SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ एकादशमध्ययनम् गा५-६-७ CREAK मूलम्-नासीले न विसीले अ, न सिआ अइलोलुए।अक्कोहणे सच्चरए, सिक्खासीलेत्ति वुच्चइ ॥५॥ व्याख्या-न नैव अशीलः सर्वथाशीलविकलः, न विशीलो न विरूपशीलोऽतीचारकलुषितव्रतः, न स्यान्न भवेदतिलोलुपोऽत्यन्तं रसलम्पटः, अक्रोधनः क्षमावान् , सत्यरतस्तथ्यवचनासक्तः, 'सिक्खासीलेत्ति' इत्येवमनन्तरोक्तगुणवान् शिक्षाशील इत्युच्यत इति सूत्रत्रयार्थः ॥५॥ किञ्चाबहुश्रुतत्वबहुश्रुतत्वयोरविनयविनयावेव मूलहेतू ततो यैः स्थानैरविनीतो यैश्च विनीतस्तानि दर्शयितुमाहमूलम्-अह चउदसहिं ठाणेहिं, वट्टमाणे उ संजए । अविणीए वुच्चई सो उ, निवाणं च न गच्छइ॥६॥ _ व्याख्या-अथेति प्राग्वत् , चतुर्दशसु स्थानेषु, सूत्रे सप्तम्यर्थे तृतीया सूत्रत्वात् , वर्तमानस्तिष्ठन् , तुः पूरणे, |संयतो मुनिरविनीत इत्युच्यते, 'सो उत्ति' स पुनरविनीतो निर्वाणं मोक्षं न गच्छति ॥ ६ ॥ चतुर्दशस्थानान्याह मूलम्-अभिक्खणं कोही हवइ, पबंधं च पकुबई । मित्तिज्जमाणो वमइ, सुअं लखूण मज्जइ ॥ ७ ॥ ___ व्याख्या-अभीक्ष्णं पुनः पुनः क्रोधी भवति, सहेतुकमहेतुकं वा कुप्यन्नेवास्ते १ । प्रबन्धं च कोपस्यैवाविच्छेदरूपं 'पकुवइत्ति' प्रकर्षण करोति, कुपितः सन्ननेकैरपि सान्त्वनैर्नोपशाम्यति २। 'मित्तिजमाणोत्ति' मित्रीयमाणोपि | मित्रं ममायमस्त्वितीष्यमाणोपि अपेलप्तस्य दर्शनाद्वमति त्यजति, प्रस्तावान्मैत्री, अयं भावः-यदि कोपि साधुर्धा
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy