________________
उत्तराध्ययन ॥ ४६ ॥
स्थानं पठ्यमानं, बालकैस्तन्निशम्य च ॥ तत्स्वरूपं नृपो ज्ञातुं, प्रैषीन्मत्रिगृहे चरम् ॥ ५६ ॥ सोप्यागत्य यथादृष्टं, शस्त्रनिष्पादनादिकम् ॥ राज्ञे व्यज्ञपयद्राजा - ऽप्यकुप्यन्मंत्रिणे ततः ॥ ५७ ॥ अथ सेवार्थमायातो ऽनमन्मंत्री यतो यतः ॥ कोपात्पराङ्मुखस्तस्या- ऽभवद्भूपस्ततस्ततः ॥ ५८ ॥ ततोऽतिकुपितं पृथ्वी - पतिं विज्ञाय धीसखः ॥ व्याघुट्य गेहमागत्य, श्रीयकं प्रोचिवानिति ॥ ५९ ॥ प्रणते मयि भक्तेऽपि, यत्तिष्ठति पराङ्मुखः ॥ तन्मन्येऽस्मद्विपा केना - ऽप्यद्यासौ द्वेषितो नृपः ॥ ६९ ॥ द्विष्टश्च भूधवो भूर्ति, वैगुण्यं नः करिष्यति ॥ नृपदुर्जनसर्पाणा - मात्मीयो हि न कश्चन ॥ ६१ ॥ तद्यावदयमस्माकं न करोति कुलक्षयम् ॥ तद्रक्षायै तावदेतं, वत्सादेशं कुरुष्व मे ॥६२॥ खङ्गेन मौलिं छिन्द्यास्त्वं, भूपतिं नमतो मम ॥ ब्रूयाश्चेति प्रभुद्वेषी, पिताऽपि न मतो मम ॥ ६३ ॥ आसन्नमृत्यौ वृद्धत्वा - न्मयि चैवं मृते सति ॥ मद्वंशवेश्मस्तम्भस्त्वं, भवितासि चिरं ततः ॥ ६४ ॥ तच्छ्रुत्वा श्रीयकः स्माह, रुद न्निति सगद्गदम् ॥ तातेदं गर्हितं कर्म, श्वपचोऽपि किमाचरेत् ? ॥ ६५ ॥ त्वां निहत्य भविष्यामि, नैवाहं कुलपांसनः ॥ तन्मामेव कुलं त्रातुं मारयोर्वीपतेः पुरः ॥ ६६ ॥ ततो मन्त्री जगौ वत्स !, मृतेऽपि त्वयि पार्थिवः ॥ कोपहेतौ मयि सति, क्षपयत्येव नः कुलम् ॥ ६७ ॥ तद्विमर्शममुं मुक्त्वा, वत्स ! स्वीकुरु मद्वचः ॥ त्यजेदेकं कुलस्यार्थे, श्रुतिमेनां विचारय ॥ ६८ ॥ नृपप्रणामावसरे, विषं तालपुटं मुखे ॥ क्षिप्त्वा स्वयं विपत्स्येऽहं तातहत्या ततो न ते ॥ ६९ ॥ तदेतत्प्रतिपद्य त्वं मलिनीकुरु विद्विषम् ॥ सुबुद्धेऽस्मत्कुलं चास्मा - दुद्धर व्यसनोदधेः ॥ ७० ॥ तच्छ्रुत्वा
द्वितीयमध्ययनम् (२)
॥ ४६ ॥