SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ RAPOSARAPAN समाधिश्चित्तस्वास्थ्यं तत्प्रधाना योगाः शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः तेऽनन्तरोक्ताः कामभोगेषु | गाथा. पूर्वोक्तेषु रसेषु मधुरादिषु च गृद्धा लोलुपाः कामभोगरसगृद्धाः, भोगान्तर्गतत्वेपि रसानां पृथग्ग्रहणमतिगृद्धहेतु- १५-१६ त्वख्यापकं, उपपद्यन्ते जायन्ते आसुरे असुरसम्बन्धिनि काये निकाये, एवंविधा हि किञ्चित्कष्टानुष्ठानमनुतिष्ठन्तोऽपि विराधकत्वादसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः ॥ १४ ॥ ततोऽपि च्युतास्ते किं प्राप्नुवन्तीत्याहमूलम्-तत्तोवि उवट्टित्ता, संसारं बहुं अणुपरिअडंति।बहुकम्मलेवलित्ताणं, बोही होई सुदुल्लहो तेसिं१५ | व्याख्या-ततोपि असुरनिकायादुद्धृत्य निर्गस्य संसारं भवं 'बहु' विस्तीर्ण अनुपर्यटन्ति सातत्येन परिभ्रमन्ति, किञ्च बहुकर्मलेपलिप्तानां बोधिः प्रेत्य जिनधर्मावाप्तिः भवति सुदुर्लभोऽतिशयेन दुष्प्रापः तेषां, ये लक्षणादि प्रयुअते । यतश्चैवमतो नोत्तरगुणविराधना कार्येति सूत्रार्थः ॥ १५ ॥ ननु किमेते जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते-लोभवशादत एव तदाकुलस्यात्मनो दुष्पूरत्वमाह-- मूलम्-कसिणंपि जो इमं लोगं, पडिपुण्णं दलेज इक्कस्स। तेणावि से न संतुस्से, इइ दुप्पूरए इमे आया ॥ १६ ॥ __ व्याख्या-कृत्नमपि सकलमपि यः सुरेन्द्रादिरिमं प्रत्यक्षं लोकं प्रतिपूर्ण धनधान्यादिभृतं 'दलेजत्ति' दद्यात् 'इक्कस्सत्ति' एकस्मै कस्मैचिदाराधकाय तेनापि धनादिपूर्णलोकदायकेनापि स लुब्धो न सन्तुष्येत् , अनेन दायकेन
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy