SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ |पुनरनुत्पादलक्षणेन हीनो रहितः सर्वदुःखप्रहीणो वा स्यादिति सम्बन्धः, स च सिद्ध एव देवो वा स्यात् , अपिः सम्भावने, सम्भवति हि संहननादि वैक्लव्यान्मुक्तेरप्राप्तौ देवोऽपि स्यादिति, कीटक् ? महर्द्धिक इति सूत्रार्थः ॥२५॥ यत्रासौ देवो भवति तत्र कीदृशा आवासाः कीदृशाश्च देवा इत्याहमूलम-उत्तराई विमोहाइं, जुइमंताणुपुत्वसो।समाइण्णाइं जक्खेहि, आवासाइं जसंसिण्णो ॥२६॥ व्याख्या-उत्तरा उपरिवर्तिनोऽनुत्तरविमानाख्या विमोहा इव विमोहा अल्पवेदादिमोहनीयत्वात् , द्युतिमन्तो दीप्तिमन्तः, 'अणुपुवसोत्ति' आनुपूर्व्या क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु हि अनुत्तरविमानान्तेषु , पूर्वापक्षया प्रकषेवन्त्येव विमोहत्वादीनि विशेषणानि । तथा समाकीणों व्याप्ता यक्षदेवरावासाः, प्राकृतत्वान्नपुंसकलिङ्गत्वं सर्वत्र । देवास्तु तत्र यशखिनः श्लाघान्विताः ॥ २६ ॥ तथामूलम्--दीहाउआइड्डिमंता,समिद्धा कामरूविणो।अहुणोववन्नसंकासा,भुजो अच्चिमालिप्पभा ॥२७॥ ___ व्याख्या-दीर्घायुषश्चिरजीविनः, ऋद्धिमन्तो रत्नादिसम्पदुपेताः, 'समिद्धा' अतिदीप्ताः, कामरूपिणः अभिलाषानुरूपरूपविधायिनः, अनुत्तरेष्वपि तच्छक्तियुक्तत्वात् , अधुनोपपन्नशंकाशास्तत्कालोत्पन्नदेवकल्पाः, अनुत्तरेषु हि वर्णद्युत्यादि यावदायुस्तुल्यमेव स्यात् , 'भुजोत्ति' भूयांसः प्रभूता ये अर्चिालिनः सूर्यास्तद्वत् भा येषां ते तथा । न त्वेकस्यार्कस्य तादृशी द्युतिरस्तीति सूत्रार्थः ॥ २७॥ उपसंहर्तुमाह
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy