________________
उत्तराध्ययन
॥ १०० ॥
भावादथवा स सर्वान् स्तम्भान् विजित्यापि लभेत राज्यम् ॥ प्रमादतो नष्टमनुष्यजन्मा, प्राप्नोति जन्तुर्न पुनर्न - रत्वम् ! ॥ २१ ॥ इति द्यूतदृष्टान्तश्चतुर्थः ॥ ४ ॥ अथ रत्नदृष्टान्तः, तथा हि
पुरे धनसमृद्धेऽभू-नदाह्रो वणिग् जरी ॥ प्रभूतरत्नकोटीनां प्रभुः प्रभुरिवाम्भसाम् ॥ १ ॥ उदारं व्यवहारं च, कारं कारं सदापि सः ॥ उपार्जितैरपि धनैर्यलाद्रत्नान्युपाददे ॥ २ ॥ धनदः खधनं तच्च नैव कस्याप्यवोचत | आयुर्वित्तं गृहच्छिद्रं, नो वाच्यमिति चिन्तयन् ॥ ३ ॥ विश्वास स्वीयपुत्राणा-मप्यकुर्वन् दिवानिशम् ॥ निधानमित्र भोगीन्द्र-स्तं रत्नौघं ररक्ष सः ! ॥ ४ ॥ अपरेऽपि पुरे तत्र, भूयांसो धनिनोऽभवन् ॥ अनेकधनकोटीनां, स्वामिनो धनदोपमाः ॥ ५ ॥ ते च स्वीयेषु सौधेषु, पताकाः कोटिसंमिताः ॥ खैरमुत्तम्भयामासु- र्नानावर्णविराजिताः ॥ ६ ॥ वेल्लद्भिस्तैर्ध्वजैस्तेषां सुधाशुद्धा वभुर्गृहाः ॥ हिमाद्रिशिखराणीव, सन्ध्याभ्रैः पवनेरितैः ॥ ७ ॥ धनदस्तु ध्वजं नैवो-तम्भयामास कर्हिचित् ॥ न श्रीणामनुसारेण, वेषादिकमपि व्यधात् ! ॥ ८ ॥ ततो महत्वमिच्छन्तः, | सुतास्तस्येत्यचिन्तयन् ॥ रोरवच्चेष्टते रत्न- व्रजे सत्यपि नः पिता ! ॥ ९ ॥ रत्नविक्रयणोत्पन्न-धनकोटीमितानसौ ॥ ध्वजानपि निजे गेहे, नैवोत्तम्भयति क्वचित् । ॥ १० ॥ तदयं जातयामश्चे - द्याति क्वापि तदा वयम् ॥ रत्नानि तानि विक्रीय, ध्वजानुत्तम्भयामहे ॥ ११ ॥ व्यापारार्थमथान्येद्यु- वृद्धे देशान्तरं गते । प्रारेभिरे ते रत्नानां, विक्रयं प्रीतचेतसः ॥ १२ ॥ तेभ्यो मूल्यानभिज्ञेभ्य-स्तानि देशान्तरागताः ॥ रत्नानि जगृहुर्यत्त- न्मूल्यं दत्वा वणिग्जनाः ॥
तृतीयमध्ययनम् (३)
॥ १०० ॥