SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ तश्च ततः सद्यो, जगाम निजधाम सः॥ आदाय प्रन्थिकां तां च, चरोऽदान्मत्रिणे रहः॥४१॥ छन्नरक्षितदीनार-| ग्रन्थिना मत्रिणा समम् ॥प्रातः पौरपरीतोऽगा-द्भूजानिरथ जाह्नवीम् ॥ ४२ ॥ तत्राऽऽयातो वररुचि-र्दिदृशुं वीक्ष्य | भूपतिम् ॥ प्रोत्सर्पिदर्पः प्रारेभे, गङ्गां स्तोतुं विशेषतः॥४३॥ स्तुतिप्रान्ते च पादाभ्यां, विप्रो यन्त्रमचीचलत् ॥ दीना-13 रग्रन्थिका सा तु, नोल्लुत्याऽऽगाकरोदरे॥४४॥ यदा स ग्रन्थिकां नाऽऽप, पाणिनाऽपि गवेषयन् ॥ स्मित्वाऽमात्यस्तदेत्यूचे, गङ्गा दत्तेऽद्य किं न ते ?॥४५॥ खद्रव्यमुपलक्ष्याऽथ, गृहाणेति निगद्य सः॥ तां प्रन्थिकां ददौ तस्मै, तां च प्रेक्ष्य स खिन्नवान् ॥४६॥ खां प्रवर्धयितुं ख्याति, जनं वञ्चयितुं धनम् ॥ सायमत्र धनं क्षिप्त्वा, प्रातर्गृह्णात्यसौ प्रभो! ॥४७॥ इत्थं वररुचेर्दम्भ, मत्रिणोक्ते नृपादयः॥ अयं महाधूत इति, तं निन्दन्तो गृहं ययुः॥४८॥[युग्मम् ] तेनामात्यप्रयोगेण, प्राप्तनिन्दः स वाडवः ॥ इति व्यचिन्तयद्रोषा-द्वाडवाग्निरिव ज्वलन् ॥ ४९ ॥ हिलीतोऽस्मि मुधा* लोके, पापेनाऽनेन मत्रिणा ॥ तद्यथाशक्त्यहमपि, प्रतिकुर्वेऽस्य किञ्चन ॥५०॥ध्यात्वेति तस्याऽमात्यस्य, छिद्राणि ज्ञातुमन्यहम् ॥ वस्त्रादिदानस्तदासीं, वशीचके स काञ्चन ॥५१॥ मत्रिगेहखरूपं तं, पृच्छन्तं साऽन्यदेत्यवक् ॥ अस्ति श्रीयकवीवाहः, प्रारब्धोऽमात्यसमनि ॥५२॥ तत्र भूमिभुजो भोक्तुं, सतवस्यागमिष्यतः ॥ निष्पाद्यते प्रदानाय, विविधायुधधोरणी॥५३॥ छलान्वेषी तदाऽऽसाद्य, छलं वररुचिर्द्विजः॥ अपाठयच्छिशूनेवं, मोदकादिवशीकृतान् ॥५४॥"यत्कर्ता शकटालोऽयं, तन्न जानाति पार्थिवः॥ हत्वा नन्दं तस्य राज्ये, श्रीयकं स्थापयिष्यति ॥५५॥" प्रति
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy