SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ १२ | स्वल्पमपि यच्छति, किन्त्वात्मानमेव पोपयति १३ । 'अविअत्तेत्ति' अप्रीतिकरो दृश्यमानो भाष्यमाणो वा सर्वस्या - प्यप्रीतिमेवोत्पादयति १४ । एवंविधदोषान्वितोऽविनीत इत्युच्यते इतिनिगमनम् ॥ ९ ॥ इत्थमविनीतस्थानान्युक्त्वा विनीतस्थानान्याह - मूलम् - अह पण्णरसहिं ठाणेहिं, सुविणीपत्ति बुच्चई । नीआवित्ती अचवले, अमाई अकुऊहले ॥ १० ॥ व्याख्या -अथ पंचदशभिः स्थानैः सुष्ठु शोभनो विनीतो विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह - 'नीआवित्तीत्ति' नीचमनुद्धतं यथास्यादेवं वर्त्तत इत्येवंशीलो नीचवर्त्ती, गुरुषु न्यग्वृत्तिमान् । यदुक्तं - "नीअं सिजं गई ठाणं, नीयं च आसणाणि अ ॥ नीअं च पाए वंदिजा, नीअं कुज्जा य अंजलिं ॥ १ ॥ " तथा न चपलोऽचपलस्तत्र चपलो गतिस्थानभाषाभावभेदाच्चतुर्धा । तत्र गतिचपलो द्रुतद्रुतचारी, स्थानचपलो यस्तिष्ठन्नपि हस्तादिभिश्चलनेवास्ते, भाषाचपलोऽसदस भ्यासमीक्ष्यादेश कालप्रलापिभेदाच्चतुर्धा । तत्रासदविद्यमानमस्ति खपुष्पमित्यादि, असभ्यं खरपरुषादि, असमीक्ष्यानालोच्य प्रलपन्तीत्येवंशीला असद सभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी तु चतुर्थो योऽतीते कार्ये वक्ति, यदीदं तत्र देशे काले वाऽकरिष्यत्तदा सुन्दरमभविष्यदिति । भावचपलस्तु सः, यः प्रस्तुते सूत्रेऽर्थे वाऽसमाप्त एवान्यद् गृह्णाति २ । अमायी, न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः ३ । अकुतूहलो नेन्द्रजालादिकौतुकविलोकनतत्परः ४ ॥ १० ॥ एकादशमध्ययनम् गा १०
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy