SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ द्वितीयमध्ययनम् (२) उत्तराध्ययनधीसखः॥ खामिन् ! किमस्मै भट्टाय, प्रत्यहं दीयते धनम् ॥ २६ ॥राजा जगाद काव्यानि, वर्णितानि त्वयाऽस्य यत् ॥ ततोऽस्मै दीयते नोचे-त्पूर्व नाऽदामहं कथम् ? ॥ २७॥ अमात्यः स्माह वृत्तानि, लौकिकानि पठत्ययम् ॥ ॥४५॥ तानि प्राशंसिपमहं, ततो भूपतिरित्यवक् ॥ २८॥ किं पुराणानि काव्यानि, पठत्येष पुरो मम ?॥ उवाच सचिवः || सन्ति, जीर्णान्येतानि निश्चितम् ॥२९॥ यद्यत्र प्रत्ययो न स्या- त्तदा सप्ताऽपि मत्सुताः॥ तदुक्तान्येव काव्यानि, पठिष्यन्ति प्रभोः पुरः॥३०॥ तन्निशम्याऽथ साश्चर्यो, नृपो जवनिकान्तरे ॥ सप्ताऽपि मत्रिपुत्रीस्ताः, समाहृय न्य वीविशत् ॥३१॥ अथाऽऽगतो वररुचिः, काव्यैस्तावद्भिरुत्तमैः॥ तुष्टाव क्ष्मापतिं क्षिप्रं, तानि यक्षाऽप्यधारयत् ४॥३२॥राजादेशात्सभामेत्य, तथैव कथयच सा ॥ एवं वारद्वयं श्रुत्वा, यक्षदत्ताऽपि तान्यऽवक् ॥ ३३॥ सर्वा अप्ये वमचस्ता-स्तानि राज्ञोऽग्रतः क्रमात् ॥ ततो वररुचे राजा, रुष्टो दानमवारयत् ॥ ३४॥ गङ्गास्रोतोजले यत्रं. चक्रे वररुचिस्ततः ॥ अष्टाग्रशतदीनार-ग्रन्थिकां तत्र च न्यधात् ॥३५॥ प्रातश्च जाह्नवीं स्तुत्वा-ऽङ्गिणा यन्त्रमचीचलत् ॥ दीनारग्रन्थिरुत्प्लुत्य, न्यपतत्तत्करे तदा ॥ ३६ ॥ लोकस्तत्प्रत्यहं प्रेक्ष्य, विस्मितः प्रोचिवानिति ॥ अहो ! गङ्गापि दीनारा-नस्मै दत्ते स्तुता सती ॥३७॥ जनोक्त्या तन्निशम्याऽथ, मत्रिणे स्माह भूधवः ॥ प्रोचेऽमात्यः प्रभो ! प्रातद्रक्ष्यामोऽदः खयं वयम् ॥३८॥ इत्युक्त्वा खगृहं गत्वा, मत्री प्रैपीचरं वरम् ॥गत्वा गङ्गां सोऽपि सायं, शरस्तम्बे तिरोदधे ॥३९॥ तदा चाष्टोत्तरशत-दीनारग्रन्थिकां खयम् ॥ तत्र गङ्गापयोयत्रे, छन्नं वररुचिय॑धात् ॥४०॥वलि ॥४५॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy