SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ गाथा १२-१३ रद्धो गृद्धिमान् न स्यान्न भवेद्भिक्षाघेऽनेन रागत्याग उक्तो, द्वेषपेषोपलक्षणश्चैतत्ततश्च रागद्वेषविमुक्तो भुजीतेति || सूत्रार्थः॥ ११॥ रसागृद्धश्च यत्कुर्यात्तदाहमूलम्-पंताणि चेव सेविज्जा,सीअपिंडं पुराणकुम्मासं।अदु बक्कस पुलागं वा,जवणहाए निसेवए मंथु॥१२ ___ व्याख्या-प्रान्तान्येव नीरसान्येव सेवेत भुञ्जीत, कानि पुनः प्रान्तानीत्याह-शीतपिण्डं शीताहारं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यादत आह-पुराणाः प्रभूतवर्षधृताः कुल्माषा राजमाषास्तान्, एते हि पुराणा अत्यन्तपूतयो नीरसा भवन्तीति तद्हणं, उपलक्षणञ्चैतत् पुराणमुद्गादीनां 'अदु' इत्यथवा 'बक्कसं' मुद्गादिनहिकानिष्पन्नमन्त्रं, पुलाकमसारं वल्लचनकादि, वा समुच्चये । 'जवणहाएत्ति' यापनार्थ देहनिर्वाहार्थ निषेवेत भुञ्जीत, मन्थुश्च बदरादिचूर्ण, चस्य गम्यमानत्वात् अतिरूक्षतया चास्य प्रान्तत्वं । इह च यापनार्थमित्यनेनैतत्सूचितं, | यदि तेन शरीरयापना स्यात्तदा तदेव सेवेत, यदि तु वातोद्रेकादिना तद्यापनैव न स्यात् तदा गच्छगतो मुनिः सरसमपि सेवेत । जिनकल्पिकादिर्गच्छनिर्गतस्तु प्रान्तादीन्येव सेवेत, तस्य तादृशानामेवादानानुज्ञानात् । पुनः क्रिया-| भिधानं तु न सकृदेतानि सेवेत, किन्तु सर्वदापीति सूचनार्थमिति सूत्रार्थः ॥ १२ ॥ शुद्धषणाविपर्यये दोषमाह मूलम-जे लक्खणं च सविणं च, अंगविजं च जे पउंजति। न हु ते समणा वुच्चंति, एवं आयरिएहिं अक्खायं ॥ १३ ॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy