SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२००॥ ३ ६ १२ Photo व्याख्या - ये मुनयो लक्षणं शुभाशुभ सूचकं पुरुषादिलक्षणं तत्प्रतिपादकं शास्त्रमपि लक्षणं, “अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु ॥ गतौ यानं खरे चाज्ञा, सर्व सत्वे प्रतिष्ठितम् ॥१॥" इत्यादिकं । खप्नं च स्वप्नस्य शुभाशुभसूचकं शास्त्रं, “अलङ्कृतानां द्रव्याणां वाजिवारणयोस्तथा ॥ वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयाद्यशः ॥ १ ॥ तथा - " मूत्रं वा कुरुते खने, पुरीषञ्चापि लोहितम् ॥ प्रतिबुद्ध्येत यः सोऽर्थ - नाशं प्राप्नोति निश्चितम् ॥ १ ॥ " | इत्यादिकं । अङ्गविद्यां च शिरःप्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां, “सिरफुरणे किर रजं, पिअमेलो होइ बाहुफुरणम्मि || अच्छिफुरणंमि अ पिअं, अहरे पिअसंगमो होई ॥ १ ॥" इत्यादिकां । प्रणवमायाबीजादिवर्णविन्या| सात्मिकां वा । चकारः सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते व्यापारयन्ति, पुनर्ये इति ग्रहणं लक्षणादिभिः पृथक् सम्बन्धसूचनार्थ, ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव, 'न हु' नैव ते श्रमणा उच्यन्ते । इह च पुष्टालम्बनं विना तद्यापारणे एवमुच्यते, अन्यथा करवीरलताभ्रमकतपखिनोऽपि तथात्वापत्तेः, एवं आचाराख्यातं कथितमिति सूत्रार्थः ॥ १३ ॥ तेषां फलमाह - मूलम् - इह जीविअं अनिअमेत्ता, पन्भट्ठा समाहिजोएहिं । कामभोगा रसगिद्धा, उववज्जंति आसुरे काए ॥ १४ ॥ व्याख्या - इह जन्मनि जीवितमसंयमजीवितं अनियम्य द्वादशविधतपोविधानादिना अनियंत्र्य प्रभ्रष्टाः प्रच्युताः अष्टमाध्य यनम् (८) गाथा १४ ॥२००॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy