SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्य| यनम् (२) ॥३८॥ कमण्डलुधरत्वाद्धि, न त्वां वन्दामहे वयम् ॥ यत्कदापि यतेः पार्थे, नाऽपश्याम कमण्डलुम् ॥ १२३ ॥ तच्छ्रुत्वा सूरिमापृच्छय, स प्राग्वत्कुण्डिकां जहौ ॥ पात्रकेणैवाऽथ शौचं, कार्य गुरुरपीत्यवक् ॥ १२४ ॥ पुनस्तथैव तं बाला, नाऽनमन् सूरिशिक्षिताः॥ अवन्दननिदानञ्च, पृष्टास्तेनेति तं जगुः॥१२५ ॥ यज्ञोपवीतवन्तं नो, मुनिं मन्यामहे वयम्॥ ततः सोमः सुतं पृष्ट्वो-पवीतमपि मुक्तवान् ॥१२६॥ तन्मोक्षणक्षणे त्वेवं, प्रोचुः श्रीआर्यरक्षिताः॥ एतन्मुञ्चत कोबस्मान, विप्रान्नो वेत्त्यदो विना? ॥१२७॥ इत्थं छत्रादिके तेन, त्यक्ते वालाः पुनर्जगुः॥ न शाटकोपसंव्यानमेनं वन्दामहे मुनिम् ॥ १२८ ॥ सोमदेवस्तदाकर्ण्य, जजल्पाऽनल्पकोपभाक् ॥रे ! मा नमत मां यूयं, समं पितृपितामहैः ॥१२९ ॥ येऽन्ये नमन्ति तैरेव, सन्तुष्टिम भविष्यति!॥ कटीपट्टकमेनं तु, न त्यक्ष्यामि ! भवद्विरा ॥१३०॥ तदाकर्ण्य ययुर्बालाः, अन्यदा च महामुनिः ॥ विहिताऽनशनः कोऽपि, तत्र गच्छे व्यपद्यत ॥१३॥ तदा पितुः कटीपट्ट-त्याजनाय जगौ गुरुः॥अस्य देहं वहति य-स्तस्य लाभो भवेन्महान्॥१३२॥ततस्तच्छिक्षिताः पूर्व-दीक्षिता भिक्षवः परे॥ उदतिष्ठस्तमुद्वोढुं, तदा चेत्यऽब्रवीद्गुरुः ॥ १३३॥ यूयं यदुत्थिताः सर्वे-ऽप्यमुं लाभं जिघृक्षवः ॥ तदस्मद्वन्धुवर्गोऽयं, निर्जरां लप्स्यते कथम् ॥ १३४ ॥ तदाकर्ण्य सकर्णोऽथ, सोमदेवमुनिर्जगौ ॥ किमत्र प्राप्यते पुत्र !, निजरा भूयसीतरा? ॥ १३५ ॥ उवाच सूरिः कार्येऽस्मि-निर्जरा जायते भृशम् ॥सोऽभ्यधादहमप्येनं, तद्वहिष्ये सहर्षिभिः ॥१३६ ॥ गुरुर्जगो बालकृतः, उपसर्गोऽत्र जायते ॥ तं चेत्सहितुमीशिध्वे, वहनीयस्तदा ह्ययम् ॥ १३७ ॥ ॥३८॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy