________________
विरत्वात्तु युष्माकं, शाटकोऽप्यनुमन्यते ! ॥१०८ ॥ छत्रादिकं पुन:त-दात्मनां बहु शोभते ! ॥ निशम्येति वचः
सूरेः, सोमदेवमुनिर्जगौ ॥ १०९॥ गन्तुं शक्नोम्यहं नैव, पुत्र! छत्रं विनाऽऽतपे ॥ विण्मूत्रोत्सर्जने शौचं, कथं | स्यात्करकं विना ? ॥ ११०॥ त्यजामि यज्ञसूत्रं च, विप्रत्वावेदकं कथम् ॥ पीडा च स्यात्कण्टकैर्मे, विनोपानहमध्वनि ॥१११॥ सूरिःस्माहाऽथ यद्येवं, तिष्ठत्वेतत्तदाऽखिलम्॥ भवद्भिस्त्यज्यतां किन्तु, सर्वोऽप्यऽन्यः परिग्रहः॥११२॥ ततः परिग्रहं सोऽन्य-मत्याक्षीदथ सूरयः ॥ बालान् किञ्चिच्छिक्षयित्वा-ऽन्यदा नन्तुं जिनान् ययुः ॥ ११३ ॥ ततसच्छिक्षिता बालाः, सोमदेवतपखिनम् ॥ हित्वा क्षुल्लकपर्यन्तान् , सर्वसाधून् ववन्दिरे ॥ ११४ ॥ दर्श दर्श सोमदेवं, ते चैवं प्रोचिरे मिथः ॥ नाऽस्माभिर्वन्दनीयोऽयं, छत्रवान् स्थविरो मुनिः॥ ११५ ॥ तच्छृत्वा सोमदेवर्षी-रुष्टोऽभाषिष्ट तानिति ॥ अरे ! मत्पुत्रपौत्रादीन् , वन्दध्वे बालकानपि ॥ ११६ ॥ मां तु वृद्धं गुरोस्तात-मपि नो नमथाभकाः! ॥ तत्किं मया परिव्रज्या, नोपात्ताऽद्यापि विद्यते ? ॥ ११७ ॥ वालाःप्रोचुर्दीक्षितस्य, भवेच्छत्रादिकं कथम् ॥ त्यक्तातपत्राः सर्वेऽपि, दृश्यन्ते साधवः खलु !॥ ११८ ॥ सोमोऽथ व्यमृशच्छावाः, अप्येवं शिक्षयन्ति माम् ॥ साध्वाचारविरुद्धं त-च्छत्रमेतजहाम्यहम् ॥ ११९॥ विचिन्त्येति जिनान्नत्वा-ऽऽगतान्सूरीनुवाच सः ॥ उद्वेजकेन सर्वेषां, छत्रेणानेन मे कृतम् ॥ १२०॥ गुरुर्जगाद यद्येवं, तदा छत्रं विमुच्यताम् ॥ प्रबले त्वातपे धार्यः, कल्पको मस्तको-| परि ॥ १२१ ॥ गुरौ गतेऽन्यदा क्वापि, बालास्तच्छिक्षिताः पुनः ॥ तं विहायापरान्नेमु-स्तत्पृष्टाश्चैवमूचिरे ॥१२२॥