SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन प्रथमाध्ययनम् (१) द्यायाः सुतो जज्ञे-ऽभयोऽन्यस्याः सुनंदनाः॥ कूणिकहल्लविहल्ला-स्त्रयोऽभूवन्मनोहराः॥१३॥ कालाद्या भ्रातरस्तेषां, दशाऽऽसन् भिन्नमातृकाः ॥ मात्रा सत्राऽभयस्तत्रा-ऽऽददे दीक्षां जिनान्तिके ॥ १४ ॥ प्रव्रजती तदा नंदा, ददौ हल्लविहल्लयोः॥ कुंडलद्वितयं देव-दत्तं क्षौमयुगं तथा ॥ १५॥राज्यं ज्येष्ठस्य भावीति, ध्यात्वा राजाप्यदात्तयोः॥ गंधद्वीपं सेचनकं, हारं च त्रिदशार्पितम् ॥ १६ ॥ कूणिकस्ते च कालाद्याः, दुष्टा बवाऽन्यदा नृपम् ॥ विभज्याददिरे राज्यं, राजा त्वजनि कूणिकः ॥ १७ ॥ राज्यादिकं ददौ हारा-दिकं तातोऽनयोः खयम् ॥ इति राज्यविभागं ते, नादुहल्लविहल्लयोः॥१८॥ कारास्थ एव पितरि, विषं भुक्त्वान्यदा मृते ॥ सानुतापो रतिं प्राप, पुरे तत्र न कू४ाणिकः ॥ १९ ॥ वासयित्वा ततोऽन्यत्र, नव्यां चंपाभिधां पुरीम् ॥ उवास वासव इव, महर्द्धिः कूणिको नृपः॥२०॥ हारकुंडलवासोभि-दिव्यैर्भूषितभूघनौ ॥ गंधद्वीपं तमारूढी, सान्तःपुरपरिच्छदौ ॥ २१॥ क्रीडायै प्रत्यहं हल्लविहल्लौ जग्मतुर्नदीम् ॥ तदेति क्रीडयामास, तद्वधूमन्धसिन्धुरः ॥ २२॥ (युग्मम् ) स्कन्धेऽध्यारोपयत्काश्चिच्छुण्डयाऽऽदाय सुन्दरीः ॥ काश्चिन्यवेशयन्मौलौ, काश्चिद्दन्तान्तरेष्वधात् ॥ २३ ॥ उीकृत्य करं काश्चिद्वालिकावद्वियत्यधात् ॥ काश्चिदान्दोलयबोला-मिव शुण्डां विलोलयन् ॥ २४॥ "किंबहुना" ? यथा यथा प्रोचिरे ता-स्तस्मै शस्ताय हस्तिने ॥ विभंगज्ञानवान् सोऽपि, प्रावर्त्तत तथा तथा ॥ २५॥ तच प्रेक्ष्याद्भुतं सर्वो-ऽप्येवं पौरजनो जगौ ॥राज्यश्रीफलभोक्तारा-विमावेव न कुणिकः ॥ २६ ॥ तच पद्मावती राज्ञी, श्रुत्वा सा॥३॥
SR No.600345
Book TitleSavruttikam Uttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages638
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy