SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ एकादशमध्ययनम् (११) गा८-९ उत्तराध्ययनल र्मिकतया वक्ति, यथाहं तव पात्रलेपादि कार्य कुर्वे इति, ततोसौ प्रत्युपकारभीरुतया प्रतिवक्ति, ममालमनेनेति । यद्वा कृतमपि कृतघ्नतया न मन्यते इति वमतीत्युच्यते ३ । तथा 'सुअंति' अपगम्यत्वात् श्रुतमप्यागममपि लब्ध्या ॥२५३॥ माद्यति, दर्प याति । श्रुतं हि मदापह, स तु तेनापि दृप्यतीति भावः ४॥७॥ मूलम्-अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ । सुप्पिअस्तावि मित्तस्स, रहे भासइ पावगं॥८॥ व्याख्या-अपिः सम्भावने, पापैः कथञ्चित्समित्यादिषु स्खलितलक्षणैः परिक्षिपति निन्दतीत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति शेषः । गुरूणां समित्यादौ स्खलितलक्षणं पापं पुरस्कृत्य तानिंदतीत्यर्थः ५। अपिभिन्नक्रमस्ततो मित्रेभ्योपि सुहृयोपि कुप्यति क्रुध्यति, सूत्रे सप्तमी चतुर्थ्यर्थे ६ । तथा सुप्रियस्याप्यतिवल्लभस्यापि मित्रस्य रहसि एकान्ते भाषते, पापमेव पापक, अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रतिसेवकोयमित्यादिकं तद्दोषमेवाविकरोतीति भावः ७॥८॥ मूलम्-पइण्णवाई दुहिले, थद्धे लुद्धे अणिग्गहे।असंविभागी अविअत्ते, अविणीएत्ति वुच्चई ॥९॥ व्याख्या-प्रतिज्ञया इदमित्थमेवेत्येकान्तवादरूपया वदनशीलः प्रतिज्ञावादी, यद्वा प्रकीर्णमसम्बद्धं वदतीति प्रकीर्णवादी ८ । 'दुहिलेत्ति' द्रोहणशीलो द्रोग्धा, मित्रस्यापीति शेषः ९ । स्तब्धस्तपस्यहमित्याद्यहङ्कतिमान् १० । लुब्धो भोज्यादिष्वभिकांक्षावान् ११ । अनिग्रहः प्राग्वत् १२ । असंविभागी आहारादिकं प्राप्यातिगर्द्धनो नान्यस्मै ।।२५३॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy