SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन कोऽस्येत्यनिग्रहः, अभीक्ष्णं पुनः पुनः उत् प्राबल्येनासम्बद्धभाषितादिरूपेण लपति वक्ति उल्लपति, अविनीतश्च विन-5 | एकादशमयरहितः, 'अबहुस्सुएत्ति' यत्तदोर्नित्याभिसम्बन्धात्सोऽबहुश्रुत उच्यते इति शेषः । इह च सविद्यस्याप्यबहुश्रुतत्वं ध्ययनम् ॥२५२॥ बहुश्रुतत्वफलाभावादिति ध्येयं, एतद्विपरीतस्तु बहुश्रुत इति सूत्रार्थः ॥२॥ अथेशमबहुश्रुतत्वं बहुश्रुतत्वञ्च गा ३-४ कथं स्यादित्याहमूलम्-अह पंचहि ठाणेहिं, जेहिं सिक्खा न लब्भई।थंभा कोहा पमाएणं, रोगेणालस्सएण य॥३॥ | व्याख्या-अथेत्युपन्यासे, पञ्चभिः स्थानैः प्रकारैर्वक्ष्यमाणैः शिक्षा ग्रहणासेवनात्मिका न लभ्यते तैरीशमबहुश्रुतत्वं प्राप्यत इति शेषः । कैः पुनः सा न लभ्यते ? इत्याह-स्तम्भात् मानात् , क्रोधात् कोपात् , प्रमादेन मद्यादिना, रोगेण गलत्कुष्टादिना, आलस्येनानुत्साहात्मना, शिक्षा न लभ्यत इति प्रक्रमः। चशब्दः समस्तानां व्यस्ता नाश्चैषां हेतुत्वं द्योतयति ॥ ३॥ एवमबहुश्रुतत्वहेतूनुक्त्वा बहुश्रुतत्वहेतूनाहI मूलम्-अह अहहिं ठाणेहि, सिक्खासीलेत्ति वुच्चइ ।अहस्सिरे सया दंते, न य मम्ममुदाहरे ॥ ४॥ ___ व्याख्या-अथाष्टभिः स्थानैः शिक्षां शीलयत्यभ्यस्थतीति शिक्षाशील इति उच्यते, जिनादिभिरिति शेषः । तान्येवाह-'अहस्सिरेत्ति' अहसनशीलो न सहेतुकमहेतुकं वा हसन्नेवास्ते, सदा सर्वकालं दान्त इन्द्रियनोइन्द्रियदमवान् , न च मर्म परापभाजनकारि उदाहरेत् उच्चारयेत् ॥४॥ |॥२५२॥ P
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy