SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ TOCOCCACCUSEXCOM श्रीयको दध्यौ, किं करोमि ? कयाम्यहम् ? ॥ वच्मि ? चेदं पुरः कस्य, द्विधाप्यापतितं मम ॥ ७१॥ इतस्तातवपुर्णतः, इतश्चाज्ञाव्यतिक्रमः॥ आपन्नस्तदयं न्यायः, इतो व्याघ्र इतस्तदी ॥७२॥ ध्यायन्नेवं कथमपि, पितृवाणी प्रपद्य ताम् ॥ पुरतो नृपतेः पार्थे, जगाम श्रीयको द्रुतम् ॥ ७३ ॥ पृष्ठतः शकटालोऽगा-नपश्चाभूत्पराङ्मुखः॥ उपविश्य ततो मत्री, किञ्चिदूचे यथोचितम् ॥७४॥ तथाप्यजल्पति मापे, क्षिप्त्वाऽमात्यो मुखे विषम् ॥ नृपं ननाम तन्मौलिं, श्रीयकोऽप्यऽसिनाऽच्छिनत् ॥ ७५ ॥ ततो हाहारवो लोकै-श्चक्रे भूपोऽपि सम्भ्रमात् ॥ तमित्यूचे त्वया | वत्स !, दुष्करं किमिदं कृतम् ? ॥ ७६ ॥ उवाच श्रीयकः खामिन् !, यदस्मिन् प्रणतेऽपि वः ॥ नासीत्प्रसत्तिस्त ज्ञातो, मयाऽयं द्रोहकृत् प्रभोः ॥ ७७ ॥ खामिद्रोही च निग्राह्य, इत्ययं निहतः पिता॥ येन प्रभोरतुष्टिः स्या-तातेनाऽपि हि तेन किम् ? ॥ ७८ ॥ तच्छ्रुत्वा व्यमृशद्भपो, यदीक्सेवकानपि ॥ जनोऽन्यथाऽऽख्यत्सा नूनं, माया वररुचेः कवेः!॥ ७९ ॥ यद्वा ममैव दोषोऽयं, यत्तदा न व्यचारयम् ॥ अविमृश्यकरो यस्मा-दन्धादपि विशिष्यते ! ॥८॥ ध्यात्वेत्याश्वासयद्भपः, श्रीयकं प्रियभापितः॥प्रेम्णा खयं वितेने च, शकटालो देहिकम् ॥ ८१॥ ऊचे च श्रीयकं मत्रि-मुद्रेयं गृह्यतामिति ॥ प्रणम्य श्रीयकोऽप्येव- मथ व्यज्ञपयन्नुपम् ॥८२॥ अस्ति श्रीस्थूलभद्राह्वः, कोशागेहे ममाग्रजः॥ तिष्ठतस्तत्र तस्याद्य, जज्ञे द्वादशवत्सरी ॥८३ ॥ तस्यासौ दीयतां मुद्रा. श्रत्वेत्याहय तं नृपः॥ जगाद मत्रिमुद्रेय-मस्माकं गृह्यतामिति ॥ ८४ ॥ विचार्येदं करिष्यामी-त्युक्ते तेन नृपोऽवदत् ॥यद्विचार्य तदद्यैव, CANOCOCCASSAMACHAR
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy