SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ तावत्स्वरक्षणोपाय, सद्यः कश्चित्करोम्यहम् ॥ ७ ॥ विमृश्येति महाबुद्धिः, प्रणामायागतं सुतम् ॥ इति प्रोवाच तद्धाव-मविदन्निव भूधवः ॥ ८॥ राज्यभारपरिश्रान्तो, राज्यं ते दित्सुरप्यहम् ॥ खकीयकुलमर्यादां, नोलयि-1 तुमुत्सहे ॥ ९॥ अतिक्रामन् हि मर्यादा-माचीणां पूर्वपूरुषैः ॥ शलभोग्निमियोलच-मानो विपदमश्नुते ! ॥ १० ॥ कुप्येत्कुलाधिदेवी च, मर्यादोलङ्घकाय तत् ॥ समाकर्णय तां राज्य- सुखभूरुहसारणीम् ॥ ११ ॥ उलझ्यानुक्रम रा-18 ज्य-मभिकांक्षति यः सुतः ॥ जनको वा खयं यस्मै, राज्यं दातुं समीहते ॥ १२ ॥ स चेत्सुतो जयेत्तातं, छूते हैं। राज्यं तदाऽश्नुते ॥ तत्र द्यूते यया रीत्या, जेयं सा श्रूयतां त्वया ॥ १३ ॥ अस्यां सभायां स्तम्भानां, वर्त्ततेऽष्टोत्तरं शतम् ॥ अश्रयोऽपि प्रतिस्तंभ, वर्तन्तेऽष्टोत्तरं शतम् ॥ १४ ॥ तत्रैकेनैव दायेन, दीव्यन् यदि निरन्तरम् ॥ अष्टोत्तरशतं वारान् , छूते जयति मां भवान् ॥ १५॥ अश्रिरेका तदा स्तम्भ-स्यैकस्य विजिता भवेत् ॥ एवं साष्टशताश्रीणां, जये स्तम्भो भवेजितः ॥ १६ ॥ इत्थमनोत्तरशत-स्तम्भानां विजये कृते ॥ राज्यं तवार्पयिष्यामि,12 सत्वरं नात्र संशयः ॥ १७ ॥ किञ्चैकवारमप्यत्र, हारिते सकलं जितम् ॥ यात्येव सकृदप्यन्य-स्त्रीसङ्गे ब्रह्मचर्यवत् । ॥ १८ ॥ इत्याकर्ण्य पितुर्वाक्यं, भूपभूरित्यचिन्तयत् ॥ द्यूताचेल्लभ्यते राज्यं, को हन्याजनकं तदा ? ॥ १९ ॥ ध्यात्वेति स समं राज्ञा, द्यूतक्रीडां प्रचक्रमे ॥ विजिस निखिलान् स्तंभा-न तु राज्यमविन्दत ॥ २० ॥ सुरानु-11 ECCACANC R
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy