SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२५४॥ मूलम्-अप्पं चाहिक्खिवइ, पबंधं च न कुबई । मित्तिजमाणो भयइ, सुअं लद्धं न मजइ ॥ ११ ॥|| एकादशम व्याख्या-अत्राल्पशब्दोऽभाववाची, ततश्चाल्पमिति नैव कञ्चनाधिक्षिपति तिरस्करोति ५। प्रबन्धञ्च कोपावि- ध्ययनम् च्छेदरूपं न करोति ६। मित्रीयमाणः पूर्वोक्तन्यायेन भजते, मित्रीयितारमुपकुरुते, प्रत्युपकारम्प्रत्यशक्तो वा कृतघ्नो गा११-१३ न स्यात् ७ । श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानात्सुतरामेव नमति ८॥११॥ मूलम् न य पावपरिक्खेवी, न य मित्तेसु कुप्पई।अप्पिअस्सावि मित्तस्स, रहे कल्लाण भासई ॥१२॥ । व्याख्या-न च पापपरिक्षेपी, पूर्वोक्तरूपः ९। न च कथञ्चित्सापराधेभ्योपि मित्रेभ्यः कुप्यति १० । अप्रिय-14 स्यापि मित्रस्य रहसि कल्याणं भाषते, अयं भावः मित्रमितियःप्रतिपन्नः स यद्यप्यपकृतिशतानि कुरुते तथाप्येकमपि तत्कृतमुपकारमनुस्मरन् न रहस्यपि तद्दोषं वक्ति । आह च-"एकसुकृतेन दुष्कृत-शतानि ये नाशयन्ति ते धन्याः , न त्वेकदोपजनितो, येषां रोषः शतकृतघ्नः॥१॥" इति ॥ ११ ॥१२॥ मूलम्-कलहडमरवजए, बुद्धे अभिजाइगे । हिरिमं पडिसंलीणे, सुविणीएत्ति वुच्चई ॥ १३ ॥ .. | व्याख्या-कलहश्च वाचिको विग्रहः, डमरञ्च पाणिघातादिनं तद्वर्जकः कलहडमरवर्जकः १२ । बुद्धो बुद्धि- २५४॥ मानेतच्च सर्वत्रानुगम्यत एवेति न प्रकृतसंख्याविरोधः । अभिजातिं कुलीनतां गच्छति जात्यवृषभ इवोत्क्षिप्तभारनिवहणादित्यभिजातिगः १३ । ह्रीमान् लज्जावान् , स हि कलुषाशयत्वेप्यकार्यमाचरन् लज्जते १४ । प्रतिसंलीनो गुरु
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy