SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२०१॥ गाथा. मम परिपूर्णता कृतेति न सन्तुष्टिमाप्नुयात् । यदुक्तं-“न वह्निस्तृणकाष्ठायै नदीभिर्वा महोदधिः ॥ न चैवात्मार्थ- अष्टमाध्यसारेण, शक्यस्तर्पयितुं क्वचित् ॥ १॥ इत्यमुना प्रकारेण दुःखेन पूरयितुं शक्यो दुष्पूरः सएव दुष्पूरकः 'इमेत्ति' अयं यनम् (८) प्रत्यक्ष आत्मा जीवस्तदिच्छायाः पूरयितुमशक्यत्वादिति सूत्रार्थः ॥ १६ ॥ असन्तोषे खविदितं हेतुमाह |१०-१८ मूलम्-जहा लाहो तहा लोहो, लाहा लोहो पवडइ । दोमासकयं कजं, कोडीएवि न निढिअं ॥ १७॥ व्याख्या-यथा लाभो द्रव्यप्राप्तिः तथा लोभो मूर्छा भवतीति शेषः, किमेवमित्याह-यतो लाभाल्लोभः प्रवर्धते, यथा यथा लाभस्तथा तथा लोभः प्रवर्धत इत्यर्थः । कुतश्चैवमित्याह-द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं कार्य प्रयोजनं दास्याः पुष्पताम्बूलमूल्यरूपं कोट्यापि दीनाराणां न निष्ठितं न निष्पन्नं, उत्तरोत्तरविशेषाभिलाषादिति सूत्रार्थः ॥ १७॥ द्विमाषकृतं च कार्य स्त्रीमूलमिति तत्परिहारोपदेशमाह मूलम्–णो रक्खसीसु गिन्झिज्जा, गंडवच्छासु णेगचित्तासु । - जाओ पुरिसं पलोभित्ता; खेलंति जहा वा दासे हिं ॥ १८ ॥ व्याख्या-नो नैव, राक्षस्य इव राक्षस्यः स्त्रियस्तासु, यथा हि राक्षस्यो रक्तसर्वखमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति, एवमेता अपि तत्त्वतो हि ज्ञानादीन्येव जीवितं, ज्ञानादीनि च ताभिरपहियन्त एवेत्येवमुक्तं । तू ॥२०१॥ 'गिज्झिज्जत्ति' गृध्येदभिकांक्षावान् भवेत्, कीदृशीषु ? 'गंडवच्छासुत्ति' पिशितपिण्डरूपत्वाद्दण्डे इव गण्डे कुचौ वक्षसि १२
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy