झ भोगे चइऊण बुद्धी, गिद्धोसि आरंभपरिग्गहेसु ।
मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं आमंतिओसि ॥ ३३ ॥ व्याख्यान नैव तव भोगानुपलक्षणत्वादनार्यकर्माणि च त्यक्तुं बुद्धिः, गृद्धः प्रसक्तोसि वर्त्तसे आरम्भपरिग्रहेषु सावद्य व्यापारेषु सचित्ताचित्तादिवस्तुखीकारेषु च, मोघं निष्फलं यथा भवति तथा कृत एतावान् विप्रलापो विविधन्यर्थवचनविन्यासलक्षणः, सम्प्रति तु गच्छामि राजन् ! आमंत्रितोसि धातूनामनेकार्थत्वात् पृष्टोसि गन्तुमिति शेषः । तव हि जीवितानित्यतादर्शनादिभिर्बहुभिः प्रकारैरनुशिष्यमाणस्यापि न मनागपि वैराग्यमभूदित्यविनेयत्वा|दुपेक्षैव वरीयसीति भाव इति सूत्रार्थः ॥ ३३ ॥ इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूत्तदाह
मूलम् — पंचालरायावि अ बंभदत्तो, साहुस्स तस्सा वयणं अकाउं ।
अणुत्तरे भुंजिअ कामभोगे, अणुत्तरे सो नरए पविट्ठो ॥ ३४ ॥
त्रयोदशमध्ययनम् गा३३-३४
Page #598
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ २९९ ॥
१५
१८
२१
२४
'पंचालरायाविअत्ति' अपिः पुनरर्थे, चः पूरणे, ततः पाञ्चालराजः पुनर्ब्रह्मदत्तः साधोस्तस्य वचनमकृत्वा गुरुकर्मतया वज्रतन्दुलवदत्यन्तदुर्भेदत्वात्, [, अनुत्तरान् सर्वोत्तमान् भुक्त्वा कामभोगान्, अनुत्तरे सकलनरकज्येष्ठे अप्रतिछाने इत्यर्थः, स ब्रह्मदत्तो नरके प्रविष्टः । तदनेन निदानस्य नरकान्तं फलमुपदर्शितं भवतीति सूत्रार्थः ॥ ३४ ॥ यथा चायं नरके प्रविष्टस्तथा तत्कथावशिष्टा इहोच्यते । तथाहि
तमबोध्यतमं हित्वा सद्वैद्य इवापटुं निकटमरणम् ॥ विजहार यतिर्भूमी - पतिरपि राज्यं चिरं बुभुजे ॥ ३९२ ॥ तं चान्यदा द्विजः पूर्व- संस्तुतोऽभ्येत्य कोप्यदोवादीत् ॥ भुंक्षे यदात्मना तत्प्रदेहि मे भोजनं चक्रिन् ! ॥ ३९३ ॥ ऊचे नृपो मदन्नं, दुर्जरमन्यस्य सृजति चोन्मादम् ॥ विप्रो जगाद धिक् त्वां, कदर्यमन्नप्रदानेपि ॥ ३९४ ॥ सकुटुम्बमथ नरेन्द्र-स्तं निजभोजनमभोजयत्कोपात् ॥ अथ तस्याविरभून्निशि, मदनोन्मादो भृशं तस्मात् ॥ ३९५ ॥ अनपेक्षितनिजजननी - जामिजनीव्यतिकरस्ततो विप्रः । ससुतोपि प्रावर्त्तत, रते सुरामत्त इव विकलः ! ॥ ३९६ ॥ प्रातस्तु लज्जया स, द्विजो गृहजनश्च तस्य नान्योन्यम् ॥ दर्शयितुमास्यमशकन्, मशकपटलमलिनमवसादात् ॥ ३९७॥ अनिमित्तारातिर्मा, सकुटुम्बमहीलयन्महीशोऽसौ ॥ इति चिन्तयन्नमर्षा - न्नगरान्निरगात्ततो विप्रः ॥ ३९८ ॥ तेन भ्रमताथ बहिः, पशुपालोऽदर्शि दर्शिताश्चर्यः ॥ कर्करिकाभिः पिप्पल-दलपटलं छिद्रयन् दूरात् ॥ ३९९ ॥ मत्कार्य कर्तुमसौ, क्षम इति निश्चित्य वाडवः स ततः ॥ इत्यूचे तं सन्मान - दानवचनैर्वशीकृत्य ॥ ४०० ॥ राजपथे यो
त्रयोदशमध्ययनम्
(१३)
चित्रसम्भूतचरित्रम
वशिष्टम्
३९२-४००
॥ २९९ ॥
Page #599
--------------------------------------------------------------------------
________________
-25
C
द्विरदे, स्थितः सितछत्रचामरो व्रजति ॥ प्रक्षिप्य गोलिके त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ॥ ४०१॥ तत्प्रतिपद्य त्रयोदशम
ध्ययनम् जडत्वात् , स्थित्वा कुड्यान्तरे दृशौ नृपतेः॥ सह मुक्तगोलिकाभ्यां, सोपि समं स्फोटयामास ॥४०२॥ पशुवत्प
चित्रसम्भूशुपालः सोथ, हन्यमानोङ्गरक्षकैर्दुत्वा ॥राज्ञेऽपकारिणं तं, द्विजमाख्यत्कुमतिदानरिपुम् ॥४०३॥ तदवेत्य नृपः तचरित्रम
वशिष्टम् कुपित-स्तं विप्रं पुत्रमित्रबन्धुयुतम् ॥ व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः॥ ४०४ ॥ अपरान् पुरो
४०१-४११ हितादी-नपि निखिलानगरवासिनो विप्रान् ॥ सोऽघातयद्रुषा व नु,रोषान्धानां विवेकमतिः?॥४०५॥ सचिवं
चैवम चत, भृत्वा स्थालं द्विजन्मनां नयनैः ॥ स्थापय मम पुरतोन्वह-महं यथा तानि मृद्नामि ! ॥ ४०६ ॥ राज्ञस्तस्य तमाशय-मवेत्य सचिवोपि शुभमतिः क्रूरम् ॥ आपूर्य श्लेष्मातक-फलैः पुरोऽस्थापयत्स्थालम् ॥ ४०७ ॥ तदथ
स्थालं नृपतिः, पस्पर्श मुहुर्मुहुः स्वपाणिभ्याम् ॥ रमणीरत्नस्पर्शा-दपि तत्स्पर्शेऽधिकं मुमुदे ॥ ४०८ ॥ द्विजनेत्र९ धिया तानि च, फलानि निर्दयममर्दयन्मुदितः ॥ न च तत्स्थालं पुरतो-ऽपासारयदनिशमपलजः ॥ ४०९ ॥ इत्थं ।
प्रवर्द्धमाना-ऽशुभपरिणामो दिनं दिनं प्रति सः ॥ अतिगमयति स्म पोडश, वर्षाण्यविरतविषयतर्षः ॥ ४१० ॥सर्वा-3 ॥ युषाथ नृपतिः शरदां शतानि, सप्तातिवाह्य विषयामिपलोलुपात्मा ॥ उत्कृष्टजीवितमुपाय॑ तमस्तमायां, रौद्राशयाद
जनि नरयिकः क्षमायाम् ॥४११॥ इत्युक्तो ब्रह्मदत्तकथावशिष्टांशः, सम्प्रति प्रसङ्गतश्चित्रवक्तव्यतामाह
Page #600
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३०॥
त्रयोदशमध्ययनम् (१३)
मूलम्-चित्तोवि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसी।
अणुत्तरं संजमपालइत्ता, अणुत्तरं सिद्धिगई गयत्ति बेमि ॥ ३५ ॥ व्याख्या-चित्रोपि चित्रः पुनः कामेभ्यो विरक्तकामो निवृत्ताभिलाषः उदात्तं प्रधानं चारित्रं सर्वविरतिरूपं तपश्च द्वादशविधं यस्य स तथा, महर्षिः अनुत्तरं संयम सप्तदशभेदं पालयित्वा अनुत्तरां सर्वलोकाकाशोपरिवर्तिनी सिद्धिं गतिं गतः प्राप्त इति सूत्रार्थः ॥ ३५ ॥ इति ब्रवीमीति प्राग्वत् ॥ १३ ॥
യരായവയാകയായ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपा-टि ध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयोदशमध्ययनं सम्पूर्णम् ॥१३॥ லைலலைலலைலலைலலைல
॥ ३०॥
Page #601
--------------------------------------------------------------------------
________________
चतुर्दशमध्ययनम् गा१-३
३
॥ अथ चतुर्दशमध्ययनम् ॥ ॥ एँ नमः ॥ व्याख्यातं त्रयोदशमध्ययनं, अधुनेषुकारीयाख्यं चतुर्दशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने मुख्यतया निदानदोष उक्तः, प्रसङ्गान्निर्निदानतागुणश्च, अत्र पुनर्मुख्यतया स एवोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रत्रयम्
मूलम्-देवा भवित्ताण पुरे भवंमि, केई चुआ एगविमाणवासी।
पुरे पुराणे उसुआरनामे, खाए समिद्धे सुरलोअरम्मे ॥ १ ॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु अ ते पसूआ। निविण्णसंसारभया जहाय, जिणिंदमग्गं सरणं पवण्णा ॥२॥ पुमत्तमागम्म कुमार दोवि, पुरोहिओ तस्स जसा य पत्ती।
विसालकित्ती अ तहेसुआरो, राईत्थ देवी कमलावई अ ॥३॥ व्याख्या- देवा भूत्वा पूर्वभवे केचिदनिर्दिष्टनामानश्चयुताः स्वर्गादिति शेषः, एकस्मिन् पद्मगुल्मनाम्नि विमाने
५१
Page #602
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ३०१ ॥
१२
१५
१८
२१
वसन्तीत्येवंशीला एकविमानवासिनः पुरे नगरे पुराणे चिरन्तने 'इपुकार' नाम्नि ख्याते प्रसिद्धे समृद्धे सुरलोकरम्ये ॥ १ ॥ खमात्मीयं कर्म पुण्यप्रकृतिरूपं तस्य शेष उद्धरितं स्वकर्मशेषस्तेन पुराकृतेन कुलेषु उदग्रेषु उच्चेषु, चः पूरणे, ते इति ये देवा भूत्वा च्युतास्ते प्रसूता उत्पन्नाः । 'निधिणत्ति' आर्पत्वान्निर्विण्णा उद्विग्नाः संसारभयात् 'जहायत्ति' त्यक्त्वा भोगादीति शेषः, जिनेन्द्रमार्ग तीर्थङ्करोक्तं मुक्तिपथं शरणं अपायरक्षाक्षमं आश्रयं प्रपन्नाः अभ्युपगताः ॥ २ ॥ तेषु कः किंरूपो जिनेन्द्रमार्गे प्रपन्न इत्याह- पुंस्त्वं पुरुषत्वमागम्य 'कुमारत्ति' कुमारौ अकृतपाणिग्रहणौ द्वौ, अपिः पूरणे, सुलभबोधिकतयाऽन्येषां च बोधिलाभ हेतुतया प्राधान्यख्यापनार्थमनयोः पूर्वमुपादानं । पुरोहितो 'भृगु' नामा तृतीयः, तस्य 'यशा' च नाम्ना पत्नी चतुर्थः, विशालकीर्तिश्च विस्तीर्णयशाश्च तथा 'इषुकारो' नाम राजा पंचमः 'इत्यत्ति' अत्रैव भवे देवीति प्रधानभार्या, प्रक्रमात्तस्यैव राज्ञः 'कमलावती' च नाम्ना षष्ठ इति सूत्रत्रयार्थः ॥ ३ ॥ अथैतेषु कुमारयोर्यथा जैनमार्गावाप्तिर्जाता तथा दर्शयितुमाह
मूलम् — जाईज रामन्नुभयाभिभूआ, बहिंविहाराभिणिविट्टचित्ता ।
संसारचक्कस विमोक्खणट्टा, दट्टुण ते कामगुणे विरता ॥ ४ ॥ पिअपुत्तगा दोणिवि माहणस्स, सकम्मसीलस्स पुरोहिअस्स । सरितु पोराणि तत्थ जाई, तहा सुचिण्णं तवसंजमं च ॥ ५ ॥
चतुर्दशम
ध्ययनम्
(१४)
गा ४-५
॥ ३०१ ॥
Page #603
--------------------------------------------------------------------------
________________
चतुर्दशमध्ययनम्
ॐ
व्याख्या-जातिजरामृत्युभयाभिभूतौ बहिः संसाराद्विहारः स्थानं बहिर्विहारः स चार्थान्मोक्ष एव, तस्मिन्नभि- निविष्टं बद्धाग्रहं चित्तं ययोस्तौ तथा, संसारश्चक्रमिव संसारचक्रं, तस्यविमोक्षणार्थ त्यागार्थं दृष्ट्वा साधूनिति शेषः । तावनन्तरोक्तौ कामगुणे कामगुणविषये विरक्तौ ॥ ४ ॥ 'पिअपुत्तगत्ति' प्रियौ वल्लभौ पुत्रावेव पुत्रको, प्रियौ च तौ पुत्रको च प्रियपुत्रको द्वावपि माहनस्य द्विजस्य खकर्मशीलस्य यजनाद्यनुष्ठानरतस्य पुरोहितस्य शान्तिकर्तुः 'सा |तुत्ति' स्मृत्वा पौराणिकी चिरन्तनीं तत्रेति सन्निवेशे जातिं जन्म जातिस्मरणं प्राप्येत्यर्थः ॥ तथा सुचीर्ण निदाना-18 दिनानुपहतत्वेन सम्यक् सेवितं तपः संयमं च स्मृत्वा कामगुणे विरक्ताविति योग इति सूत्रद्वयार्थः ॥५॥ ततस्तौ यदकार्टी तदाह
मूलम् ते कामभोगेसु असजमाणा, माणुस्सएसुं जे आवि दिवा ।
मोक्खाभिकंखी अभिजायसड्डा, तायं उवागम्म इमे उदाहु ॥६॥ व्याख्या-तौ पुरोहितसुतौ कामभोगेषु 'असज्जमाणत्ति' असजन्तौ सङ्गमकुर्वन्तौ मानुष्यकेषु मनुष्यसम्बन्धिषु ये चापि दिव्या देवसम्बन्धिनस्तेषु चेति प्रक्रमः, मोक्षाभिकांक्षिणी अभिजातश्रद्धौ उत्पन्नतत्त्वरुची तातं पितरमुपागम्येदं वक्ष्यमाणं 'उदाहुत्ति' उदाहरतां उक्तवन्ताविति सूत्राक्षरार्थः ॥ ६॥ भावार्थस्त्वेषां सूत्राणां कथानकादवसेयस्तत्सम्प्रदायश्चायं, तथाहि
SHAAE.
Page #604
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३०२॥
करत
चित्रसम्भूतयोः पूर्व-भवे यो सुहृदावुभौ ॥ अभूतां वल्लवौ साधु-सेवाध्वस्तविपल्लवौ ॥१॥ तावपि व्रतमारा- चतुर्दशमध्या-भवतां भासुरौ सुरौ ॥ व्रतं हि चेन्न मोक्षाय, तर्हि खर्गाय जायते ॥२॥ क्षितिप्रतिष्ठितपुरे, तावभूतां तत- ध्ययनम् श्युतौ ॥ सोदराविभ्यतनयो, सुन्दरावाश्विनाविव ॥ ३॥ इभ्यपुत्रास्तयोस्तत्र, चत्वारोऽन्यमहर्द्धिकाः ॥ जज्ञिरे सुहृदः ।
(१४)
भृगुपुरोहिपुण्य-शालिनां सुलभा हि ते ॥ ४ ॥ उपभुज्य चिरं भोगां-स्ते पडप्यन्यदा मुदा ॥ श्रुत्वा धर्म गुरूपान्ते, प्राव्रजन शतपुत्रवर्ण|विजितेन्द्रियाः ॥ ५॥ पालयित्वा चिरं दीक्षा-मधीत्य विविधं श्रुतम् ॥ विधायानशनं प्रान्ते, ते विपद्य महर्षयः ॐनम् १-१४
॥ ६॥ विमाने पद्मगुल्माढे, प्रथमत्रिदिवस्थिते ॥ जज्ञिरे त्रिदशश्रेष्ठा-श्चतुःपल्योपमायुषः ॥ [ युग्मम् ] तत्रापि विविधैर्भोगै-रतिवाद्यायुरात्मनः ॥ गोपजीवामरौ मुक्त्वा-ऽच्यवन्त प्रासुराः परे ॥८॥ तेष्वेकः कुरुदेशोवी-ललनामौलिभूषणे ॥ इषुकारपुरे भूमा-निषुकाराभिधोऽभवत् ॥ ९॥ अन्यस्तु तस्य राज्ञोऽभू-महिषी कमलावती ॥ सर्वाङ्गसुभगा भूमी-गतेव जयवाहिनी ॥ १० ॥ तस्यैवासीत्तृतीयस्तु, पुरोधा भृगुसंज्ञकः ॥ पुरोधसोऽभवद्भार्या, तुरी-13 यस्तु यशाभिधा ॥ ११॥ पुरोहितस्य तस्याभू-कालेपि न यदाङ्गजः ॥ तदा तच्चिन्तयात्यन्त-मन्तः स व्याकुलोभवत् ॥ १२ ॥ दध्यौ चेत्यनिशं चित्ता-नन्दनान्नन्दनान् विना ॥ सौधं शून्यमिवाभाति, विना वृक्षान् वनं यथा ॥ १३ ॥ दैवज्ञपृच्छां देवोप-याचितानि च सोन्वहम् ॥ व्यधात् पुत्रार्थमातॊ हि, देवादीन् बहु सेवते ॥ १४ ॥
१ गोपौ । २ इन्द्राणी।
Page #605
--------------------------------------------------------------------------
________________
इतश्च तौ गोपजीव-देवाववधिनान्यदा ॥ भृगोः पुत्रौ भविष्याव, इति ज्ञात्वा महाशयौ ॥ १५ ॥ निर्ग्रन्थरूपं नि- चतुर्दशमः य, भृगोः सौधे समेयतुः ॥ तौ प्रेक्ष्य मुदितः सोपि, प्राणमद्रमणीयुतः ॥ १६ ॥ [ युग्मम् ] श्रुत्वा तद्देशनां ध्ययनम्
भृगुपुरोहिश्राद्ध-धर्म च प्रतिपद्य सः ॥ इति पप्रच्छ हे पूज्यौ !, पुत्रा मे भाविनो न वा ? ॥ १७ ॥ तावूचतुः सुतौ द्वौ ते,8IE
तपुत्रवर्णहाभाविनौ तौ च सन्मती ॥ शिशुत्व एव प्रव्रज्यां, विश्वपूज्यां ग्रहीष्यतः ॥ १८ ॥नान्तरायस्तदा कार्यः, प्रव्रज्यां गृह्ण- मपर
तोस्तयोः॥ तौ हि प्रबजितौ लोकं, प्रभूतं बोधयिष्यतः॥ १९ ॥ इत्युक्त्वा तो गतौ देवा-वन्यदा च ततश्च्युतौ ॥ गर्भे पुरोधसः पल्या, यशाया अवतरतुः ॥२०॥ ततः सभार्यो गत्वाऽस्था-दामे क्वापि पुरोहितः॥ आजन्मापि |मुनीन्मास्म-पश्यतां मत्सुताविति ॥२१॥ अथ क्रमाद्यशाऽसूत, सुतयुग्मं मनोरमम् ॥ ववृधाते च ती बालौ, तत्र पद्माविव हदे ॥२२॥ देवादिहागतान्साधू-मास्म सङ्गच्छतां सुतौ ॥ तत्सङ्गमे हि चारित्रं, द्रुतमैतौ ग्रहीष्यतः॥२३॥ ध्यात्वेति मोहतिमिरा-पास्तविज्ञानलोचनौ ॥ इत्यशिक्षयतां पुत्रौ, यशाभृगुपुरोहितौ ॥ २४ ॥ "हे पुत्रौ ! ये हि यतयो, मुण्डा दण्डादिधारिणः ॥ शनैर्नीचैदृशो दम्भा-द्विचरन्ति बका इव ॥ २५ ॥ गृहीत्वा डिम्भरूपाणि, ते विनिघ्नन्ति सत्वरम् ॥ राक्षसा इव तन्मांसं, भक्षयन्ति च निर्दयाः ॥ २६ ॥ तद्युवाभ्यां न गन्तव्यं, तेषां पार्थ कदाचन ॥ विस्रम्भश्च न कर्तव्य-स्तेषां विस्रब्धघातिनाम् ॥ २७ ॥” पितृभ्यां मोहमूढाभ्यां, शावौ ताविति शिक्षितौ ॥ क्रीडन्तौ जग्मतुः खैरं, बहिनामात्ततोन्यदा ॥ २८॥ समीक्ष्यागच्छतो मार्ग-प्रतिपन्नान्मुनींश्च तौ ॥ वट
Page #606
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३०॥
मारोहतां नंष्ट्वा, वित्रस्तौ विहगाविव ॥ २९॥ दैवावटस्य तस्याधः, साधवोपि समागताः ॥ उपचक्रमिरे भोक्तं, चतुर्दशमपूर्वोपात्ताशनादिकम् ॥ ३०॥ तच खाभाविकं वीक्ष्य, वटस्थौ तौ कुमारको ॥ दध्यतुर्भक्तमेवामी, भुञ्जते न पुनः ध्ययनम् पलम् ॥ ३१ ॥ तत्पित्रोर्वचनं तस्मा-देषु सङ्गच्छते कथम् ? ॥ दोषश्चायमसंस्ताभ्या-मुक्तोऽमीषां किमावयोः ? (१४) ॥ ३२ ॥ किञ्चावामीदृशान् क्वापि, श्रमणान् दृष्टपूर्विणौ ॥ ध्यायन्ताविति तौ प्राच्यां, जाति सस्मरतुर्निजाम् ॥३३॥
भृगुपुरोहिश्रामण्यं प्राकृतं स्मृत्वा, सम्बुद्धौ दध्यतुश्च तौ ॥ पितृभ्यां वञ्चितावावा-महो! मोहान्मृषोक्तिभिः॥३४॥ध्यायन्ती
तपुत्रवर्ण
नम्२९-३५ तावेवमुत्तीर्य तस्मा-न्यग्रोधद्रोस्तान्मुनीन्द्रांश्च नत्वा ॥गत्वा खीयं सौधमभ्येत्य ताता-ऽभ्यर्ण चञ्चद्वर्णमित्यभ्यधत्ताम्
गा ७ ॥ ३५ ॥ इत्युक्तः सम्प्रदायः, सम्प्रदायशेषं तु सूत्रसिद्धमिति तदेवाथ व्याख्यायते । तत्र यथा तौ तातमूचतुस्तथाह-2
मूलम्-असासयं दद्दुमिमं विहारं, बहुअंतरायं न य दीहमाउं।
तम्हा गिहंसी न रइं लभामो, आमंतयामो चरिसामु मोणं ॥ ७॥ ४ व्याख्या-अशाश्वतमनित्यं दृष्ट्वा इमं प्रत्यक्षं विहारं मनुष्यत्वेनावस्थानं, वहवः अन्तराया रोगादयो यत्र तद्बह्व- ३० न्तरायं, न च नैव दीर्घमायुर्जीवितं सम्प्रति पल्योपमाद्यायुषोऽभावात् , यत एवं तस्माद्गृहे न रतिं लभावहे, अत एवामंत्रयावः पृच्छाव आवां चरिष्यावो मौनं संयममिति सूत्रार्थः ॥७॥ एवं ताभ्यामुक्ते
॥३०३॥
Page #607
--------------------------------------------------------------------------
________________
गा८-९
मूलम्-अह तायओ तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासि।
चतुर्दशम
ध्ययनम् इमं वयं वेदविदो वयंति, जहा न होई असुआण लोगो ॥ ८॥ व्याख्या-अथानन्तरं तात एव तातकः तत्र तस्मिन्नवसरे मुन्योर्भावतः प्रतिपन्नमुनिभावयोस्तयोः कुमारयोः । तपस उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः 'वयासित्ति' अवादीत् , तदेव दर्शयति । इमां वाचं वेदविदो वदन्ति, यथा न भवति असुतानामपुत्राणां लोकः परलोकः, तं विना पिण्डदानाद्यभावे गत्याद्यभावात् । तथा च वेदवचः-"अनपत्यस्य लोका न सन्तीति" अन्यैरप्युक्तं-“पुत्रेण जायते लोक, इत्येषा वैदिकी श्रुतिः॥ अथ पुत्रस्य पुत्रेण, खर्गलोके महीयते ॥ १॥” इति ॥ ८॥ यत एवं तस्मात्
मूलम्-अहिज वेए परिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया।
भुच्चाण भोए सह इत्थिआहिं, आरण्णगा होह मुणी पसत्था ॥ ९॥ व्याख्या-अधीत्य वेदान् , परिवेष्य भोजयित्वा विप्रान् , पुत्रान् परिष्ठाप्य निवेश्य गृहे, हे जातौ पुत्रौ ! तथा भुक्त्वा । दा'ण' इति वाक्यालङ्कारे, भोगान् सह स्त्रीभिः, आरण्यको अरण्यवासितापसव्रतधारिणौ 'होहत्ति' भवतं युवां मुनी
प्रशस्ताविति सूत्रद्वयार्थः ॥ इत्थं तेनोक्ते कुमारौ यदकार्टी तदाह
ACCORRECICIENCE
१२
Page #608
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ३०४ ॥
१५
१८
२१
२४
मूलम् -- सोअग्गिणा आयगुणिंधणेणं, मोहानिला पज्जलणाहिएणं । संतत्तभावं परितप्यमाणं, लालप्पमाणं बहुहा बहुं च ॥ १० ॥ पुरोहितं कमसोऽणुणितं, निमंतयंतं च सुए धणेणं । Teri कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वक् ॥ ११ ॥ व्याख्या —— शोकाग्निना पुत्रविरहसम्भावनोद्भवशोकवह्निना, किंभूतेन ? आत्मनो गुणा आत्मगुणा अनादिकालसहचरितत्वाद्रागादयस्ते इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहानिलादज्ञानवायोः 'पज लणाहिएणंति' सूत्रत्वादधिकं प्रज्वलनं यस्य स तथा तेन, सन्तप्तः भावः अन्तःकरणमस्येति सन्तप्तभावस्तं, अत एव परितप्यमानं समन्ताद्दह्यमानं, लालप्यमानं पुनः पुनर्दीनवचांसि लपन्तं बहुधाऽनेकप्रकारं बहु च प्रभूतं यथा स्यात्तथा ॥ १० ॥ पुरोहितं तमिति प्रक्रान्तं 'कमसोत्ति' क्रमेणानुनयन्तं खाभिप्रायेण प्रज्ञापयन्तं निमंत्रयन्तं च सुतौ धनेन यथाक्रमं कामगुणैश्चैव मनोज्ञशब्दाद्यैः कुमारकौ तौ प्रसमीक्ष्य प्रकर्षेण मोहाच्छादितमतिमालोक्य वाक्यं वक्ष्यमाणं उक्तवन्ताविति शेषः ॥ ११ ॥ किं तदित्याह-
मूलम् - वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निंति तमंतमेणं ।
जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एवं ॥ १२ ॥
चतुर्दशमध्ययनम्
(१४)
गा १०-१२
Page #609
--------------------------------------------------------------------------
________________
व्याख्या - वेदा अधीता न भवन्ति त्राणं शरणं, तत्पठनमात्राद्दुर्गतिपातरक्षणासिद्धेः । उक्तं हि - " अकारणमधीयानो, ब्राह्मणस्तु युधिष्ठिर ! | दुष्कुलेनाप्यधीयन्ते, शीलं तु मम रोचते ॥ १ ॥ शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् ॥ वृत्तस्थं ब्राह्मणं प्राहु-र्नेतरान् वेदजीवकान् ॥ २ ॥' तथा 'भुत्तत्ति' अन्तर्भूतणिगर्थत्वाद्भोजिता द्विजा नयन्ति तमसोपि यत्तमस्तमस्तमस्तस्मिन् अतिरौद्रे रौरवादिके नरके इत्यर्थः, णमिति वाक्यालङ्कारे, ते हि भोजिता कुमार्गप्ररूपणपशुवधादावेव प्रवर्त्तन्ते, ततः पात्रबुद्ध्या तेषां भोजनं नरकहेतुरेवेति कुतस्तेषां निस्तारकत्वं ? तथा जाताश्च पुत्रा न भवन्ति त्राणं नरकादौ पततामिति शेषः । उक्तञ्च वेदानुगैरपि - " यदि पुत्राद्भवेत्खर्गो, दानधर्मो न विद्यते ॥ मुषितस्तत्र लोकोयं, दानधर्मो निरर्थकः ॥ १ ॥ बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च ॥ तेषां च प्रथमं स्वर्गः, पञ्चालोको गमिष्यति ॥ २ ॥ यतश्चैवं ततः को नाम ? न कोपीत्यर्थः, ते तव अनुमन्येत अनुजानीयात्सविवेक इति गम्यते एतत्पूर्वोक्तं वेदाध्ययनादीति ॥ १२ ॥ तथा-
मूलम् — खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा । संसारमोक्खस्स विपक्खभूआ, खाणी अणत्थाण उ कामभोगा ॥ १३ ॥ व्याख्या -- क्षणमात्रसौख्या बहुकालं दुःखं नरकादिविषयं येभ्यस्ते बहुकालदुःखाः, प्रकामदुःखा अतिशयितदुःखा
चतुर्दशमध्ययनम्
गा १३
Page #610
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३०५॥
(१४)
अनिकामसौख्या अप्रकृष्टसुखाः, संसारमोक्षस्य विपक्षभूताः, खानिराकरोऽनर्थानां, तुरेवकारार्थी भिन्नक्रमश्च, ततः
चतुर्दशमखानिरेव कामभोगाः॥१३॥ अनर्थखनित्वमेव स्पष्टयितुमाह
ध्ययनम् मूलम्-परिवयंते अनिअत्तकामे, अहो अराओ परितप्पमाणे ।
गा१४-१५ अन्नप्पमत्ते धणमेसमाणे, पप्पोति मच्चु पुरिसे जरं ज ॥ १४॥ व्याख्या-परिव्रजन् विषयसुखलाभार्थमितस्ततो भ्राम्यन् अनिवृत्तकामोऽनुपरताभिलाषः सन् 'अहो अ राओत्ति आपत्वाचस्य च भिन्नक्रमत्वादहि रात्री च परितप्यमानस्तत्प्राप्त्यै समन्ताचिन्ताग्निना दह्यमानः, अन्ये खजनास्तदर्थ प्रमत्तस्तत्कृत्यासक्तचेता अन्यप्रमत्तो धनं एषयन् विविधोपायैर्गवेषयमाणः, 'पप्पोतित्ति' प्राप्नोति मृत्युं पुरुषो. जरां च ॥ १४ ॥ तथा
मूलम्-इमं च मे अत्थि इमं च नत्थि, इमं च मे किच्चमिमं अकिच्चं ।
तं एवमेवं लालप्पमाणं, हरा हरंतित्ति कहं पमाओ ? ॥ १५ ॥ व्याख्या-इमं च मे अस्ति धान्यादि, इदं च नास्ति रूप्यादि, इदं च मे कृत्यं गृहवरण्डिकादि, इदमकृत्यं प्रार- धमपि वाणिज्यादि न कर्तुमुचितं, तं पुरुषं एवमेव वृथैव लालप्यमानं अत्यर्थं वदन्तं हरन्त्यायुरिति हराः, दिन
Page #611
--------------------------------------------------------------------------
________________
रजन्यादयो हरन्ति भवान्तरं नयन्ति इत्यतो हेतोः कथं प्रमादो धर्मे कर्तुं युक्त इति सूत्रपट्कार्थः ॥ १५॥ अथ चतुर्दशमतौ धनादिना लोभयितुं पुरोधाः प्राह
ध्ययनम्
Pगा १६-१७ मूलम्-धणं पभूअं सह इत्थिआर्हि, सयणा तहा कामगुणा पगामा। .
तवं कए तप्पति जस्स लोओ, तं सवसाहीणमिहेव तुब्भं ॥ १६ ॥ व्याख्या-धनं प्रभूतं सह स्त्रीभिः, खजनाः पितृपितृव्यादयः, तथा कामगुणाः शब्दादयः प्रकामा अतिशायिनो वर्तन्त इति गम्यं, तपः कष्टानुष्ठानं कृते निमित्तं तप्यतेऽनुतिष्ठति यस्य धनादेर्लोकः तत्सर्व स्वाधीनमिहैवास्मिन्नेव गृहे 'तुम्भंति' युवयोरिति सूत्रार्थः ॥ १६ ॥ तावाहतुः--
मूलम्-धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहिं चेव ।
समणा भविस्सामु गुणोहधारी, वहिंविहारा अभिगम्म भिक्खं ॥ १७ ॥ व्याख्या-धनेन किं ? न किंचिदित्यर्थः, धर्म एव सात्विकधुरन्धरैरुह्यमानतया धूरिव धर्मधुरा तदधिकारे तत्प्रस्तावे खजनेन वा कामगुणैश्चैव, ततः श्रमणौ भविष्यावो गुणाघधारिणौ क्षमादिगुणसमूहधारको, बहिनामादिभ्यो विहारो ययोस्तो बहिर्विहारौ अप्रतिबद्धविहारावित्यर्थः, अभिगम्याश्रित्य भिक्षामिति सूत्रार्थः ॥ १७॥ आत्मास्तित्वमूलत्वाद्धमानुष्ठानस्य तन्निराकत्तुं भृगुराह
Page #612
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ३०६ ॥
१५
१८
२१
२४
मूलम् - जहा य अग्गी अरणी असंतो, खीरे घयं तिलमहा तिलेसु । एमेव जाया सरिरंमि सत्ता, संमुच्छई नासइ नावचिट्ठे ॥ १८ ॥
व्याख्या--यथैव चकारस्यैवकारार्थत्वात् अग्निः 'अरणित्ति' अरणितोऽग्निर्मन्थनकाष्ठादसन् अविद्यमान एव सम्मूच्र्च्छति, तथा क्षीरे घृतं तैलमथ तिलेषु, एवमेव हे जातौ ! शरीरे सत्वाः 'संमुच्छइत्ति' सम्मूर्च्छन्ति, पूर्वमसन्त एवोत्पद्यन्ते । तथा 'नासइति' नश्यन्ति, अभ्रपटलवद्विलयमुपयान्ति । 'नावचिट्ठेत्ति' न पुनरवतिष्ठन्ते, शरीरनाशे सति तन्नाशादिति सूत्रार्थः ॥ १८ ॥ कुमारावाहतुः
मूलम् -नो इंदिअगिज्झो अमुत्तभावा, अमुत्तभावाविअ होइ निचो । अज्झत्थरं निअओस्स बंधो, संसारहेडं च वयंति बंधं ॥ १९ ॥
ध्याख्या -नो इंद्रियग्राह्यः सत्व इति प्रक्रमः, अमूर्त्तभावादिन्द्रियग्राह्यरूपाद्यभावात् । तथा अमूर्त्तभावादपि च भवति नित्यस्तथा हि-यद्रव्यत्वे सत्यमूर्त्त तन्नित्यं, आकाशवत् । न चैवममूर्त्तत्वादेव बन्धासम्भवः इति वाच्यं १ यतः 'अज्झत्थ हेउति' इहाध्यात्मशब्देनात्मस्थाः मिथ्यात्वादय उच्यन्ते, ततस्तद्धेतुस्तन्निमित्तो नियतो निश्चितोऽस्य जन्तो-बन्धः कर्मभिः संश्लेषः, यथाऽमूर्त्तस्यापि नभसो मूर्त्तेरपि घटादिभिः सम्बन्धः एवमस्यापि मूर्तेरपि कर्मभिर्न विरुध्यते ।
चतुर्दशमध्ययनम् (१४)
गा१८-१९
॥ ३०६ ॥
Page #613
--------------------------------------------------------------------------
________________
चतर्दशमध्ययनम् गा २०
तथा संसारहेतुं च वदन्ति बन्धमिति, ततश्चास्त्येवात्मा चेतनाश्रयः, तदभावे हि प्रतिदेहिनमुपलभ्यमानस्य चैत- न्यस्य निरास्पदत्वप्रसङ्गात् । न च वाच्यं पृथिव्यादिभूतानि चैतन्यस्याश्रय इति न तस्य निरास्पदत्वमिति ? पृथक-| स्थितेषु तिलेषु स्नेहस्येव पृथग्भूतेषु भूतेषु चैतन्यांशस्याप्यनुपलब्धेः, यच्च येषु पार्थक्यावस्थायां स्वल्पमपि नास्ति न
तत्तेषु संहितेष्वपि भवितुमर्हति, रेणुकणेषु तैलमिव । स्यादेतन्मद्याङ्गेषु मदशक्तिः पूर्वमनुपलभ्यमानापि संहितेषु तेषु : ६ दृश्यत इति चेन्मैवं, तेषु पूर्वमपि मदशक्तेः किञ्चिदुपलभ्यमानत्वात् , दृश्यते हि धातकीपुष्पेषु मनाग वैकल्यजन
कत्वं, गुडे बलवर्धकत्वं चेति, एवमन्येष्वपि तदङ्गेषु द्रष्टव्यं, न चैवं पार्थक्यावस्थायां पृथ्व्यादिषु किञ्चिदस्पष्टमपि चैतन्यमुपलभ्यते, तत एभ्योऽतिरिक्त एव तस्याश्रय एष्टव्यः, स चात्मैवेति स्थितं । स च नित्यो भवान्तरयायी, तस्य च मिथ्यात्वादिभिर्बन्धो बन्धादेव च संसार इति सूत्रार्थः ॥ १९॥ ततश्च
मूलम्-जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा।
उरब्भमाणा परिरक्खिअंता, तं नेव भुजोवि समायरामो ॥ २० ॥ व्याख्या-यथा वयं इत्यावां धर्म सम्यग्दर्शनादिकं अजानन्तौ पापं पापहेतुः पुरा पूर्व कर्मानुष्ठानं 'अकासित्ति' अकार्व, मोहात्तत्वाज्ञानात् अपरुद्ध्यमाना गृहानिर्गममलभमानाः परिरक्ष्यमाणा अनुजीविभिरनुपाल्यमानास्तत्पापकर्म नैव भूयोपि पुनरपि समाचरामो यथावद्विदितवस्तुखरूपत्वादिति सूत्रार्थः॥२०॥ अन्यच
५२
॥
Page #614
--------------------------------------------------------------------------
________________
ध्ययनम्
उत्तराध्ययन है मूलम्-अब्भाहयमि लोगंमि, सवओ परिवारिए । अमोहाहिं पडंतीहिं, गिहंसि न रइं लभे ॥२१॥ चतुर्दशम॥३०७॥
व्याख्या-अभ्याहते पीडिते लोके सर्वतः सर्वासु दिक्षु परिवारिते परिवेष्टिते अमोघाभिरवन्ध्यप्रहरणोपमाभिः । पतन्तीभिः गृहे गृहवासे न रतिं लभावहे, यथा वागुरावेष्टितो मृगो अमोघैश्च प्रहरणैाधेनाऽभ्याहतो न रतिंगा२१२४ हूँ लभते एवमावामपीति सूत्रार्थः ॥ २१ ॥ भृगुराह
मूलम्-केण अब्भाहओ लोओ, केण वा परिवारितो।का वा अमोहा वुत्ता, जाया चिंतापरो हुमि २२/ 3 ___ व्याख्या-केन व्याधकल्पेनाभ्याहतो लोकः १ केन वा वागुरारूपेण परिवारितः १ का वा अमोघा अमोघप्रहरणोपमा उक्ताः ?हे जातौ ! चिन्तापरः 'हुमित्ति' भवामि, ततो ममावेद्यतामयमर्थ इति सूत्रार्थः ॥२२॥ तावाहतुःमूलम्-मचुणब्भाहओ लोओ, जराए परिवारिओ।अमोहा रयणीवुत्ता, एवं ताय विआणह॥ २३॥
व्याख्या-मृत्युनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात् , जरया परिवारितस्तस्या एव मरणाभिघातयोग्यतापादने प्रवणत्वात् , अमोघा रजन्य उक्ताः दिनाविनाभावित्वात्तासां दिनाच, तत्पतने ह्यवश्यम्भावी जनाभि
| ॥३०७॥ घातः, एवं तात ! विजानीतेति सूत्रार्थः ॥ २३ ॥ किञ्चमूलम्-जा जा वच्चइ रयणी, न सा पडिनिअत्तइ ।अहम्मं कुणमाणस्स, अहला जति राइओ २४
Page #615
--------------------------------------------------------------------------
________________
___ व्याख्या-या या ब्रजति रजनी उपलक्षणत्वाद्दिनं च न सा प्रतिनिवर्त्तते पुनरागच्छति, ताश्चाधर्म कुर्वतो जन्तो- चतुर्दशमरिति शेषः, अफला यान्ति रात्रयः, अधर्मनिवन्धनं गा स्थमिति तत्त्याग एव श्रेयान् ॥ २४॥ तथा
ध्ययनम् मूलम्-जा जा वच्चइ रयणी, न सा पडिनिअत्तइ। धम्मं च कुणमाणस्स, सहला जंति राइओ ॥२५॥ १५० | व्याख्या-प्राग्वन्नवरं 'धम्म चत्ति' धर्म पुनः कुर्वाणस्य सफला धर्मफलत्वाजन्मनो न च व्रतं विना धर्म इत्यतस्तदेव प्रतिपत्स्यावहे इति सूत्रद्वयार्थः ॥२५॥ अथ तद्वचनेन प्रतिबुद्धो भृगुराहमूलम्-एगओ संवसित्ताणं,दुहओ सम्मत्तसंजुआ। पच्छा जाया गमिस्सामो,भिक्खमाणा कुले कुले २६ ।। ___ व्याख्या-एकत एकस्मिन् स्थाने समुष्य सहैव उषित्वा 'दुहओत्ति' द्वयं च द्वयं च द्वये आवां युवां च सम्यत्वसंयुता उपलक्षणत्वाद्देशविरत्या च संयुताः पश्चाद्यौवनोत्तरकालं हे जातौ ! गमिष्यामो वयं प्रव्रज्य मासकल्पादि-IA क्रमेणेति शेषः, भिक्षमाणाः कुले कुले गृहे गृहे अज्ञातोन्छवृत्त्येति सूत्रार्थः ॥ २६ ॥ कुमारावाहतुः_मूलम्-जस्सत्थि मञ्चुणा सक्खं, जस्स वत्थि पलायणं।
- जो जाणे न मरिस्सामि, सो हु कंक्खे सुएसिआ ॥ २७ ॥ . व्याख्या-यस्यास्ति मृत्युना सह सख्यं मैत्री, यस्य वास्ति पलायनं नशनं मृत्योरिति प्रक्रमः, तथा यो जानाति यथाहं न मरिष्यामि, 'सो हुत्ति' स एव कांक्षति वाञ्छति, श्व आगामिदिने स्यादिदं कार्यमिति शेषः ॥२७॥ ततश्च
*
*
*
Page #616
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३०८॥
१५
मूलम्-अजेव धम्म पडिवजयामो, जहिं पवण्णा न पुणब्भवामो।
चतुर्दशमअणागय नेव य अत्थि किंचि, सद्धा खमं णे विणइत्तु रागं ॥ २८॥
ध्ययनम्
(१४) | व्याख्या-अद्यैव धर्म प्रतिपद्यामहे 'जहिंति' आपत्वाद्यं धर्म प्रपन्ना आश्रिता न पुनः 'भवामोत्ति' भविष्यामः, |गा२८-२९ न पुनर्जन्मजरामरणाद्यनुभविष्यामस्तदभावहेतुत्वाद्धर्मस्य । किञ्च अनागतमप्राप्तं नैव नास्ति किञ्चित्सुन्दरमपि वस्तु । | विषयसौख्यादि, सर्वभावानामनन्तशः प्राप्तत्वात् , अतः श्रद्धा अभिलाषः, क्षमं युक्तो धर्मानुष्ठानं कर्तुमिति शेषः, ‘णेत्ति' नोऽस्माकं 'विणइत्तुत्ति' व्यपनीय रागं खजनाभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ॥ २८ ॥ इदञ्चाकर्ण्य जातबताशयो भृगुळमणी धर्मविघ्नकरी मत्वेदमाह___ मूलम्-पहीणपुत्तस्स हु नत्थि वासो, वासिहि भिक्खायरिआइ कालो।
साहाहिं रुक्खो लहई समाहि, छिन्नाहिं साहाहिं तमेव खाणुं ॥ २९ ॥ __ व्याख्या-'पहीणपुत्तस्सत्ति' पुत्राभ्यां प्रहीणस्त्यक्तः पुत्राहीणस्तस्य प्राकृतत्वात् पूर्वापरनिपातः, हुः पूरणे
॥३०॥ नास्ति वासोऽवस्थानं मम गृह इति शेषः, हेवाशिष्ठि ! वशिष्ठगोत्रोद्भवे ! भिक्षाचर्याया व्रतस्य कालः प्रस्तावो इति गम्यं । किमित्येवमत आह-शाखाभिवृक्षो लभते समाधि खास्थ्यं, छिन्नाभिः शाखाभिस्तमेव वृक्षं स्थाणं जनो
Page #617
--------------------------------------------------------------------------
________________
चतुर्दशम ध्ययनम् गा३०-३१
वदतीति शेषः, यथा हि शाखा द्वमस्य शोभा संरक्षणादिना समाधिहेतव एवं ममाप्येती सती तद्रहितश्चाहमपि स्थाणुकल्प एवेति भावः ॥ २९॥ किञ्च
मूलम्-पंक्खाविहूणोव जहेह पक्खी, भिच्चविहूणोब रणे नरिंदो।
विवन्नसारो वणिओव पोए, पहीणपुत्तोम्हि तहा अहंपि ॥ ३०॥ व्याख्या-पक्षविहीनो वा दृष्टान्तान्तरसमुचये यथेहलोके पक्षी, भृत्यविहीनो वा रणे नरेन्द्रो. विपन्नसारो विनहिरण्यादिद्रव्यो वणिगिव पोते प्रवहणे भिन्ने इति शेषः, एते यथा व्यसनभागितया विषीदन्ति पुत्रप्रहीणस्तथाहमप्यस्मीति सूत्रद्वयार्थः ॥ ३० ॥ वाशिष्ठ्याह
मूलम्-सुसंभिआ कामगुणा इमे ते, संपिंडिआ अग्गरसप्पभूआ।
भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामि पहाणमग्गं ॥ ३१ ॥ व्याख्या-सुसम्भृताः सुष्टु संस्कृताः कामगुणा इमे खगृहवर्त्तिनस्ते तव, तथा सम्पिण्डिताः पुजीकृताः 'अग्गरसत्ति' चस्य गम्यत्वादग्र्याः प्रधानास्ते च ते रसाश्च मधुरादयो अग्र्यरसाः प्रभूताः, कामगुणान्तर्गतत्वेपि रसानां पृथगुपादानमतिगृद्धहेतुत्वात् भुञ्जीवहि तत्तस्मात्कामगुणान् प्रकाममत्यर्थे पश्चादृद्धावस्थायां गमिष्यावः प्रधानमार्ग प्रत्रज्यारूपं मुक्तिमार्गमिति सूत्रार्थः ॥ ३१॥ भृगुः प्राह
Page #618
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३०९॥
| चतुर्दशमध्य यनम्
(१४) गा३२-३३
मूलम्-भुत्ता रसा भोइ ! जहाइ णे वओ, न जीविअट्टाए जहामि भोए।
लाभं अलाभं च सुहं च दुक्खं, संविक्खमाणो चरिस्सामि मोणं ॥ ३२॥ व्याख्या-भुक्ताः सेविता रसा उपलक्षणत्वाच्छेषकामगुणाश्च 'भोइत्ति' हे भवति ! ब्राह्मण्या आमंत्रणमेतत् , जहाति त्यजति नोऽस्मान् वयः, प्रक्रमादिष्टक्रियाकरणक्षम, उपलक्षणत्वाज्जीवितं च, ततो यावत्तन्न त्यजति तावत्प्रबजाम इति भावः। दीक्षां हि भवान्तरभाविभोगार्थ गृह्णासि ते चाधुनापि सन्त्येव तत्किं तयेति प्रेरणायामाहनजीवितार्थमसंयमजीवितहेतोः प्रजहामि भोगान् किन्तु लाभमलाभं सुखं चस्य भिन्नक्रमाहुःखं च 'संविक्खमाणोत्ति' समतया ईक्षमाणः, लाभालाभसुखदुःखजीवितमरणादिषु समतामेव भावयन्निति भावः, चरिष्यामि मौनं मुनिभावं, ततो मुक्त्यर्थमेव मे दीक्षाप्रतिपत्तिरिति सूत्रार्थः ॥ ३२ ॥ यशा प्राह--
मूलम्—मा हु तुमं सोअरिआण संभरे, जुण्णोब हंसो पडिसोअगामी।
भुंजाहि भोगाइं मए समाणं, दुक्खं खु भिक्खायरिआ विहारो॥ ३३॥ व्याख्या-मा निषेधे, हुर्वाक्यालङ्कारे, त्वं सौदर्याणां भ्रातृणामुपलक्षणत्वाच्छेपखजनानां भोगानां च 'संभरेत्ति' स्मार्षीः 'जुण्णोच हंसोत्ति' जीर्णो हंस इव प्रतिश्रोतोगामी सन् , अयं भावः-यथासौ नदीस्रोतसि प्रतिकूलगमन
२१
Page #619
--------------------------------------------------------------------------
________________
चतुर्दशमध्ययनम् गा३४-३५
SAHAKARE*-*-*
मतिकष्टमारभ्यापि तत्राशक्तः पुनरनुस्रोत एव धावति, तथा त्वमपि व्रतभारं वोढुमक्षमः खजनान् भोगांश्च स्मरिप्यसि, ततो मुंव भोगान् मया समानं सार्द्ध । 'दुक्खं खुत्ति दुःखमेव भिक्षाचर्या भिक्षाटनं, विहारो ग्रामादिष्वप्रतिबद्धविहारः, उपलक्षणञ्चैतच्छिरोलोचादीनामिति सूत्रार्थः ॥ ३३ ॥ भृगुः प्राहमूलम्-जहा य भोइ ! तणुअं भुअंगमो, निम्मोअणिं हेच्च पलेइ मुत्तो।
एमए जाया पयहंति भोए, तेऽहं कहं नाणुगमिस्समिको ॥३४॥ व्याख्या-यथा चः पूत्तौं 'भोइत्ति' हे भवति ! तनुजां देहोद्भवां भुजङ्गमो निर्मोचनीं कक्षुलिकां हित्वा पर्येति | समन्ताद्गच्छति मुक्तो निरपेक्षः, 'एमएत्ति' एवमेतौ जातौ प्रजहीतस्त्यजतो भोगान् तौ जातौ अहं कथं नाऽनुगमिष्यामि ? प्रव्रज्याग्रहणेनानुसरिष्यामि ? एकोऽद्वितीयः, किं ? ममासहायस्य गृहवासेनेति भावः ॥ ३४ ॥ तथा
मूलम्-छिंदित्तु जालं अबलं व रोहिआ, मच्छा जहा कामगुणे पहाय।
धोरेजसीला तवसा उदारा, धीरा हु भिक्खायरिअं चरंति ॥३५॥ व्याख्या-छित्वा जालमवलमिव दुर्बलमिव बलीयोऽपीति शेषः, रोहिता रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः, यथेति दृष्टान्तोपन्यासे, तथेति गम्यते, ततश्च तथा जालरूपान् कामगुणान् प्रहाय त्यक्त्वा धुरि वहन्ति धीरेयास्तेषामिव शीलमुत्क्षिप्तभारनिर्वाहलक्षणं येषां ते तथा, तपसाऽनशनादिनोदाराःप्रधानाः, धीराः सात्विकाः 'हुरिति'
Page #620
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३१॥
चतुर्दशम
ध्ययनम्
(१४) गा३६-३७
यस्माद्भिक्षाचयां व्रतं चरन्यतोऽहमपीत्थं व्रतमेव ग्रहीष्यामीति सूत्रद्वयार्थः ॥ ३५॥ इत्थं प्रतिबोधिता ब्राह्मण्याह
मूलम्-नभे व कोंचा समइक्कमंता, तताणि जालाणि दलित्तु हंसा।
पलिंति पुत्ता य पईअ मज्झं, तेऽहं कहं नाणुगमिस्समिका ॥ ३६ ॥ व्याख्या-नभसीव क्रोच्चाः समतिक्रामन्तस्तान् तानुद्देशानुल्लङ्घयन्तः,ततानि दीर्घाणि जालानि बन्धनानि दलित्वा भित्त्वा 'हंसत्ति' चस्य गम्यत्वात् हंसाश्च 'पलिंतित्ति' परियन्ति समन्ताद्गच्छन्ति, एवं पुत्रौ च पतिश्च 'मझंति' मम सम्बन्धिनो ये ततजालोपमं विषयाभिष्वङ्गं हित्वा नभःकल्पे निरुपलेपे संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्तो यान्ति तानहं कथं नानुगमिष्याम्येका सतीति सूत्रार्थः ॥ ३६ ॥ इत्थं चतुर्णामपि व्रतप्रतिपत्तौ यदभूत्तद्वादशभिः सूत्रैराह
मूलम्-पुरोहिअं तं ससुअं सदारं, सुच्चाऽभिणिक्खम्म पहाय भोए।
___ कुडुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ॥ ३७॥ व्याख्या-पुरोहितं तं ससुतं सदारं श्रुत्वाऽभिनिष्क्रम्य गृहानिर्गत्य प्रहाय भोगान् प्रव्रजितमिति शेषः, कुटुम्बसारं धनधान्यादि, विपुलं च तदुत्तमं च विपुलोत्तमं तत्पुरोहितत्यक्तं गृह्णन्तमिति शेषः, 'रायंति' राजानं, अभीक्ष्णं पुनः पुनः समुवाच सम्यगुक्तवती देवी कमलावती नानी ॥ ३७॥ किं तदित्याह
॥ ३१॥
Page #621
--------------------------------------------------------------------------
________________
SATISHISHIGA
मलमू-वंतासी पुरिसो रायं, न सो होइ पसंसिओ।माहणेण परिच्चत्तं, धणं आयाउमिच्छसि ॥३॥ | व्याख्या-वान्ताशी वान्तभोजी पुरुषो य इति शेषः, हे राजन् ! न स भवति प्रशंसितो धीधनैरिति शेषः, कथ-8 ध्ययनम् महं वान्ताशीत्याह- यतो ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि ! त्यक्तधनं हि गृहीतोज्झितत्वेन वान्तकल्पं, तचा- गा३८-४० |दित्सुभेवानपि वान्ताश्येव, न चैतद्भवादृशामुचितमित्याशयः ॥ ३८॥ किञ्चमूलम्-सव्वं जगं जइ तुहं, सवं वाऽवि धणं भवे । सबंपि ते अपजत्तं, नेव ताणाय तं तव ॥३९॥
व्याख्या-सर्वं जगद्यदि 'तुहंति' तव आयत्तमिति शेषः, सर्व वापि धनं भवेत् सर्वमपि तत्ते तवापर्याप्तमशक्तमिच्छां पूरयितुमिति शेषः, अपर्यवसितत्वात्तस्याः । तथा नैव त्राणाय जरामरणाद्यपनोदाय तदिति सर्व जगद्धनं वा तवेति ॥ ३९॥ किञ्च___ मूलम्-मरिहिसि राय जया तया वा, मणोरमे कामगुणे पहाय।
इको हु धम्मो नरदेवताणं, न विजइ अन्नमिहेह किंची॥ ४०॥ व्याख्या--मरिष्यसि राजन् ! यदा तदा वा काले, जातस्य ध्रुवं मृत्युर्यदुक्तं-"क्वचित्सखे ! त्वया दृष्टः, श्रुतः सम्भावितोऽथवा ॥ क्षितौ वा यदि वा खर्गे, यो जातो न मरिष्यति ? ॥१॥" मनोरमान् कामभोगान् प्रजहाय त्यक्त्वा न तु किञ्चित्त्वया सहाऽऽयास्थतीति भावः । ततः 'एगो हुत्ति' एक एव धर्मो नरदेवत्राणं शरणं, न विद्यते
Page #622
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ३११ ॥
१५
१८
२१
२४
अन्यत् 'इहेहत्ति' इहलोके इह च मरणे किञ्चित्राणमिति सम्बन्धः, ततो धर्म एव विधेयो विद्वद्भिरिति भावः ॥ ४० ॥ यतो धर्माद्विना न त्राणं ततः
मूलम् - नाऽहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोणं । अकिंचना उज्जुकडा निरामिसा, परिग्गहारंभनिअत्तदोसा ॥ ४१ ॥
व्याख्या - नाऽहं रमे रतिमवाप्नोमि 'पक्खिणि पंजरे वत्ति' पक्षिणीव पअरे, अयं भावः - यथाऽसौ दुःखदायिनि पअरे रतिं न प्राप्नोति एवमहमपि जरामरणाद्युपद्रवविद्रुते भवपअरे । अत एव 'संताणछिनत्ति' छिन्नसन्ताना प्रक्रमाद्विनाशितस्नेहसन्ततिः चरिष्यामि मौनं मुनिभावं, अकिञ्चना हिरण्यादिकिञ्चनरहिता, ऋजु मायारहितं कृतमनुष्ठानं यस्याः सा ऋजुकृता, निष्क्रान्ता आमिषाद्विषयादेर्निरामिषा, परिग्रहारम्भावेव जीवदूषणाद्दोषौ ताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता, सूत्रे चैवमुपन्यासः प्राकृतत्वात् ॥ ४१ ॥ तथा
मूलम् - दवग्गिणा जहारणे, उज्झमाणेसु जंतुसु । अन्ने सत्ता पमोअंति, रागद्दोसवसंगया॥ ४२ ॥ व्याख्या--दवाग्निना यथाऽरण्ये दह्यमानेषु जन्तुषु अन्ये सत्वा अविवेकिनः प्रमोदन्ते रागद्वेषवशङ्गताः ॥ ४२ ॥ मूलम् - एवमेव वयं मूढा, कामभोगेसु मुच्छिआ । डज्झमाणं न बुज्झामो, रागदोसग्गिणा जगं ॥ ४३ ॥
व्याख्या - एवमेव वयं मूढा मोहवशगाः कामभोगेषु मूर्च्छिताः दह्यमानं न बुध्यामहे रागद्वेषाग्निना जगत् प्राणि
चतुर्दशम
ध्ययनम्
(१४) गा४१-४३
॥ ३११ ॥
Page #623
--------------------------------------------------------------------------
________________
%AS
३
S
समूह, यो हि सविवेको रागादिरहितश्च स्यात् स दावाग्निना दह्यमानानन्यसत्त्वान् दृष्ट्वा खरक्षणोपायपर एव स्यान्न || चतुर्दशमतु मोदते, यस्तु मूर्खा रागादिमांश्च स आयतिमचिन्तयन्मोदते, ततो वयमपि भोगात्यागादज्ञानिन एवेति भावः ध्ययनम्
गा४४-४५ ॥४३॥ ये त्वेवंविधा न स्युस्ते किं कुर्युरित्याह-- मूलम्-भोगे भुच्चा वमित्ता य, लहुभूयविहारिणो।आमोदमाणा गच्छंति, दिया कामकमा इव ४४|| | व्याख्या-भोगान् भुक्त्वा पुनरुत्तरकालं वान्त्वा च लघुर्वायुस्तद्भूताः सन्तो विहरन्तीत्येवं शीला लघुभूतविहारिणोऽप्रतिबद्धविहारिण इत्यर्थः, आमोदमानाः प्रमोदं यान्तस्तथाविधानुष्ठानेनेति शेषः, गच्छन्ति विवक्षितस्थानमिति शेषः, क इव ? भिन्नक्रमस्य इवशब्दस्येह योगात् द्विजा इव पक्षिण इव कामक्रमाः खेच्छाचारिणः, यथा हि द्विजा यत्र यत्र रोचते तत्र तत्र मोदमाना भ्राम्यन्ति, एवं मुनयोप्यभिष्वङ्गाभावाद्यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीति भावः ॥ ४४ ॥ पुनरर्थादिषु रागं निराकर्तुमाहमूलम्-इमे अबद्धा फंदंति, मम हत्थजमागया। वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥४५॥
व्याख्या-इमे प्रत्यक्षाः शब्दादयो विषयाश्चोप्यर्थे भिन्नक्रमश्च, ततो बद्धा अपि नियंत्रिता अपि बहूपायै रक्षिता अपीत्यर्थः, स्पन्दन्ते इव स्पन्दन्ते अस्थितिधर्मतया कम्पन्ते, ये कीदृशा इत्याह-मम उपलक्षणत्वात्तव च हस्तं हे आर्य ! आगताः खवशा इत्यर्थः, वयं च वयं पुनः सक्ताः कामेष्वेवंविधेष्वपि तदहो मोहविलसितमिति भावः ! यतः
ASSASSAGGI5%
Page #624
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३१२॥
OSA
AREX
एवं ततो भविष्यामो यथेमे पुरोहितादयः, अयं भावः-यथामीभिश्चञ्चलत्वं वीक्ष्यामी त्यक्तास्तथा वयमपि त्यक्षामः
चतुर्दशमइति ॥४५॥ नन्वस्थिरा अपि कामाः सुखहेतवस्तत्किं त्यज्यन्ते ? इत्याह
ध्ययनम् मूलम्-सामिसं कुललं दिस्स,बज्झमाणं निरामिसीआमिसं सबमुज्झित्ता, विहरिस्सामो निरामिसा ४६|| २ (१४)
व्याख्या-सामिषं पिशितरूपामिपयुक्तं कुललं गृधं शकुनिकां वा दृष्ट्वा बाध्यमानं पीड्यमानं विहगान्तरैरिति|| गा४६-४८ गम्यते, निरामिषं च तमेव निर्भयं वीक्ष्येति शेषः, आमिषं धनधान्यादिसङ्गहेतुं सर्वमुज्झित्वा विहरिष्याम्यप्रतिबद्धविहारेण निरामिषा निःसङ्गा ॥ ४६ ॥ उक्तानुवादेनोपदेष्टुमाहमूलम्-गिद्धोवमे उ नच्चा णं, कामे संसारवडणे। उरगो सुवण्णपासे वा, संकमाणो तणुं चरे॥४७॥ | व्याख्या-गृधोपमान् सामिपराधसमान् , तुः पूत्तौं, ज्ञात्वा, णं वाक्यालंकारे, कामयन्ते शब्दादीन् वाञ्छन्तीति कामा विषयाभिलापिणस्तान् संसारवर्द्धनान् , 'उरगोसुवण्णपासेवत्ति' उरग इव सुपर्णपार्थे गरुडाभ्यणे शङ्कमानो भयत्रस्तस्तनु स्तोकं यतनयेत्यर्थः चरेः क्रियासु प्रवर्तेथाः, यथा गरुडोपमैर्विषयैर्न बाध्यसे तथा यतखेति भावः ॥४७॥ ततश्चमूलम्-नागोब बंधणं छित्ता, अप्पणो वसई वए। एअं पत्थं महारायं, इसुआरेत्ति मे सुयं ॥४८॥ _ व्याख्या-नाग इव बन्धनं छित्त्वा आत्मनो वसतिं व्रज, अयं भावः-यथा हस्ती बन्धनवरत्रां छित्त्वात्मनो वसतिं । विन्ध्याटवीं बजत्येवं त्वमपि कर्मबन्धनं छित्त्वा आत्मनः शुद्धजीवस्य वसतिमाश्रयं मुक्तिं ब्रजेः, अनेन दीक्षायाः
SROCENCROSAROSECCHOCOCCASS
******
है
.
Page #625
--------------------------------------------------------------------------
________________
|| फलमुक्तं, एवमुपदिश्योपसंहरति । एतद्यन्मयोक्तं पथ्यं हितं महाराज ! इषुकार ! इत्येतन्मया श्रुतं साधुभ्यो न तु चतुर्दशम
खधियैवोच्यत इति सूत्रद्वादशकार्थः ॥ ४८ ॥ एवं च तद्विरा प्रतिबुद्धो नृपस्ततो यत्तौ द्वावपि चक्रतुस्तदाह- ध्ययनम् मूलम्-चइत्ता विउलं रजं, कामभोगे अदुच्चए। निविसया निरामिसा, निन्नेहा निप्परिग्गहा ॥४९॥
गा ४९-५१ व्याख्या-त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान् निर्विषयौ विषयरहितावत एव निरामिषौ अभिष्वङ्गहेतुरहितो, निःस्नेहौ निःप्रतिबन्धौ, निःपरिग्रही मूोरहितौ ॥४९॥ मूलम्-सम्मं धम्मं विआणित्ता, चिच्चा कामगुणे वरे। तवं पगिज्झ जहक्खायं, घोरं घोरपरकमा ५०
व्याख्या-सम्यग्धर्म श्रुतचारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान् , पुनः कामगुणत्यागाभिधानमतिशय
ख्यापकं, तपोऽनशनादि प्रगृह्याङ्गीकृत्य यथाख्यातं यथा येन प्रकारेण जिनराख्यातं कथितं घोरमतिदुष्कर, घोरः ९ पराक्रमः कर्मारिजयं प्रति ययोस्तौ घोरपराक्रमौ प्रवव्रजतुरिति शेष इति सूत्रद्वयार्थः ॥ ५० ॥ सम्प्रति समस्ता
ध्ययनार्थोपसंहारमाह
मूलम्-एवं ते कमसो बुद्धा, सवे धम्मपरायणा । जम्ममच्चुभओविग्गा, दुक्खस्संतगवेसिणो॥५१॥3 १२|| व्याख्या-एवममुना प्रकारेण तानि पूर्वोक्तानि पडपि क्रमशो यथोक्तक्रमेण बुद्धानि सर्वाणि धर्मपरायणानि ||२||
जन्ममृत्युभयोद्विग्नानि दुःखस्यान्तगवेषकानि ॥५१॥
SXHARRAKASK
Page #626
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३१३॥
१५
१८
मूलम् – सासणे विगयमोहाणं, पुट्विं भावणभाविआ।अचिरेणेव कालेणं, दुक्खस्संतमुवागया॥५२॥ चतुर्दशम
ध्ययनम् व्याख्या-शासने विगतमोहानामर्हता पूर्वमन्यजन्मनि भावनया धर्माभ्यासरूपया भावितानि वासितानि भाव-IPI नाभावितानि,अचिरेणैव कालेन खल्पकालेनैव दुःखस्यान्तं मोक्षमुपागतानि प्राप्तानि सर्वत्र प्राकृतत्वात् पुल्लिङ्गनि-8 गा५२-५३ र्देश ॥ ५२ ॥ मन्दमतिस्मरणाय पुनरध्ययनार्थमुपसंहरन्नाह- . मूलम्-राया य सह देवीए, माहणो अ पुरोहिओ।माहणी दारगा चेव, सवे ते परिनिवुडत्ति बेमि॥५३॥ | व्याख्या-राजा इषुकारः सह देव्या कमलावत्या, ब्राह्मणश्च पुरोहितो भृगुः, ब्राह्मणी यशा, दारको तत्पुत्रौ
चैव पूत्तौं, सर्वाणि तानि परिनिर्वृतानि मुक्तिं गतानीति सूत्रार्थः ॥ ५३॥ इति ब्रवीमीति प्राग्वत् ॥ ഇയമായ കരകയറാ
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिभुजिष्यो- टि पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्दशमध्ययनं सम्पूर्णम् ॥१४॥ இலைலைலைலைலலைலSைS
॥३१३॥
Page #627
--------------------------------------------------------------------------
________________
गा१
३
॥ अथ पञ्चदशमध्ययनम् ॥
पञ्चदशमHomeor
ध्ययनम् | ॥ अहम् ॥ व्याख्यातं चतुर्दशमध्ययनं सम्प्रति सभिक्षुनामकं पञ्चदशमारंभ्यते,अस्य चायं सम्बन्धः, इहानन्तराध्य-3 रायने निर्निदानतागुण उक्तः, स च मुख्यतया भिक्षोरेवेति तद्गुणा इहोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम्-IX
मूलम्-मोणं चरिस्सामि समेच्च धम्म, सहिए उजुकडे निआणच्छिन्ने ।
संथवं जहिज अकामकामे, अण्णाएसी परिवए स भिक्ख ॥१॥ व्याख्या- मौनं श्रामण्यं चरिष्यामीसभिप्रायेणेति शेषः, समेत्य प्राप्य धर्म श्रुतचारित्रभेदं, सहितो युक्तोऽन्यसाधुभिरिति गम्यं, न त्वेकाकी, एकाकिभावस्यागमे निषिद्धत्वात् , यदुक्तं-"इक्कस्स को धम्मो, सच्छंदगई मइ-13 प्पयारस्स ॥ किं वा करेइ इको, परिहरउ कहमकजं वा ? ॥१॥” तथा ऋजुकृतोऽशठानुष्ठानः, 'निआणछिन्नेत्ति' छिन्नमपनीतं निदानं विषयाद्यभिष्वङ्गरूपं येन स छिन्ननिदानः, व्यत्ययस्त्विहोत्तरत्र च प्राकृतत्वात् , संस्तवं मात्रादिभिः परिचयं जह्यात्त्यजेत् , अकामकामः न कामाभिलाषी, अज्ञातस्तपखितादिगुणैरेषयते ग्रासादिकमित्येवंशी
तैषी, परिव्रजेदनियतविहारेण विहरेत् ‘स भिक्खुत्तिय एवंविधः स भिक्षरनेन सिंहतया निष्क्रम्य सिंहतयैव विहरणं भिक्षुतानिमित्तमिति सूचितमिति सूत्रार्थः॥१॥सिंहतया विहारमेव विशेषत आह
Page #628
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३१४॥
पञ्चदशमध्ययनम् गा
(१५)
मूलम्-राओवरयं चरिज लाढे, विरए वेअवि आयरक्खिए ।
पण्णे अभिभूय सबदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ॥२॥ व्याख्या-राओवरयंति' उपरतरागं यथा स्यात्तथा चरेविहरेत् 'लाढेत्ति' सदनुष्ठानतया प्रधानः, विरतोऽसंय- मानिवृत्तो, वेदविदागमवेदी 'आयरक्खिएत्ति' आत्मा रक्षितो दुर्गतेर्येन स आत्मरक्षितः, यद्वा आयाः सम्यक्त्वादिलामा रक्षिता येन स आयरक्षितः, प्राज्ञो हेयोपादेयबुद्धिमान् , अभिभूय परीषहोपसर्गानिति शेषः, सर्व प्राणिवर्गमात्मवत्पश्यतीति सर्वदर्शी, यः कस्मिंश्चित्सचित्तादिवस्तुनि न मूछितः स भिक्षुरिति सूत्रार्थः ॥२॥ तथा
मूलम्-अकोसवहं विइत्तु धीरे, मुणी चरे लाढे निञ्चमाययुत्ते ।
अवग्गमणे असंपहिडे, जो कसिणं अहिआसए स भिक्खू ॥३॥ _ व्याख्या-आक्रोशश्च वधश्च आक्रोशवधं तद्विदित्वा खकृतकर्मफलमेतदिति मत्वा धीरोऽक्षोभ्यः मुनिश्चरेदप्रतिबद्धविहारेण 'लाढेत्ति' प्राग्वत् , नित्यं सदा आत्मा रक्षितोऽसंयमस्थानेभ्यो येन स तथा, अव्यग्रमसमञ्जसचिन्तो परतं मनो यस्य स तथा, असम्प्रहृष्टः आक्रोशदानादिषु न सम्प्रहर्षवान् , अमून्याक्रोशवाक्यानि कर्मक्षयहेतुतया ममानन्दाय जायन्ते परमयं वराको मुनीनाशात्य कथं भविष्यतीत्यादिकमप्यजल्पन्नित्यर्थः, यः कृत्त्रं समस्तमाक्रोशवधमध्यास्ते सहते स भिक्षुरिति सूत्रार्थः ॥३॥ किञ्च
॥३१४॥
Page #629
--------------------------------------------------------------------------
________________
पञ्चदशमः ध्ययनम् गा ४-६
मूलम्- पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं ।
अवग्गमणे असंपहिहे, जो कसिणं अहिआसए स भिक्खू ॥ ४॥ व्याख्या--प्रान्तमवमं शयनासनं उपलक्षणत्वाद्भोजनाच्छादनादि च भुक्त्वा सेवित्वा शीतोष्णं विविधं च दंशमशकं प्राप्येति शेषः, सर्वत्रापि समाहारद्वंद्वः, शेषं प्राग्वदिति सूत्रार्थः ॥ ४ ॥ अन्यच
मूलम्–णो सक्किअमिच्छई न पूअं, नो विअ वंदणगं कओ पसंसं।
से संजए सुबए तवस्सी, सहिए आयगवेसए स भिक्खू ॥ ५ ॥ व्याख्या-नो नैव सत्कृतं सत्कारमभ्युत्थानानुगमनादिकमिच्छति,न पूजां वस्त्रादिसपयाँ, नो पि च नैव च वन्दनकं द्वादशावादिकं, कुतःप्रशंसां निजगुणोत्कीर्तनरूपां? नैवेच्छतीति भावः। स एवं विधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतः,सुव्रतः शोभनव्रतस्तपस्वी प्रशस्यतपाः, सहितःसम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेनायति पथ्येनानुष्ठानेन वर्त्तते इति सहितः, आत्मानं कर्ममलापगमाच्छुद्धं गवेषयतीत्यात्मगवेषको यः स भिक्षुरितिसूत्रार्थः ॥५॥ तथामूलम्-जेण पुण जहाइ जीविअं, मोहं वा कसिणं निअच्छइ नरनारिं ।
पजहे सया तवस्सी न य कोऊहलं उवेइ स भिक्खू ॥६॥
Page #630
--------------------------------------------------------------------------
________________
उत्तराध्ययन
॥ ३१५ ॥
१५
१८
२१
२४
व्याख्या - येन हेतुभूतेन पुनः शब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतको जहाति त्यजति जीवितं संयमजी - वितं, मोहं वा मोहनीयं कषायनोकषायादिरूपं कृत्स्लं सकलं नियच्छति वनाति तदेवंविधं नरश्च नारी च नरनारि प्रजह्यात्त्यजेत्सदा, यस्तपखी, न च कुतूहलं अभुक्तभोगत्वे रुयादिविषयं, उपलक्षणात्वाद्भुक्तभोगत्वे स्मृतिं चोपैति स भिक्षुरिति सूत्रार्थः ॥ ६ ॥ अथ पिण्डविशुद्धिद्वारेण भिक्षुत्वमाह -
मूलम् — छिन्नं सरं भोममंतलिक्खं, सुविणं लक्खणदंडवत्थुविज्जं ।
अंगविआरं सरस्स विजयं, जो विज्जाहिं न जीवई स भिक्खू ॥ ७ ॥
व्याख्या—छेदनं छिन्नं वस्त्रदन्तकाष्ठादीनां तद्विषयशुभाशुभनिरूपिका विद्यापि छिन्नमित्युक्ता एवं सर्वत्र । "देवेसु उत्तमो लाहो, माणुसेसु अ मज्झिमो ॥ आसुरेसु अ गेलन्नं, मरणं जाण रक्खसे ॥ १ ॥ " इत्यादि छिन्नं । 'सरंति' खरखरूपाभिधानं "सज्जं वइ मयूरो” इत्यादिकं । " सज्जेण लहइ वित्तिं कथं च न विणस्स ॥ गावो पुत्ता य मित्ता य, नारीणं होति वल्लहो ॥१॥" इत्यादिकं च । तथा भूमौ भवं भौमं भूकम्पादिलक्षणं, “शब्देन महता भूमिर्यदा रसति कम्पते ॥ सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ॥ १ ॥ " इत्यादि । अन्तरिक्षमाकाशं तत्र भवमान्तरिक्षं गन्धर्वनगरादिकं, यथा- "कपिलं सस्य घाताय, माजिष्ठं हरणं गवाम् ॥ अव्यक्तवर्ण कुरुते, बलक्षोभं न संशयः ॥ १ ॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् ॥ सौम्यादिशं समाश्रित्य राज्ञस्तद्विजयङ्करम् ॥ २ ॥ " इत्यादि । स्वप्नं खप्न
पचदशमध्ययनम्
(१५)
गा ७
॥ ३१५ ॥
Page #631
--------------------------------------------------------------------------
________________
गतशुभाशुभकथनं, यथा-"गायने रोदनं विद्या-नर्तने वधबन्धनम् ॥ हसने शोचनं ब्रूया-त्पठने कलहं तथा ॥१॥" पञ्चदशमइत्यादि । तथा लक्षणं स्त्रीपुरुषादीनां, यथा-"चक्खुसिणेहे सुभगो, दंतसिणेहे अ भोअणं मिटुं॥ तयनेहेण य सोक्खं. ध्ययनम्
गा८ नहनेहे होति परमधणं ॥१॥” इत्यादि । तथा दण्डो यष्टिस्तत्वरूपकथनम् , “एगपत्वं पसंसंति, दुपवा कलहकारिआ" इत्यादि । तथा वास्तुविद्या प्रासादादिलक्षणाभिधायकं शास्त्रं, तथा अङ्गविकारः शिरःस्फुरणादिना शुभाशुभखरूपकथनम् , “सिरफुरणे किर रजं, पिअमेलो होइ बाहुफुरणंमि” इत्यादि । खरस्य दुर्गाशिवादिरुतरूपस्य विजयः शुभाशुभनिरूपणाभ्यासः स्वरविजयः, “गतिस्तारा खरो वामो, दुर्गायाः शुभदः स्मृतः ॥ विपरीतः प्रवेशे तु, स एवाभीष्टदायकः॥१॥” इत्यादि । ततो य एताभिर्विद्याभिन जीवति, नैता एव जीविकाः प्रकल्प्यप्राणान् धारयति स भिक्षुरिति सूत्रार्थः ॥७॥ तथा--
मूलम्-मंतं मूलं विविहं विजचिंतं, वमणविरेअणधूमनित्तसिणाणं ।
आउरे सरणं तिगिच्छत्तं च, तं परिणाय परिवए स भिक्खू ॥ ८॥ व्याख्या-मंत्र ॐकारादिखाहापर्यन्तं, 'मूलंति' सहदेव्यादिमूलिकाकल्पशास्त्रं, विविधां नानाप्रकारां वैद्यचिन्तां वैद्यसम्बन्धिनी पथ्यौषधादिव्यापारात्मिकां चिन्तां “वर्जयेद् द्विदलं शूली, कुष्ठी मांसं ज्वरी घृतम् ॥ नवमन्नमतीसारी, नेत्ररोगी च मैथुनम् ॥१॥" इत्यादिकां । वमनमुदिरणं, विरेचनं कोष्ठशुद्धिरूपं, धूमं मनःशिलादिसम्बर
NAGARCARREARCHANA
Page #632
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३१६ ॥
१५
१८
२१
२४
न्धिनं, 'नेत्तत्ति' नेत्रशब्देनात्र नेत्र संस्कारकं समीराञ्जनादि परिगृह्यते, खानमपत्याद्यर्थ मंत्रौषधसंस्कृतजलैरभिषेकः, वमनादीनां खानान्तानां समाहारद्वंद्वः, 'आउरे सरणंति" सुप्रव्यत्ययादातुरस्य सतः स्मरणं, हा तात ! हा मातरित्यादिरूपं, चिकित्सितञ्चात्मनो रोगप्रतिकाररूपं, तदिति सर्व पूर्वोक्तं 'परिण्णायत्ति' ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरि ज्ञया च प्रत्याख्याय परिव्रजेत् संयमाध्वनि गच्छेद्यः स भिक्षुरिति सूत्रार्थः ॥ ८ ॥ तथा
मूलम् — खत्तियगणउग्गरायपुत्ता, माहण भोइ अ विविहा य सिप्पिणो । नो सिं वयइ सलोग अं, तं परिण्णाय परिवए स भिक्खू ॥ ९ ॥
व्याख्या - क्षत्रिया राजानः, गणा मल्लादिसमूहाः, उग्रा आरक्षकादयः, राजपुत्रा नृपसुतादयः, एतेषां द्वंद्वः । माहना ब्राह्मणाः, भोगिका विशिष्टनेपथ्यादिभोगवन्तो नृपामात्यादयः, उभयत्र सुपो लुक्, विविधाश्च शिल्पिनः स्थपत्यादयः, ये भवन्तीति शेषः, नो तेषां वदति श्लोकपूजे, तत्र श्लोको यथा शोभना एते, पूजा यथैतान् पूजयतेति, उभयत्रापि पापानुमत्यादिदोषसम्भवात् । किन्तु तत् श्लोकपूजादिकं द्विविधयापि परिज्ञया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः ॥ ९ ॥ किञ्च
मूलम् - गिहिणो जे पवइएण दिट्ठा, अपवइएण व संधुआ हविज्जा । सिं इहलोइअफलट्ठा, जो संथवं न करेइ स भिक्खू ॥ १० ॥
पञ्चदशमध्ययनम्
(१५)
गा ९-१०
॥ ३१६ ॥
Page #633
--------------------------------------------------------------------------
________________
१२
व्याख्या - गृहिणो ये प्रत्रजितेन दृष्टा उपलक्षणत्वात्परिचिताश्च, अप्रत्रजितेन वा गृहस्थावस्थेन वा सह संस्तुताः परिचिता भवेयुः 'तेसिंति' सुब्व्यत्ययात्तैः सह ऐहलौकिकफलार्थ वस्त्रादिलाभनिमित्तं यः संस्तवं परिचयं न करोति स भिक्षुरिति सूत्रार्थः ॥ १० ॥ तथा
मूलम् — सयणासणपाणभोअणं, विविहं खाइमसाइमं परेसिं ।
अदए पडिसेहिए निअंठे, जे तत्थ न पदूसई स भिक्खू ॥ ११ ॥ व्याख्या— शयनासनपानभोजनं विविधं खादिमखादिमं 'परेसिंति' परैर्गृहस्थैः 'अदएत्ति' अददद्भिः प्रतिषिद्धः क्वचित्कारणान्तरे याचमानोपि निराकृतो निर्ग्रन्थो वाह्याभ्यन्तरग्रन्थरहितो यस्तत्रादाने न प्रदुष्यति न प्रद्वेषं याति, त्वमेव मे घृतपूरान् दास्यसीतिवाचकक्षपकवत् ! स भिक्षुरिति सूत्रार्थः ॥ ११ ॥
मूलम् - जं किंचि आहारपाणं, विविहं खाइमसाइमं परेसिं लधुं ।
जो तं तिविण नाणुकंपे, मणवयकाय सुसंबुडे स भिक्खू ॥ १२ ॥ व्याख्या — यत्किञ्चिदल्पमप्याहारपानं अशनपानीयं विविधं खादिमखादिमं 'परेसिंति' परेभ्यो गृहस्थेभ्यो लब्ध्वा प्राप्य यः साधुः 'तंति' सुपूव्यत्ययात्तेन आहारादिना त्रिविधेन मनोवाक्कायरूपप्रकारत्रयेण नानुकम्पते बालग्लानादीनोपकुरुते न स भिक्षुरिति शेषः । यस्तु सुसंष्टतमनोवाक्कायः सन् तेन वालादीननुकम्पते इति गम्यते स भिक्षुरिति
पञ्चदशमध्ययनम् गा११-१२
Page #634
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३१७॥
पञ्चदशमध्ययनम्
१५
*N*
गा१३-१४
T*34ACAK
वृद्धव्याख्या । यथादृष्टसूत्रव्याख्याने त्वेवमप्यर्थः सम्भवति, यत्किञ्चिदाहारादिकं पूर्वोक्तं परेभ्यो गृहस्थेभ्यो लब्ध्वा यः 'तंति' वचनव्यत्ययात्तान् दातॄन् त्रिविधेन नानुकम्पते, सुधाजीवित्वान्नोपकर्तुमिच्छति स मनोवाक्कायसुसंवृतो भिक्षुरिति सूत्रार्थः ॥ १२ ॥ तथा--
मूलम्-आयामगं चेव जवोदणं च, सीअं सोवीर जवोदगं च ।
____ नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिवए स भिक्खू ॥ १३ ॥ व्याख्या-आयामकं अवश्रावणं, 'चेवत्ति' समुच्चये, यवौदनं च यवभक्तं, शीतं शीतलभक्तं, सौवीरं च काजिक, यवोदकं च यवधावनं सौवीरयवोदकं, तच नो हीलयेत् , धिगिदं किमनेनानिष्टेनेति न निन्देत् , पिण्डं आयामकादिकमेव नीरसमपि तुशब्दस्याप्यर्थत्वात् अत एव प्रान्तकुलानि तुच्छाशयकुलानि दरिद्रगृहाणि वा यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ॥ १३॥ किञ्च
मूलम्-सदा विविहा भवंति लोए, दिवा माणुस्सा तहा तिरिच्छा ।
भीमा भयभेरवा उराला, जो सोचा न बिहिज्जइ स भिक्खू ॥ १४ ॥ व्याख्या-शब्दा विविधाः परीक्षाप्रद्वेषादिना क्रियमाणतयानेकप्रकारा भवन्ति लोके, दिव्या देवसम्बन्धिनो
॥३१७॥
Page #635
--------------------------------------------------------------------------
________________
ध्ययनम्
३
मानुष्यका मनुष्यसम्बन्धिनस्तथा तैरचा तिर्यक्सम्बन्धिनः, भीमा रौद्राः, भयेन भैरवा महाभयोत्पादका भयभैरवाः, पञ्चदशमउदारा महान्तः, यस्तान् शब्दान् श्रुत्वा न बिभेति धर्मध्यानान्न चलति स भिक्षुरिति सूत्रार्थः ॥ १४ ॥ इत्येतावता
गा १५ सिंहविहारिताया निमित्तमुक्तमथ सकलधर्ममूलं सम्यक्त्वस्थैर्यमाह
मूलम्-वायं विविहं समिच्च लोए, सहिए खेदाणुगए अ कोविअप्पा।
पण्णे अभिभूअ सबदंसी, उवसंते अविहेडए स भिक्खू ॥ १५ ॥ | व्याख्या-वादं विविधं "मुण्डस्य भवति धर्म-स्तथा जटाभिः सवाससां धर्मः ॥ गृहवासेपि च धर्मो, वनेपि च । सतां भवति धर्मः॥१॥” इत्यादिकदर्शनान्तराभिप्रायरूपं समेत्य ज्ञात्वा लोके, सहितःप्राग्वत् , खस्मै हितः खहित इति वा, खेदयति कर्मानेनेति खेदः संयमस्तेनानुगतः खेदानुगतः, चः पूरणे, कोविदो लब्धसमयरहस्य आत्मा यस्य स कोविदात्मा, 'पण्णे अभिभूअ सबदसीति' प्राग्वत् , उपशान्तो निष्कषायः, अविहेठको न कस्यापि बाधको यः स भिक्षुरिति सूत्रार्थः ॥ १५॥ तथा
P
१ सहितः ज्ञानक्रियाभ्याम् , यद्वा सह हितेन आयतिपथ्येन अनुष्ठानेन वर्त्तते इति सहितः । २ प्राज्ञो हेयोपादेयबुद्धिमान् , अभिभूय | परीषहोपसर्गान् , सर्व प्राणिवर्ग आत्मवत् पश्यतीति सर्वदर्शी ॥
Page #636
--------------------------------------------------------------------------
________________
उत्तराध्ययन ॥३१८ ॥
१२
मूलम् - असिप्पजीवि अगिहे अमित्ते, जिइंदिए सबओ विप्पमुक्के । अणुक्कसाई लहुअप्पभक्खी, चिच्चा गिहं एगचरे स भिक्खू ॥ १६ ॥ व्याख्या -- अशिल्पजीवी चित्रादिविज्ञानजीविकारहितः, अगृहो गृहरहितः, 'अमित्तेत्ति' उपलक्षणत्वादमित्रशत्रुः, जितेन्द्रियस्तथा सर्वतो बाह्यादाभ्यन्तराच, ग्रन्थादिति गम्यते, विप्रमुक्तः । तथा अणवः खल्पाः कषाया अस्येति अणुकषायी, लघूनि निःसाराणि निष्पावादीनि अल्पानि च स्तोकानि भक्षितुं शीलमस्येति लघ्वल्पभक्षी । त्यक्त्वा गृहं द्रव्यभावभेदभिन्नं, एको रागद्वेषरहितश्चरतीत्येकचरो यः स भिक्षुः । इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ १६ ॥
७००
vesves N NANA! इति श्रीतपागच्छीय महोपाध्याय श्री विमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणि समर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चदशमध्ययनं सम्पूर्णम् ॥ १५ ॥ उकल कल कल कल कर
फल र कल
पञ्चदशमध्ययनम्
गा १६
॥ ३१८ ॥
Page #637
--------------------------------------------------------------------------
Page #638
--------------------------------------------------------------------------
________________ ROMANA AMA KINDI प्रारGOURDTVV // इति श्री उत्तराध्ययन पूर्वभागः॥ Printed by Ramohandra Yesu Shedge, at the Nirnayasagar Press, 23, Kolbhat Lane, Bombay. Published by Vallabhadas Tribhuvandas Gandhi, Secretary, Jina Atmananda Sabha, Bhavanagar. MOMEMAMDEDNESDON