SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ विलासैर्विविधैः स्थूल-भद्रो रेमे गुणाम्बुधिः॥११॥ यदभून्निविडं प्रेम, तयोरन्योन्यरक्तयोः॥ अपि वाचस्पते चां, तद्भवेन्नैव गोचरः॥१२॥ दृढानुरागौ तौ भिन्न-देहावप्येकमानसौ ॥ अन्योन्यं विरहं नाधि-सेहाते नखमांसवत् ॥ १३ ॥ कोशासक्त इति स्थूल-भद्रो नाऽगान्निजं गृहम्॥ श्रीयकस्तु बभूवाङ्ग- रक्षको नन्दभूभुजः ॥१४॥ इतश्च नन्दनृपति, नाम्ना वररुचिः कविः॥ नव्यैरष्टोत्तरशत-काव्यैरन्वहमस्तवीत् ॥ १५॥ तानि श्रुत्वा नृपस्तुष्टो, मश्रिवकं व्यलोकत ॥ स तु मिथ्यामतेस्तस्य, प्रशंसां नाऽकरॊत्कवेः ॥१६॥ ततः पृथ्वीपतिस्तस्मै, भट्टायाऽदान्न किञ्चन ॥ भट्टोऽपि धीसखाधीनं, विवेद नृपति तदा ॥ १७॥ लोकोक्त्या सचिवं तं च, विज्ञाय गृहिणीवशम् ॥ | भेजे लक्ष्मीवतीं खार्थ-सिद्धयै वररुचिर्द्विजः ॥ १८ ॥ तां तुष्टां स्तुतिभिश्चैवं, ययाचे स महाकविः ॥ मत्काव्यं त्वद्राि राज्ञः, पुरो मन्त्री प्रशंसतु ॥ १९॥ दाक्षिण्येनैव दक्षापि, तद्वाचं तां प्रपद्य सा ॥ उवाच मत्रिणे सोऽपि, तदाकाऽब्रवीदिति ॥२०॥ सम्यग्दृशो न युक्तं मे, तत्काव्यानां प्रशंसनम् ॥ किन्तु त्वदाग्रहाधीनः, करिष्ये तदपि प्रिये ! ॥ २१॥ प्रतिपद्येत्यगाद्भूप-सभा सचिवपुङ्गवः ॥ तत्रायातः स भट्टोऽपि, नृपं तुष्टाव पूर्ववत् ॥२२॥ स्तुतिप्रान्ते च भूपेना-ऽमात्यवत्रे विलोकिते ॥ अहो! सूक्तानि काव्यानि, प्राशंसीदिति धीसखः॥ २३॥ नृपोऽथ तस्मै दीनारा-नष्टोत्तरशतं ददौ ॥ इत्थं तावद्धनं तस्मै, भूपोऽदात् प्रतिवासरम् ॥ २४ ॥ शकटालस्ततो दध्यौ, दत्त्वाऽस्मै धनमन्वहम् ॥ कोशं निष्ठापयत्येष, नृपो निष्कारणं किमु ? ॥२५॥ ध्यात्वेति नन्दभूपाल-मवादीदिति
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy